भूयः स्फुटतरं वक्ष्ये शृणुध्वं मुनिसत्तमाः।
सनातनीं सतां वृत्तिं परेषां लक्षणानि च॥१॥
भूय इति। सनातनीम् अविच्छिन्नसम्प्रदायाम्। परेषामसतांलक्षणानि चेत्येव शश्वत्पाठः**॥१॥**
सर्वभूतांतरात्मानमीशमाराध्यमच्युतम्।
बुद्धा चरंति सुधियो धर्मांस्तप्रीतये परम्॥२॥
सर्वभूतेति। सुधियो ज्ञानिनः सर्वभूतांतरात्मानं सकलचेतनांतिर्यामिणम्। ईशं स्वामिनमच्युतमाराध्यं वृद्धा ज्ञात्वा तत्प्रीतये परं केवलं तत्प्रीतये वर्णाश्रमोदितान् धर्मांश्चरंति सर्वभूतानामन्तरात्मानमित्यनेन सर्वांतर्यामिण एवाराध्यत्वान्नदेवतांतरपरत्वशङ्का कार्येति व्यज्यते। तत्प्रीतये परमित्यनेन साधनांतरान्वया शङ्का व्यावर्त्त्यते**॥२॥**
व्यासुग्धमतयःकेचित् क्षुद्रा नानाफलार्थिनः।
तमेव हि यजन्त्यन्ये तथान्या अपि देवताः॥३॥
व्यामुग्धेति। व्यासुग्धमतयोऽज्ञाः अयंच पूर्वश्लोकस्थस्य सुधि य इत्यस्य प्रतिनिर्देशः। नानाफलार्थिनः दृष्टानुश्रविकरूपबहुविधफलाकाङ्क्षिणः। अयंच्चतत्प्रीतये परमित्येत्यस्य पूर्वश्लोकस्थस्य प्रतिनिर्देशः। अन्यांश्च देवता यजंतोऽपि तथा सुधिय इव तमेष भगवंतमेव यजंति। स्वबुद्धया देवतान्तरयजनेऽपि वस्तुगत्यातमन्तर्यामिणमच्युतमेव यजन्तीत्यर्थः। तथा च गीतं भगवता ‘येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्, इति। यद्वा, नानाफलार्थिनः सन्तः तमेवयजन्ति स्वासाधारणविग्रहविशिष्टमेव क्वचित्कर्मणि यजन्ति तथा तद्देवता अपि यजन्ति। न पारमैकान्त्ये तिष्ठन्तीत्यर्थः**॥३॥**
कल्पिताः कर्मबन्धेन विष्णुमायाविमोहिताः।
अपि देवा न जानन्ति स्वात्मानं किमुतापरे॥४॥
यादृशकर्मानुष्ठाननिबन्धनस्याज्ञानस्य चेतनदुष्कर्मनि बन्धनभगवत्संकल्प एव निदानमित्याह-कल्पिता इति। कर्मबन्धेन कल्पिताः विपरीतज्ञानहेतुभूतदुष्कर्मबन्धाः अत एव विष्णुमायया भगवत्सङ्कल्पेन मोहिताः ‘दैवी ह्येषा गुणमयी मम माया दुरत्यये’ त्युक्तया भगवदधीनया प्रकृत्या विमोहिता इति वार्थः। देवा अपि स्वात्मानं स्वान्तरात्मभूतं नारायणं न जानान्ति अपरे मनुष्यास्तु न जानन्तीति किमु वक्तन्यमिति भावः**॥४॥**
वदन्ति धर्मान्व्यामिश्रान्वेदाः स्कन्धमयाः किल।
श्रुतिर्मोक्षमयी प्राह शुद्धं मोक्षैकलक्षणम्॥५॥
वदन्तीति। स्कन्धमयाः वेदाः अनुवाकोपनिषदात्मकाः व्यामिश्रान्देवतान्तर्य्याम्याराधनात्मकान् काम्याँश्च धर्मान्-
वदन्ति मोक्षमयीति। मोक्षप्रयोजनतयी मोक्षप्रचुराश्रुतिः अनुवाकोपनिषदात्मका मोक्षैकलक्षणं मोक्षैकप्रयोजनकं शुद्धं धर्ममाह**॥५॥**
प्रायेण धर्मान्व्यामिश्रानूचुर्मन्वत्रिपूर्वकाः।
शुद्धाँस्तु वयमन्ये च पञ्चरात्रपथानुगाः॥६॥
प्रायेणेति। व्यामिश्रान धर्मान् शुद्धान् मन्वत्रिपूर्वका ऊचुः। स्कन्धमयवेदोपबृंहणंमन्वत्र्यादिभिः कृतमित्यर्थः। पञ्चरात्रमार्गानुसारिणो वयमन्ये च शुद्धान्धर्मान् पञ्चरात्रमूलवेदोपबृंहणमस्माभिः कृतमित्यर्थः**॥६॥**
व्यामिश्रः पंचरात्रेऽपि धर्मः क्वाप्यनुकृष्यते।
तत्र चागमसिद्धान्ते शुद्ध एवोपदिश्यते॥७॥
व्यामिश्र इति। पञ्चरात्रेऽपि व्यामिश्रो धर्मः क्वापि क्वचित् स्थले अनुकृप्यते। तत्र पञ्चरात्रेऽपि आगमसिद्धान्तेऽपि विशुद्धधर्म एवोपदिश्यते। मन्त्रे मन्त्रतन्त्राख्ये सिद्धान्ते क्वचित्क्वचिद्व्यामिश्रधर्मोऽप्युपदिश्यते। आगमसिद्धान्ते तु शुद्धधर्म एवोपदिश्यत इत्यर्थः**॥७॥**
हरेः शुद्धतनोः शुद्धं व्यामिश्रं कल्पितात्मनः।
अशुद्धं कल्पितानान्तु केवलं यजनादिकम्॥८॥
धर्माश्चतुर्विधाः शुद्धाः शुद्धतमाः अशुद्धाः, अशुद्धतप्राचेति। तेषां स्वरूपाणि क्रमेणाह-हरेरिति। शुद्धतनोरजस्तमः- कल्पितशरीरातिरिक्तस्य देवतान्तरान्तर्यामिभावम्। अन्तरेण केवलं भगवदाराधनात्मकं कर्म शुद्धमित्यर्थः। नित्यमुक्तादिशरीरस्य यजनमपि शुद्धमेवेति तेषां रजस्तमःशून्यत्वेन शुद्धतनुत्वात्कल्पितानां रजस्तमःकल्पितानाम् आत्मनः
अन्तर्यामिणः रजस्तमःकल्पिताग्नीन्द्रादिदेवतान्तर्यामिभावेनभगवदाराधनव्यामिश्रमित्यर्थः। कल्पितानां केवलं यजनादिकर्मशुद्धम्अन्तर्य्यामिपर्य्यन्तपगत्वा केवलदेवतान्तराराधनमशुद्धमित्यर्थः**॥८॥**
ते ह्यशुद्धतमाः सर्वे तमोनिष्ठतया स्मृताः।
श्रीकण्ठप्रमुखैरुक्ता ये धर्माः कामकामिनाम्॥९॥
ते हीति। ये श्रीकण्ठप्रमुखैः कामकामिनां धर्मा उक्ताः; ते सर्वे तमोनिष्ठतया अशुद्धतमाः स्मृताः तामसतन्त्र एव प्रसिद्धाः अशुद्धतमा इत्यर्थः। तमोनिष्ठतयेत्यनेन या वेदबाह्याः; स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रोक्तां1 स्तमोनिष्ठाहिताः स्मृताः इतिवचनमत्र प्रतिज्ञातम्**॥९॥**
त्रैविद्यानां सदामिश्राः प्रायेण विहिताः क्रियाः।
ज्ञानं भक्तिश्व वैराग्यं सर्वं शुद्धमुदाहृतम्॥१०॥
त्रैविद्यानामिति। त्रैविद्यानां स्कन्धमयवेदनिष्ठानां परमैकान्तिनां प्रायेण प्राचुर्य्येण मिश्राः क्रियाः विहिताः नैवेद्यानाम्। अपिज्ञानं भक्तिः वैराग्यञ्च शुद्धमेवोदाहृतम्। आज्ञाकैङ्कर्येष्विव देवतान्तर्याम्पाराधनं सर्वत्रेत्यर्थः**॥१०॥**
न्यासनिर्द्धूतपाप्मानः प्रियैः प्रियतमैरपि।
मिश्रैः शुद्धैश्च नियमैर्विष्णुमाराधयन्ति ये॥११॥
न्यासेति। न्यासनिर्द्धूतपाप्मानः प्रपत्तिबलपरिग्रहास्तसकलपापास्ते त्रैविद्याः क्रमेण प्रियैः प्रियतमैरपि मिश्रैः शुद्धैश्च नियमैर्विष्णुमाराधयन्ति। मिश्राः शुद्धाः प्रियाः प्रियतमा इत्यर्थः**॥११॥**
निन्दितक्रियया हानाद्विहीनानांश्च कुप्यति।
ऐच्छैरपि पुनः शुद्धैःपरं तुष्यति माधवः॥१२॥
निन्दितेति। विहितानां हानात्त्यागात् निन्दितक्रियया च माधवः कुप्यति। विहिताकरणं निषद्धाकरणञ्च भगवन्निग्रहजनकम् इत्यर्थः। आज्ञारूपफलानुष्ठानवत् अनुज्ञारूपधर्मानुष्ठानवत् भगवदनुग्रहजनकम् इत्याह। ऐच्छैरिति। ऐच्छैः इच्छायां सत्यमिव कर्त्तव्यैर्न पुनर्नित्यनैमित्तिकाद्यकरणैः प्रत्यवायवद्भिः शुद्धैः देवतान्तरान्तर्यामिविषयत्वशून्यैः दीपारोपणमालाकरणादिभिः माधवः श्रियः पतिः अनेन कैङ्कर्यप्रतिबन्धिमिथुनमिति गम्यते। नित्येष्विव व्याभिश्रिता अनुज्ञामूलास्तु शुद्धा एव कर्त्तव्या इत्यर्थः। यद्वा, निन्दितक्रियाविहितहानजनितो भगवन्निग्रहः शुद्धधर्मरूपपरमादिशान्त्यनुष्ठानेनापि नापैतीत्युत्तरार्द्धाभिप्रायः**॥१२॥**
विशुद्धपरिवारस्य नित्यं शुद्धा हरेः क्रिया।
तयैव शुद्धकर्मेति त्रैविद्योऽपि न गद्यते॥१३॥
विशुद्धेति। विशुद्धपरिवारस्य रजस्तमःस्पर्शशङ्काविरुद्धनित्यादिपरिवारयुक्तस्य नित्यमहरहः कर्त्तव्या हरेः क्रिया आराधनात्मिका शुद्धा तथैव नित्यार्चनात्मकक्रिययैव त्रैविद्योऽपि हि व्यामिश्रधर्मानुष्ठातापि शुद्धकर्मेति निगद्यते व्यामिश्रधर्मानुष्ठतामपन्नोऽपि देवतान्तरस्पर्शरहितः भगवन्नित्यार्चनानुष्ठातृत्वात्शुद्धकर्मेति मुनिभिरुच्यत इत्यर्थः**॥१३॥**
शुद्धो मिश्रस्तथान्यो वा समर्पितभरो हि यः।
सद्यःस वासुदेवस्य कैंकर्य्यामन्दमश्नुते॥१४॥
शुद्धानुष्ठातुरिव व्यामिश्रानुष्ठातुः परिमोक्षो नियत इत्याह-शुद्ध इति। शुद्धः शुद्धयाजी। मिश्रः मिश्रयाजी अन्य इति व्यामिश्रयाजिविशेषणं शुद्धो वा तथान्य शुद्धाद्यन्यो व्यामिश्रो वा समर्पितभरः भगवन्न्यस्तात्मीयभरः सद्यो वासुदेवस्य कैङ्कर्यात्मकमानन्दमश्नुते। सद्य इति पदं तत्कालविषये तत्कालपरमेव दृष्टिविषये अविलम्बाभिव्यापकं मन्तव्यम्। शुद्धो मिश्र इत्यादेरेवं वार्थः। शुद्धो व्यामिश्रो वा तथा अन्यः अशुद्धो वा न्यस्तभरः कैङ्कर्य्यानन्दमयमश्नुत इति। शुद्धत्वञ्च भरन्यासानुष्ठानानन्तरभाविमन्तव्यम्। तदुत्तरमशुद्धधर्मानुष्ठानायोगात्। अथवा अन्योऽपीति पाठः। अशुद्धयाज्यपि न्यस्तभरो मुक्तो भवति। किं पुनर्व्यामिश्रयाजीत्येतदभिप्रायः। प्रपन्नस्य दुःहवासनादिना अशुद्धान्वयेऽपि पुनः सत्रपानुतापं ह्यन्वितप्रायश्चित्तान्वयप्रवासेन तमपराधं निवर्त्य समनुष्ठितो भरन्यास एव कैङ्कर्यानन्दं ददातीति वाभिप्रायः**॥१४॥**
शुद्धादीनां तु धर्माणामधिकारादियोगतः।
क्रियते पुरुषादीनां व्यपदेशस्तथाविधः॥१५॥
पुरुषे शुद्धादिव्यपदेशः। शुद्धादिधर्मानुष्ठाननिबन्धन इत्याह शुद्धादीनामिति। शुद्धादीनां धर्माणाम् अधिकारादियोगः आदिशब्दादनुष्ठानं गृह्यते। पुरुषादीनाञ्च तथाविधो व्यपदेशः क्रियते। शुद्धधर्माधिकारी तदनुष्ठाता शुद्ध एवं मिश्राधिकारी मिश्र इत्यवगन्तव्यम्**॥१५॥**
एकायने ह्यधिकृताः सर्वे यान्त्यञ्जसा हरिम्।
ये च नानापथेऽन्यत्र प्रतिबुद्धास्तु केचन॥१६॥
एकायन इति। एकायने मूलवेदे अधिकृताः तदुक्तधर्मानुष्ठातार इत्यर्थः। सर्वे हरिंयान्ति। एकायनस्य मोक्षेकल-
क्षणत्वात् तनिष्ठाः सर्वेऽपि हरिं प्राप्नुवन्तीत्यर्थः। नानापथे नानामार्गे अन्यत्र तु वेदान्ते तु अधिकृताः केचन प्रतिबुद्धाः न सर्वे।त्रैविद्यास्तु स्वर्गापवर्गादिरूपनानापुरुषार्थतदुपायादिप्रतिपादिकतया तत्र त्रिवर्गमात्र एव सर्वे लग्नाभवन्ति केचिदेव सुकृतपरिपालनेन महताम् अपवर्गतदुपायौ ज्ञात्वा हरिं प्राप्नुवन्तीत्यर्थः**॥१६॥**
एकायना ब्रजन्तोऽपि त्रैविद्या वा स्ववर्त्मना।
स्खलन्तो दृष्टिवैषम्याच्यवन्त्यैकान्त्यतो हरेः॥१७॥
एकायनानांत्रैविद्यानामपि स्वधर्मात्स्खलने पारमैकान्त्यहानिस्तुल्येत्याह-एकायना इति। स्ववर्त्मना स्वमार्गेण ब्रजंतोऽपि दृष्टिवैषम्यात् विपरीतज्ञानेन स्वलन्तः हरेः पारमैकान्त्याच्च्यवन्ति। अतः स्वमार्गेणैव गन्तव्यमित्यर्थः**॥१७॥**
यायाच्छुद्धेन मार्गेण मिश्रेष्वन्यतमेन वा।
परं भगवदैकान्त्यं पूर्वैराचरितेन वा॥१८॥
यायादिति। शुद्धेन मार्गेण परं भगवदेकान्त्यं यायात्। मिश्रेषु व्यामिश्रयोगेषु पूर्वैराचरितेन अन्यतमेन वा भगवदैकान्त्यं यायात्। व्यामिश्रेषु बहुषु मार्गेषु पूर्वपरिगृहीतेन केनचिद्भगवदाराधनतया धर्माननुतिष्ठतः पारमैकान्त्यममङ्गुरमित्यर्थः। पूर्वैराचरितमित्यनेन सूत्रप्रयोगप्रक्रियामुत्सृज्य सूत्रान्तरप्रक्रियापरिग्रहः प्रात्यवायिक इति गम्यते**॥१८॥**
यथैवाश्रमिणः पूर्वे ब्रजन्त्युत्तममाश्रमम्।
तथैव शुद्धंत्रैविद्यामिश्रं नैकायनाः पुनः॥१९॥
व्यामिश्राणां शुद्धे प्यधिकारोऽस्ति शुद्धानां न व्यामिश्र इत्याह-यथैवेति। पूर्वे आश्रमिणः ब्रह्मचार्यादयः उत्तमाश्रमं
गृहाश्रमादिकं यथा ब्रजन्ति नोत्तरे पूर्वमाश्रमं तथैव त्रैविद्याःव्यामिश्रा एकायनः पुनः शुद्धास्तु मिश्रं न ब्रजन्ति**॥१९॥**
ऐच्छञ्च नियतञ्चेति नित्यनैमित्तिकं तथा।
काम्यञ्च विविधं सर्वं शुद्धाशुद्धोभयात्मकम्॥२०॥
ऐच्छमिति। ऐच्छं विहिताकरणप्रत्यवायरहितं दीपारोपणमालाकरणादिनियतं वर्णाश्रमनियतं सन्ध्योपासनपञ्चमहायज्ञादिनित्यम्एकादश्युपवासादिकं यद्यपि नियतमपि नित्यान्तःपात्येव तथापि पृथग्विभागः प्रमाणप्रमेयेत्यादाविव आवश्यकज्ञातव्यत्वात् कृत इति। तथा नैमित्तिकं निमिर्त्तेसति कर्तव्यमुपरागस्नानादिकं विविधं बहुविधं काम्यं कामनोपाधिना कर्तव्यं चित्रचैत्यादिकं सर्वमपि शुद्धाशुद्धोमयात्कं शुद्धात्मकमशुद्धात्मकमुभयात्मकञ्च भवति। उभयात्मकमित्यनेन व्यामिश्रात्मकं विवक्षितम्। ऐच्छादिषु कर्मसु कानिचिच्छुद्धानि कानिचिदशुद्धानि कानिचिद्व्यामिश्राणीत्यर्थः। एतेषु शुद्धेष्वेव एकायनानामधिकारः। त्रैविद्यानां मुमुक्षूणां तु तेषां अशुद्धेष्वधिकारादिति भावः। यद्वा नियतमित्येतस्य, विवरणं नित्यं नैमित्तिकं तथेति ;ऐच्छमित्येतद्विवरणं काम्यश्च विविधं सर्वमिति। अन्यतुल्यम्**॥२०॥**
स्वतः सङ्कल्पतश्चापि कर्मणां भिद्यते गतिः।
फलानामिह सर्वेषां प्रदाता स्वयमच्युतः॥२१॥
न केवलं देवतान्तरविषयत्वेन कर्मणामशुद्धत्वम्। अतद्विषयाणामपि फलकामनया अनुष्ठाने त्वशुद्धत्वमेवेत्याह-स्वत इति। स्वतः स्वरूपेण सङ्कल्पतः स्वरूपभेदाभावेऽपि सङ्कल्पेन च कर्मणां गतिर्भिद्यते। इह फलकर्मणि सर्वेषां फलानांकर्मणि प्रदाता अच्युतो नारायण एव, देवतान्तराराधरूपतया कृतानामपि कर्मणां फलप्रदाताभगवानेवेत्यर्थः**॥२१॥**
यथा कामफला यज्ञाः सृष्टा भगवता स्वयम्।
त एव विदुषां तर्हि निर्वाणाय निराशिषाम्॥२२॥
सङ्कल्पभेदमात्रेण कर्मगतिभेदं दर्शयति यथेति। भगवता कामफलाः, काम्यत इतिकामः स्वर्गादिः। तत्फलाः यज्ञाः भगवता यथा सृष्टाः यादृक्प्रकाराः सृष्टा अत एव तादृक्प्रकाराः त एव यज्ञा निराशिषां विदुषां निर्वाणतया भवन्ति अतः कामनया यज्ञाद्यनुष्ठानस्याशुद्धत्वान्मुमुक्षुभिः कामनया तदनुष्ठानं न कर्त्तव्यमिति फलितार्थः**॥२२॥**
अबुद्धा परमात्मानं हरिमन्या हि देवताः।
ये यजन्ति निरस्ताशास्तेषां ज्ञानाय तच्छनैः॥२३॥
भगवदाराधनबुद्ध्या अनुष्ठितान्यपि कामनोपाधिमन्तरेणानुष्ठितानि कर्माणि शनैः कालान्तरे ज्ञानसाधनानि भवंतीत्याह अबुद्धेति। हरिं परमात्मानमबुद्धा तत्तद्देवतान्तर्यामितया भगवन्तमाराध्यमबुद्धेत्यर्थः। अन्यदेवताश्च ये निरस्ताशाः निष्कामा यजन्ति भगवद्यजनन्तेषां शनैर्ज्ञानाय भवति। विलम्बेन कालान्तरेण ज्ञानसाधनमित्यर्थः। वस्तुतस्तत्रापि भगवत एवाराध्यत्वात्स एव भगवान्स्वाभाविकसंबन्धेन कृपया शनैर्ज्ञानं ददातीति भावः**॥२३॥**
बुद्धापि परमात्मानं पारमैकान्त्यवर्जिताः।
इष्ट्वापि परमेर्यज्ञैः स्थानं यान्ति न शाश्वतम्॥२४॥
तत्तत्कर्माराध्यस्तत्तद्देवतान्तर्यामीति ज्ञानेऽपि पारमैकान्त्याभावे तु न मोक्षप्राप्तिरित्याह-बुद्धापीति। परमात्मानमन्तर्य्याभिणमाराध्यं बुद्धापि ये पारमैकान्त्यवर्जिता भवन्ति ते विविधैर्यज्ञैरिष्ट्वापिशाश्वतं स्थानं न यान्ति बहुविधयज्ञानुष्ठानेऽपि पारमैकान्त्यरहितानां परमपदप्राप्तिर्नास्तीत्यर्थः**॥२४॥**
व्यामिश्राँश्चापि शुद्धाँश्च तत्तत्कालविभागवित्।
यथान्यायं प्रयुञ्जीत धर्मानैकान्त्यनिष्ठितः॥२५॥
पारमैकान्त्यै दृढव्रतः सन्नेव यथाधिकारं शुद्धान्व्यामिश्राँश्च धर्माननुतिष्ठेदित्याह-व्यामिश्रानिति। तत्तत्कालविभागवित् अभिगमनादिकालतत्त्वज्ञः। विभागवदिति पाठे विभागयुक्तं यथाभवति तथेति क्रियाविशेषणम्। यथान्यायं यथाधिकारम्**॥२५॥**
बुद्धापि परमात्मानमशुद्धं कर्म कामिनाम्।
शुद्धं सर्वमकामानामेतद्धि परमं मतम्॥२६॥
न केवलं देवतान्तरत्वमेव पारमैकान्त्यहानिपरम् अपि तु प्रयोजनान्तरत्वमपीत्यभिप्रायवानाह-बुद्धापीति। परमात्मानं बुद्धापि तत्तत्कर्माराध्यं तत्तद्देवतान्तर्यामिणं ज्ञात्वा विद्यमानानामपि कामिनां प्रयोजनान्तरार्थिनां कर्म अशुद्धं परमात्मानं बुद्धा अकामानामनन्यप्रयोजनानां सर्वंशुद्धम् एतत्परमं मतं परमरहस्यमित्यर्थः**॥२६॥**
नानाफलक्रियायोगदेवताव्याकुलात्मभिः।
दुर्ज्ञानं दुरवाप्यञ्च दास्यं विष्णोः परं पदम्॥२७॥
भगवत्कृपाविधुराणां पुंसां प्रयोजनान्तरोपायान्तरदेवतान्तरव्याकुलचित्तत्वात्तैः स्वयं पुरुषार्थरूपं भगवद्दास्यं ज्ञातुं प्राप्तुं च न शक्यमित्याह-नानेति। नानाफलैर्बहुविधैः प्रयोजनान्तरैर्नानाप्रयोगैः क्रियात्मना नानोपायान्तरैः अनेकविधैः क्रियात्मनोपायान्तरैर्नानाविधैर्दैवतैरनेकदेवतान्तरैश्च व्याकुलात्मभिर्व्याकुलचित्तैश्चपरं पदं मोक्षरूपं स्वयं पुरुषार्थमित्यर्थः। विष्णोर्दास्यं दुर्ज्ञानं दुरवाप्यञ्च ज्ञातुं प्राप्तुञ्चाशक्यमित्यर्थः**॥२७॥**
यत्तु विश्वपतेर्विष्णोर्नित्यं दासत्वमात्मनः।
तज्ज्ञानन्तक्रिया वा तत्प्रसादादेव सिध्यति॥२८॥
भगवत्प्रसादात्तेषां चित्ते ज्ञानादिकं सिध्यतीत्याह-यत्विति विश्वपतेः सर्वलोकानां नायकस्य विष्णोः प्रतिसम्बन्धिनः आत्मनोऽधिकरणस्य स्वस्य यत्तु नित्यं दासत्वं तज्ज्ञानं तस्य दासस्य ज्ञानं तक्रिया तदनुगुणकैङ्क्र्यंवापि तत्प्रसादात् विष्णोः प्रसादादेव सिध्यति। विश्वपतेरित्यनेन पतिं विश्वस्यैतत्प्रमाणमित्ययम्, आत्मनो दास्यत्वमित्यनेन आत्मेश्वरमित्ययमंशः स्मारितः**॥२८॥**
प्रसादनानामीशस्य श्रेयसी शरणागतिः।
तत्प्रधाना हि सिध्यन्ति यथान्याः सकलाः क्रियाः॥२९॥
ननु तत्प्रसादादेवेत्युक्तम्। प्रसादनोपायश्च कः? इत्याह - प्रसादनानामिति। ईशस्य प्रसादनानां प्रसादनोपायानां मध्ये शरणागतिः श्रेयसी परमप्रसादनोपास्तिरस्तीत्यर्थः। तद्दास्यात्सकलाः क्रियाः तत्प्रधाना हि सिध्यन्ति उपायान्तराण्यपि हि अङ्गभावेन प्रपत्त्यनुष्ठानादेव सिद्ध्यन्तीत्यतः श्रेयसी शरणागतिरिति भावः**॥२९॥**
यश्चायमात्मनिक्षेपः क्रियते परमात्मनि।
तेनैष हि भरन्यासस्तथा फलसमर्पणम्॥३०॥
आत्मनिक्षेपापरपर्य्याया शरणागतिः। भरसमर्पणेन फलसमर्पणेनाविनाभूतेत्याह-येनेति। येन येन मन्त्रेण परमात्मन्यात्मनिक्षेपः क्रियते तेन मन्त्रेणैव भरन्यासः कार्यः। तथा फलसमर्पणं कर्त्तव्यमिति शेषः**॥३०॥**
यः शरण्यमशेषाणां प्राप्नोति शरणं हरिम्।
समुक्तः सर्वपापेभ्यः स्वकुलञ्च समुद्धरेत्॥३१॥
भगवन्न्यस्तभरस्य कुलमपि कृतार्थमित्याह य इति। अशेषाणां शरण्यमित्यनेन प्रपत्तेः सर्वाधिकारितोक्ता ‘समुक्तः सर्वपापेभ्य’ इत्यनेन ‘सर्वपापेभ्यो मोक्षयिष्यामि’ इति भगवद्वचनं स्मारितम्**॥३१॥**
न तथा विविधैर्दानैर्न तपोभिर्न चाध्वरैः।
यथैव गुरुतां यान्ति नरा नारायणाश्रयात्॥३२॥
सत्कर्मनिरताः शुद्धाः सांख्ययोगव्यवस्थिताः। नार्हन्ति शरणस्थस्य कलां कोटितमामपीत्यभिप्रायेणाह-न तथेति। यज्ञाःपञ्चमहायज्ञाः। अध्वराः ज्योतिष्टोमादयः। गुरुतामुत्कर्षम्**॥३२॥**
यथैव भगवान्विष्णुर्देवानां परमो गुरुः।
तथैव हि मनुष्याणां वैष्णवः परमो गुरुः॥३३॥
यथैवेति। परमः परमार्थः परा मास्मादिति परमः वैष्णवः परमैकान्ती सामान्यपरत्वेऽपि प्रपन्नविषयेषु गुरुत्वं किं पुनर्न्यायसिद्धमिति भावः**॥३३॥**
न परीक्ष्य वद्योवन्द्या नारायणपरायणाः।
अपि स्युर्हीनजन्मानो मान्या निघ्नेन चेतसा॥३४॥
नेति। वयः परीक्ष्य वन्द्याः न स्युर्वयसो नापि वन्द्या एवेत्यर्थः। हीनजन्मानोऽपि स्युरपकृष्टजातिजाता अपि भवन्तु निघ्नेन आयत्तेन चेतसा मान्याः उत्कृष्टजन्मप्रयुक्तमहङ्कारं विहाय प्रतिपत्तिं कुर्यादित्यर्थः॥३४॥
समर्पितात्मनः श्रीशे सत्त्वयुक्तेन चेतसा।
नापायोऽभिभवेत्सन्तं सद्यः प्रशमयेदपि॥३५॥
समर्पितेति। सत्त्वयुक्तेन सत्त्वगुणयुक्तेन चेतसा श्रीशे समर्पितात्मतः न्यस्तात्मभरन्यासान् अपायो नाभिभवेत् सत्त्वप्राचुर्य्येण प्रपन्नतया उत्तमाधिकारित्वान्नापायस्तेषु प्रवर्तत इत्यर्थः। सन्तं दैवात्प्राप्तमपायं सद्यः प्रशमयेत। प्रपत्तेर्हि प्रामादिकन्त्वपायम् अपायः प्रपत्तिमाहात्म्यादेव अश्लिष्टो भवतीत्यर्थः। यद्वा, सन्तमित्यनेन कादाश्चित्कुबुद्धिपूर्वापराध उच्यते। सद्य इति पदञ्चाविलम्बपरम्। अचिरादेव यथोचितप्रायश्चित्तान्वये सद्यः प्राप्तमपायं नाशयतीत्यर्थः। अस्मिन्व्याख्याने तु प्रशमयेदिति स्वरसम्2पूर्वव्याख्याने तु सद्यइति पदम्। प्रशमयेदित्यस्य कर्त्ता उत्तरश्लोकस्थमाधवो द्रष्टव्यः। नापायोऽभिभवेदित्यनेन उत्तमाधिकारिणः अपायेप्यन्वय एव नास्तीत्युक्तम्**॥३५॥**
प्रपन्नमपि यं कञ्चित्प्रसक्तं पापकर्मणि।
चिरात्संयोज्य विनयैः परिगृह्णाति माधवः॥३६॥
प्रपन्नमिति। प्रकर्षेण सक्तमनेन बुद्धिपूर्वकोत्तराद्यसंपत्तिरुच्यते। विनयैः काणत्वखञ्जत्वादिशिक्षामिः संयोज्य सम्यग्योजयित्वा चिरात् परिगृह्णाति चिरात्संयोज्येति यथाश्रुत एवान्वयः। बहुकालानुवर्तिक्लेशैरपायान् कृत्वा परिगृह्णातीत्यर्थः**॥३६॥**
पूर्वेषामुत्तरेषां च न्यासो न्यासाय पाप्मनाम्।
सर्वेषामपचाराणामयं हि क्ष्मापणं परम्॥३७॥
बुद्धिपूर्वोत्तराद्ये प्राप्तेऽपि अशक्तस्तत्प्रायश्चित्तत्वेन न्यासमेवानुतिष्ठेदित्याह-पूर्वेषामिति। पूर्वेषां न्यासात्पूर्वमनादिकालार्जितानां प्रारब्धव्यतिरिक्तानाम् उत्तरेषां न्यासनिर्वृत्त्यनन्तरं कृतानां प्रामादिकानां पाप्मनाञ्च नाशाय न्यासो
भवत्ययमेव न्यासः। सर्वेषामुपर्युपरि प्राप्तानां समस्तानामपचाराणां च क्ष्मापणमशक्तस्य बुद्धिपूर्वोत्तराद्यमपि तन्निमित्तकृतो न्यासो निवर्त्तयतीत्यर्थः। हिशब्देन शक्तौ प्रतिपदोक्तं स्यादशक्तौ शरणागतिरित्यादि प्रसिद्धिर्द्योत्यते। समर्पितात्मनःश्रीशे इत्यादिनोक्तानर्थात् आचार्य्याः संगृहीतवान्। प्रारब्धेतरपूर्वपापमखिलं प्रामादिकं चोत्तरं न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डश्च नः धीपूर्वोत्तरपाप्मनामजननाजातेऽपि तनिष्कृते कौटिल्ये सति शिक्षयाप्यनघयन् क्रोडीकरोति प्रभुरिति**॥३७॥**
नारी वा पुरुषो वापि प्रपद्य शरणं हरिम्।
तत्र चैकान्त्यवृत्त्यैव गच्छतां भुवि भाव्यताम्॥३८॥
सकृदेव कृतो न्यासो वृत्तिर्भवति शाश्वती।
तथापि तन्मूलतया तस्यास्तादात्म्यमीरितम्॥३९॥
नारीति। सकृदेवेति च। न्यासः प्रपत्तिः सकृदेव भवेत्। आवृत्तिर्नास्तीत्यर्थः। वृत्तिस्तु शाश्वती विहिताचाराद्यात्मिका वृत्तिस्तु आप्रायाणादावर्तनीया। एवमनुवृत्तितया च भिन्नयोरैक्यव्यपदेशो मूल आविर्भाविनिबन्धन इत्याह। तथापीति तन्मूलतया न्यासमूलतया तस्या वृत्तेस्तादात्म्यं न्यासरूपत्वमीरितम्॥३८॥३९॥
ईशे न्यस्तभराणां हि कर्त्तव्यं नास्ति किंचन।
यद्यस्ति शुद्धमैच्छन्तत्सामान्यमिति यौक्तिकाः॥४०॥
वृत्तेरवश्यकर्त्तव्यतामुक्का प्रपन्नस्य कृतकृत्यत्वात् कर्त्तव्यत्वं न किञ्चिदस्तीति मतं कुतर्कमूलमित्याह-ईश इति। ईशे न्यस्त भराणां किञ्चनं कर्त्तव्यं नास्ति भगवन्न्यस्तमरतया कृतकृत्य-
त्वात्कर्त्तव्यमेषां नास्तीत्यर्थः। यद्यस्ति अस्ति चेत्, शुद्धं तत्राप्यैच्छमेव। सामान्यं सर्वसाधारणं देवतान्तर्याम्पाराधनरूपम् अकरणे प्रत्यवायरहितं सर्ववर्णाश्रमसाधारणं दीपारोपणमालाकरणादिरूपमिति पदत्रयार्थः। इति यौक्तिका वदन्ति न प्रामाणिका इत्यर्थः। व्यामिश्रान्वयेऽपि पारमैकान्त्यभङ्गाभावात्। नित्यनैमित्तिकानुष्ठानस्य उपायत्वाभावेन कृतकृत्यताभङ्गाभावात्। अननुष्ठाने च तेषां चित्तकालुष्यजननेन तदजननार्थमवश्यानुष्ठाने उपायत्वाच्च वृत्त्यादेरप्यकरणप्रसङ्गात्। तदकरणे तन्मूलतया सर्वासामपि क्रियाणां मूलाकरणादवद्यानन्वयप्रसङ्गादितः पूर्वं कैश्चिदपि वैष्णवमर्य्यादानुप्रविष्टैरकृतशौचाचमनैर्भगवदाराधनकरणाद्यदर्शनात्प्रत्युतनियतेरेव, न हीनवर्णानधिकृतकल्पेन भगवदाराधनाद्यनुष्ठानदर्शनाच्च नित्यनैमित्तिकाद्यनुष्ठानस्य सम्यङ्नयनिर्णीतार्थप्रमाणमूलत्वात्। केवलं युक्तिमूलं यद्यस्ति शुद्धमैच्छं तत्समान्यमिति मतमनादरणीयमित्यर्थः**॥४०॥**
दृप्ताः प्रपद्य लक्ष्मीशं चपला मुक्तमानिनः।
प्राप्यान्तमपि देहस्य च्यवन्त्युज्झितवृत्तयः॥४१॥
निर्भरत्वानुसन्धानजनितौद्धत्येन परित्यक्तवृत्तीननुशोचनिप्ता इति। चपलाः विषयान्तरमनोरथाः। लक्ष्मीशं प्रपद्यप्ताः भरन्यासबलानुसन्धानेन अकुतोभयाः। मुक्तमानिनः मुक्तानात्मनो मन्यमानाः। उज्झितवृत्तयोऽसन्तः। देहानामन्तं .प्यापि च्यवन्ति-च्युता भवन्ति**॥४१॥**
अथैतत्परमर्षीणां ज्ञेयं तत्त्वविदां मतम्।
दास्यं हि शुद्धंमिश्रंवा व्यामिश्रंचोदितं पृथक्॥४२॥
अतो यावद्देहं यथाधिकारं शुद्धं व्यामिश्रं भगवदाराधनात्मकं कर्मावश्यमनुष्ठ्येमित्याह-अथेति। तत्त्वविदां परमर्षीणां मतमेतत् ज्ञेयमवश्यं ज्ञातव्यम्तत्किमित्यत आह। दास्यमित्यादिना शुद्धं व्यामिश्रं वा दास्यम्। आमुक्ति मोक्षपर्य्यन्तं पृथक् चोदितमेकायनैः शुद्धं त्रैविद्यैर्व्यामिश्रं यथासम्बन्धं शुद्धं भगवद्दास्यात्मकं यावदेहपातमनुवर्त्तयमित्यर्थः**॥४२॥**
सामान्या च विभक्ता च वृत्तिः सर्वस्य देहिनः।
दुस्त्यजां नियतामेवमिमां प्रत्यवधार्य्यताम्॥४३॥
सामान्येति। सामान्यादिर्देहिनः वृत्तिः सामान्या देहसाधारणी विभक्ता वर्णाश्रमप्रतिनियता च भवति। एवंभूतां नियताम् अवश्यं कर्त्तव्यम् अत एव दुस्त्यजाम् इह वृत्तिं प्रति अवधार्य्यताम्**॥४३॥**
यथा यथा निषेवेत सतो वृद्धान्निरन्तरम्।
तथा तथास्य वै वृत्तिर्निरपाया हि वर्द्धते॥४४॥
वृत्तिवैकल्याभावश्च सत्सेवया भवतीत्याह-यथेति। सतः परमैकान्तिनो वृद्धान्नियतमविच्छेदेन यथायथा येनयेन प्रकारेण सेवते तथातथा तेनतेन प्रकारेण अस्य वृत्तिर्निरपाया अपायरहिता सती अभितो वर्द्धते स्वस्य स्वामिमतानाञ्च वर्द्धत इत्यर्थः**॥४४॥**
वीर्य्यं स्वकर्मधीर्दृष्टिस्तेजोऽकः शक्तिरर्चनम्।
बलं वैराग्यमैश्वर्य्यं सत्सङ्गः षड्गुणा हि सा॥४५॥
विरुद्धवर्जनसहितानां वृत्तीनां षाड्गुण्यमेदंतिरूपयति वीर्य्यमिति। स्वकर्म्मविहिताचारोवीर्य्यम्। दृष्टि धीर्ज्ञानम्अंको लक्ष्मतेजः। अर्चनं भक्तिः। शक्तिर्वैराग्यम्। निन्द्यवर्जनम्
बलम्। सत्सङ्गः सतां सेवा। ऐश्वर्यमेवं सा वृत्तिः षड्गुणा हि अतो वृत्तिमाश्रितः षाड्गुण्यपरिपूर्ण इत्यर्थः**॥४५॥**
सेव्योऽयं कर्महस्तांघ्निर्ज्ञानदृष्टिर्भजाननः।
सत्सेवनशिरा धर्मोवैराग्यौजाः सुलक्षणः॥४६॥
सेव्य इति। कर्मविहिताचार एव हस्तावङ्घ्री पादौ च यस्य स तथोक्तः। ज्ञानं दृष्टिरेव दृष्टी नेत्रे यस्य स तथोक्तः। भजो भक्तिरेवाननं सुखं यस्य स तथोक्तः। सत्सेवनं सत सेवनमेव शिरो यस्य ससत्सेवन शिराः वैराग्यं निन्द्यवर्जनमोजो यस्य स वैराग्यौजाः। सुलक्षणः शोभनं लक्षणं लक्ष्म यस्यासौ सुलक्षणः। श्लिष्टरूपकमिदम्। अयं धर्मः सेव्य अनेनाराध्यत्वेन रूपणं कृतमित्यर्थः**॥४६॥**
वदन्तोऽपि गुणान्विष्णोः कुर्वन्तोऽपि च तत्क्रियाः।
मन्दपुण्या न विन्दन्ति पारमैकान्त्यसम्पदम्॥४७॥
वदन्त इति। तत्क्रियाः भगवद्धर्मान् सत्यपि भगवद्गणे सद्धर्मानुष्ठाने च सति पुण्यवन्तः पारमैकान्त्ये तिष्ठन्तीत्यर्थः॥४७॥
सम्भूय च कुले श्लाघ्ये सर्वान्वेदानधीत्य च।
विधाय च महत्कर्म विष्णोर्दास्यं हि दुर्लभम्॥४८॥
सम्भूयेति। विशिष्टकुले जन्म सर्ववेदाध्ययनं दुष्करधर्मानुष्ठानं वा न पारमैकान्त्यप्रयोजकमित्यर्थः**॥४८॥**
सतां निषेवणं वापि जननं वा सतांकुले।
विविक्तमथवा ज्ञानं विष्णोर्दास्यावलम्बनम्॥४९॥
किं तर्हिपारमैकान्त्यनिमित्तमित्यत आह-सतामिति। सती निषेवणंसतांपरमैकान्तिनां कुले जन्मनिमित्तसंशय-
विपर्ययेभ्यो व्यावृतं ज्ञानं वा विष्णोर्दास्यावलम्बनमाधारः कारणमिति यावत्॥४९॥
अस्वतन्त्राः सदा नार्य्यःस्थिता गुर्वादिशासने।
वर्जयेयुर्विरुद्धानि यत्किंचिद्धर्मसंश्रयाः॥५०॥
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपासन3मित्यादिभिः स्त्रीणां पृथग्धर्मनिषेधात् अस्वतन्त्रतया आचार्यनियमने स्थित्वाविरुद्धवर्जनपूर्वकं स्वोचितयत्किञ्चिद्धर्मानुष्ठानेनापि वृत्तिः पूर्णा भवतीत्याह-अस्वतन्त्रा इति। नार्य्यः स्त्रियः गुर्वादिशासन इत्यत्रादिशब्देन पतिपित्रादयो गृह्यंते॥५०॥
तूष्णीं प्रायाः क्रियाः स्त्रीणां मन्त्रश्रावणबोधने।
वाचनञ्च परेऽन्येऽपि धारणं चार्चने पुनः॥५१॥
तूष्णीं प्राया इति। स्त्रीणां क्रियाः तापादिसंस्काराःतूष्णीं प्रायाः अमन्त्रका होमादिशून्या इत्यर्थः। मन्त्रश्रावणबोधने मन्त्रस्य श्रावणं तदर्थज्ञापनश्च ऋषय इच्छन्तीति शेषः। परे केचन ऋषयस्तु वाचनमपीच्छन्ति। अन्ये तु मन्त्रस्य धारणमपीच्छन्ति। अर्चने पुनः आराधने तु प्रकारभेदोऽस्तीति शेषः॥५१॥
भर्तुरासनदानाद्यैः स्रापनालंक्रियादिभिः।
यथा चाभ्यवहाराद्यैः परिचय हरेस्तथा॥५२॥
प्रकारभेदमाह-भर्तुरिति। भर्तुः पत्युः आसनदानाद्यैः आसनप्रदानादिभिः स्नापनालंक्रियादिभिश्चयथा परिचर्य्या भवति तथैवाभ्यवहाराद्यैरुपचारैश्च परिचर्या भवति। स्त्रीणामिज्या तु अमन्त्रकैः केवलोपचाररूपैरित्यर्थः॥५२॥
यद्वा परमसंस्काराः प्राप्या गुणसमानतः।
सर्वत्र हरिरेवार्च्योनाग्निकर्मेति केचन॥५३॥
एवं पुंसां समं त्रिकालाग्निकर्म पूर्वोक्तास्तापादिसंस्काराः स्त्रीणांतूष्णीं प्राया इत्युक्त्वा इदानीं सर्वेषामपि सर्वेष्वपि संस्कारेषु भगवदर्चनमेव पूर्वं कर्त्तव्यं न होमादिकमिति केषाञ्चित् पक्षमाह-यद्वेति। परमसंस्काराः तापादयः सर्वत्र सर्वेष्वपि संस्कारेषु॥५३॥
परमैकान्तिनां नित्या या वृत्तिर्विहिता गुरौ।
तदभावे तु तत्पुत्रे गुर्वर्चा दैवतेषु सा॥५४॥
परमैकान्तिनामिति। परमैकान्तिनां आचार्य्यविषये या वृत्तिर्विहिता सा वृत्तिस्तदभावे गुर्वभावे तु तत्पुत्रगुर्वर्चादैवतेषु विहिता आचार्ये विहितावृत्तिराचार्य्याभावे आचार्य्यपुत्रे आचार्यस्याचार्य्येआचार्याराध्यभगवद्विग्रहे वा कर्त्तव्येत्यर्थः॥५४॥
सर्वेषां याग एवायं सामान्यो मुनिभिः स्मृतः।
अभ्येत्यप्रणिपत्याग्रेदेवायात्मनिवेदनम्॥५५॥
सर्वेषामिति। अभ्येत्य आभिमुख्येनागत्य भगवतः पुरस्तात्प्रणम्य देवाय भगवतो आत्मनिवेदनम् आत्मसमर्पणमितियत् अयं सर्वेषां वर्णानां सामान्यः साधारणो यागो यजनं यथा॥५५॥
सर्वेषामुपचाराणामर्घ्यंपरममुच्यते।
कृतेनैकेन तेनैव सर्वमेव कृतं भवेत्॥५६॥
सर्वेषामिति। सर्वेषामप्युपचाराणां मध्ये अर्घ्यं परमं श्रेष्ठमुच्यते। कृते समर्पिते सति। तेनार्घ्यैणैकेनैव सर्वमप्यचारजातं कृतं भवेत् देशकालकरणादिवैगुण्यादशक्त्या अज्ञानेन वा
पूर्णानुष्ठानासमर्थानामपि आराधनैकदेशभूतकेवलार्घ्यदानमात्रेणापि आराधननिष्पत्तिर्भवितीत्यर्थः॥५६॥
अर्च्योऽर्चायां हरिर्नित्यं तदभावे तु कुत्रचित्।
पुष्पेणार्घ्येण हविषा नत्या स्तुत्यापि वा परम्॥५७॥
अर्च्य इति। हरिरर्चायामेव नित्यमर्च्यः। तदभावे अर्चाबिम्बाभावे कुत्रचिदग्निसूर्याम्बुगगनादिष्वर्च्यः। केन प्रकारेणेत्यत आह पुष्पेणेति। परमिति पदं केवलार्थकं पुष्पेणेत्यादिना तृतीयान्तेन सर्वेणाप्यन्वेति पुष्पादिहविःस्तुतिनत्यादिष्वेकमेव तदाराधनमित्यर्थः। अनेन भगवतः स्वाराध्यतोक्ता॥५७॥
शालग्रामशिलायांतु पूजनं स्नापनादपि।
सा हि दिव्या हरेर्मूर्त्तिदर्शनादेव सिद्धिकृत्॥५८॥
शालग्रामेति। शालग्रामशिलायां स्नापनादिकं पूजनं स्नानप्रदानमाराधनमित्यर्थः। अन्यत्सुगमम्॥५८॥
प्राप्त्याभिगमनं दृष्ट्योपादानं नमसार्चनम्।
स्वाध्यायः कीर्तनाद्योगः स्वार्पणादपि केवलम्॥५९॥
पूर्णाभिगमनाद्यनुष्ठानासमर्थं प्रत्याह-प्रात्येति। प्राप्त्या भगत्सन्निधिप्राप्त्यावापि केवलम् अभिगमनं कृतं भवतीति शेषः। दृष्ट्या ज्ञानेन वापि केवलमुपादानं कृतं भवात। आराधनार्थपदार्थसंग्रहरूपत्वादुपादानस्य आत्मगुणानामप्याराधनौपयिकत्वात्तेषु ज्ञानस्य प्राधान्यादिति भावः। नमसा नमस्कारेण वापि केवलम्अर्चनमिज्या कृता भवति। कीर्तनाद्भगवन्नामकीर्त्तनादपि वा केवलं स्वाधायः कृतो भवति। स्वार्पणादात्मसमर्पणादपि केवलं योगः कृतो भवति ‘नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्’। इत्युक्तं भगवद्धर्ममाहात्म्यमनुसन्धेयम्॥५९॥
एवं विद्वानेकदापि कुर्वन्सन्पाञ्चकालिकः।
कृतम्भवति वा सर्वमिज्ययैव हि केवलम्॥६०॥
एवमिति। एवमुक्तप्रकारेण एकदा एकस्मिन्काले दिवसे वापि पञ्चकाले सर्वेषां वर्णानां सामान्यः पाञ्चकालिको भवति अपाञ्चकालिकप्रयुक्तास्पृश्यत्वादिरहितो भवतीत्यर्थः। पूजयैव केवलं केवलभगवदिज्ययैव वा सर्वमभिगमनादिकं कृतं भवति। इज्यायामेवाभिगमनस्य प्रथमाङ्गतयानुप्रविष्टत्वात् भूतशुद्ध्यादिना आराधनोपयुक्तशरीरादिसम्पादनेन उपादानस्याप्यनुप्रविष्टत्वात्। मन्त्रानुसन्धानरूपेण स्वाध्यायस्याप्यनुप्रविष्टत्वात् तमेव भगवन्तं सर्वेश्वरमात्मनः स्वामित्वेनानुसन्धायात्यर्थप्रियविशदतमप्रत्यक्षरूपानुध्यानेन ध्यायन्नासीतेति नित्योक्तप्रक्रियया योगस्यापि प्रविष्टत्वाच्चेति भावः। एकदापि कुर्वन्नित्यस्यैवं वार्थः। तत्तत्कालविभागेनाभिगमनाद्यनुष्ठानाशक्यत्वावस्थायां पञ्चसु कालेष्वेकस्मिन्नेव काले अभिगमनादिपञ्चकं कुर्वन्नपि पाञ्चकालिको भवति॥६०॥
स्वाध्यायेनापि विदुषा सर्वं योगेन वा कृतम्।
पूजनेन गुरोर्वापि सताञ्चापि निषेवणात्॥६१॥
स्वाध्यायेनापीति। विदुषा इत्यस्यायं भावः। सकलेतरप्रतिनिधितया सङ्कल्पेतरप्रतिनिधिस्वाध्याययोगगुरुपूजनसत्सेवास्वन्यतरानुष्ठानेनापि अभिगमनादिकं सर्वमनुष्ठितकल्पं भवति॥६१॥
विशुद्धं वैष्णवं विम्बं गृहीत्वा न्यासतत्त्ववित्।
सलिले देवमावाह्याभिषिञ्चेत्स्थापनं हि तत्॥६२॥
गुरुकल्पाशक्तानां स्थापने लघुकल्पमाह-विशुद्धमिति। न्यासतस्याविदाचार्यः सलिले देवं नारायणमावाह्य तेन सलि-
लेन अभिषिञ्चेदिति यत्तत्स्थापनमित्यन्वयः। विशुद्धमित्यमेन द्रव्यशुद्धिरुच्यते। यद्वा, अम्लादिना पञ्चगव्यस्थापनादिना आधेया शुद्धिरुच्यते। न्यासतत्त्वविदित्यनेन बिम्बे योगोपनिषदादिन्यासः मन्त्रन्यासश्चाभिपेतः॥६२॥
महाभागवतो मन्त्रैः शुद्धैर्यदभिषिंचति।
बिम्बं सर्वापचाराणां प्रायश्चित्तमिदं परम्॥६३॥
संप्रोक्षणे लघुकल्पमाह-महाभागवत इति। महाभागवतः शुद्धैरव्यामिश्रैर्मन्त्रैः विम्बमभिषिञ्चतीति यत्सर्वापचाराणामिदं परं प्रायश्चित्तं सर्वेषु संप्रोक्षणनिमित्तेष्विदं श्रेष्ठं प्रायश्चित्तमित्यर्थः॥६३॥
न परैः सङ्करं कुर्यात्पात्राणां यज्ञकर्मणि।
कांस्यानां भोजने पाके मृन्मयानां विशेषतः॥६४॥
नेति। यज्ञकर्मणि भगवदाराधने भोजने पाके च विनियुक्तानां कांस्यानां विशेषतो मृन्मयानाञ्च पात्राणां परैरन्यत्र विनियुक्तैः पात्रैः सह सङ्करं न कुर्यात्॥६४॥
शुद्धव्यामिश्रपात्राणां न कुर्याच्च परस्परम्।
व्यामिश्रे शुद्धशेषं स्यात्तच्छेषं न शुचौ क्वचित्॥६५॥
शुद्धेति। शुद्धक्रियाविनियुक्तानि पात्राणि शुद्धपात्राणि व्यामिश्रक्रियाविनियुक्तानि पात्राणि व्यामिश्रपात्राणि तेषां परस्परं सङ्करं न कुर्यात्। व्यामिश्रे व्यामिश्रक्रियाविनियुक्तपात्रे शद्धशेषं स्यात् प्रक्षेप्यमिति शेषः। तच्छेषं व्यामिश्रशेषं शुचौ शुद्धक्रियाविनियुक्तपात्रे क्वचिदपि प्रक्षेप्यं न स्यात्। शुद्धशेषं शुद्धक्रियाशेषभूतं पात्रं व्यामिश्रं व्यामिश्रकर्मणि विनियोक्तव्यं स्यात्तच्छेषं व्यामिश्रक्रियाशेषभूतं पात्रं शुचौ शुद्धकर्मणि क्वचिदपि न विनियोक्तव्यं स्यादित्यर्थः॥६५॥
सतां पादोदकं पात्रे काञ्चने मृन्मयेऽपि वा।
पावनं धारयेन्नित्यं प्रच्युताद्यैरदूषितम्॥६६॥
सतामिति। प्रच्युताद्यैर्यदूषितं प्रच्युतादीन्वक्ष्यति। तैरदूषितम् अस्पृष्टं प्रच्युतादि पादोदकामिश्रितमिति वार्थः॥६६॥
सन्तोनुपनतारब्धविलयात्यन्तनिर्मलः।
अशुद्धैरतथाभावान्नाश्लिष्येयुः कथञ्चन॥६७॥
न केवलं शुद्धपात्राणामेव तदन्यैः सङ्करः परिहर्त्तव्यः अपितु सतामसद्भिः सङ्करः परिहर्त्तव्य इत्याह-सन्त इति। अनुपनतस्य सञ्चितस्य प्रारब्धस्य च विलयेन अत्यन्तनिर्मलाः। प्रारब्धविलयोऽप्यत्र अनभ्युपगतप्रारब्धप्रतियोगिको मन्तव्यः अन्यथा देहिनः सहवर्त्तमानानां यावत्प्रारब्धविलयायोगात्। अनुपनतारब्धविलयात्यन्तनिर्मलाः सन्तोऽपि अशुद्धैर्नाश्लिष्येयुः। कुतः? अतथाभावात् अशुद्धानां तथाभूतत्वादनुपनतारब्धविलयात्यन्तनिर्मलत्वाभावादित्यर्थः। कथञ्चनेत्यनेन नवधा सङ्करोऽपि परिहर्त्तव्य इत्युच्यते चेदित्युक्तं ‘नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः सहेति’। अनुपनतारब्धेत्यत्र अनुपनतशब्दश्च गोबलीवर्दन्यायात्प्रारब्धेतरपूर्वपापपरः प्रामादिकोत्तराद्यपरो वा॥६७॥
कृत्वा मन्त्रान्वयं तत्र विवाहं परिवर्जयेत।
वैवाहिकोऽन्वयः पूर्वो न तु मन्त्रं निवारयेत्॥६८॥
कृत्वेति। मन्त्रान्वयं कृत्वा आचार्यात् मन्त्रं गृहीत्वेत्यर्थः। तत्र आचार्य्यगृहे विवाहं परिवर्जयेत्। तत्कन्याप्रतिग्रहादि वर्जयेदित्यर्थः। पूर्वमन्त्रं प्रतिग्रहात्पूर्वो वैवाहिक सम्बन्धस्तु मन्त्रं न निवारयेत्। मन्त्रसम्बन्धानन्तरं विवाहो न कर्त्तव्यः विवाहानान्तरं तु मन्त्रे सम्बन्धो न निषिद्ध इत्यर्थः॥६८॥
न्यासस्य सर्वयोगस्य शुद्धस्यात्यन्तिकस्य च।
अन्यादृशस्य च विधेर्नानुवन्धं परे विदुः॥६९॥
मतान्तरमाह-न्यासस्येति। सर्वयोग्यस्य सर्वाधिकारिकस्य शुद्धयोगस्य व्यामिश्रस्य अनात्यन्तिकस्य चेत्यर्थः। विधेर्वैवाहिकविधेश्चपरे केचिन्मुनयः अनुसम्बन्धं न विदुः। विवाहानन्तरमपि न मन्त्रपरिग्रहः कर्त्तव्य इति परेषां मतम्। अन्ये तु पुनरप्यस्य श्लोकस्य परमर्थं वर्णयन्ति न्यासवैवाहिकयोःपरस्परनिरपेक्षत्वेन प्रतिबन्ध्यप्रतिबन्धकाभावरूपाद्यनुबन्धो नास्ति इति मन्त्रपरिग्रहानन्तरमपि विवाहो न निषिद्ध इति परेषामिति अत्र यत्प्रमाणाविरुद्धं तद्वाह्यम्॥६४॥
प्राप्तुंलक्ष्मीपतेर्दास्यं शाश्वतं परमात्मनः।
तमेव शरणं प्राप्य गच्छेदात्मविदं गुरुम्॥७०॥
प्राप्तुमिति। परमात्मनो लक्ष्मीपतेः शाश्वतं नियतं दास्यं कैङ्कर्य्यंप्राप्तुंलब्धुं तमेव लक्ष्मीपतिमेव शरणं प्राप्तुमिच्छुः आत्मविदम् आत्मज्ञं गुरुं गच्छेत् अभिगच्छेत् ‘तद्विज्ञानार्थं सगुरुमेवाभिगच्छेत्सभित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति’ श्रुतिरवानुसन्धेया॥७०॥
संवत्सरमुपासीत तमेव सुसमाहितः।
वर्षवातातपादीनां सोढायुक्तोऽस्य कर्मसु॥७१॥
संवत्सरमिति। संवत्सरमित्यत्यन्तसंयोगे द्वितीया। अस्य गुरोः कर्मसु केङ्कर्येषु युक्तो निरतः॥७१॥
गुरुरस्य परं स्थैर्य्यंशौचमास्तिक्यमार्जवम्।
ज्ञात्वा चान्यगुणान्सम्यक्संस्कारैर्योजयेत्ततः॥७२॥
तस्मै स विद्वानुपसन्नाय सम्यक्शान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति श्रुत्यर्थमाह। गुरुरिति। स्थैर्य्यमापत्स्वप्यविकलचित्तत्वम्। शौचं बाह्याभ्यन्तरशुद्धिः। आस्तिक्यं वेदोक्तेष्वर्थेषु दृढप्रत्ययशालित्वम्। आर्जवं वाङ्मनः कायानामैकरूप्यम् अन्यान् गुणान ‘अमानित्वमदम्भित्व’मित्यादिना गीतोक्तान् गुणाँश्च सम्यक् ज्ञात्वा ततस्तापादिभिः संस्कारैर्योजयेत्॥७२॥
अथ कञ्चिदनुग्राह्यमबुद्धं स्वयमेव वा।
परिगृह्य परं प्राज्ञः प्रापयेच्छरणं हरिम्॥७३॥
एवं प्रपन्नं शिष्यं तापादिसंस्कारैर्योजयेत्; इत्युक्त्वा अवश्यानुग्राह्यं कश्चित् उपसत्तिं कर्तुमजानन्तं कृपयाचार्य्यःस्वयमेव परिगृह्य भगवन्तं शरणं प्रापयेदित्याह-अथ कञ्चिदिति। अबुद्धम् अज्ञमुपसत्तिं कर्तुमजानन्तमित्यर्थः। परिगृह्य कृपया दृष्ट्या परमत्यर्थं परिगृह्येत्यर्थः॥७३॥
क्रमाच्च बुद्ध्यमानन्तं बोधनीयानि बोधयेत्।
कारयेत्करणीयानि प्रापयेत्परमां स्थितिम्॥७४॥
क्रमादिति। क्रमात्कालक्रमेण बुद्ध्यमानं जानन्तं पूर्वोक्तं शिष्यं बोधनीयान्याज्ञापनीयानि बोधयेत्। करणीयानि कर्त्तव्यानि कारयेत्। परमाम् उत्कृष्टां स्थितिमवस्थां प्रापयेत् परिग्रहदशायामबुद्धमपि शिष्यं परिगृह्य भगवन्तं शरणं प्रापयेत्। अनन्तरं क्रमेण शिष्यबुद्ध्युन्मेषानुसारेण अर्थपञ्चकविषयकं ज्ञानमुत्पाद्य वृत्तिमप्युपदिश्य अविकलतदनुष्ठापनेन तं परमैकान्तिनामग्रेसरं कुर्यादिति निर्गलितार्थः॥७४॥
अजिह्मा सात्त्विकी बुद्धिर्येषां शास्त्रावगाहिनी।
तेषां नारायणे भक्तिर्भवत्यव्यभिचारिणी॥७५॥
अवश्यानुग्राह्यत्वेऽपि भगवद्भक्त्युपयुक्तयथार्हज्ञानार्हत्वात्सात्त्विकमेव परिगृह्णीयादिति आशयेनाह-अजिह्मेति। अजिह्वाअवक्रायथार्थेत्यर्थः। सात्विकी सत्त्वगुणजन्या शास्त्रावगाहिनी शास्त्रार्थग्राहिणी अव्यभिचारणी देवतान्तराराध्याविषयतया बुद्धिः सत्त्वमूलतया शास्त्रतः सर्वस्मात्परं नारायणमवगम्य तत्रैवाव्यभिचारणीं भक्तिं करोतीत्यर्थः। नारायण इत्यनेन गतिसामान्यनयेन सदात्मादिशब्दानां नारायणे पर्य्यवसानं सुच्यते॥७५॥
येषां शास्त्रेषु गाढापि राजसी कुटिला मतिः।
तेषां न जायते भक्तिर्हरौ जातापि च स्खलेत्॥७६॥
येषामिति। येषां प्रतिशास्त्रेषु गाढा शास्त्रार्थविषयिण्यपि राजसी रजोमूला अत एव कुटिला अन्यबुद्धिरूपा तेषां हरौ भक्तिर्न जायते। जातापि उत्पन्नापि स्खलेदेव। च त्वेवकारार्थः। रजोमूलाया बुद्धेरन्यथा शास्त्रावगाहित्वादव्यभिचरितं भगवद्भक्तिजनकत्वं नास्तीत्यर्थः॥७६॥
तमसाभिप्लुता येषां शास्त्रेषु क्रमते न धीः।
न ते स्वात्मानमीशं वा बुध्यंते देहबुद्धयः॥७७॥
तमसेति। तमसाभिप्लुता येषां धीः शास्त्रेषु न क्रमते न चरति तेन स्वात्मानमीशं परमात्मानं वा बुद्ध्यन्ते कुतः देहबुद्धयः देहमात्रपर्य्यवसितज्ञानत्वात्तदतिरिक्तं स्वात्मानं तदीशितारं भगवन्तं च न जानन्तीत्यर्थः॥७७॥
लोभाद्वा यदि वा मोहाच्छिष्यं शास्ति न यो गुरुः।
नास्मात्संशृणुते यश्च प्रच्युतौ तावुभावपि॥७८॥
एवं नत्वस्य यथार्थशास्त्रार्थविषयकज्ञानजनकत्वं शास्त्रार्थ विषयकान्यथाज्ञानजनकत्वं विपरीतज्ञानस्याशास्त्रस्पर्शि-
तया तमसः शास्त्रसंस्पर्शिविपरीतज्ञानजनकत्वं चोक्तम्। सात्त्विक एव शिष्यतया परिग्राह्यो नेतरोऽपीति ज्ञापनाय लोभादिना स्खालित्ये शासितृत्वाभावे आचार्य्यस्य तच्छासनलङ्घने शिष्यस्य च प्रत्यवायमाह-लोभाद्वेति। यो गुरुर्नशास्ति यः शिष्यः अस्माच्छासितुराचार्य्यात् न शृणोति तावुभावाचार्य्यशिष्यो प्रच्युतौ॥७८॥
अपरीक्ष्य चिरं क्षेत्रं यः परं ज्ञानमावहेत्।
प्रमाद्यतः सुगोप्तव्ये परमार्थोऽस्य हीयते॥७९॥
अपरीक्ष्य मन्त्रप्रदानादिकं न कर्त्तव्यमित्याह-अपरीक्ष्येति। क्षेत्रं शिष्यरूपं ज्ञानबीजाधानस्थलं चिरं बहुकालमपरीक्ष्य परं तत्त्वं हितपुरुषार्थतया उत्कृष्टज्ञानमावहेत् ज्ञानरूपबीजावापनं कुर्यादित्यर्थः। सुगोप्तव्ये अत्यन्तगोपनीये मोक्षोपायभूते ज्ञान प्रमाद्यतः परमरहस्यमनधिकारिभ्य उपदिशत इत्यर्थः। अस्य उपदेष्टुराचार्यस्य परमार्थो हीयते अयं परमप्रयोजनाच्युतो भवतीत्यर्थः॥७९॥
न्यासे हि देहिनोऽपायैर्जायते प्रच्युतिः फलात्।
वारयत्याप्रशमनात्सा हि सद्व्यवहार्यताम्॥८०॥
प्रपन्नस्याप्यपायान्वये अत्र कैङ्कर्य्याख्यपुरुषार्थे अनधिकारो भवतीत्याह-न्यास इति। देहिनो न्यासे कृते सत्यपि अपायैः प्राकृतसंसर्गादिभिः फलात् अत्रत्यकैङ्कर्यफलात्प्रच्युतिर्भवेत्सा प्रच्युतिः आप्रशमनात् प्रायश्चित्तादिना प्रशमनपर्यन्तं सद्व्यवहार्य्यतां वारयति प्रपन्नोऽप्यपायान्वितः भगवत्कैङ्कर्य्येष्वनधिकारी भूत्वा शिष्टबहिष्कार्यो भवतीत्यर्थः॥८०॥
यज्ज्ञानपूर्वं न्यसनं मन्त्रेण गुरुणा हरौ।
स एव सर्वसंस्कारः प्राक्तस्मात्प्राकृता नराः॥८१॥
प्राकृतसंस्पर्शादिकं परित्याज्यमिति वक्ष्यन्प्राकृतानां लक्षणमाह-यदिति। गुरुणा आचार्य्येण ज्ञानपूर्वकं मन्त्रार्थज्ञानपूर्वकं मन्त्रेण शरणागतिमन्त्रेण हरौ भगवति न्यसनं शिष्यस्वरूपभरसमर्पणमिति यावत् स एव सर्वसंस्कारः सर्वविधसंस्कारोपिसर्वविधः संस्कार इति वा तस्मात् संस्कारात् प्राङ्नरः प्राकृत इत्युच्यते॥८१॥
प्राकृताद्यैः परिहृतो निवसेन्नासहायवान्।
वसँश्चाभ्यन्तरान्प्राज्ञः संसर्गान्परिवर्जयेत्॥८२॥
प्राकृताद्यैरिति। असहायवान् सहायरहितः प्राकृताद्यैः आदिशब्देन प्रच्युतपरिग्रहः। परिहतः सह तैः न निवसेत् सर्वदेशकालविषयेण परिहृतः सन्नपि प्राज्ञो बुद्धिमानाभ्यन्तरान्संसर्गान् एकशय्यासनादीन् परिवर्जयेत्॥८२॥
श्रद्धापूतमवैद्यस्याप्यन्नाद्यं तु कदाचन।
इज्यासु विनियुञ्जीत न श्राद्धे सति किंचन॥८३॥
श्रद्धेति अवैद्यस्य प्राकृतस्य श्रद्धापूतमप्यन्नाद्यं किंचन किंचिदपिअल्पमपि श्राद्धे सति अनापदि कदाचन कदाचिदपि इज्यासु न वियुञ्जीत। अन्नाद्यमित्यत्र अपक्वमेव विवक्षितम्। ‘पानीयं पक्वमन्नंच विशेषेण विवर्जयेदिति’ पक्वान्नस्यापद्यपि निषेधात्। श्रद्धापूतमित्यस्यायं भावः ‘श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्द्धषेः। मीमांसित्वोभयं देवाः सममन्नमकल्पयन्। तान् प्रजापतिरित्याह माकृध्वं विषमं समम्। श्रद्धा पूतं वदान्यस्य हतमश्रद्धयेतर’दित्यादिभिः श्रद्धापूतं पवित्रमित्युच्यते। तथाभूतमप्यवैष्णवान्नंपरित्याज्यमिति॥८३॥
गुणासहास्त्यजन्त्यार्य्या न सन्तश्चिरमंहसे।
दोषासहास्त्यजन्त्येव सन्तश्च श्रेयसे परान्॥८४॥
वैष्णवावैष्णवयोः परस्परत्यागे अविशेषेण शिष्टेऽपि हेतुफलभेदोऽस्तीत्याह-गुणेति। सतां श्रेयः फलमित्यर्थः॥८४॥
धर्मच्छद्मभृतो धर्मान् घ्नन्ति वेदपराङ्मुखाः।
वैदिकाभास्तथा वेदान्कृष्णैकान्त्यपराङ्मुखाः॥८५॥
असतां त्यागे तद्दोषदर्शनं हेतुरित्युक्त्वा तेषां दोषमेवाह-धर्मेति। वेदपराङ्मुखाः वेदबाह्याः धर्मच्छ्द्मभृतः चैत्यवन्दनादिधर्मकारिणः धर्माञ्ज्योतिष्टोमादीन्घ्नन्ति अनेन वेदबाह्यानां दोषः उक्तः। अथ वेदेष्वेव कुदृष्टीनां दोषमाह। वैदिकाभाइति वैदिकाभा न परमार्थतो वैदिकाः कृष्णैकात्न्यपराङ्मुखाः भगवदैकान्त्यविद्वेषिणः। तथा धर्म्मच्छद्मभृतः धर्म्मानिव वेदान् घ्नन्ति इत्यर्थः॥८५॥
य आत्मनां परो वेद्यस्तं विष्णुं वेदयन्ति यत्।
तद्वेदानां हि वेदत्वं यस्तं वेद स वेदवित्॥८६॥
सकलवेदतात्पर्यविषयभूतं विष्णुमविदित्वा अतथाभूतार्थमेव जानन्तो वेदाघातका एवेत्याशयेन वेदशब्दार्थमाह-य आत्मनामिति। आत्मनां चेतनानां यः परमः उत्कृष्टवेद्यो ज्ञातव्यो विष्णुः तं विष्णुं यद्यस्मात् कारणाद्वेदयन्ति इति तत्तस्मात् कारणात् वेदानां वेदत्वम् विष्णुं वेदयन्ति वेदा इति व्युत्पत्तिरुक्ता भवति। यः पुमान् तं विष्णुं वेद स पुमान्वेदवित्। अन्ये तु वेदघातका एवेति भावः॥८६॥
दर्शयन्त इव श्रेयो विप्लुतैर्हेतुभिर्बलात्।
च्यावयन्ति श्रुतिपथाद्दूरं बाह्याः स्थिरानपि॥८७॥
बाह्याः कुदृष्टयश्च क्रमेण वेदविश्वासविरोधित्वात् भगवत्कैङ्कर्यरुचिविघातकत्वाच्च परित्याज्य इत्याशयवानाह- दर्शयन्त इति स्थिरानपि श्रुतिपथाद्दूरंच्यावयन्तीत्यन्वयः॥८७॥
वैदिका इव चाप्यन्ये दर्शयन्तोऽन्यथा श्रुतेः।
अर्थमच्युतकैङ्कर्याच्च्यावयन्ति कुदृष्टयः॥८८॥
वैदिकाइति श्रुतेः अन्यथा अर्थं दर्शयन्तीत्यन्वयः॥८८॥
तस्मात्कुदृष्टिभिर्वाह्यैरप्रकम्प्यो गतव्यथः।
ऐकान्त्यममलं विष्णोरातिष्ठेत्परमं सुधीः॥८९॥
तस्मादिति। अप्रकम्प्यः स्वधर्म्माच्चालयितुमशक्यः। परमं सर्वोत्कृष्टं विष्णोरैकान्त्यमातिष्ठेत्॥८९॥
नास्तिकः संशयी मूढ इत्यदूरतरा नराः।
विज्ञाय लक्षणैस्तास्तु सम्यग्व्यवसितस्त्यजेत्॥९०॥
नास्तिक इति। अदूरतराः सन्निकृष्टाः नास्तिकसंशयिमूढानामति भेदो नास्तीत्यर्थः। सम्यग्व्यवसितः समीचीनव्यवसायवान्॥९०॥
मत्प्रत्यक्षन्तदेवास्ति नास्त्यन्यदिति निश्चिताः।
अर्थकामपराः पापा नास्तिका देहकिङ्कराः॥९१॥
नास्तिकानाह-मदिति निश्चिताः निश्चयवन्तः देहकिङ्कराः देहपोषणमात्रनिरता इत्यर्थः॥९१॥
नानाविधेषु ज्ञानेषु नराः संशयिनोऽधमाः।
निश्चयं नाधिगच्छन्ति लिङ्गमात्रधराः क्वचित्॥९२॥
संशयिन आह-ज्ञानेति ज्ञानेषु करणव्युत्पत्त्याज्ञानकरणसाधनेषु वाक्येष्वित्यर्थः। क्वचिदपि विषये निश्चयन्नाधिगच्छन्ति निश्चयं न प्राप्नुवन्ति। लिङ्गमात्रधराः वेषमात्रभूषणाः॥९२॥
देहात्मस्वर्गनरकपुण्यपापाविमर्शिनः।
गतानुगतिका मूढा नश्यन्ति पशुबुद्धयः॥९३॥
मूढानाह-देहेति। देहात्मेत्यादि अयं देह एतद्विलक्षण आत्मा एतादृशः अयं स्वर्ग ईदृशश्च नरकः। इदं पुण्यम् इदं पापमिति परामर्शशून्याः। गतानुगतिकाःपूर्वाचारित दुर्वर्त्मनीमनुसरताः॥९३॥
कुदृष्टयो बहुविधा वृथा वैदिकमानिनः।
तथा मिथ्यादृशो बाह्याः सर्वैरेवावृतञ्जगत्॥९४॥
कुदृष्टय इति। बहुविधाः निरीश्वराः, निर्द्धमाः, निर्गुणब्रह्मवादिनः, ब्रह्मविकारवादिनः, ब्रह्मण उपादानत्वमनिच्छन्त इत्यादयो बहुप्रकाराः। वृथा वैदिकमानिनः वृथैव आत्मनो वैदिकान्मन्यमानाः। तथा तद्वदुपहताः मिथ्यादृशी बाह्या वेदबाह्याश्वेत्येतैः सर्वैरेव जगदावृतम्। अतः सम्यक् परीक्ष्य तैः सङ्गं वर्जयेदिति भावः॥९४॥
वेदवेदाङ्गतत्त्वज्ञा नारायणपरायणाः।
धन्याः केचन तेभ्योऽपि तेषामादेशवृत्तिनः॥९५॥
नास्तिकादीनां बाह्यान्तानां पापिष्ठत्वं ज्ञापयितुं नारायणपरायणानां तदादेशवर्त्तिनां धन्यत्वं धन्यतमत्वञ्चदुर्लभत्वञ्चाह - वेदवेदाङ्गेति। साङ्गवेदतत्त्वज्ञानस्य फलं नारायणपरायणा इत्यनेनोच्यते। साङ्गानां वेदानां नारायणे निष्ठां ज्ञात्वैतज्ज्ञानगुणं तस्मिन्नेव परिनिष्ठिताः धन्याः केचनेत्यनेन दुर्लभत्वमुच्यते॥९५॥
आदिष्टाः पुण्ड्रमन्त्रार्चानामतापपराङ्मुखाः।
धूतावधूतनिर्द्धूतविधूतोद्धूतसंज्ञकाः॥९६॥
अथ विकलानाह-आदिष्टा इति। पुण्ड्रपराङ्मुखा धूताः। नामपराङ्मुखाः अवधूताः। अर्चापराङ्मुखा निर्धूताः। मंत्र पराङ्मुखा विधूताः तापपराङ्मुखाउद्धूताः। आदिष्टा उक्ताः पञ्चस्वपि परमसंस्कारेष्वेकैकविकलानामेव उक्ताः संज्ञा वेदितव्याः॥९६॥
आदिष्टा एव चान्यार्चामन्त्रपुण्ड्राङ्कनामकाः।
राक्षसासुरवेतालव्यालप्रेता नराधमाः॥९७॥
परमसंस्कारविरुद्धान्वयिनां नामान्याह-आदिष्टा एवेति। अन्यार्चनपराः राक्षसाः। अन्यमन्त्रनिरताः असुराः। अन्यपुण्ड्रधरा वेतालाः। अन्याङ्कधारिणो व्यालाः। अन्यनामधारिणः प्रेताः एते सर्वे नराधमा इत्यर्थः। भूतव्रता इत्यपरः पाठः॥९७॥
तथा स्वकर्मशास्त्रेशगुरुसत्सङ्गवर्जिताः।
ऊना हीनाः
स्त्रस्ता नष्टा दग्धा ज्ञेयास्समाख्यया॥९८॥
भिन्नोऽन्यनाथो भिन्नोऽन्यफलो भिन्नोऽथनिन्द्यकृत्।
भग्नोऽन्यदेशिकादेशोऽनृतोऽन्यजनसंश्रयः॥९९॥
तथेति। स्वकर्मविहिताचारः तद्विवर्जिता ऊनाः। शास्त्रं दृष्टिः। तद्विर्जिता हीनाः। ईशवर्जिताः स्त्रस्ताः। गुरुवर्जिता नष्टाः।सत्सङ्गवर्जिता दग्धाः। समाख्यया नाम्ना ज्ञेयाः। स्वकर्मविवर्जितानामनादिसंज्ञा इत्यर्थः॥९८॥९९॥
निहीनान् प्राकृतेभ्योऽपि प्रच्युतान्परिवर्जयेत्।
भक्तानाराधयन्विष्णोः प्राप्नोति परमम्पदम्॥१००॥
इति श्रीनारदपञ्चरात्रभारद्वाजसंहितायां परिशिष्टे तृतीयोऽध्यायः॥३॥
__________
निहीनानीति।प्राकृतेभ्यो निहीनानपकृष्टान्प्रच्युतान्परिवर्जयेत्सवासनं त्यजेत्। प्राकृतान्प्रच्युताँस्त्यक्त्वा विष्णोर्भक्तानाराधयन् परमम्प्राप्नोति॥१००॥
इति श्रीभारद्वाजसंहितायां परिशिष्टटीकायां तृतीयोऽध्यायः॥३॥
__________