पुनरेव मुनिश्रेष्ठं पप्रच्छुस्ते महर्षयः।
कथं निक्षेपजा वृत्तिर्विस्तारोऽस्याश्च कीदृशः॥१॥

प्रपन्नानुष्ठेयां वृत्तिं विस्तरेण प्रपंचयिष्यन् तद्विषयकमृषिप्रश्रमाह-पुनरेवेति। निक्षेपजा आत्मनिक्षेपान्तरमनुष्ठेयत्वतज्जन्यत्वोक्तिरुपचारात् कथं कीदृक्प्रकारा। अस्यावृत्तेर्विस्तारः कीदृशः कथंभूत इत्यर्थः॥१॥

भरद्वाजो महातेजाः श्रुत्वा तेषामिदं वचः।
प्रत्युवाच परं हृष्टो भगवद्दास्यतत्ववित्॥

भरद्वाज इति परं हृष्टः अतिसंहृष्टः॥२॥

विशुद्धज्ञानसलिलां भक्तिकल्लोलमालिनीम्।
सत्सेवनस्वादुरसां दिव्यलक्षणवारिजाम्॥३॥

वैराग्यतीरसुभगामाचारोपवनावृताम्।
वृत्त्यापगां निषेवध्वं विष्णुसागरगामिनीम्॥४॥

सकलार्तिहरतया वृत्तिं नदीत्वेन रूपयति-विशुद्धेति। विशुद्धज्ञानं दृष्टिरेव सलिलं यस्यास्ताम् सत्सेवनं सतां सेवैव स्वादुरसो यस्यास्ताम्। दिव्यलक्षणानि तापपुण्ड्रादीनि पङ्कजानि यस्यास्ताम्। वैराग्यं निषिद्धवर्जनमेव तीरं रोधः तेन सुभगां रम्याम्। आचारो विहिताचार एव उपवन्तेनावृताम्। विष्णुरेव सागरः तद्गामिनी तद्विषयावृत्तिरेवापगा नदी तां निषेवध्वं नितरां सेवध्वम्॥३॥४॥

न्यासस्तीर्थाभिगमनं सुदृष्टिर्यजनं हृदि।
स्वकर्मारण्यासनविधिर्लक्ष्मावाहनसत्क्रिया॥५॥

भक्तिस्तु विबिधा भोगाः सत्सेवा हविरुत्तमम्।
वैराग्ययोगनिर्विघ्ना यजध्वमनयेज्यया॥६॥

भगवदाराधनात्मकतया वृत्तिमिज्यात्वेन रूपयति-न्यासेति न्यासः प्रपत्तिरेव तीर्थाभिगमनन्तीर्थाभिगमनशब्देन स्नानादिह्रद्यागपर्य्यन्तमङ्गमुच्यते। सुदृष्टिरेव हृद्यजनं हृद्यागाख्यमङ्गम। स्वकर्माणि विहिताचारः आसनविधिः मन्त्रस्नानालङ्कारभोग्यपर्य्यङ्कार्पणरूपः सत्कारः। लक्ष्म चक्रादिधारणम्। आवाहनं मन्त्रयोगसमाह्वानं परपुष्पोपदर्शनम्। विविधाः नानाविधाः गन्धमाल्यादिभोगाः। सत्सेवा सतां सेवा उत्तमं श्रेष्ठतमं हविः। वैराग्यं निन्द्यवर्जनम्। एवं योगो ध्यानं तेन निर्विघ्नाः। यद्वा वैराग्ययोगेन वैराग्यसम्बन्धेन निर्विघ्नाः वैराग्यमेव योग उपायस्तेन निर्विघ्ना इति वा। अनया वृत्त्याख्यया इज्यया यजध्वम्॥५॥६॥

भूमाविव परे पुंसि न्यस्तबीजवदात्मनि।
विज्ञानमूलसन्तानः क्रियाचारनिबन्धनः॥७॥

भक्तिप्रकाण्डविस्तारो वैराग्यरसपेशलः।
नानालक्षणपुष्पाढ्यः सत्सेवनमहाफलः॥८॥

उच्चैस्तरोऽतिविपुलः सर्वसन्तापनाशनः।
सम्पद्यते सदा सेव्योहरिर्कैकर्यपादपः॥९॥

अथ परमपुरुषं भूमित्वेन तत्र न्यस्तम् आत्मानं बीजत्वेन दृष्टिं मूलसन्तानत्वेन विहिताचारं मूलबन्धनत्वेन भक्तिं स्कन्धत्वेन लक्ष्म पुष्पत्वेन सतां सेवां महाफलत्वेन एवं वृत्तिं तरुत्वेन रूपयति-भूमाविवेत्यादिभिः श्लोकैः। बीजवदात्मनि न्यस्ते सतीत्यर्थः। विज्ञानमूलसन्तानः विज्ञानं दृष्टिः मूलसन्तानः मूलपरम्परा। स्वक्रियामूलबन्धनः स्वक्रिया, विहिताचारः मूलबन्धनं नाम दार्ढ्यार्थं मूले महारुपाषाणादिभिर्वेद्यादिरूपेण विधीयमानो बन्धविशेषः। भक्तिप्रकाण्डविस्तारः प्रकाण्डः।

स्कन्धः। वैराग्यरसपेशलःवैराग्यं निन्द्यवर्जनं तदेव रसः तेन येशलः सनालः ससारः। नानालक्षणपुष्पाढ्यः लक्षणानि तापपुण्ड्रादिलक्ष्माणि तान्येव पुष्पाणि यस्य।सत्सेवनबृहत्फलः सतामाचार्यमुख्यानां सेवैव बृहत्फलं यस्य स तथोक्त उच्चैस्तरः परमपदप्रयाणपर्यन्तमनुवर्त्तनीयत्वादिति भावः। अतिविपुलः सर्वदेशानुष्ठेयत्वादिति भावः। सर्वसन्तापनाशनः इति तरुत्वनिरूपणम्॥७॥८॥९॥

आदौ गुरूणां विज्ञानमथ तन्त्रार्थचिन्तनम्।
तत एवात्मनो ज्ञानं तद्धर्माणां च सर्वशः॥१०॥

परस्य पुंसः श्रीशस्य परेशस्य परात्मनः।
स्वरूपरूपविभवगुणव्यापारचिन्तनम्॥११॥

परिबर्हविभूषास्त्रपत्नीपरिजनात्मनाम्।
सर्वेषां चैव दिव्यानां गुणानामनुचितम्॥१२॥

आदावित्यादि। गुरूणां विज्ञानं तदुपसत्तिपर्यवसितमाचार्यत्वेन ज्ञानमित्यर्थः। आचार्याणामसावित्यारभ्याभगवत इति वक्ताचार्यपरम्परा ज्ञानादीनां परसम्प्रतिपन्ना परमपुरुषस्य परस्य ब्रह्मरुद्रादिनायकस्य परात्मनः सर्वान्तरात्मनः स्वरूपं दिव्यं तत्वरूपम्। रूपं विग्रहः। विभवो विभूतिर्गुणा ज्ञानादयः। आत्मगुणाः सौंदर्यादयः विग्रहगुणाश्च व्यापारा हिरण्यकशिपुरावणशिशुपालादिनिबर्हणादयः। दिव्यानां नित्यानां ये गुणास्तेषामनुचिन्तनमित्यन्वयार्थः॥१०॥११॥१२॥

विमानमण्डपोद्यानवापीकूपादिशालिनः।
नानाश्चर्यमयानन्तदिव्यप्रासादमालिनः॥१३॥

साप्सरो भूरिसङ्घस्य सदिव्यमृगपक्षिणः।
पुरस्य दिवि लोकानां लोकस्य परिचिन्तनम्॥१४॥

तथा भगवतो व्यूहविभवार्चाव्यवस्थितेः।
अन्तःस्थितेश्चचजगतां सृष्ट्यादेश्व विचिन्तनम्॥१५॥

विमानेत्यादि। विमानेत्यादिपुरविशेषणानि। वचनव्यत्ययेन तदव्यत्ययेन च दिव्यदेशदिव्यकालयोरपि विशेषणानि वा। देशा दिव्यजनपदाः। व्यूहा वासुदेवादयः। विभवारामकृष्णादयः। अर्चाः श्रीवैकुण्ठनाथादयः। अन्तःस्थितेरन्तर्यामित्वस्य। सृष्ट्यादेरित्यत्रादिशब्दस्य स्थितिप्रलयावर्थः॥१३॥२४॥१५॥

प्रधानमहदादीनां तत्त्वानामवबोधनम्।
अण्डानां कालतत्त्वानां लोकानां भूतसंहतेः॥१६॥

प्रधानमिति। महदादीनामित्यत्रादिशब्देन इन्द्रियपञ्चतन्मात्राणां ग्रहणम्। भूतसंहतेः पञ्चमहाभूतानामित्यर्थः। जन्तुजालस्येति वार्थः। कार्यवर्गस्येतिवार्थः॥१६॥

परसम्बन्धविज्ञानं प्रकृतेः पुरुषस्य च।
कर्मयोगस्य विज्ञानं धर्माणां चाप्यशेषतः॥१७॥

ज्ञानयोगस्य विज्ञानं भक्तियोगस्य चाखिलम्।
तथैव न्यासयोगस्य साङ्गस्य परिचिन्तनम्॥१८॥

परेति। प्रकृतेः प्रधानस्य पुरुषस्य जीवस्य च परसम्बन्धविज्ञानं भगवच्छरीरस्वरूपसम्बन्धस्मृतिविशेषणज्ञानमित्यर्थः॥१७॥१८॥

इहैव फलरूपाया वृत्तेः सम्यक् प्रदर्शनम्।
देहान्निष्क्रमणस्यापि मार्गस्य च विचिन्तनम्॥१९॥

इहेति। देहनिष्क्रमणस्य उत्क्रान्तेर्मार्गस्य अर्चिरादिमार्गस्य॥१९॥

दिव्यलोकस्य संप्राप्त्या भर्तुरालोकनार्चया।
निरस्तातिशया प्रीतिः सदा तस्याश्च भावना॥२०॥

दिव्येति। दिव्यमार्गस्य परमपदस्य सम्प्रात्या भर्तुः परमपदसाधनस्य आलोकनाच्च या निरस्तातिशया प्रीतिः तस्याश्च भावना बोधना चिन्तनमित्यन्वयः॥२०॥

भगवच्चरणाम्भोजानुभवप्रीतिजन्मनः।
कैङ्कर्यस्य पराकाष्ठा या तस्याश्च विचिन्तनम्॥२१॥

भगवदिति। पराकाष्ठा भागवतपर्यन्तकैङ्कर्यम्॥२१॥

अनादेर्मोहकलनात्संसारावृत्तिहेतवः।
प्रभवन्त्यात्मनां कर्मवासनारुचयो यथा॥२२॥

अनादेरिति। अनादेर्मायाकलनात्। अनाद्यविद्यासम्बन्धात्संसारावृत्तिहेतवः संसारचक्रपरिवृत्तिहेतवः। कर्माणि वासनारुचयश्च आत्मनां यथा येन प्रकारेण प्रभवन्ति तथा मतिरित्युत्तरेणान्वयः॥२२॥

यथा रागादयो दोषा नित्यं चात्मगुणच्छिदः।
कारणान्यपचारेषु क्षिपन्ति च तथा मतिः॥२३॥

यथेति। आत्मगुणच्छिदः अहिंसाद्यध्यात्मगुणविरोधिनः कारणानि पुण्यपापकर्मद्वारा संसारबीजानि। रागादयो दोषाः अपचारेषु यथा क्षिपन्ति येन प्रकारेण पातयन्ति तथा मतिः तत्प्रकारस्य चिन्तनमित्यर्थः॥२३॥

विमर्श इह दुःखानां यातनानां परत्र च।
विषयाणां च हेयत्वदर्शनं वृष्टिरुच्यते॥२४॥

विमर्श इति। इहास्मिल्ँलोके दुःखानां परत्र लोके यांतनाना विमर्शः चिन्तनम्॥२४॥

सैषासुदृष्टिर्वृत्त्याख्यतरोर्मूलमुदाहृता।
अतोऽन्यथा कुदृष्टिर्हितस्य सा मूलघातिनी॥२५॥

सैषेति। तस्य वृत्त्याख्यतरोः॥२५॥

प्रथमासनसंस्कारो निषेको विधिपूर्वकः
संस्कारास्त्वाव्रतादेशात्तत्र भोगक्रमा हरेः॥२६॥

अथ स्वक्रियामूलबन्धन, इति वृत्त्याख्यतरुमूलबन्धनत्वेन निरूपयितुं विहिताचारं भगवदिज्यात्वेन रूपयन् विशदयति नवभिश्लोकैः-प्रथमेति। विधिपूर्वको निषेकः यथाशास्त्रमनुष्ठितो गृहाश्रमः प्रथमासनं संस्कार इत्यर्थः। आव्रतादेशात्संस्कारा उपनयनपर्यन्तसंस्काराः पुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलरूपाः। तत्र प्रथममासने हरेर्भौगक्रमा उपचारक्रमा इत्यर्थः॥२६॥

द्वितीयमासनं विष्णोरस्योपनयनक्रिया।
स्नानान्तास्तत्र संस्कारा बोद्धव्या भोगसम्पदः॥२७॥

एवं निषेकं प्रथमासनत्वेन उपनयनपर्य्यंतसंस्कारान् तदासनकर्त्तव्योपचारत्वेन च रूपयित्वा उपनयनं द्वितीयासनत्वेन समावर्त्तनपर्य्यन्तान् संस्कारान् तत्रत्योपचारत्वेन रूपयति द्वितीयमिति। अस्य उपनयनक्रिया विष्णोः तद् द्वितीयासनं ज्ञानासनमित्यर्थः॥२७॥

वैवाहिको विधिर्धर्मोयस्तृतीयं तदासनम्।
गृहस्थधर्मा ये तत्र ते प्रसाधनविग्रहाः॥२८॥

अथ विवाहमलङ्कारासनत्वेन गृहस्थधर्मांस्तत्रत्योपचारत्वेन च रूपयति-वैवाहिक इति। तृतीयमासनमलङ्कारासननिमित्यर्थः। प्रसाधनविग्रहा उपचाररूपा इत्यर्थः॥२८॥

योगक्षेमविधिर्नित्यस्तच्चतुर्थमिहासनम्।
ततः परेऽखिला यज्ञा हविषां विनिवेदनम्॥२९॥

वनस्थाश्रमसम्प्राप्तिर्हरेः पञ्चममासनम्।
नियमा ये च तत्र स्युस्ते वै भोगास्तदाश्रयाः॥३०॥

अथार्थार्जनं भोज्यासनत्वेन अग्निष्टोमादियज्ञान हविषां समर्पणत्वेन च तदाश्रमनियमान् तदासनकर्त्तव्योपचारत्वेन च रूपयति-योगेति। वनस्थेति पञ्चममासनं पुनर्मन्त्रासनमित्यर्थः। तत्र वनस्थाश्रमे ये नियमाः स्मृतास्ते नियमास्तदाश्रयाः पञ्चमासनकर्त्तव्या भोगा उपचारा इत्यर्थः॥२९॥३०॥

यत्प्रव्रजन्ति तत्षष्ठमासनं परमात्मनः।
योगाख्यमतुलं शुद्धं तद्धर्मास्तत्र सत्क्रियाः॥३१॥

अथ चतुर्थाश्रमपर्यन्तं षष्ठासनत्वेन तदाश्रमप्रतिनियतधर्मांस्तदासनकर्त्तव्यत्वोपचारेण च रूपयति-यदिति। यत्प्रव्रजन्ति संन्यस्यन्तीति यत् तत्संन्यसनं परमात्मनो नारायणस्य योगाख्यं योगापरनामधेयं षष्ठमासनम्। तद्धर्माः संन्यासधर्मा॥ तत्र योगासने कर्त्तव्याः सत्क्रिया उपचारा इत्यर्थः॥३१॥

सतामुत्क्रमणादेश्व कर्त्तव्या विधयः परे।
उद्वासनोपचारा वै भवन्ति दिवि शार्ङ्गिणः॥३२॥

अग्नौ तु परमे व्योम्नि ध्यायेतां नित्यमच्युतम्।
वैश्यत्वे चार्णवगतं शूद्रत्वे च भुवि स्थितम्॥३३॥

सतामिति। उत्क्रमणादिविहिताः कर्तव्याः परे उपरितना विधयः शार्ङ्गिण उद्वासनोपचारा भवन्ति॥३२॥३३॥

इत्थं वर्णाश्रमादीनां नित्यनैमित्तिकादिकम्।
विहितं कर्म सकलं विष्णोराराधनं परम्॥३४॥

इत्थमिति। वर्णाश्रमादीनामित्यत्रादिशब्देन अबद्धो गृह्यते॥३४॥

निबोधत महाप्राज्ञास्तदेतदखिलं पुनः।
वृत्त्याख्यस्य तरोरेव सुदृढं मूलबन्धनम्॥३५॥

निबोधतेति। ‘निबोधत महाप्राज्ञा’ इत्यनेन निर्णयोपयुक्ता प्रज्ञोक्ता॥३५॥

त्यागेन कर्मणां स्वस्य निषिद्धकरणेन च।
आज्ञातिक्रमणं यत्तन्मूलबन्धोपघातकम्॥३६॥

विहिताचारान्मनोवृत्त्याख्यतरुमूलबन्धनस्य अकृत्यकरणकृत्याकरणाभ्यां भगवदाज्ञाविलङ्घनं मूलबन्धोपघातकमित्याह-त्यागेनेति स्वस्य कर्मणां स्ववर्णाश्रमविहितकर्मणामित्यर्थः॥३६॥

विहितैवमुपावृत्तिर्विशुद्धपरिवारके।
विशुद्धे ब्रह्माणि परे प्रीत्या सा भक्तिरुच्यते॥३७॥

अथ भक्तिकाण्डं विस्तारयति। वृत्त्याख्यतरुस्कन्धत्वेन रूपितांभक्तिं प्रपञ्चयति दशश्लोक्या-विहितैवेति। विशुद्धपरिवारके अशुद्धपरिवाररहिते विशुद्धे देवतान्तर्यामिभावमन्तरेण स्वस्वरूपेणावस्थिते परे ब्रह्मणि या वृत्तिराराधनात्मिका विहिता विधिना बोधिता सैव प्रीत्या कृता भक्तिरु

च्यत इत्यर्थः। विहितेत्यनेन प्रीतिमूलाया अप्यशास्त्रीयवृतेर्भक्तित्वव्युदासः। विशुद्धपरिवारक इत्यनेनाशुद्धपरिवारकविषयिकाया वृत्तेः, विशुद्ध इति देवतान्तर्य्यामिविषयिकाया वृत्तेः प्रीत्यतिशयेन कृतायाश्च भक्तित्वं व्युदस्तमिति वेदितव्यम् ३७॥

श्रुतिस्मृतीतिहासाद्यैर्दिव्यार्षागमविस्तरैः।
ब्रह्मसूत्रपदैर्मन्त्रैः सन्निवन्धैः सुयुक्तिभिः॥३८॥

श्रुतीति। इतिहासाद्यैरित्यत्राद्यशब्दः पुराणपरः। दिव्यार्षागमविस्तरैः दिव्यागमविस्तरैरार्षागमविस्तरैश्चेत्यर्थः। साक्षाद्भगवन्मुखोद्गततया रत्नत्रयमिति प्रसिद्धा संहिता लक्ष्मीतन्त्रादयश्च दिव्यागमविस्तरा आर्षागमविस्तरा ऋषिमुखात्प्रवर्तिता अपि संहिताः। ब्रह्मसूत्रपदैः अथातो ब्रह्मजिज्ञासेत्यारभ्यानावृत्तिः शब्दादित्यन्तैः तत्तन्मन्त्रकल्पैः सन्निबन्धैः सद्भिः प्रणीतैः निबन्धैः न्यायतत्त्वप्रभृतिभिः सतर्कसुयुक्तिभिः बलैः साधनैः॥३८॥

नाथस्य रूपविभवस्वरूपगुणकर्मणाम्।
कीर्त्तनं ख्यापनं चिन्ता भृशं व्यक्तिषु चादरः॥३९॥

नाथस्येति। नाथस्य शेषिणो भगवतः रूपविभवस्वरूपगुणकर्मणां विग्रहविभूतिस्वरूपगुणचेष्टानां चिन्ताविमर्शनमित्यन्वयः। कीर्त्तनमुच्चारणं ख्यापनं परस्मै प्रतिपादनं व्यक्तिषु अर्चावतारेषु॥३९॥

स्तुतिर्नतिः परिक्रामः प्रीतिरात्मनिवेदनम्।
उपहाराच्छेषरतिः समीपपरिवर्त्तनम्॥४०॥

स्तुतिरिति। स्तुतिः स्तोत्रम्। नतिः साष्टाङ्गादिरूपः। प्रणामः। परिक्रमः प्रदक्षिणम्। प्रीतिः स्तुत्यादिजनितः सन्तोषः।

प्रेम्णा आत्मनिवेदनमात्मसमर्पणम्। उपहारः नैवेद्यसमर्पणम् शेष इति भगवद्भक्तोत्तारितान्नादिषु रतिः। समीपपरिवर्तनम् अर्चावतारं विहाय गन्तुमशक्ततया तत्समीप्रदेश एव सञ्चारणम्॥४०॥

दिव्यार्चायतनग्रामपुरराष्ट्रादिसम्पदाम्।
निष्पादनं तथारामतटाकादिप्रकल्पनम्॥४१॥

दिव्येति। दिव्यार्चायतनग्रामपुरराष्ट्रादिसम्पदाम्। निष्पादनम् इत्यत्र दिव्यार्चादीनां प्रत्येकं निष्पादनेनान्वयः। दिव्यार्चानिष्पादनं नाम अर्चाविग्रहरहिते तत्सम्पादनम्। जीर्णोद्धारः आयतनं विष्ण्वालयः। ग्रामादीनां भगवदर्चा ग्रामादीनां निष्पादनं सम्पादनमित्यर्थः। आरामतटाकादिप्रकल्पनमित्यत्रापि भगवदर्चारामादिकल्पनं मन्तव्यम्॥४१॥

स्थापनार्चनयात्रादिमङ्गलानां प्रवर्तनम्।
आस्थानासनयोग्यानां पात्रोपकरणस्य च॥४२॥

स्थापनेति। स्थापनं विग्रहप्रतिष्ठापनम्। अर्चनं नित्याराधनम्। यात्रा पक्षोत्सवमासोत्सवादिषु भगवतो ग्रामप्रदक्षिणादिरूपा। आस्थानासनयोग्यानामास्थाने आसनदाने च योग्यानां चोपकरणानामिति शेषः॥४२॥

स्नानप्रसाधनहविःशय्यान्तःपुरसंपदाम्।
संग्राममृगयाणाञ्च क्रीडोपकरणस्य च॥४३॥

स्नानेति। प्रसाधनमलङ्कारः॥४३॥

दिव्यानां मानुषाणां च सेवकानां पृथक्पृथक्।
अन्येषां चैव भोगानां चेतनाचेतनात्मनाम्॥४४॥

निष्पादनं रक्षणं च संस्क्रियोपनयादि च।
भक्त्या च नियतौत्सुक्यं स्वयमाराधनक्रियाः॥४५॥

दिव्येति। संस्क्रिया मालिन्याद्यपाकरणादिरूपः संस्कारः॥४४॥४५॥

इत्येतत्सकलं काण्डस्कन्धशाखादलाङ्करम्।
देवतान्तरभक्तिस्तु निरासस्तस्य हा शनिः॥४६॥

इतीति। निर्गलितासङ्गसन्निर्गलितेतरसङ्गविषयसङ्घातस्य तस्य तरोः काण्डस्कन्धशाखादि यस्य तरोः॥४६॥

अथ पुष्पं फलञ्चास्य लक्ष्म सत्सेवनन्तथा।
युक्तोऽप्यन्यैर्विना पुष्पैः फलैरवति कस्तरुः॥४७॥

‘नानालक्षणपुष्पाढ्यःसत्सेवनबृहत्फल’ इति वृत्त्याख्यतरोः पुष्पतया रूपितानां लक्ष्मणां फलतया रूपितस्य सत्सेवनस्य च प्रपञ्चनमधिकरोति-अथेति। लक्ष्म पुष्पं सत्सेवनं फलमित्यन्वयः॥४७॥

प्रतप्तैर्भगवद्दिव्यायुधैर्गात्रेषु लाञ्छनम्।
सततं च हरिक्षेत्रोद्धृतमृत्स्रोर्द्धपुण्ड्रकः॥४८॥

पद्मबीजमयी माला तुलसीदिव्यचूर्णकम्।
पवित्रञ्चाथ कौपीनं व्यतिस्यूताच मेखला॥४९॥

अथ लक्ष्म चतुःश्लोक्या प्रपञ्चयति-प्रतप्तैरिति। गात्रेषु भुजद्वयललाटशिरोह्रदयेषु, बाह्लोर्ललाटे शिरसि हृदये चाग्रजन्मनामिति प्रागुक्तत्वात्। तुलसीदिव्यचूर्णकं तुलसीहरिद्राचूर्णम्। ततो दिव्यञ्च हारिद्रं सहेम तुलसीदलम्। मन्त्रेण धारयेच्चूर्णं ललाटे मस्तके तथेति प्रागुक्तत्वात्। पवित्रमिति न कौपीन-

विशेषणं किन्तु भगवता पवित्रारोपणोत्सवे धृतपट्टकार्प्पसादितन्तुनिर्मितमूलादिशेषपरम्। व्यतिस्यूता व्यत्यासेन स्यूता मेखला कटिसूत्रम्॥४८॥४९॥

पञ्चायुधाब्जतार्क्ष्यादिलक्षणाभरणादिकम्।
वेषश्चावनुल्बणः शौक्ल्यंदन्तहृत्पुण्ड्रवाससाम्॥५०॥

पञ्चायुधेत्यादि। पञ्चायुधलक्षणम् अब्जलक्षणं तार्क्ष्यादिलक्षणं चाभरणं यथोक्तलक्षणरूपशब्दचिह्नपरपंचायुधादिचिह्नितपराभरणमित्यर्थः। आभरणादिकमित्यत्रादिशब्देन उष्णीषादिग्रहणम्। वेषश्चानुल्बण इति अतिशब्दायमानातिसूक्ष्मवस्त्रादिधारणादिकमुल्बणवेषतया स्मृतिप्रसिद्धं तच्चिह्नवेषा इत्यर्थः। शौक्ल्यं दन्तहृत्पुण्ड्रवाससामिति अत्र वैरूप्याय शुक्लशब्दः शुद्धिपरः। पुण्ड्रादेः शुभ्रत्वं वचनान्तरसिद्धम्। वैरूप्यायेति हृदि शुद्धिरित्यादि॥५०॥

विष्णोस्तत्संश्रयाणाञ्च चेतनाचेतनात्मनाम्।
आख्ययाव्यपदेशश्च लक्षणानि सतां विदुः॥५१॥

विष्णोरित्यादि। विष्णोराख्यया भगवन्नाम्ना चेतनाचेतनात्मनाश्चेतनरूपाणामचेतनरूपाणां तत्संश्रयाणां विष्णुसंश्रयाणाम् आख्यया परांकुशः, परकाल इत्यादिकया श्रीरङ्गवेङ्कटाद्रिर्हस्तिगिरिरित्यादिकया व्यपदेशश्चेत्येतानि सतां लक्षणानि विदुरित्यर्थः॥५१॥

लक्ष्मणामपचारेण विरुद्धानाञ्च धारणात्।
कैंकर्य्यामोदसम्पत्तिर्नश्येन्मोहश्च जायते॥५२॥

पुष्पत्वेन लक्ष्मणां रूपितत्वात्तदधारणे कैङ्कर्व्यामोदनं वृत्तिर्नास्तीत्याह-लक्ष्मणामिति। अपचारेण लक्ष्मणो भगवल्लक्ष्मा

धारणेनाविरुद्धानां देवतान्तरचिह्नानां धारणात्। अपचारेण लक्ष्मणां भगवल्लक्ष्मधारणकैंकर्यामोदनवृत्तिनाशःअन्यलक्ष्मधारणे मोह इति विवेकः। उभयत्र वा द्रष्टव्यम्॥५२॥

पत्युर्ज्ञानमयी वृत्तिर्विष्णोः प्रियमिहोच्यते।
ये सन्ति तत्र निरतास्ते सन्त इति कीर्त्तिताः॥५३॥

अथ सच्छब्दार्थकथनपूर्वकम् सत्सेवां प्रपञ्चयति चतुर्दशभिः-पत्युरिति। पत्युः शोषिणः॥५३॥

सर्वात्मना हि या वृतिस्तेषु भक्तिमयी परा।
सा भक्तेः परमा काष्टा वृत्तेश्च परमात्मनि॥५४॥

सर्वात्मनेति। तेषु सत्सु भक्तिमयी सर्वात्मना परा उत्कृष्टा या वृत्तिः सा परमात्मनि भक्तेर्वृत्तेश्व पराकाष्ठा सत्सु भक्तिः परमात्मनि भक्तेः पराकाष्ठा, सत्सुवृक्तिः परमात्मनिवृत्तेः परा काष्ठेत्यर्थः॥५४॥

आचार्यवद्दैवतवन्मातृवत्पितृवत्स्ववत्।
सुहृद्वत्स्वामिवत्सन्तो द्रष्टव्या राजवत्तथा॥५५॥

आचार्यवदिति। स्ववदात्मवद् धनवदिति वा। आचार्य्यादि विषये यादृशी प्रीतिः तादृशी सत्सु कर्त्तव्येत्यर्थः॥५५॥

श्रुत्वैव सहसोत्थानम्प्रत्युत्थानं सुदूरतः।
दर्शनानुभवः प्रीतिः प्रणिपातोऽभिवादनम्॥५६॥

श्रुत्वेति। सन्त आयान्ति इति श्रुत्वैवेत्यर्थः। सहसोत्थानम् अविलम्बेनोत्थानम्। दूरतः दूरादेव अभिगमनन्तदभिमुखेन गमनम्। निवेदनं तवाहमस्तीत्यात्मनिवेदनम्॥५६॥

नीचैः संश्लेषणं हस्तदानं मार्गप्रदर्शनम्।
पश्चात्पार्श्वपुरोयानञ्जयालोकाभिभाषणम्॥५७॥

नीचैः संश्लेषणम् अहङ्काराभावाद्यो नतिकारेण संगमः शेषत्वद्योतकमिति शेषः। पुरोयानं शेषत्वद्योतनङ्कीदृशमित्यपेक्षायामाह-नीचैरिति। जयालोकामिभाषणमिति तदर्थे पुरोयानं शेषत्वद्योतकमिति भावः॥५७॥

गृहोपनयनञ्चान्तर्देशक्रमणमासनम्।
पादावनेजनञ्चायपहारः स्वागतादि च॥५८॥

गृहेति। गृहोपनयनं स्वगृहप्रापणम्। अन्तर्दशाक्रमणं तान्स्वगृहाभ्यन्तरे नीत्वा तैरन्तर्वेशसञ्चारणम्। उपवेशनम् आसनदानमित्यर्थः। पादावनेजनं पादप्रक्षालनम्॥५८॥

प्रसादनं क्ष्मापणञ्च प्रीतिसंकथनानि च।
उपासनं प्रश्रयणमात्मात्मीयनिवेदनम्॥५९॥

प्रसादनमिति। प्रसादनं प्रसीदेत्युक्त्या प्रसादोत्पादनम्। क्ष्मापणं क्षमस्वेत्युक्तया प्रीतिसंकथनानि प्रीतिमूलानि संकथानि संल्लापाः। उपासनं समीपेऽवस्थानम्। पादसंवाहनाद्यात्मकशुश्रूषा वा। प्रश्रयणं विनयः॥५९॥

आज्ञाभ्यर्थनमालोकनिदेशवचनादरः।
साधनं सम्पदामिष्टादरोऽनिष्टनिवर्त्तनम्॥६०॥

आज्ञेति। आज्ञाभ्यर्थनम् अभीष्टकर्मण्याज्ञापयेत्याज्ञार्थनम्। आलोकनिर्देशवचनादरःआलोके तत्कटाक्षे तन्निदेशवचने आज्ञावचने चादरः। कदा वा कटाक्षं मयि निक्षिपेत्कदा वा स्वकैङ्कर्ये आज्ञापयेदित्याभिरतिः। साधनं सम्पदां शाकफलादीनांतदभ्यवहारार्थानां पाचनम्। छत्रचामराद्युपकरणसम्पादनं वा। इष्टादरः तदिष्टसम्पादने आदरः॥६०॥

विरहानर्थपीडावमाननाद्यसहिष्णुता।
दास्याभिमानोऽनुव्रज्या श्रवणं कीर्त्तनं स्मृतिः॥६१॥

विरहेत्यादि। विरहस्य तद्विश्लेषस्य अनर्थस्य तदर्थहानेःपीडायास्तद्दुःखस्य अवमानना परकृततदवमाननस्य चासहिष्णुता। दास्याभिमानः अस्याहं दास इति सुदृढनिश्चयः। अनुव्रज्या तेषु गच्छत्सु सत्सु अनुव्रजनम्। श्रवणं तद्योगक्षेमगुणानुष्ठानादिश्रवणम्। कीर्त्तनं स्वयमन्येभ्यस्तत्कथनं तन्नामकीर्त्तनं वा स्मृतिस्तत्स्मरणम्॥६१॥

भक्तिज्ञानसमाचारवैराग्याद्यनुमोदनम्।
संगमेच्छोपगमनमन्वक्स्थानासनादिकम्॥६२॥

भक्तीति। सङ्गमेच्छा समागमेच्छा उपगमनं तानुद्दिश्य तत्समीपगमनम्। अन्वक्स्थानादिकम् अन्वक्पश्चात्स्थानम्। उपस्थानम् आसनादिकमित्यत्रादिशब्देन गमनसंग्रहः॥६२॥

समानसुखदुःखत्वं मिथश्वार्थविचिन्तनम्।
क्रियाकाले तु वरणं सदस्याग्रे तु पूजनम्॥६३॥

समानमिति। समानसुखदुःखत्वं तत्सुखदुःखाभ्यां सुखदुःखत्वम्। मिथश्चार्थविचिन्तनन्तत्त्वार्थविचारणं वैदिकविचारे सहायकरणम्। क्रियाकाले स्वस्य यज्ञाद्यनुष्ठानकाले वरणम् ऋत्विगादीनां वरणम्। सदस्याग्रे तु पूजनं गरिष्ठे अग्रपूजा॥६३॥

परिषत्सु च सान्निध्यं संविदाञ्च प्रवर्त्तनम्।
तथाभ्यनुज्ञापूर्वं च सर्वार्थेषु प्रवृत्तयः॥६४॥

परिषदिति। सान्निध्यं सन्निधाववस्थानम्। संविदां प्रवर्त्तनं तत्प्रतिज्ञापरिपालनं तत्सङ्कल्पपरिपालनं वा॥६४॥

प्रच्छादनञ्च दोषाणां गुणानां ख्यापनन्तथा।
क्वचिच्चैवाप्यधर्मेण कृच्छ्रेणाप्यर्थसाधनम्॥६५॥

प्रच्छादनमिति। दोषाणान्तदायानामिति शेषः एवं गुणा नामित्यत्रापि क्वचिच्चैवेति। तेषामत्यन्तवृत्तिकर्शितत्वावस्थायामित्यर्थः। तेन ‘विनैव प्रतिषिद्धेन सर्वार्थान्साधयेत्फल, मित्यनेन न विरोधः॥६५॥

एताश्चान्याश्च विविधा वृत्तयो रसनिर्भराः।
विष्णुभक्तेषु वृत्त्याख्यतरोर्हि फलसम्पदः॥६६॥

एताश्चेति। रसनिर्भराः भक्तिपरिबृंहिताः। स्वयम्प्रयोजनभूता इति वा फलपक्षे रसपूर्णाः॥६६॥

सतामाचार्यमुख्यानामपचाराः पृथग्विधाः।
असतामिव संसर्गास्समूलफलनाशनाः॥६७॥

सतामिति। सतां विषये अपचाराः असत्संसर्गाश्व एतत्फलनाशका इत्याह। सतामिति असतामिवेत्यत्र इवकारो भिन्नक्रमः। असतां संसर्गश्च एवेत्यर्थः॥६७॥

दास्यामृतरसास्वादतर्षादत्यन्तमीशितुः।
वैरस्येन विरुद्धानां हानं वैराग्यमुच्यते॥६८॥

अथ तज्ज्ञानमूलसन्तानस्वक्रियाचारबन्धनः। भक्तिप्रकाण्डविस्तारो वैराग्यरसपेशल इति वैराग्यशब्देनोक्तं दृष्ट्यादिविरुद्धवर्जनमित्याह-दास्यामृतेत्यादि। ईशितुर्भगवतः दास्य मेवामृतरसः। तस्यास्वादे यस्तर्षस्तृष्णा तस्माद्धेतोः अत्यन्तवैरस्येन विरुद्धेषु नितरां वैरस्येन विरुद्धानां दृष्टिविहिताचार

भक्तिलक्ष्मसत्सेवाविरुद्धानां संत्यागो वैराग्यमुच्यते, वैराग्यरसपेशल इत्युक्तं वैराग्यं दृष्ट्यादिविरुद्धवर्जनमित्यर्थः॥६८॥

श्रुतिभिः पञ्चरात्रेण स्मृतिभिस्तत्त्वदर्शिनाम्।
दर्शितान्यर्थतत्त्वानि न हि मन्दधियो विदुः ॥६९॥

ब्रह्मरुद्रमुखा देवा विविधाश्च महर्षयः।
मनुष्या नागयक्षाश्च सिद्धविद्याधरास्तथा ॥७०॥

तत्तत्कार्योपपत्यर्थं शासनाच्च जगत्पतेः।
रजस्तमोऽभिभूत्या च जगुः शास्त्राण्यनेकशः ॥७१॥

विपरीतार्थतत्त्वानि क्षुद्रनानाफलानि च।
अपवर्गकथावन्ति मोहनान्यद्भुतानि च ॥७२॥

श्रुतिपञ्चरात्रमन्वादिस्मृतिसात्त्विकपुराणेतिहासदृष्टिः, तद्विरुद्धवर्जनं दृष्टिविरुद्धवर्जनभित्याह। श्रुतिभिरित्यादिभिः पञ्चदशभिः श्लोकैः। श्रुतिभिरिति। श्रुतिशब्देन वेदः। वदार्थस्मरणमूलतया इतिहासपुराणयोरपि संग्रहः। तत्त्वदर्शिनां स्मृतिभिरित्यनेन रजस्तमोमूलव्यावृत्तिः। तत्तत्कार्योपपत्त्यर्थम्। असुरमोहनादिकार्यसिद्ध्यर्थम्। ‘शासनाच्च जगत्पतेरित्यनेन ‘सत्वं हि रुद्रमहाशास्त्रादिकारये’त्यादिकं स्मारितम् विपरीतान्यर्थतत्त्वानि येषामिति बहुव्रीहिः। क्षुद्रनानाफलानि क्षुद्राणि शिशुभावे नानाविधानि फलानि येषां तानि। अपवर्गकथावन्ति मोक्षप्रस्ताववन्ति मोक्षकथनमात्रमेव न मोक्ष इति भावः। मोहनानि मोहाविपरीतभूतानि विशेषेण पाषाणभेदनाद्भुतकार्यकरत्वाद्वा आश्चर्यकथायुतत्वाद्वा अद्भुतत्वम् ॥६९॥७०॥७१॥७२॥

अपरेषामपि पुनस्तत्तन्मार्गानुसारिणाम्।
धर्मवादच्छलोपेता ये च स्युर्ग्रन्थविस्तराः॥७३॥

अपरेषामिति। परेषां ब्रह्मंरुद्रादिव्यतिरिक्तानां तत्तन्मार्गानुसारिणां हैरण्यगर्भपाशुपतादिमतानुसारिणां धर्मवादच्छलोपेताः धर्मवाद एव च्छलं कपटं तेनोपेताः। धर्मवादव्याजेन मोहनाद्यर्थप्रवृत्ता इत्यर्थः॥७३॥

हरेरालोकहीनानामद्यापि किल पश्यत।
तेषु तेष्ववगाहेन भवन्ति ज्ञानविप्लवाः॥७४॥

हरेरिति। हरेरालोकहीनानां जायमानदशायां भगवत्कटाक्षरहितानामपरेषां ये प्रबन्धविस्ताराः सन्ति तेष्वलगाहेन ज्ञानविप्लवोभवति, पश्यतेत्यन्वयः॥७४॥

वेदानां सोपनिषदां पौरुषेयत्वचिन्तनम्।
पञ्चरात्रे च सकले तन्त्रान्तरसमत्वधीः॥७५॥

वेदानामिति। पश्यतेत्यस्य एतद्वन्थविस्तारावगाहिनः ते विलुतज्ञाना एवं वर्त्तन्ते, ते भवद्भिरपि साक्षात्कर्त्तुं शक्याः॥तेन मया वक्तव्यमस्तीति भावः। पौरुषेयत्वचिन्तनं पुरुषप्रणीतत्वमतिः सकले कृत्ये एतेन पञ्चरात्रे एकदेशे प्रामाण्यं नास्तीत्युक्तं भट्टपाराशरपादैः। पञ्चरात्रे सर्वत्रैव प्रमाणं तदिदमवगतंपंचमी देवदेवादिति। तन्त्रान्तरसमत्त्वधीः पाशुपतादितन्त्रसाम्यबुद्धिः समताबुद्धिः॥७५॥

वृद्धानां चैव मुक्तानां नित्यानां च तथात्मनाम्।
अच्युतादन्यशेषत्वशंका च समताश्रमः॥७६॥

वृद्धानामिति। शिवादिष्वच्युतसाम्यबुद्धिः॥७६॥

तस्य चान्येशितव्यत्वबुद्धिर्विश्वपृथक्तधीः।
विभूतिगुणरूपादिविशेषविरहभ्रमः॥७७॥

तस्येति। तस्याच्युतस्य अन्येशितव्यत्वस्य बुद्धिः। विश्वस्थ बुद्धिः विश्वस्यापृथक्त्वधीः॥७७॥

अन्यतो जगदुत्पत्तिस्थितिप्रलयचिन्तनम्।
योगानां चैव सर्वेषां नित्यादेः कर्मणस्तथा॥७८॥

अन्यत इति। अन्यतो जगदुत्पत्तिस्थितिप्रलयचिन्तनम् जगतो भगवतोऽन्यस्मादुत्पन्नत्वादिचिन्तनमित्यर्थः। योगानां कर्मयोगभक्तियोगानामनित्यादेरित्यादिशब्देन नैमित्तिककाम्ययोर्ग्रहणम्॥७८॥

ज्ञानभक्त्यंकसत्सेवातत्त्वानां चाविचिन्तनम्।
विरुद्धानां च सर्वेषामपायत्वविमर्शनम्॥७९॥

ज्ञानेति। ज्ञानं दृष्टिः अङ्को लक्ष्म।ज्ञानभक्त्यङ्कसत्सेवारूपाणां तत्वानां तत्त्वशब्देन महदादीनि तत्वानि विवक्षितानि। विरुद्धानां दृष्टिभक्तिलक्ष्मसत्सेवाविरुद्धानाम्॥७९॥

तथानादेरविद्यायाः स्वरूपस्यानिरूपणम्।
हरेरालोकनान्तायास्तस्याञ्चान्यनिवर्त्यधीः॥८०॥

तथेति। हरेरालोकनान्तायाः भगवत्कटाक्षैकनिवर्त्ययाः भगवदर्शनेन निवर्त्याया इति वा। तथा च श्रुतिः। ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सवसंशयाः। क्षीयन्ते चास्य कर्माणि य1स्मिन्दृष्टे परावर’ इति। दर्शनं च प्रत्यक्षसमानाकारा ध्रुवा स्मृतिः। सत्त्वशुद्धौ च ध्रुवा स्मृतिः। स्मृति

लम्भे सर्वग्रन्थीनां विप्रमोक्ष, इति ग्रन्थिभेदनस्य ध्रुवानुस्मृति कार्यरूपतया श्रुत्यैव प्रतिपादनात्।सर्वस्यामेवश्रुतौस्मृति समानाकारदर्शनमेव विधीयत इतेि न वाच्यम्।अतिशयाभाव प्रसङ्गात दर्शनस्य स्मृतिपदेनोपचार अपिशाब्दत्वमेव लभ्यते दर्शनपदेन स्मृतेरुपचारे तु विशदतमत्वं तस्या लभ्यत इस्यस्यैवोपपन्नत्वादिति एतस्मादपि व्याख्यानात् भगवत्कटाक्ष निवर्त्यया इति व्याख्यानमेव साधीयः।अन्यथा प्रपदनासंग्रहात्।उपासनेन प्रपदनेन वा यथाधिकारमनुष्ठितेन प्रीतो भगवान्संसारसागरान्निर्गमनं सङ्कल्पयेदित्यस्य चेतनेक्षेति हि वेदान्तसिद्धान्तः। तथा चोक्तं वेदान्ताचार्यैर्यथा। ‘हेमार्चना भरणासनप्रत्तिभिः समाराधितः फलं दिशति देहिना’मिति हि सम्प्रदायस्थितिः श्रुतिस्मृतिगुरुयुक्तिभिर्नयदिति कराराधिति न इति ह2 ।")रेरालोकनं चात्र मोक्षयिष्यामीति सङ्कल्पः। तस्या अविद्यायाः अन्यनिवर्त्यधीः भगवत्कटाक्षमित्रनि वर्त्यबुद्धिः॥८०॥

फलानां चान्यतः प्राप्तिश्विन्ता निःश्रेयसस्य च।
हरेः कैङ्कर्यसम्प्राप्तिर्व्यतिरिक्तामृतत्वधीः॥८१॥

फलानामिति।फलानां निःश्रेयसः मोक्षस्य चान्यतः भगवद्व्यतिरिक्तात्प्राप्तौ चिन्ता लाभबुद्धिः।भगवद्व्यतिरिक्तः कर्म फलानांमोक्षस्य च प्रदातेति बुद्धिरित्यर्थः।अन्योपासकानामपि चेतनानां तदादिचेतनानां तदादिदेवतान्तर्यामितयावस्थाय तैराराधितः स एष भगवान् तद्धृदयोप्सितानि प्रयच्छति॥८१॥

विशेषेणाप्यनर्थेषु देहादिष्वर्थतामतिः।
इत्यादयो बहुविधा महापापाः कुदृष्टयः॥८२॥

हरेः प्रियतमं ज्ञानं सन्तो ज्ञानधना ह्यतः।
तथैव चापचाराणां काष्ठा ज्ञानविपर्य्ययः॥८३॥

ज्ञानस्य कर्मणा गुप्तिर्हतं ज्ञानमकर्मणा।
प्रवृत्त्या प्रतिषिद्धेषु ज्ञानं कर्म च नश्यति॥८४॥

अचिन्ता च विनिन्दा च मतिपूर्वं च वर्जनम्।
विहितानाञ्च धर्माणां सर्वज्ञात्मावघातकम्॥८५॥

स्वरूपस्य विनाशाय रुचिर्निन्द्येषु कर्मसु।
विषयेषु च सर्वेषु लौल्यं विषमधुस्पृहा॥८६॥

विष्णोर्विद्वेषयुक्तस्य वैमुख्यं प्रतिपत्तिषु।
प्रवृत्तिश्चापचारेषु सम्यगात्मविनाशनम्॥८७॥

अन्यतान्त्रिकदेवानां संसर्गप्रतिपत्तिषु।
प्रवृत्तिरच्युतैकान्त्यनियमाध्वरनाशिनी॥८८॥

लक्षणानि हि पुष्पाणि मुकुन्दचरणार्चने।
तदभावपरीभावौ प्रद्धंसनकरावुभौ॥८९॥

अन्यपुण्ड्राङ्कनादीनां धारणं दृष्टिनाशनम्।
परचिह्नत्रणं ग्रात्रे भ्रंशाय नरकाय च॥९०॥

सतामसेवनान्नित्यमसताश्च निषेवणात्।
क्षीयन्ते चाथ नश्यन्ति ज्ञानवैराग्यभक्तयः॥९१॥

महापचारो देवस्य भक्तानाम्भुवि शार्ङ्गिणः।

धर्मरक्षानियुक्तानां समयस्य व्यतिक्रमः॥९२॥

एते चान्ये च विविधा ह्यपचाराः सुदुःसहाः।
वैराग्यं वर्जनं तेषां लज्जामानमदादिभिः॥९३॥

वृत्तेर्हि जीवितं गुप्तिः सारो वैराग्यमुच्यते।
वैराग्ययुक्ता हि नरा यजन्त्यप्रच्युतान्तराः॥९४॥

अनुज्झितक्रियायोगा ज्ञानवैराग्यशालिनी।
इति भक्तिमयी वृत्तिः पुनरेव प्रपञ्चिता॥९५॥

इत्थं किलात्मनो न्यासाज्जातो वृत्त्याख्यपादपः।
असौ फलमयः सेव्यस्तन्न3चोत्पद्यते विना4॥९६॥

सुसूक्ष्मत्वाद्दुरापत्वान्महत्त्वाद्गौरवादपि।
मयायं परमो धर्मः प्रोक्तः स्थित्यै पुनः पुनः॥९७॥

वृत्तिं सन्तोऽनुभूयेमामनुरूपहिमात्मनः।
परत्र चानुमोदन्ते परमेण विपश्चिता॥९८॥

इति श्रीनारदपञ्चरात्रे भारद्वाजसंहितायां परिशिष्टे चतुर्थोऽध्यायः॥४॥

समाप्तोऽयं ग्रन्थः।


  1. " उपनिषदि तु तस्मिन्निति पाठान्तरम् ।" ↩︎

  2. “आदर्शपुस्तकान्तरालाभाच्छोधयितुमेतद्वचनमशक्तोऽस्मि संवृतः । ( शोधकः ↩︎

  3. “तत्फलम्” ↩︎

  4. “उत्तरान्वयि ।” ↩︎