श्रीरस्तु
श्रीमते रामानुजायनमः
पाद्मसंहितायां ज्ञानपादः
आसीनमाश्रमे कण्वं कण्वाश्रमनिवासिनः।
निश्रेयसकरं कर्म प्रष्टुमारोभिरो मुनिम्॥ 1.1 ॥
ऋषयः—
अधीताः कण्व भगवन् साङ्गो पङ्गास्सवितुराः।
वेदास्त्वत्त1 स्तदर्थानि शास्त्राणिच यथातथम् ॥ 1.2 ॥
एतेषु यदधीतेषु कैवल्यायनकल्पते।
कारणं तदपि त्वत्तश्श्रोतव्यं नान्यथागतिः॥ 1.3 ॥
कण्वः—
श्रूयतां मुनयस्सर्वै यथापूर्वं मया श्रुतं।
उपसङ्गम्य संवर्तमृषिमर्कमिवापरम्।
प्रदीप्तमेतमेवार्थं पृष्टवानभिवाद्यतम्॥ 1.4 ॥
शृरण्वतां स महर्षीणां संवर्त2 स्सर्ववित्स्वयं।
मह्यं शुश्रूषमाणाय प्रत्युवाच यथातथम्॥ 1.5 ॥
संवर्तः–
अधीतास्सकलावेदा स्साङ्गोपङ्गास्सविस्तराः।
इतिहासपुराणानि वाकोवाक्य युतानिच॥ 1.6 ॥
श्रुतानि तेषु सर्वेषु दृश्यन्ते सर्वदेवताः।
स्वतन्त्राः फलमप्येषु स्वर्गादन्यन्न दृश्यते॥ 1.7 ॥
विविधानि च शास्त्राणि न तर्काश्च प्रतिष्ठिताः।
अपवर्गफलोपायं न च पश्यामि कुत्तचित्॥ 1.8 ॥
श्रुतिरेव च तस्यापि प्रमाणमिति शश्रुम।
निश्चयं नाधिगच्छामि मनसा विमृशन्नपि॥ 1.9 ॥
ततोऽहं भृशनिर्विण्णस्सन्तप्तहृदयस्तथा।
सिद्धाश्रमं समासाद्य द्रुहिणं समपूजयम्॥ 10 ॥
अत्युग्रं तप आतिष्ठं ततः प्रीतः प्रजापतिः।
ऋषिभिर्दैवतैस्सार्धं स्वयमागान्मदन्तिकम्॥ 1.11 ॥
ब्रह्माः—
वरं वृणीष्व भद्रं तेयत्ते मनसि वर्तते।
वरार्थिनां द्विजश्रेष्ठ दर्शनं वरदं मम॥ 1.12 ॥
संवर्तः—
इत्युक्तोऽहं भगवता प्रत्यवोचं कुताञ्जलिः।
ज्ञानं भवतु मे शुद्धं निस्संशयमनाकुलम्॥ 13 ॥
येन सांसारिकं दुःखं तरामि ज्ञानवर्त्मना।
इत्युक्तो देवदेवस्तु प्रहसन्निदमब्रवीत्॥ 1.14 ॥
ब्रह्माः—
शृणु विप्र प्रवक्ष्यामि सिद्ध्युपाय मनामयम्।
श्रुतिरेव द्विजातीनां निश्श्रेयसकरी परा॥ 1.15 ॥
यतो वै श्रुतिमन्त्रेण नित्यमाराधयन् हरिम्।
कैवल्यं परमं प्राप्तो न भूयस्संसरेदिह॥ 1.16 ॥
संवर्तः—-
भगवन् केन3 शास्त्रेण देन आराध्यते परः।
कीदृश4स्तु परो देवो विधिः को वा तदर्चने॥ 1.17 ॥
ब्रह्माः—
वैष्णवं शासनं श्रुद्धमच्छिद्रं पापनाशनम्।
हितार्धं सर्वदेवानामादिदेवेन चोदितम्॥ 1.18 ॥
चतुष्पादसमायुक्तं चतुर्वर्गफनप्रदम्।
तेन शास्त्रविधानेन समाराधय केशवम्॥ 1.19 ॥
तच्छास्त्रं श्रुतवान् मत्तः कपिलो मुनिपुङ्गवः।
मच्छासनात्तु पातालं तत्समीपमितो प्रज॥ 1.20 ॥
संवर्तः—
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवा न्तरधीयत।
पातालगमनार्थाय पुन 5 स्तप्तं तपोमया॥ 1.21॥
तपोबलेन पातालं प्रनिशन्नागपालितम्।
तत्रापश्यं सुखासीनं नागेशैः6 परिवारितम्॥ 1.22 ॥
अवोचं कपिलं विष्णुं दण्डवत् प्रणतः क्षितौ।
जम्बूद्वीपादुवृत्तस्संवर्तोहं प्रसीदमे॥ 1.23 ॥
विद्धि मां भगवन् विष्णो प्राप्तं द्रुहिणशासनात्।
ज्ञानयोगक्रियाचर्या मृग्यते यन्महर्षिभिः॥ 1.24 ॥
तदशेषेण विदितं भवविध्वंसनं तव।
संसारापारपाथोधिमग्नं मां भृशदुःखितम्॥ 1.25 ॥
त्रायस्व भगवन्नार्तं कृपया परयाविभौ।
त्वदृतेऽन्योन वेत्तास्य मोक्षोपायस्य7 वर्त्मनः॥ 1.26 ॥
इत्युक्तः कपिलो देवः8 प्रसादात्पद्मजन्मनः।
पार्श्वस्थं पद्ममालोक्य प्रसीदन्निदमब्रवीत्॥ 1.27 ॥
कपिलः—
हे पद्म नागराजेन्द्र जन्मविध्वंसहेतुकम्।
महोपनिषचं सर्वं श्रुतवानसि मन्मुखात्॥ 1.28 ॥
श्राव्यतां सकलं चायं संवर्तो वेदपारगः।
ज्ञानानां परमं ज्ञानं साक्षा 9 द्देवसमाश्रितम्॥ 1.29 ॥
सात्विकं देव देवस्य समाराधनकर्मजम्।
मोक्ष्यमाणैश्च सततं मृग्यमाणं दुरासदम्॥ 1.30 ॥
संवर्तः—
उक्तेन कपिलेनैवं पद्माख्येन महात्मना।
उदितं 10 यन्महच्छास्त्रं तत्सर्वं प्रब्रवीमिते॥ 1.31 ॥
सार्धकोटिप्रमाणेन 11 ब्रह्मणाकेशवाच्च्रुतम्।
कपिलाय ददौब्रह्मलक्षाणां प़ञ्चकंपुनः॥ 1.32 ॥
कपिलोऽपिचमद्माय प्रीददौ लक्षमात्रया12।
पद्मोऽपि13 दत्तवान्मह्य मयुतग्रन्धसङ्ख्यया॥ 1.33 ॥
यस्मात् पद्मो पदिष्टेयं तस्मात्सा पाद्मसंहिता।
मोक्षैकफलदं धर्ममाद्यमस्मिन् प्रजा{14} पते॥ 1.34 ॥
तेनै वाद्येन धर्मेण 14 ब्रह्मालोक पितामहः।
आराधयन् महादेवं हरिं नारायणं15 परम्॥ 1.35 ॥
यज्ञेन यज्ञं यष्टव्यं यजन्त इतिचश्रुतिः।
आद्यं 16 धर्मं समास्थाय ये यजन्ते विचक्षणाः॥ 1.36 ॥
ते यान्ति वैष्णवंस्थानं पुनरावृत्तिवर्जितम्।
एवं सर्वेषुकुर्वत्सु मानवेषु मुमुक्षुषु॥ 1.37 ॥
सृष्टिक्षयो महानासी न्नारकी भूस्तृणावृता।
पञ्चकालपरास्सर्वे सर्वेचभगवन्मयाः॥ 1.38 ॥
नान्यं यजन्तेध्यायन्ति ऋते नारायणान्नराः।
एवं कार्तयुगेधर्मे वर्तमाने महामुने॥ 1.39 ॥
लोककर्तास्वयं ब्रह्मा नारायणमुपागमत्।
तुष्टावच हृषीकेशं पुण्डरीकाक्षविद्यया॥ 1.40 ॥
भूमौ दण्डप्रणामंच कृत्वातूष्णीं व्यतिष्ठत।
श्रीभगवान्—
लोकाः किन्नानुवर्तन्ते शासनं तवशाश्वतं।
ब्रह्मन् तवाधिकारोवा प्राप्यते किन्नुराक्षतैः॥ 1. 41॥
तदीयंवापदंप्राप्तुं नतपस्यन्ति किंसुराः।
इत्युक्तो देव देवेन प्रत्यभाषतपद्मभूः॥ 1.42 ॥
ब्रह्माः—-
भगवन् भूतभव्येश ममश्रेय सि जाग्रति।
त्वयि सर्वत्रकुशलं वतर्ते सार्वकालिकम्॥ 1.43 ॥
किन्तु वक्ष्यामि देवेश श्रद्दधाना जितेन्द्रियाः।
महारहस्यमास्थाय यजन्तेसर्वमानवाः॥ 1.44 ॥
ते यान्ति वैष्णवंस्थानं पुनरावृत्तिवर्जितम्।
सस्वर्गोनापि नरकोन जन्ममरणे उभे॥ 1.45 ॥
संवतन्—
इत्युक्तो ब्रह्मणादेवः शङ्खचक्रगदाधरः।
पार्श्वस्थं रुद्रमालोक्य व्याजहार स्वयंहरिः॥ 1.46 ॥
श्रीभगवन्—
षट् प्रकाराणि तन्त्राणि त्वद्दैवत्याशङ्कर।
परस्वरविरुद्धानि कुरुष्व त्वं यथातथम्॥ 1.47 ॥
अवतारैश्च बहुभिर्मत्स्यादिभिरहं पुनः।
त्वत्प्रणीतानिशास्त्रणि स्थापयामि महीतले॥ 1.48 ॥
अल्पाया सेनसुलभं भूयिष्ठं फलमद्भुतम्।
षट् प्रकारेचशास्त्रेऽस्मिन् दर्शय स्थेम 17 कारणम्॥ 1.49 ॥
योगशास्त्रस्य कर्तृत्वेविरिञ्चोऽधिकरिष्यति।
साङ्ख्यस्यचापिनिर्माणे कपिलोऽधिकरिष्यति॥ 1.50 ॥
बुद्धमूर्तिं समास्थाय बुद्धशास्त्रं सृजाम्यहम्।
ज्ञानापह्नवनिष्णातां ज्ञातृज्ञेयापलापिच॥ 1.51 ॥
आर्हतीं मूर्तिमास्थाय शास्त्रं शास्मि तथार्हतः।
पञ्चरात्राभिधं शास्त्रं मयापूर्वं कृतंकिल॥ 1.52 ॥
कापालं शुद्धशैवं च तथा पाशुपतंत्रयम्।
कुरुष्वत्रीणिशास्त्राणि लोकानां मोहनायवै॥ 1.53 ॥
शास्त्राणि मत्प्रणीतानि भवद्भिर्व्याकृतानिच।
आभूतसंप्लवं लोकेस्थास्यन्ति मम शासनात्॥ 1.54 ॥
भाढमित्येवतेसर्वे प्रणिपत्याब्रुवन् हरिम्।
कृतकृत्यस्तदाब्रह्मा सार्धं देवैस्स्वमालयम्॥ 1.55 ॥
जगाम सिद्धगन्धर्व चारणादिभिरर्चितः॥
संवर्तः—-
पञ्चरात्रेणतुल्यानि तदा प्रभृतिवैमुने।
शैवादीनचशास्त्राणि प्रथन्ते शासनाद्धरेः॥ 1.56 ॥
वैष्णव्यामाययालोके प्रचपन्तिनिरङ्कुशाः।
शैवादयोपि समयास्तत्र तत्र प्रतिष्ठिताः ॥ 1.57 ॥
पञ्चेतरे पञ्चरात्रमदूषितमपि स्वयं।
दूषयन्त्येव सृष्टत्वात् तद्धूषयितुमीश्वरैः॥ 1.58 ॥
पाषण्डेषु निरस्तेषु हेतुवादानुकूलता।
जायते विष्णुमायाभिः पतितानां दुरात्मनां॥ 1.59 ॥
नास्तिकानिन्दकाजाताः व्याधिभिः परिपीडिताः।
जायन्ते चम्रियन्ते च पच्यन्ते निरयोष्वपि॥ 1.60 ॥
स्वर्गेषु च वतन्त्यन्ये मायामलिनचेतसः।
तरन्तिचभवाम्भोधिं माययाये बहिष्कृताः॥ 1.61 ॥
आलोड्यसर्वशास्त्राणि विचार्य च पुनः पुनः।
नारायणामृतध्यानमुशन्ति ब्रह्मवादिनः॥ 1.62 ॥
ब्राह्मणस्सर्ववर्णेषु यतिश्चाश्रमिषूत्तमः।
यद्यद्गङ्गा चतीर्थेषु दैवतेष्वपिचाच्युतः॥ 1.63 ॥
तद्वत्सर्वेषु शास्त्रेषु पञ्चरात्रं प्रशस्यते।
पञ्चरात्रो क्तवधिना यस्समाराधयेद्धरिं॥ 1.64 ॥
कैवर्यं परमंप्राप्तो न भूयस्संसरेदिह।
अक्षय्यं फलमाप्नोति स पुमान्नात्र संशयः॥ 1.65 ॥
कल्याणकारिण स्तस्य पितरस्स्वर्गवासिनः।
ब्रह्मलोके पि पूज्यन्ते का कथा नरकार्णवे ॥ 1.66 ॥
मन्त्रैश्च वैष्णवैर्दत्तं हव्यं वा कव्यमेन वा ।
तदक्षयं भवेत्तेन तृप्यन्ति पित्रृ देवताः॥ 1.67 ॥
आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः।
वैष्णवोजायते येषामन्वयेषु महामतिः॥ 1. 68 ॥
पाञ्चरात्रोक्तवधिना वासुदेवं समाश्रितः।
नारायणामृतध्यान निरस्ताशेषविप्लवः॥ 1.69 ॥
एतच्चास्त्रं च दातव्यं शिष्यायानभ्यसूयवे।
मोक्षमाणाय नान्यस्त्मे कस्त्मेच यदृच्छया॥ 1.70 ॥
त्रयीनिष्ठाय दातव्यमध्येतव्यं च वेदवत्।
महोपनिषदाख्यस्य शास्त्रस्यास्य महामते।
पञ्चरात्रसमाख्यासौ कथंलोके प्रवर्तते॥ 1.71 ॥
संवर्तः—
पञ्चेतराणि शास्त्राणि रात्रीयन्ते महान्त्यपि।
तत्सन्निधौसमाख्यासौ तेन लोके प्रवर्तते॥ 1.72 ॥
चन्द्रतारागणं यद्वच्छोभते नैव वासरे।
तथेतराणि शोभ न्तेपञ्चनैवास्य सन्निधौ॥ 1.73 ॥
पञ्चत्वमथवा यद्वद्धीप्यमाने दिवाकरे।
ऋच्छन्तिरात्रय स्तद्वदितराणि तदन्तिके॥ 1.74 ॥
इदं पवित्रं पापघ्नं शास्त्रं भवविनाशनं।
संसारार्णवमग्नानां कर्मपाशानुपेयुषां॥ 1.75 ॥
महापोतेन सदृशं तारकं भवसागरात्।
ऋगादिभेदवत् तन्त्रचातुर्विध्यं—
ऋगादिसंज्ञया वेदश्चतुर्दा भिद्यतेयथा॥ 1.76 ॥
तद्वत्सिद्धान्तभेदेन पञ्चरात्रं चतुर्विधं।
ऋगादयो यथा चैकं भिद्यते भहुशाखया॥ 1.77 ॥
तथा सिद्धा न्तमेकेकं वक्तृभेदेन भिद्यते।
सिद्धान्तं नामचान्वर्थं निराहुरिति वण्डिताः॥ 1.78 ॥
मीमांसादिषु शास्त्रेषु ये सिद्धार्थामनीषिणः।
तेषामन्तेऽधिकारोस्मिन्निति सिद्धंत संज्ञितं॥ 1.79 ॥
सिद्धान्तभेद निरूपणं—-
एकमूर्तिप्रधानंतु मन्त्रसिद्धान्तमुच्यते।
चतुर्मूर्तिप्रधानंतु यत्तदागमसंज्ञितं॥ 1.80 ॥
सिद्धान्तमुच्यतेसद्भर्द्वतीयं लोकविश्रुतं।
नवमूर्तिप्रधानंच तन्त्रसिद्धन्तमुच्यते॥ 1.81 ॥
चतुर्वक्त्रे त्रिवक्त्रे वा देवे यत्रार्चनाविधिः।
तत्तन्त्रान्तवमिष्टं स्यात्तन्त्रमेतच्चतुर्विधं॥ 1.82 ॥
चतस्रः कथिताः पूर्वं वासुदेवादय स्तथा।
नारायणो हयग्रीवो विष्णु र्नृहरिसूकरौ॥ 1.83 ॥
तन्त्रसङ्क र्येदोषः—
साङ्कर्यं नतु कुर्वीत सिद्धान्तेषु परस्परं।
यदि सङ्करतो मोहात् राजाराष्टंच नश्यति॥ 1.84 ॥
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता।
तेनैव सकलं कर्म कुर्यात्तन्त्रविभागवित्॥ 1.85 ॥
तत्तन्त्रान्तरमिष्टं स्यात् सर्वे सर्वफलप्रदाः।
तेष्वयं मन्त्रसिद्धान्तः पाद्मसंज्ञो भिधीयते॥ 1.86 ॥
एकैकवक्तृ भेदेन सिद्धान्ता भहुधास्मृताः।
पङ्ग्रहो विस्तरश्चैव तन्त्राणां प्रकटीकृतः॥ 1.87 ॥
18 सिद्धान्ते मन्त्रसंसिद्धै श्शिष्याणां हितकाम्यया।
तन्त्राणांचैवसर्वेषां वक्ता नारायणस्स्वयम्॥ 1.88 ॥
अनुग्रहार्थं भक्तानां श्रावयामास चस्वयम्।
श्रोतारोमूर्तिभेदाश्च मुनयश्च पितामहः॥ 1.89 ॥
प्रयोजनं च शास्त्रस्य मोक्षः प्रकृतिदुर्लभः।
अभिधेयं भगवतस्समाराधनमुत्तमम्॥ 1.90 ॥
सम्बन्धो पीष्यते सद्भि स्साध्य साधन लक्षणः।
श्रुतिमूलमिदंतन्त्रं प्रमाणं कल्पसूत्रवत्॥ 1.91 ॥
सर्गे सर्गे प्यविच्छिन्नं देवदेवस्यशासनात्।
चिन्तामणिर्यथा लोके शबला कल्पकद्रुमः॥ 1.92 ॥
अर्थिभ्यो वाञ्छितं सर्वं प्रयच्छति गतिं विना।
पञ्चरात्राख्य19 शास्त्रंतु चतुर्वर्गफलप्रदम्॥ 1.93 ॥
शास्त्रान्तरव्यसनिनामभ्यासः कालयापनम्।
फलं वा किङ्चि 20 देवस्सात् यत्तत्साधुबहिष्कृतम्॥ 1.94 ॥
वासुदेवं परित्यज्य येऽन्यं देवमुपासते।
नरकाय भवन्येते नात्रकार्या विचारणा॥ 1.95 ॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।
वेदशास्त्रात्परंना स्ति नदैवं केशवात्परं।
तस्माद्भजस्व देवेशं विधिनानेनवै मूने॥ 1.96 ॥
कण्वः—
कति भेदानि तन्त्राणाम् नामधेयानि कानि वा।
श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलंहिमे॥ 1.97 ॥
108 संहितानाम् नामानि.
संवर्तः—-
शतमेकमथाष्टौ च पुराणे कण्व शुश्रुम।
नामधेयानिचै तेषाम् श्रूयताम् कथ्यते मया॥ 1.98 ॥
पाद्मम् पद्मोद्भवम् मायावैभवम् नलकूबरम्।
त्रैलोक्यमोनम् विष्णुतिलकम् परमाह्वयम्॥ 1.99 ॥
नारदीयम् धनदीयम् वासिष्ठम् पौष्क राह्वयम्।
सनत्कुमारं ससकं सत्याख्यं विश्वसंहिता॥ 1.100 ॥
अनन्ताख्यं महीप्रश्नं श्रीप्रश्नं पुरुषोत्तमम्।
माहेन्ध्र संहितापञ्च प्रश्नाख्यं तत्त्वसागरम्॥ 1.101 ॥
21 वागीशम् सात्वतंचैव22 द्रविणं श्रीकराह्वयम्।
सांवर्तं विष्णुसद्भावं सिद्धान्तं विष्णुपूर्वकम्॥ 1.102 ॥
विष्णुतन्त्रं च कौमारं 23 तथाहिर्बुध्न्यसंहिता।
विष्णुवैभविकं सौरं सौम्य मीश्यरसंहिता॥ 1.103 ॥
अनन्ताख्यं भागवतं जयाख्यं मूलसंहिता।
पुष्टितन्त्रं शौनकीयं मारीचं दक्षसंहिता॥ 1.104 ॥
औपेन्द्रं योगहृदयं हारीतं पारमेश्वरम्।
आत्रेयं मान्दरं विष्वक्तेवमौशनसाह्वयम्॥ 1.105 ॥
वैखानसं विहज्गेन्द्रं भार्गवं परपूरुषम्।
याज्ञवल्क्यं गौतमीयं पौलस्त्यं शाकलाह्वयम्॥ 1.106 ॥
ज्ञानार्णवं जामदग्न्यं याम्यं नारायणाख्यकम्।
पाराशर्यं च जाबालं कापिलं वामनाह्वयम्॥ 1.107 ॥
जयोत्तरं भार्हस्पत्यं जैमिनं सात्वताह्वयम्।
कात्यायनीयं वाल्मीक मौपगायनसंहिताः॥ 1.108 ॥
हैरण्यगर्भमागस्त्यं काण्वं बोधायनाह्वयम्।
भारद्वाजं नारसिंहं गार्ग्यमुत्तरपूर्वकम्॥ 1.109 ॥
शातातपं चाङ्गिरसं काश्यपं पैङ्गलाह्वयम्।
त्रैलोक्यं विहयंयोगं वायवीयं च वारुणम्॥ 1.100 ॥
24 कृष्णं चाम्भरमाग्नेयं मर्कण्डेयस्य संग्रहः।
महासवत्कुमाराख्यं व्यासाख्यं विष्णुसंहिता॥ 1.111 ॥
मार्कंडेयं पारिषदं 25 ब्रह्मनारदसंहिता।
संवादंशुकरुद्राभ्यामुमामाहेश्वराह्वयम्॥ 1.112 ॥
दत्तात्रेयं च शर्वाख्यं वाराहमिहिराह्वयम्।
सङ्कर्षणाख्यं प्रद्युम्नं वामनं 26 कल्कि राघवम्॥ 1.113 ॥
प्राचेतसाख्यमित्येते शतमष्टोत्तरं स्मृतम्।
एतानि तन्त्र नामानि मयोक्तानि महामते॥ 1.114 ॥
27 तन्त्रास्त्वनेके भोध्यन्ते मुक्त्युपायाः पृथक्पृथक्।
इति तन्त्रं समाख्यातं शास्त्रमेव मनीषिभिः॥ 1.115 ॥
तन्त्राणां नामधेयानि यो नित्यं पठते नरः।
सर्वपाप विनिर्मुक्तौ याति ब्रह्म सनातनम्॥ 1.116 ॥
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम्
ज्ञानपादे शास्त्रावतारकम् नाम प्रथमोऽध्यामः
-
समस्तानि ↩︎
-
पा. स्संयतस्स्वयम् ↩︎
-
मन्त्रेण ↩︎
-
कीदृशः परमोदेवो ↩︎
-
स्वतस्तप्तं ↩︎
-
कपिलंवृतं ↩︎
-
दर्शकः ↩︎
-
प्रसादाभिमुखस्तदा ↩︎
-
द्वेद ↩︎
-
ईरितं ↩︎
-
प्रमाणंतत् ↩︎
-
संख्यया ↩︎
-
प्रददै ↩︎
-
सततं ↩︎
-
प्रभुं ↩︎
-
इमं ↩︎
-
क्षेम ↩︎
-
सिद्धाद्यैर्मन्त्रसिद्धाने ↩︎
-
रत्नं ↩︎
-
देवास्य-देवस्यात् ↩︎
-
वासिष्ठं ↩︎
-
तेजौद्रविणं ↩︎
-
गहस्यंविष्णुपूर्वकं ↩︎
-
कृष्णचामर ↩︎
-
ब्रह्मन्नरकसंहिता ↩︎
-
कलिराघवौ. ↩︎
-
पा. मस्त्रसै योन भौध्यनै. ↩︎