उपासितगुरोर्वर्षं विष्णोर्दास्यमभीप्सतः।
विहिताः पञ्च संस्कारा युक्तस्यैकान्त्यहेतवः॥१॥

अथ भगवदाराधनस्य संस्कारपञ्चकसंस्कृताधिकारिकत्वादनेनाध्यायेन तत्संस्कारमाह-उपासितेति। वर्षमुपासितगुरोः।अत्यन्तसंयोगे द्वितीया युक्तस्य शिष्यगुणयुक्तस्य**॥१॥**

तापः पुण्ड्रं तथा नाम मन्त्रो यागश्च पञ्चमः।
अमी हि पञ्च संस्काराः पारमैकान्त्यहेतवः॥२॥

संस्काराननुक्रमते- ताप इति। परमसंस्कारा गर्भाधानादिभ्यः संस्कारेभ्योऽपि अविलम्बेन मोक्षप्रदतया अत्यन्तमुत्कृष्टाः। पारमैकान्त्यहेतवः परमैकान्तित्वप्राप्तिकारणानि**॥२॥**

तापयिष्यन् गुरुः शिष्यं चक्राद्यैर्हेतिभिर्हरेः।
पुण्येऽह्नि नियतः स्नात्वा स्नातं मन्त्रजलाप्लुतम्॥३॥

तापयिष्यन्निति। तापयिष्यन् तप्तान् करिष्यन्। हेतिभिरायुधैः**॥३॥**

ऋचा दक्षिणतः कुर्याद्वैष्णव्या बद्धकौतुकम्।
ततः समर्चयेद्देवं स्वार्चायां स्थण्डिलेऽपि वा॥४॥

ऋचेति। वैष्णव्या ऋचा विष्णुप्रकाशिकया ‘विष्णोर्नुक’ मित्यादिकया दक्षिणतः दक्षिणकरे बद्धकौतुकं बद्धकङ्कणं कुर्यादिति पूर्वश्लोकेनान्वयः। ततः अनन्तरं स्वार्चयां स्वाराध्यबाह्यबिम्बेस्थण्डिलेऽपि वा देवं समर्चयेत् आराधयेत्**॥४॥**

पश्चिमे स्वेन मन्त्रेण कृत्वाग्नेः स्थापनादिकम्।
मूलमन्त्रेण हुत्वाज्यं ततः प्रत्यक्षराहुतीः॥५॥

पश्चिम इति। पश्चिमे भगवतः पश्चिमभागे प्रत्यङ्मुखतयावस्थितस्य भगवतः पुरत इत्यर्थः। स्वेन मन्त्रेण स्वसूत्रोक्तवि-

धानेन अग्नेः स्थापनादिकम् अभिप्रतिष्ठापनादिकं गृह्यते। मूलमन्त्रेण श्रीमदष्टाक्षरमन्त्रेण आज्यं हुत्वा ततस्तदनन्तरं प्रत्यक्षराहुतीर्हुत्वा एकैकाक्षरेण एकैकामाहुतिं हुत्वेत्यर्थः**॥५॥**

एकां पुनश्च सर्वेण पौरुषीभिश्चषोडश।
हुत्वा त्रीन्विष्णुगायत्र्या वैष्णव्या चाथ हेतिभिः॥६॥

एकामिति। पुनश्च पुनरपि सर्वेण सकलेन श्रीमदष्टाक्षरेण एकामाहुतिं हुत्वेत्यर्थः। पौरुषीभिः पुरुषसुक्तस्थाभिः षोडशऋग्भिः षोडशाहुतीर्हुत्वा विष्णुगायत्र्या ‘नारायणाय विद्महे’ इत्यादिकया त्रिर्हुत्वा वैष्णव्या ‘विष्णोर्नुक’ मित्यादिकया ऋचा एकामाहुतिं हुत्वा अथ अनन्तरं हेतिभिः पञ्चायुधमन्त्रैर्हुत्त्वा**॥६॥**

हविर्निवेद्य देवाय तच्छेषेण तथाहुतीः।
अथोपसन्नेहैमानि ताम्राणि राजतानि वा॥७॥

प्रक्षाल्य पञ्चगव्येन मन्त्रतोयाप्लुतानि च।
बिम्बानि पूर्वहेतीनां स्वभागनिहितानि वै॥८॥

निधाय वह्नौ प्रत्येकं तत्रावाह्य स्वमन्त्रतः।
अर्घ्यं पाद्यं तथाचम्यं गन्धं पुष्पञ्च धूपकम्॥९॥

दीपञ्च दत्त्वाथाभ्यर्च्य प्रणम्याग्निसमप्रभम्।
आचार्यः स्वयमादाय नियुक्तो वाथ मन्त्रवित्॥१०॥

प्राङ्मुखस्योपविष्टस्य न्यसेद्वाहौ च दक्षिणे।
सुदर्शनं तथा वामे पाञ्चजन्यं स्वमन्त्रतः॥११॥

हविरिति। देवाय पूर्वमर्चिताय भगवते हविर्निवेद्य तच्छेषेण हविर्निवेदितशेषेण तथा आज्याहुत्युक्तक्रमेण आहुतीर्हुत्वा मूलमन्त्रेण ततः प्रत्यक्षरं पुनः सर्वेणैव पौरुषीभिः षोडशभि-

र्विष्णुगायत्र्यात्रिःवैष्णवैर्वा हेतिमन्त्रैश्व हुत्वेत्यर्थः। अथेति उपसन्नेशिष्ये उपसन्नेइत्यनुवादः। अर्चिताहनि इत्यपरः पाठः। अथनान्तरं हैमानि स्वर्णनिर्मितानि ताम्राणि ताम्रमयानि राजतानि रजतनिर्मितानि वा पूर्वंप्रथमं स्वभागनिहितानि देवस्य दक्षिणवामपार्श्वनिहितानि हेतीनां बिम्बानि चक्रादिकमुद्राः पञ्चगव्येन प्रक्षाल्य मन्त्रतोयाप्लुतानि कृत्वा प्रत्येकमग्नौ निधाय तत्र वह्निविनिहितचक्रादिमुद्रासु स्वमन्त्रतः चत्रादिमन्त्रेणावाह्य चक्रादिकमिति शेषः। चक्रमुद्रां वह्नौ निधाय तत्र सुदर्शनमावाह्य एवं पाञ्चजन्यमुद्रादिकमपि वह्नौ निधाय तत्र स्वमन्त्रेण पाञ्चजन्यादिकमावाह्येत्यर्थः इति श्लोकद्वयस्यार्थः। अर्घ्यमित्यादि। अर्घ्यादिभिरुपचारैः समभ्यर्च्य अथ प्रणम्य अग्निसमप्रभं सम्यक्तप्तं सुदर्शनमाचार्यः स्वमादाय नियुक्तः आचार्येण नियुक्तः अन्यो वा मन्त्रवित्ब्राह्मणास्योपविष्टस्य शिष्यस्य दक्षिणे बाहौ स्वमन्त्रतः ‘सुदर्शनमहाज्वाले’ ति मन्त्रेण सुदर्शनं न्यसेत्। ततोऽनन्तरं स्वमन्त्रतः। ‘पाञ्चजन्यनिजध्वाने’ ति मन्त्रेण वामे बाहौ पाञ्चजन्यं न्यसेदिति। श्लोकत्रयस्यार्थः**॥७॥८॥९॥१०॥११॥**

एवं गदां धनुः खड्गंललाटे मूर्ध्नि वक्षसि।
चक्रं वा शङ्खचक्रे वा धारयेत्सर्वमेव वा॥१२॥

एवमिति। एवं पंचरात्रोक्तेन क्रमेणैव गदां कौमोदकीं धनुः शार्ङ्गं खङ्गं नन्दकञ्चक्रमेण ललाटे मूर्ध्नि वक्षसि स्वमन्त्रेण न्यसेत्चक्रं वा केवलं चक्रमात्रञ्च धारयेत्। शंखचक्रद्वयमात्रं वा धारयेत्। सर्वमेव पञ्चायुधानि धारयेत्। अत्र व्यवस्थित विकल्पो वेदितव्यः**॥१२॥**

तन्त्रं समाप्य देवेशं सहशिष्यः प्रदक्षिणम्।
कृत्वा प्रणम्य सान्निध्यं प्रार्थ्य शेषं समापयेत्॥१३॥

तन्त्रमिति। तन्त्रंहोमतन्त्रं समाप्य सहशिष्यः शिष्यसहितो देवेशं प्रदक्षिणं कृत्वा प्रणम्य सान्निध्यं प्रार्थ्य याचनं कृत्वा शेषमिज्याशेषं समापयेत्**॥१३॥**

कुर्यात्सर्वत्र कर्मान्ते द्विजैः पुण्याहवाचनम्।
आचार्यस्यार्चनं चैव वासः स्रग्भूषणादिभिः॥१४॥

कुर्य्यादिति। कर्मादौ अन्ते सर्वत्र तापादौ सर्वसंस्कारान्ते विशेषं प्रायश्चित्ताहुतिकरणेन द्विजैर्विप्रैः सह पुण्याहवाचनं कुर्यात्। वासः स्रग्भूषणादिभिराचार्यस्यार्चनं कुर्याच्चैवेत्यत्र एवकारो भिन्नक्रमः। आचार्यस्यार्चनं कुर्यादेव। अङ्गेष्विद मत्यावश्यकमित्येवकरार्थः**॥१४॥**

सर्वमङ्गलसंयुक्तमिति चिह्नानि शार्ङ्गिणः।
धारयित्वा यथोत्साहं वैष्णवानभितर्पयेत्॥१५॥

सर्वेति। ‘सर्वमङ्गलसंयुक्तम्’ इति क्रियाविशेषणम्। सर्वमङ्गलसंयुक्तं शार्ङ्गिणः चिह्नानि आयुधानि धारयित्वा यथोत्साहं वैष्णवानभितर्पयेत् भोजनदक्षिणादानादिभिस्तत्प्रीणनं कुर्यात्**॥१५॥**

धारयिष्यंस्ततः शिष्यमूर्द्धपुण्ड्रान्यथाविधि।
पुण्येऽन्हि नियतः स्नात्वा पूर्ववद्वद्धकौतुकम्॥१६॥

उपवेश्याथ देवेशं भोगैर्दीपान्तमर्चयेत्॥
स्थण्डिलं कल्पयेत्पश्चात्पुरुषस्य प्रमाणतः॥१७॥

अथ पुण्ड्रसंस्कारमाह-धारयिष्यन्निति। ततः तापसंस्कारानन्तरं गुरुर्यथाविधि शिष्यमूर्द्धपुण्ड्रं धारयिष्यन्पुण्येऽहनि शुभदिवसे स्नात्वा पूर्ववत् ‘ऋचो दक्षिणतः कुर्याद्वैष्णव्या बद्धकौतुक’ मित्युक्तप्रकारेण कृतकौतुकं कृतकङ्कणम् उपवेश्य उप-

विष्टं कारयित्वा अथ देवेशं भोगैरापीठदीपोपचारपर्यन्तमर्चयेत्। पश्चादर्चनानन्तरं पुरुषस्य प्रमाणतः पुरुषप्रमाणेन स्थण्डिलं कल्पयेदिति श्लोकद्वयार्थः**॥१६॥१७॥**

स्थानानि सैकतान्यत्र वर्णचूर्णमयानि वा।
कुर्याद्वादश पूर्वादिचतुर्दिक्षु समान्तरम्॥१८॥

तथा मध्येऽस्य चत्वारि तेष्वभ्यर्चासनं पृथक्।
केशवादींस्तत्रतत्र वासुदेवादिकांस्तथा॥१९॥

प्रत्येकं च यथारूपं ध्यात्वा नामभिरावहेत्।
हविरन्तैरथार्घ्याद्यैरर्चयेत्तान्यथाक्रमम्॥२०॥

स्थानानीति। अत्र स्थण्डिले सैकतानि सिकतामयानि वर्णचूर्णानि वा स्थानानि ऊर्द्धपुण्ड्रस्थानानि पूर्वादिचतुर्दिक्षु द्वादश कुर्यात्। समान्तरमितिक्रियाविशेषणम्। समव्यवधानानि समानि अन्तराणि अवकाशा यास्मिन्कर्मणि तत्। समव्यवधानानि एकैकस्यां दिशि त्रीणि मिश्रयित्वा द्वादश स्थानानि कुर्यादित्यर्थः तथा समान्तराणीत्यर्थः। अस्य स्थण्डिलस्य मध्ये चत्वारि स्थानानि कुर्यात् तेषु षोडशसु स्थानेषु अभ्यर्चासनमर्चासनं च पृथक्पृथक् कुर्यात्। ततोऽनन्तरं तत्र स्थानेषु केशवादिकाँस्तथा वासुदेवादिकाँश्च प्रत्येकं यथारूपं ध्यात्वा तेषां नाममिरावहेत् पूर्वादिचतुर्दिक्षु कृतेषु द्वादशस्थानेषु केशवादिद्वादशमूर्तीस्तत्तदसाधारणरूपेण कृत्वा तत्तन्नामभिरावहेत्। मध्ये कृते स्थानचतुष्के वासुदेवादिचतुर्व्यूहांस्तत्तदसाधारणरूपेण ध्यात्वा ततन्नामभिरावहेदित्यर्थः। अथानस्त- रमर्ध्यादिभिरेतैरुपचारैस्तान्केशवादीन्यथाक्रममर्चयेदिति श्लोकत्रयार्थः**॥१८॥१९॥२०॥**

परीत्य सह शिष्येण सर्वांस्तान्प्रणिपत्य च।
उपविश्याथ शिष्याय प्रणिपत्योपसीदते॥२१॥

एषां नामानि रूपाणि यथावदुपदर्शयेत्।
शिष्यो हृदि समावेश्य तान्सर्वान्क्रमयोगतः॥२२॥

निर्घृष्य मृत्स्नां विधिवन्मूलमन्त्राभिमन्त्रिताम्।
आदायाङ्गुलिभिर्दद्याल्ललाटाद्यूर्द्धपुण्ड्रकान्॥२३॥

परीत्येत्यादिना। शिष्येण सह सर्वंस्तान्केशवादीन्परीत्य प्रदक्षिणीकृत्य प्रणिपत्योपविश्य अथ प्रणिपत्योपतिष्ठते शिष्याय तेषां केशवादीनां नामानि रूपाणि च यथावत् असङ्कीर्णमुपदर्शयेत् शिष्योऽपि सर्वांस्तान् केशवादीन् क्रमयोगतः उपदेशक्रमेण हृदि समावेश्य मृत्स्नां विधिवद्यथाविधि निर्घृष्य मूलमन्त्राभिमन्त्रितां कृत्वा तामंगुलिभिरादाय ललाटाद्यूर्द्धपुण्ड्रकान् ललाटादिस्थानूर्द्धपुण्डकान् दद्यादिति श्लोकत्रयस्यार्थः। निर्घृष्य मृत्स्नां विधिवदित्यत्रापेक्षितो विधिःब्रह्मरात्रेदर्शितः। “अधातु लक्षणोपेतां सुगन्धां सात्त्विकां शुभाम्। वामेऽस्त्रशोभिते हस्ते वाग्यतः प्रणवेन तु। निधाय जलमादाय गन्धद्वारेति सेचयेत्। अस्त्रमन्त्रेण रक्षाञ्च कृत्वा दशसु दिक्ष्वपि। तारमन्त्रेण संमिश्र्यमूलमन्त्रेण मन्त्रयेत्। नृसिंहबीजञ्च लिखेद्रक्षार्थंदोषशान्तये। शतधारेण मन्त्रेण तीर्थतोयञ्च निक्षिपेत्। तामेकीकृत्य तर्जन्या स्मृत्वा मम पदद्वयम्। विष्णोर्नुकेन मन्त्रेण मन्त्रयित्वा यथाक्रमम्। पञ्चोपनिषदैर्मन्त्रैर्मूलमन्त्रेण मन्त्रयेत्। द्वादशाक्षरमुच्चार्य प्रार्थयेदिष्टसिद्धये। सप्तभिर्वैष्णवैर्मन्त्रैर्मन्त्रयेत्सौख्यसिद्धये। मृदं शेतेरमन्त्रेण तर्जन्यां मूर्ध्नि विन्यसेत्। चतुश्चक्रधरं मां तु स्मृत्वा जाम्बूनदप्रभम्। ललाटे केशवायेति धारयेदूर्ध्वपुण्ड्रकम्। चतुःशंखधरं देवं नीलजीमूतसन्निभम्"॥२१॥२२॥२३॥

त्रयोदश द्वादश वा चतुरो वैकमेव वा।
नमोऽन्तैर्नामभिर्थ्यात्वा स्थापयेत्तत्र तत्र च॥२४॥

केशवादीन् द्वादशसु वासुदेवं त्रयोदशे।
केशवं वासुदेवं वा ललाटे केवलं न्यसेत्॥२५॥

व्यूहाँश्चतुर्षु तान्नत्वा सदा सान्निध्यमर्थयेत्।
अतो हि वैष्णवस्यांगं विष्णोरायतनं विदुः॥२६॥

हविर्निवेद्य देवाय गुरुः शेषं समापयेत्।
तत्र त्वाचार्य्यमभ्यर्च्य भोजयेद्वैष्णवानपि॥२७॥

अथ संख्याविकल्पमाह-त्रयोदशेति। त्रयोदश द्वादश वा चतुरो वा पुण्ड्रान् एकमेव वा पुण्ड्रं नमोऽन्तैर्नामभिर्धृत्वा द्वादशसु च पुण्ड्रेषु तत्र तत्र केशवादीन् स्थापयेत्। त्रयोदशे वासुदेवं स्थापयेत्। एकोर्द्धपुड्रपक्षे ललाटे केशवं वासुदेवं गलके न्यसेत्। चतुरूर्द्धपुण्ड्रपक्षे चतुर्षुर्द्धपुण्ड्रेषु व्यूहान्न्यसेत्। तान्केशवादीन्नत्वा सदा सान्निध्यमर्थयेत् याचेत। अतो हि एतस्माद्धि कारणात् वैष्णवस्याङ्गं शरीरं विष्णोरायतनं गृहं विदुः। अनन्तरं गुरुर्देवाय हविर्निवेद्य शेषं समापयेत्। ततोऽनन्तरं शिष्यः आचार्यमभ्यर्च्य वैष्णवान्भोजयेत्। इति श्लोकचतुष्टयार्थः। ‘नमो नारायणायेति मन्त्रमुच्चार्य धारयेत्। इन्द्रनीलमणिश्यामञ्चतुर्हस्तैर्गदाधरम्॥हृदयेऽसिधरायेति धारयेदंगुलाष्टकम्। चतुर्भुजं धनुष्मन्तं चन्द्रमस्सदृशप्रभम्॥गोविन्दायेति मन्त्रेण कण्ठे तु चतुरंगुलम्। चतुर्हलधरं देवं पद्मकिञ्जल्कसन्निभम्॥विष्णवे त्वेति मन्त्रेण धारयेद्दक्षिणोदरे। मुसलाखं महाविष्णुमरविन्दाभमेव च॥ मधुसूदनं मन्त्रेण धारयेद्दक्षिणं भुजे। चतुःखङ्गधरं देवमग्निसन्निभतेजसम्॥श्रिवि-

क्रमायेतिमन्त्रेण धारयेद्दक्षिणे गले। चतुवर्णधरं देवं तरुणादित्यसंनिभम्॥ वामनायेति मन्त्रेण वामकुक्षौ तु धारयेत्।पट्टिशायुधहस्तं च पुण्डरीकाक्षमेव च॥ श्रीधरायेति मन्त्रेण भुजे वामे तु धारयेत्। चतुर्भिर्मुरधरं भुजैर्विद्युत्समप्रभम्॥ हृषीकेशेति मन्त्रेण धारयेद्वामकन्धरे। पञ्चायुधधरं माञ्चसहस्त्रांशुसमप्रभम्॥ पद्मनाभेति मन्त्रेण पृष्ठे वै धारयेत् क्रमात्। पाशहस्तधरं देवं बालार्कशतसंनिभम्॥ दामोदरेति मन्त्रेण धारयेत्पश्चिमे गले। द्वादशाक्षरमुच्चार्य शेषं मूर्द्धनि विन्यसेत्॥ इत्येषां नामरूपाणि यथावदुपदर्शयेत्॥" इत्युक्तानि नामरूपाण्यप्युक्तान्येव दृष्टानि**॥२४॥२५॥२६॥ २७॥**

करिष्यन् वैष्णवं नाम वैष्णवाश्रयमेव वा।
पुण्येऽहनि गुरुः स्नात्वा पूजयित्वा जगद्गुरुम्॥२८॥

पूर्ववत्स्थण्डिलं कृत्वा पूर्ववत्सिकतामये।
षोडशे पीठमभ्यर्च्यावाहयेन्नामदेवताम्॥२९॥

अथ नामसंस्कारमाह-करिष्यन्निति वैष्णवं विष्णुसम्बन्धिवैष्णवाश्रयं भागवतसम्बन्धिदेवतां ध्यात्वा हविरन्तमर्चयेत् अर्ध्याद्यैर्हविःसमर्पणान्तैरुपचारैरर्चयेदिति श्लोकसार्द्धद्वयार्थः**॥२८॥२९॥**

भगवद्रूपिणं ध्यात्वा हविरन्तमथार्चयेत्।
उपपन्ने ततः शिष्ये कौपीनं कटिबन्धनम्॥३०॥

भगवदिति। ततोऽनन्तरं कौपीनं कटिबन्धनं द्वे नवे वस्त्रेच गुरवे निवेद्य शिष्ये उपपन्ने सति गुरुरपि तस्मै शिष्याय कौपीनादिकं तं शिष्यं ग्राहयेत्। कौपीनादिकं शिष्येण धृतं कुर्य्यादित्यर्थः। अथवा शिष्ये उपपन्नेसतिः कौपीनं कटिबन्धनं

नवे वस्त्रे निवेद्य भगवते निवेद्य शिष्याय दत्त्वाथ शिष्यं कौपीनादिकम् ग्राहयेत्**॥३०॥**

निवेद्य वस्त्रे च नवे तस्मै तं ग्राहयेद्गुरुः।
तच्छेषं गन्धमाल्यादि तथा चान्नं निवेदितम्॥३१॥

निवेद्येति। तथा कौपीनादिकवदेव तच्छेषं नामाधिदेवतापूजाशेषं गन्धमाल्यादि गन्धपुष्पादिसहितं निवेदितं नामाधिदेवतानिवेदितमन्नं च ग्राहयेत्**॥३१॥**

नाम दासादिशब्दान्तं श्रावयेत्केवलं तु वा।
परीत्य प्रणतोऽभ्यर्च्य देवतां हृदि निक्षिपेत्॥३२॥

नामेति। दासादिशब्दान्तं नाम श्रावयेत्। ‘केशव वासुदेव नारायण’ दास इत्यादि प्रकारेण भगवन्नाम अनन्तदासो भरणदास इत्यादिप्रकारेण भगवतो नाम श्रावयेत्। केवलं केशवो नारायणः अनन्तो बकुलाभरण इत्यादि प्रकारेण दासशब्दरहितं वा नामकुर्यादित्यर्थः परीत्येति। परीत्य नामाधिदेवतां प्रदक्षिणीकृत्य प्रणतः कृतप्रणामः। अभ्यर्च्य नामाधिदेवतां सम्पूज्य देवतां नामाधिदेवतां हृदि शिष्यहृदये निक्षिपेत्**॥३२॥**

हविर्निवेद्य देवाय तन्त्रशेषं समापयेत्।
शिष्यो देशिकमभ्यर्च्य वैष्णवान् परितोषयेत्॥३३॥

हविरिति। ततो देवाय हविर्निवेद्य शेषं समापयेत्। ततो गुरुमभ्यर्च्य वैष्णवान् परमैकान्तिनः परितोषयेत् भोजनदक्षिणादिना सन्तुष्टान् कुर्यादिति सार्द्धश्लोकार्थः**॥३३॥**

स्वयं ब्रह्मणि निक्षिप्तान्जातानेव च मन्त्रतः।
विनीतानथ पुत्रादीन संस्कृत्य प्रतिबोधयेत्॥३४॥

अथ मन्त्रसंस्कारमाह-स्वयमिति। अथ नामसंस्कारानन्तरं स्वयमाचार्यः मन्त्रतो जातान्मन्त्रसंस्कारेण पुनरुत्पन्नान् ब्रह्मणि निक्षिप्तान् पुत्रशिष्यान् संकृत्य संस्कारैः संस्कृत्य प्रतिबोधयेन्मन्त्रार्थं बोधयेत् मन्त्रसंस्कारसंग्रहः। संस्कृत्येत्य-नुवादः। न तु मन्त्रसंस्कारानन्तरं पुनः संस्कारो विधीयते किंतु नामादिसंस्कारचतुष्टयान्तरं मन्त्रार्थंबोधयेदित्यर्थः**॥३४॥**

अनुकूलेऽहनि शुभे गुरुः स्नात्वा समाहितः।
हुताग्निःपूर्ववच्छिष्यं निष्पाद्य कृतकौतुकम्॥३५॥

अथ मन्त्रसंस्कारप्रकारमाह-अनुकूल इति अनुकूले ग्रहनक्षत्रा द्यानुकूल्यवति शुभेऽहनि गुरुः स्नात्वा समाहितः सन् हुताग्निःकृतनित्योपासनः पूर्ववन्नामसंस्कार इव कृतकौतुकं धृतकङ्कणं शिष्यं निष्पाद्य दक्षिणतः कुर्याद्वैष्णव्या बद्धकौतुकमित्युक्तम्**॥३५॥**

ततः सम्पूज्य देवेशं पश्वादग्निंनिधाय वै।
स्वेन तन्त्रेण तत्राथ हुत्वा पूर्ववदाहुतीः॥३६॥

तत इति। ततोऽनन्तरं देवेशं सम्पूज्य पश्चात्पूजानन्तरं स्वेन मन्त्रेण स्वसूत्रोक्तविधानेन अग्निं निधाय अग्निं प्रतिष्ठाप्य अथ तत्र वह्नौपूर्ववदाहुतीर्हित्वा ‘मूलमंत्रेण हुत्वाज्यं ततः प्रत्यक्षराहुतीः। एकां पुनश्च सर्वेण पौरुषीभिश्च षोडश हुत्वा-त्रिर्विष्णुगायत्र्या वैष्णव्या चाथ हेतिभि’ रित्युक्तप्रकारेण हुत्वेत्यर्थः**॥३६॥**

स्थाने हेत्याहुतीनान्तु मूलमन्त्राहुतीः पुनः।
हविर्निवेद्य देवाय तच्छेषेण तथादुतीः॥३७॥

स शिष्योऽथ गुरुः कृत्वा साग्निंदेवंप्रदक्षिणम्।

प्रणम्य पुनरासीनः प्रणिपत्योपसेदुषः॥३८॥

संहारादिक्रमं कुर्याद्विधिवच्छोषणादिकम्।
अस्त्रमन्त्रेण रक्षाञ्च प्रणमय्य गुरूंस्ततः॥३९॥

न्यासाख्यं परमं मन्त्रं वाचयित्वाथ बोधयेत्।

स्थानेत्यादि। हेत्याहुतीनां स्थाने पुनर्मूलमन्त्राहुतीर्हुत्वा अथ हेतिभिरित्युक्तक्रमेण हेत्याहुतिस्थाने मूलमन्त्राहुती- र्हुत्वेत्यर्थः। ततो देवाय हविर्निवेद्य तच्छेषेण तथा मूलमन्त्रेण हुत्वाज्यमित्युक्तप्रकारेण आहुतीर्हुत्वाथ गुरुः सशिष्यः शिष्यसहितः सन् साग्निं देवं प्रदक्षिणं कृत्वा अग्निंदेवञ्चप्रदक्षिणी कृत्येत्यर्थः। प्रणम्य साग्निं देवं प्रणम्य पुनरासीनः सन् प्रणिपत्य प्रणिपातं कृत्वा उपसेदुषः उपसंनस्य शिष्यस्य संहारादिक्रमं कुर्यात्संहारादिन्यासं कुर्याद्विधिवद्यथाविधि शोषणादिकञ्चकुर्यादादिशब्देन दाहसंप्लावने गृह्येते अस्त्रमन्त्रेण रक्षाञ्च कुर्यात्ततोऽनन्तरं गुरून् प्रणमय्य गुरुपरम्परांप्रणामं कारयित्वा ततोऽनन्तरं न्यासाख्यं न्यासशब्दवाच्यं परम्परामस्मादिति परमं सकृदाचार्य्योच्चारणानुकरणमात्रेण मोक्षपदतया सत्यन्तद्रूपञ्च सकृदुच्चारो भवतीत्यादिश्रुतिप्रसिद्धवैभवं मंत्रं वाचयित्वा बोधयेज्ज्ञापयेदिति सार्द्धत्रयश्लोकस्यार्थः॥ ॥३७॥३८॥३९॥

श्रीमन्नारायणः स्वामी दासस्त्वमसि तस्य वै॥४०॥

परमीप्सुस्तमेवार्थमनुकूलो विवर्जयेत्।
प्रातिकूल्यं सुविस्त्रब्धःसंप्रार्थ्यशरणं हरिम्॥४१॥

व्रज तस्यैव चरणौ तत्रैवात्मानमर्पय।
इति सम्बोधितस्त्वेवं मन्त्रेणात्मानमर्पयेत्॥४२॥

बोधनप्रकारमाह-श्रीमन्नारायण इत्यादि। श्रीमन्नारायणः लक्ष्म्या नित्ययुक्तः नारायणः स्वामी ‘मिथुनाविष्टमेकशेषित्वमित्यर्थः त्वं तस्य दासः शेषिमिथुनशेषभूतोऽसि। परमुत्कृष्टतमेवार्थमीप्सुः श्रीमन्नारायणरूपपुरुषार्थंप्राप्तुमिच्छुः। अनुकूलः अनुकूल्यसङ्कल्पविशिष्टः। प्रातिकूल्यं विवर्जयेत्। सुविस्रब्धः रक्षिष्यतीति विश्वासयुक्तः। तस्य श्रीमन्नारायणस्य चरणावेव परं शरणं व्रज संप्राप्य उपायत्वेनाध्यवस्य संप्रार्थ्येति पाठे त्वं मे गोपायिता स्या इति संप्रार्थ्येत्यर्थः। तत्रैव चरणयोरेवात्मानमर्पय आत्मसमर्पणं कुर्वित्येवं सम्बोधितः आचार्येण बोधितः मन्त्रेणैव द्वयेनैवात्मानम् अर्पयेत्। श्रीमन्नारायणो ह्यात्मनिक्षेपं कुर्यादिति सार्द्धश्लोकद्वयार्थः**॥४०॥४१॥४२॥**

ततश्च व्यापकान्मन्त्रानन्यांश्चाङ्गैः समन्वितान्।
दत्त्वास्मै पुनरेवैवं गृहीत्वा वृत्तिमादिशेत्॥४३॥

ततश्चेति। व्यापकान् षडष्टद्वादशाक्षरान् अङ्गैर्न्यासादिभिः समन्वितान् अन्यान् अव्यापकांश्च मन्त्रानस्मै शिष्याय दत्त्वा पुनरेव एनं शिष्यं गृहीत्वा वृत्तिमादिशेत् उपदिशेत्**॥४३॥**

नित्यं विष्णुपरं कर्म कुरु निंद्यानि मा कृथाः।
सदात्मानं विबुध्यस्व मा कामेषु मनः कृथाः॥४४॥

वृत्युपदेशप्रकारमाह-नित्यमिति विष्णुं परं भगवदाज्ञाकैङ्कर्यरूपं नित्यं कर्म कुरु अनेन विहिताचार उक्तः निन्द्यानि निषिद्धानि मा कृथाः। अनेन निषिद्धवर्जनमुक्तम्। सदात्मानं विबुध्यस्व स्वरूपतो दुर्द्धषतमञ्चनिर्विकारं परमात्मानम्विबुध्यस्वअनेन दृष्टिः। कामेंषु मनो मा कृथाः। अनेन दृष्टिविरुद्धवर्जमुक्तम्**॥४४॥**

यजस्व नित्यमात्मेशं मानंसीरन्यदेवताः।
लक्ष्यस्व लक्षणैर्भर्तुर्लक्षिष्ठा मान्यलक्षणैः॥४५॥

यजस्वेति। नित्यमात्मेशं नारायणं यजस्व अनेन भक्तिरुक्ता अन्यदेवता देवतान्तराणि मानंसीः। अनेन भक्तिविरुद्धवर्जनमुक्तम्। भर्तुर्नारायणस्य लक्षणैश्चक्रादिभिर्लक्ष्यस्व। अन्यलक्षणैर्देवतान्तराचेह्नैर्मालक्षिष्ठाः। अनेन लक्ष्मविरुद्धवर्जनमुक्तम्**॥४५॥**

उपास्स्व वैष्णवान्नित्यमसतो मोपसीसरः।
गुरुं प्रणम्योमित्युक्त्वा ह्यात्मानञ्च निवेदयेत्॥४६॥

उपास्स्वेति। नित्यं वैष्णवान् उपास्स्व अनेन सतांसेवोक्ताअसतः पारमैकान्त्यविमुखान् मोपसीसरः अनेन सत्सेवाविरुद्धवर्जनमुक्तम्।असतो मोपसीसर इत्यन्तस्य सार्द्धश्लोकद्वयस्य वृत्तिमादिशेदित्यनेन पूर्वस्थितेनान्वयः अनन्तरं शिष्यः प्रीत्या देवं भगवन्तं प्रणम्य इत्यात्मानं निवेदयेदिति श्लोकत्रयार्थः। प्रत्यादेशं प्रणम्योमित्युक्त्वात्मानमिति पाठे नित्यं विष्णुपरं कर्म कुरु इत्याद्युपदेशेषु प्रत्युपदेशमोमित्युक्त्वात्मानं गुरवे निवेदयेत् तवाहमस्मीति निवेदयेदित्यर्थः**॥४६॥**

ततः समापिते शेषे देवमात्मनि निक्षिपेत्।
गुरुं विधिवदभ्यर्च्य वैष्णवान्परितोषयेत्॥४७॥

तत इति। अनन्तरं शेषे होमशेषे समाप्ते सति देवं भगवन्तमात्मनि निक्षिपेत् स्वहृदये न्यसेत्। विधिवद्यथाविधि।गुरुमभ्यर्च्य वैष्णवाँस्तोषयेत् भोजनदक्षिणादानादिना परितुष्टान् कुर्यात्**॥४७॥**

योजयिष्यन् गुरुः शिष्यं नित्यार्चनविधौ हरेः।
शोभनेऽहनि नक्षत्रे देवमभ्यर्च्य पूर्ववत्॥४८॥

अथ यागसंस्कारमाह-योजयिष्यन्निति। गुरुः शिष्यं हरेर्नित्यार्चनविधौ योजयिष्यन् शोभनेऽहनि दिवसे शोभने नक्षत्रे पूर्ववत् मन्त्रसंस्कार इव। देवं नारायणमभ्यर्च्य**॥४८॥**

मन्त्रवत्तु हुतं हुत्वा निष्ठयाथोपसादितम्।
यथोक्तविधिना पूर्वंस्थापितं शुभविग्रहम्॥४९॥

मन्त्रवदिति। मन्त्रवत् मन्त्रसंस्कार इव हुतवहं हुत्वा नित्योपासनं कृत्वा तदनन्तरं मन्त्रेण संस्कारोक्तप्रकारेण आज्याहुतीरन्नाहुतीश्च हुत्वेत्यर्थः। निष्ठया आवरणेन उपसादितम्। उपवेदितमित्यन्यः पाठः। यथोक्तविधिना प्रतिष्ठाशास्त्रोक्तप्रकारेण पूर्वंभव स्थापितं शुभविग्रहम्**॥४९॥**

श्रीभूमिलीलासहितं परिवारैः समन्वितम्।
अव्यक्तपरिवारं वा देवं संग्राह्य याजयेत्॥५०॥

श्रीभूमीति। श्रीभूमिलीलासहितं परिवारैर्भूषणायुधपरिजनपरिच्छदानन्तगुरुविष्वक्सेनानन्तपार्षदचण्डादिद्वारपाल- कुमुदादिगणाधिपतिभिः समन्वितम्। अव्यक्तपरिवारं वा अविग्रहपरिवारकं वा देवं नारायणं संग्राह्य याजयेत् यजनं
कारयेत्। परिकराणामव्यक्तत्वं च परिवारबिम्बराहित्येन मनसा चिन्त्यमानत्वमिति श्लोकत्रयार्थः**॥५०॥**

श्रौतदिव्यार्षकल्पानामिष्टेनान्यतमेन च।
स्थापनं यजनं वापि मिश्रा ह्यत्राधिकारिणः॥५१॥

श्रौतेति। श्रौतादिकल्पे मिश्राव्यामिश्रार्षकल्पानां मध्ये अन्यतमेनेष्टेन स्थापनं प्रतिष्ठापनं यजनमपि कर्त्तव्यं हि यस्मात्कारणात्। अत्र श्रौतादिकल्पेमिश्रा व्यामिश्रार्षयाजिनोऽप्यधिकारिणः। श्रौतादिव्यार्षिकल्पेषु मिश्राणामप्यधिकारात्तेष्विष्टेष्वन्यतमेन स्थापनं यजनं च कर्त्तव्यमित्यर्थः**॥५१॥**

ततः परिगृहीतेन गुरुभिर्येन केनचित्।
विधिना याजयित्वैवमथ शेषं समापयेत्॥५२॥

एवं श्रतदिव्यार्षकल्पानामन्यतमपरिग्रहस्येच्छानिबन्धनत्व मुक्त्वाइदानीं यथा गुरुसम्प्रदायमन्यतमपरिग्रह इत्याह- तत इति। गुरुभिः परिगृहीतेन येन केन विधिना याजयित्वा शेषं समापयेत्**॥५२॥**

ततः स्वकाले स्वाध्यायं ततो योगं च कारयेत्।
इज्यान्ते गुरुपूजां च वैष्णवानां च तर्पणम्॥५३॥

तत इति। स्वकाले स्वाध्यायकाले अनुयागानन्तरं काले स्वाध्यायं कारयेत्। ततः स्वकाले योगकाले योगं च कारयेत्**॥५३॥**

केचिच्चतुर्णां पूर्वेषां क्रमं नेच्छन्ति कर्मणाम्।
सहैकदिवसे वाब्दे त्रीणि चत्वारि पञ्च वा॥५४॥

केचिदिति। केचिन्मुनयः पूर्वेषां चतुर्णां तापपुण्डनाममंत्र संस्काराणां क्रमं नेच्छन्ति। एकदिवसे द्वौ संस्कारौवा कुर्वीत त्रीणि वा चत्वारि वा पञ्च वा कुर्य्यात्**॥५४॥**

तदान्यतमहोमान्ते कृत्वाग्न्याद्युपसन्मुखम्।
समापयेत्प्रधानं च न मन्त्रस्यान्यशेषता॥५५॥

तदेति। तदा संस्काराणां चतुर्णां क्रममुपेक्ष्य एकस्मिन्नेव दिवसे सहानुष्ठानपक्षे अन्यतमहीमान्तेन संस्कार चतुष्टयेऽप्यन्यतम संस्कारहोमान्ते अग्न्याद्युपसन्मुखं संस्कारान्तरमहाग्निमुखं कृत्वा प्रधानम् अन्यतमसंस्कारहोमं समापयेत्। तन्त्रस्य मन्त्रसंस्कारस्य अन्यशेषता संस्कारान्तरशेषभावो नास्ति संस्कारान्तरानन्तरमेव मन्त्रसंस्कारो न संस्कारान्तरात्पूर्वंमन्त्रसंस्कार इत्यर्थः**॥५५॥**

यद्येकदिवसे पञ्च तथा मन्त्राहुतेः परम्।
कृत्वा यागान्तमखिलं तन्त्रशेषं समापयेत्॥५६॥

न मन्त्रस्यान्यशेषतेति सामान्योक्तायां संस्कारानन्तरं मन्त्रसंस्कारप्राप्तौ तां निषेधति-यदीति। एकदिवसे पञ्चापि संस्कारा यदि क्रियन्ते तदा मन्त्राहुतेः परं मन्त्रसंस्कारात्परमेव यागान्तरमखिलं कृत्वा समापयेत्। पृथगग्निमुखं यागाहुत्यादिकं न कर्तव्यमित्यर्थः**॥५६॥**

एकदेशयुतोऽप्यन्यसंस्काराणां गुणान्वितः।
युक्तः परमसंस्कारैः स वै भागवतः स्मृतः॥५७॥

एकदेशेति। अन्यसंस्काराणां मध्ये एकदेशयुतः कतिपयसंस्कारयुक्तोऽन्यसंस्काराणां गुणान्वितः परमसंस्कारैः तापादिसंस्कारैः सर्वैर्युक्तो भागवतः स्मृतः एकदेशवैकल्यादिना भागवतत्वमित्यर्थः**॥५७॥**

तापस्तपांसि तीर्थानि पुण्ड्रं नाम नमस्क्रिया।
आम्नायाः सकला मन्त्रः क्रतवः पूजनं हरेः॥५८॥

अथ परमसंस्कारप्रशंसा-ताप इति। तापस्तपांसि तापसंस्कारः सर्वतपःसमानः। तीर्थानि पुण्ड्रधारणम्। सर्वतीर्थावगाहनसदृशमेवमुत्तरत्रापि नाम भगवन्नाम नमस्क्रिया। मन्त्रः मन्त्राध्ययनं सकलवेदाः सर्वे वेदाः। हरेः पूजनं क्रतवो यज्ञाः। यद्वा तापस्तपांसीत्यादिना ‘तमेतं ब्राह्मणवेदानुवचनेन विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने’ त्यादिकमुक्तं वेदानुवचनादिकं प्रपस्या नाङ्गं वक्ष्यति इति यजेत**॥५८॥**

वृत्तिर्भागवतानां हि सर्वा भगवतः क्रियाः।
प्रायश्चित्तिरियं तस्याः सैव यत्क्रियते पुनः॥५९॥

नन्वेवं तापादीनां तपआदिरूपत्त्वात्विहिताचाराद्यात्मिका वृत्तिरनुष्ठेयैव न स्यादित्यत आह-वृत्तिरिति। भागवतानां सर्वा वृत्तिर्विहिताचाराद्यात्मिका सर्वापि भगवतः क्रिया भगवत्कैंकर्यरूपा वृत्तिस्तु कैङ्कर्यतयानुष्ठा नं न प्रपत्त्यङ्गतया इति भावः। तस्या वृत्तेरननुष्ठिताया इतिशेषः सैव वृत्तिरेव पुनः क्रियत इति; एवमेव प्रायश्चित्तिः पुनस्तदनुष्ठानमेव प्रायश्चित्तमित्यर्थः। न चात्रवृत्त्यननुष्ठाने दोषाभाव उच्यते। ‘अपराधेषु सर्वेषु वृत्त्यंगानां यथाविधि’ इत्यादिना प्रायश्चित्तोपदेशात् किन्तु प्रमादाल्लोपेन भयानुतापे पुनस्तदनुष्ठानेन तत्समाधानं भविष्यतीत्यत्र तात्पर्यम्। यद्वा तस्यावृ-त्त्यात्मकभगवत्प्राप्तिकीयाया अननुष्ठितायाः सैव परमादिशान्तिरूपा भगवत्क्रियैव प्रायश्चित्तिरित्यर्थः**॥५९॥**

तस्मादाराधनं विष्णोः शान्तिकर्म विधीयते।
तथैव विष्णुभक्तानां पूजनं शान्तिरुत्तमा॥६०॥

ममैवार्थंस्पष्टयति-तस्मादिति। तस्मात्प्रत्यवायविरहिततया भगवदाराधनात्मकतया धर्मानुष्ठानस्य प्रसिद्धत्वात् ‘नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्’ इत्याद्यनुसन्धेयम्। भगवदारा-धनात्मकधर्मानुष्ठानलोपे तस्य विष्णोराराधनमेव शान्तिकर्म विधीयते। तथैव विष्ण्वाराधनवदेव विष्णुभक्तानां पूजनमुत्तमा शान्तिः। भगवत्पूजनं शान्तिमात्रम्। भगवतः पूजनमुत्तमम्। शान्तिरित्यर्थः**॥६०॥**

मन्त्रसंस्कारयुक्तस्य न चेत्तापादिकं तदा।
परमाख्या भवेच्छान्तिरविभागे सतामपि॥६१॥

मन्त्रेति। मन्त्रसंस्कारादियुक्तस्य तापादिसंस्कारो न चेत्**॥६१॥**

परमाख्याथ वैयूही मूर्त्याख्या वैभवीति च।
आनन्ती गारुडी चैव वैष्वक्सेनी सुदर्शनी॥६२॥

अथ शान्तीरनुक्रमते-परमाख्येति। एतासां स्वरूपमुत्तरत्र वक्ष्यति**॥६२॥**

चतुष्टयी महाशान्तिरुपशान्तिश्चतुष्टयी।
यथानिमित्तं कर्त्तव्यास्तथान्याः श्रीभुवादयः॥६३॥

चतुष्टयीति। ‘परमाख्याथ वैयूही मूर्त्याख्या वैभवीति चै’ त्येतच्चतुष्टयी महाशान्तिः। ‘आनन्ती गारुडी चैव वैष्वक्सेनी सुदर्शनी’ चेत्येतच्चतुष्टयी उपशान्तिः। एताश्च शान्तयो यथानिमित्तं कर्तव्याः। लघुनिमित्ते लघुशान्तिः। गुरुनिमित्ते गुरुशान्तिः। प्रयोज्येत्यर्थः। तथा तद्वत् अन्याः श्रीभुवादयः श्रीभूशान्त्यादयः यथानिमित्तं कर्तव्याः। आदिशब्देन परा शान्तिरुच्यते। ‘गुरूंस्तदर्चाविप्रान्वा विधिनाभ्यर्च्य शक्तितः। यद्दद्यात्सा परा शान्तिः सर्वपातकनाशिनी’ इति भूशान्त्यनन्तरं वक्ष्यमाणत्वात्। श्रीभुवादय इति च्छान्दसत्वात्साधु**॥६३॥**

दानहोमजपार्चानामेकद्वित्र्यखिलान्वयात्।
नैकभेदविभिन्नास्ताः पात्रोत्कर्षश्च शक्तितः॥६४॥

दानेति। दानहोमजपार्चानां मध्ये एकद्वित्र्यखिलान्वयात् एकमात्रान्वयात्द्विमात्रान्वयात् त्रिमात्रान्वयात्, सकला-न्ययाच्च नैकभेदविभिन्ना अनेकभेदभिन्नाः स्युः। पात्रोत्कर्षं कुर्यादित्यर्थः। एकैका शान्तिर्दानादिषु एकद्वित्र्यादियोगेन बहुविधा भवति। तत्रापि पात्रोत्कर्षः शक्त्यनुसारेण भवति। एकैकस्थाने पात्राणां बहूनां वरणं पात्रोत्कर्षः स च शक्तितो भवति शक्तौ सत्याम् बहूनां वरणं शक्त्यभावे एकैकस्येव वरणमित्यर्थः**॥६४॥**

हीनाः परमसंस्कारैर्देवतान्तरबुद्धयः।
ऋत्विजो यजमानाश्च च्यावयन्ति परस्परम्॥६५॥

अनुक्रान्तेषु ऋत्विग्भिर्यजमानैश्च परमैकान्तिभिरेव भवितव्यमित्याह-हीन इति। परमैः संस्कारैः तापादिभिर्हीनः देवतान्तरबुद्धयः अन्यदैवतयाजिनः परस्परं च्यावयन्ति ऋत्विजो यजमानाश्च च्यावयन्तीत्यर्थः**॥६५॥**

अपराधेषु सर्वेषु वृत्त्यङ्गानां यथाविधि।
वृत्तेश्च परिपोषाय शान्तिं शश्वत्प्रयोजयेत्॥६६॥

अपराधोष्विति। वृत्त्यङ्गानामपराधेषु सर्वेषु वृत्तेः परिपोषाय च यथाविधि शान्तिं शश्वत्प्रयोजयेदित्यन्वयः। वृत्त्यङ्गानामपराधो नाम तदकरणं तद्विरुद्धकरणम्। वृत्तेः परिपोषो नाम तत्प्रतिबन्धकदुरितनिरसनद्वारा आवर्तनम्**॥६६॥**

करणे प्रतिषिद्धानां विहिताकरणे तथा।
विधेया महती शान्तिर्विज्ञाय गुरुलाघवम्॥६७॥

कुत्र निमित्ते का शान्तिः कर्तव्येत्यपेक्षायामाह-करण इति। विहिताकरणे प्रतिषिद्धानां च करणे महती शान्तिर्विधेया परमादिमहाशान्तिष्वन्यतमा कर्तव्येत्यर्थः। तत्रापि गुरुलाघवं विज्ञाय विधेया। अल्पनिमित्ते अल्पव्ययायाससाध्या शान्तिः कर्तव्या। अधिकनिमित्ते बहुवित्तव्ययायाससाध्या कर्तव्येत्यर्थः**॥६७॥**

अवैष्णवेभ्यो यत्किञ्चित्प्रतिगृह्य प्रदाय वा।
कृत्वोपशान्तिंशुद्धयेत परिवादे सतामपि॥६८॥

अवैष्णवेभ्य इति। अवैष्णवेभ्यः पारमेकान्त्यरहितेभ्यः यत्किञ्चित्प्रतिगृह्य प्रदाय वा उपशान्तिमानन्तीं गारुडीं वैष्व-

क्सेनींसौदर्शनीं वा उपशान्तिंकृत्वा शुद्धचेत सतां परमैकान्तिनां परिवादेऽपि निमित्ते एषु महाशान्तिं कृत्वाप्युपशांतिंकुर्यादित्यर्थः**॥६८॥**

असतः प्रतिगृह्णीयात्पुत्रदारादिकं यदि।
विधाय परमां शान्तिंवृत्तिमाचारयेन्निजाम्॥६९॥

असत इति। असतो परमैकान्तिन इति पञ्चमी। तस्मात्पुत्रदारादिकं यदि गृह्णीयात् अपरमैकान्तिनः पुत्रं स्वयं यदि पुत्रत्वेन गृह्णीयात्तत्पुत्रीं यदि भार्यात्वेन गृह्णीयादित्यर्थः। तदा परमां परमाख्यां शान्तिं विधाय निजां वृत्तिमाचारयेत्। असत्परिगृहीतपुत्रदारादीन् स्ववृत्तीत्कारयेदित्यर्थः**॥६९॥**

भजने चान्यदेवानामपचारे च शार्ङ्गिणः।
वैयूहीं परमां वापि कुर्य्याच्छांतिं विशुद्धये॥७०॥

भजन इति। अन्यदेवानां भजने शाङ्गिणोऽपचारे तदिष्टाकरणानिष्टाकरणरूपे अपचारे च विशुद्धये वैयूहीं परमां वापि शान्तिं कुर्यात्**॥७०॥**

लक्षणानामकरणे धारणे चान्यलक्ष्मणाम्।
मूर्तिं कुर्यान्महाशांतिमपि सौदर्शनींतथा॥७१॥

लक्षणानामिति। लक्षणानां तापादिवैष्णवचिह्नानामकरणे अधारणे अन्यलक्षणानामवैष्णवचिह्नानाञ्च धारणे मूर्तिं महाशान्तिं कुर्यात्। सौदर्शनीमुपशान्तिं वा कुर्यात् इदञ्च निमित्तगुरुलाघवानुसारेणेति मन्तव्यम्**॥७१॥**

अपचारे गुरूणां च वैष्णवानाञ्च सर्वशः।
वैष्वक्सेन्यथ वानन्ती कार्य्या चासन्निषेवणे॥७२॥

अपचार इति। गुरूणां वैष्णवानां सर्वशोऽपचारे सर्वेष्वपचारेषु असन्निषेवणे व वैष्वक्सेनी आनन्ती वा शान्तिः कार्या**॥७२॥**

असच्छास्त्राभियोगे तु सच्छास्त्राणां निराकृतौ।
कर्त्तव्या गारुडी शांतिर्दुर्निमित्तेषु वैभवी॥७३॥

असदिति। असच्छास्त्राभियोगे असच्छास्त्रपरिग्रहे सच्छास्त्राणां निराकृतौ निराकरणे च गारुडी शान्तिः कर्त्तव्या दुर्निमित्तेषु प्रादुर्भूतेषु वैभवी शान्तिः कर्त्तव्या**॥७३॥**

अवैष्णवस्य भुक्त्वान्नमनिवेदितमेव वा।
पीत्वा पादोदकं भक्त्या वैष्णवानां विशुद्धयति॥७४॥

अवैष्णवस्येति। अनिवेदितं भगवते अनर्पितम्। अवैष्णवस्यान्नंतच्च भुक्त्वा वैष्णवपादोदकं पीत्वा प्राश्य विशुद्धयतीति शान्तेरेव विहितत्वात्। अतो वैष्णवानामेव गृहे अवैष्णवैः तण्डुलादिकं तत्पाकद्रव्यादि यन्नीतमवैष्णवान्नंतच्च भुक्त्वा वैष्णवानां पादोदकं पीत्वा विशुद्धयति यद्वा; अवैष्णवान्नं तत्पक्वमेव अज्ञानेन प्रमादात्सकृद्भुक्तञ्चेद्वैष्णवपादोदकपानंतत्र प्रायश्चित्तमित्युच्यते। तदर्थं शान्त्यनुष्ठानानन्तरं वैष्णवपादोदकपानं विधीयते इति वा मन्तव्यम्**॥७४॥**

सर्वपातकसंप्राप्तौ श्रियं गारुडमेव वा।
समभ्यर्च्य विधानेन तच्छेषं प्राश्य शुद्धयति॥७५॥

सर्वेति। सर्वपातकसम्प्राप्तौ विशिष्य शान्तिनिदानपातकान्तरसम्प्राप्तौ श्रियं लक्ष्मीं गां भूमिं गुरुम् आचार्यं वा विधानेन विधिना समभ्यर्च्य तच्छेषं प्राश्य भुक्त्वा शुध्यति। श्रीशान्तिंभूशान्तिं वा अनुक्तशान्तिकेषु निमित्तेषु कुर्यादित्यर्थः**॥७५॥**

देवतान्तरशेषंतु भुक्त्वास्पृष्ट्वापि वा पुनः।
वैष्वक्सेनींक्रियां कृत्वा तच्छेषं प्राश्य शुद्धयति॥७६॥

देवतेति। देवतान्तरशेषं भुक्त्वा स्पृष्ट्वावा वैष्वक्सेनींशान्तिं त्वासच्छेषं प्राश्य शुद्धयति**॥७६॥**

पीत्वानैकान्तिनां सोमं सह पंक्तो प्रभुज्य च।
कृतञ्च तेन भुक्त्वान्नं वैयूहीं प्राप्य शुद्धयति॥७७॥

पीत्वेति। अनैकान्तिनां सोमपीत्वा अवैष्णवानां यागेषु आर्त्विज्यं कृत्वेत्यर्थः। अनैकान्तिनां पंक्तौ तैः सह प्रभुज्य भुक्त्वा च तेन अवैष्णवेन कृतं पक्वमन्नं भुक्त्वा च वैयूहीं शान्तिं प्राप्य शुद्धयति**॥७७॥**

विप्रानैकान्तिनः प्राज्ञानृत्विजः शान्तिकर्मसु।
गोभूधान्यहिरण्याद्यैः प्रभूतैः परितोषयेत्॥७८॥

विप्रानिति। शान्तिकर्मषु नियुक्तान्प्राज्ञान् एकान्तिन ऋत्विजः शान्त्यनुष्ठानानन्तरं प्रभूतैः सुसमृद्धैः गोभूधान्यहिरण्या- द्यैः परितोषयेत्**॥७८॥**

अन्ते चैषां प्रकुर्वीत सर्वेषां शान्तिकर्मणाम्।
नारायणस्य परमां प्रपत्तिं सर्वपूरणीम्॥७९॥

अन्त इति। एषां सर्वेषां शान्तिकर्मणामन्ते परमां सर्वपूरणीं सकलन्यूनांशपरिपूरणीम् नारायणस्य प्रपत्तिं कुर्वीत न्यूनाधिकप्रत्यवायप्रशमनार्थंप्रपत्तिमनुतिष्ठेदित्यर्थः**॥७९॥**

शान्तिं पुण्येषु देशेषु स्वक्षेत्रे स्वगृहेऽपि वा।
कुर्यात्पुण्येषु कालेषु स्वजन्मादिषु वा पुनः॥८०॥

शान्तिमिति। स्वजन्मादिषु स्वजन्मनक्षत्रजन्मदिवसादिषु**॥८०॥**

ध्यायन्नाधारशक्त्यादिपारिषद्यान्तदेवताः।
नामभिर्वरयेद्विद्वान्परमायां विपश्चितः॥८१॥

** **अथ शान्तीनां स्वरूपमाह-ध्यायन्निति। परमायां शान्तौ आधारशक्त्यादिपारिषद्यान्तदेवताः आधारशक्तिमुपक्रम्य- पारिषद्यपर्यन्ताः देवताः ध्यायँस्तत्तन्नामभिः विपश्चितो विप्रान्

वरयेत् \। आधारशक्त्यादिपारिषद्यान्तदेवताश्च भगवद्भाष्यकारोक्तनित्ये अनुसन्धेयाः**॥८१॥**

आसनेषु यथाकाममुपवेश्य यथाक्रमम्।
पाद्यमर्घ्यंतथा भोगान्दद्यात्तेभ्यश्च मन्त्रतः॥८२॥

आसनेष्विति। आसनेषु आधारशक्त्याद्यधिष्ठानेषु वृत्तान्विप्रान्यथाक्रमं क्रममनतिक्रम्य आसनेषु यथाकामं यथासुखमुपवेश्य तेभ्यः स्वमन्त्रतः आधारशक्त्यै नम इत्यादिभिः तत्तन्मैन्त्रैः तत्तत्स्थाने वृत्तेभ्यः तेभ्यः पाद्यमर्घ्यंतथा भोगाँश्चदद्यात्**॥८२॥**

स्नातेभ्यश्च यथाकामं वस्त्रभूषानुलेपनम्।
माल्यानि धूपदीपौ च दद्याद्भक्त्या धनानि च॥८३॥

स्नातेभ्य इति। यथाकामं यथामनोरथम्। स्पष्टमन्यत्**॥८३॥**

अष्टोत्तरशतावृत्त्या जपं होमं च कारयेत्।
स्थण्डिले तत्तदर्चांच सर्वं कुर्वीत वा स्वयम्॥८४॥

अष्टोत्तरेति। अधारशक्त्यादिस्थाने वृतैर्ब्राह्मणैस्तत्तन्मन्त्रस्य अष्टोत्तरशतावृत्त्या होमञ्च कारयेत्। स्थण्डिले आधारशत्त्यादिस्थण्डिले। तदर्चाम् आधारशक्त्याद्यर्चाञ्चकारयेत्। सर्वंजपहोमार्चादिकं स्वयं वा कुर्वीत**॥८४॥**

सर्वत्राग्निमुखस्यांते समिदन्नघृताहुतीः।
भोजयित्वा द्विजवरान्समभ्यर्च्य विसज्जयेत्॥८५॥

अष्टोत्तरशतावृत्या होमश्च समिदन्नघृताहुतीनामित्याहसर्वत्रेति सर्वत्र तन्त्रे मन्त्रे अग्निमुखस्यान्तेऽग्निमुखं कृत्वा तदंते समिन्नघृताहुतीः दापयेदितिशेषः। अष्टोत्तरशतसंख्या समिदाहुतीस्तत्संख्यया अन्नाहुतीस्तत्संख्ययैव घृताहुतीश्व दापयेदित्यर्थः**॥८५॥**

चतुरो वासुदेवादीन्वैयूह्यां वरयेद्विजान्।
मूर्त्त्याख्यायां द्वादशैव केशवादीननुक्रमात्॥८६॥

चतुर इति। वैयूह्यांशांतौ वासुदेवादींश्चतुरो द्विजान्वरयेत्। वासुदेवसंकर्षणप्रद्युम्नानिरुद्धमन्त्रेषु एकैकेन एकैकं विप्रं तत्तत्स्थाने वरयेत्। मूर्त्याख्यायां शांतौ क्रमेण केशवादिद्वादश तत्तन्मन्त्रैरर्चयेत्। अन्यत्सर्वंपूर्ववदुन्नेयम्**॥८६॥**

मत्स्यं कर्मं वराहञ्च नृसिंहं वामनं तथा।
वैभव्यां वरयेद्विप्रान्यथेच्छमितरानपि॥८७॥

मत्स्यामिति।वैभव्यां शान्तौ मत्स्यं कूर्मंवराहं नृसिंहं वामनं च वरयेत्। यथेच्छम् इच्छायां सत्यां तथा इतरान्परशु-रामवलरामकृष्णकल्कीनपि वरयेत्। वरणानन्तरं कर्त्तव्यं परमशान्त्युक्तप्रकारेणैवोन्नेयं सर्वत्र**॥८७॥**

आनन्त्याञ्चतुरोऽनन्तशेषनागेन्द्रभूधरान्।
गारुड्याङ्गरुडं तार्क्ष्यंवैनतेयं पतत्पतिम्॥८८॥

आनन्त्यामिति। आनन्त्यां शान्तौ अनन्तशेषनागेन्द्रभूधराँश्चतुरो वरयेत्। गारुड्यां शान्तौ गरुडं तार्क्ष्यंवैनतेयं पतत्पतिञ्चवरयेत्। अत्र च प्रणवादिचतुर्थीनमोऽन्तानि नामान्येव मन्त्रा ऊह्याः**॥८८॥**

गजाननाद्यैः सहितं विष्वक्सेनं तदर्चने।
सौदर्शिन्यां शंखगदाशार्ङ्गखङ्गैः सुदर्शनम्॥८९॥

गजाननेति। तदर्चने। वैष्वक्सेन्यां शान्तौ गजाननाद्यैः सहितं गजाननजयत्सेनहरिवक्रकालप्रकृतिसंज्ञादिपारिषद्य-सहितं विष्वक्सेनं वरयेदेतन्मन्त्राश्च नित्ये द्रष्टव्याः। सौदर्शन्यां शान्तौ शंखगदाशार्ङ्गखङ्गैः सहितं सुदर्शनं वरयेत्।एतन्मन्त्राश्च नित्ये द्रष्टव्याः**॥८९॥**

ऋद्धया समृद्धया कीर्त्या च श्रीशान्त्यां वरयेच्छ्रियम्।
क्षमां प्रतिष्ठां बहुलां भुवञ्चाथ भुवोऽर्चने॥९०॥

ऋद्धयेति। श्रीशान्त्याम् ऋद्धया समृद्धया कीर्त्या च सहितां श्रियम् अर्चयेत्। भुवोर्चने भूशान्तौ क्षमां प्रतिष्ठां बहुलां भुवं चैवार्चयेत्**॥९०॥**

गुरूंस्तदर्च्यान्विप्रान्वा विधिनाभ्यर्च्य शक्तितः।
यद्दद्यात्सा पराशान्तिः सर्वपातकनाशिनी॥९१॥

गुरूनिति। गुरूनाचार्य्यान्तदर्थ्यान्गुर्वर्च्यान्। विप्रान्या यथाविधि समभ्यर्च्य शक्तितो दद्यादिति। यद्दक्षिणां दद्यात् यत्सा सर्वपातकनाशिनी परा शान्तिः**॥९१॥**

प्रधानं स्थण्डिलं मध्ये महावेद्यां प्रकल्पयेत्।
प्रत्यङ्मुखः प्राङ्मुखः सन् सर्वञ्च परिकल्पयेत्॥९२॥

प्रधानमिति। प्रधानं स्थण्डिलं महावेद्यां मध्ये प्रत्यङ्मुखः परिकल्पयेत् अन्यत्सर्वमप्रधानं प्राङ्मुखः परिकल्पयेत्**॥९२॥**

इत्येवं शान्तयः प्रोक्ताः संस्काराश्च द्विजन्मनाम्।
यथार्हमितरेषाञ्च योजनीयः क्रियाविधिः॥९३॥

इत्येवेति। अयं श्लोको व्याख्यानं नापेक्षते**॥९३॥**

इतिसंस्कारसम्पन्नः सम्प्राप्य गुरुवश्यताम्।
आराधनं हरेरेव कुर्वाणः कर्म चोदितम्॥९४॥

इतीति। इत्युक्तप्रकारेण सर्वसंस्कारसम्पन्नः गुरुवश्यतां सम्प्राप्य हरेरेवाराधनं भगवदेकाराधनरूपं चोदितं विहितं कर्म कुर्वाणः। अनेन विहिताचार उक्तः। हरेरेवाराधन मित्यनेन नित्येष्यपि अग्नीन्द्राद्यन्तर्यामिण एवाराध्यत्वान्न- देवतान्तरसंस्पर्शशङ्का कार्येति द्योत्त्यते**॥९४॥**

तदप्रीतिकराण्याशु प्रतिषिद्धानि वर्जयेत्।
पश्यन्सदागमैः स्वेशफलोपायविरोधिनः॥९५॥

तथा कुदृष्टिकृपणशास्त्राणि परिवर्जयेत्।
भक्त्या परमया नित्यमचैयेत्पुरुषोत्तमम्॥९६॥

कुदृष्टिकल्पितान्देवान्कामजांश्च विवर्जयेत्॥९७॥

तदिति। तदप्रीतिकराणि भगवच्चित्तकालुष्यकराणि प्रतिषिद्धानि वर्जयेत् अनेन विहिताचारविरुद्धमुक्तम्। पश्यन्निति। सदागमैः सच्छास्त्रैः स्वेशफलोपायविरोधिनः स्वरूपपरस्वरूपफलस्वरूपोपायस्वरूपविरोधिस्वरूपाणि ‘पश्यन्कुदृष्टिदृष्टानी’ त्यपरः पाठः। तथा अशुद्धदृष्टिदृष्टानि अशुद्धदृष्टिपरिकल्पितानि शास्त्राणि वर्जयेत्अनेन दृष्टिस्तद्विरुद्धवर्जनञ्चोक्तम्।भक्त्येति। कामजान् काम्यकर्माणि। अनेन भक्तितद्विरुद्धवर्जने उक्ते। कामदानिति पाठे परिमितफलप्रदान्ब्रह्मादीन्देवानित्यर्थः**॥९५॥९६॥९७॥**

धृतोर्द्धपुण्ड्रश्चद्यैरंकितो हरिलाञ्छनैः।
मुद्रापुण्ड्राङ्कनादीनि तामसानि विवर्जयेत्॥९८॥

धृतेति। तामसानि मुद्रापुण्ड्राङ्कनादीनि। तामसानि तामस शास्त्रपरिकल्पितानि मुद्रादीनि। आदिशब्देन वस्त्वाकारा गृह्यन्ते। अनेन श्लोकेन लक्ष्यतद्विरुद्धे उक्ते**॥९८॥**

आचार्य प्रमुखान्नित्यं विशेषेण प्रसादयेत्।
प्रच्युतान्प्राकृताँश्चैवं सर्वत्र परिवर्जयेत्॥९९॥

आचार्य्येति। प्रसादयेत्प्रसन्नान्कुर्य्यात्। प्रच्युतान् विकलवृत्तीन्अनेन सतांसेवा तद्विरुद्धवर्जनञ्चोक्ते**॥९९॥**

आतिष्ठेत्पारमैकान्त्यमपायानपमार्जयन्।
अपायवदिहैकान्त्यमशुद्धकरणान्वयात्।
निरापायं भवेत्प्राप्यं तद्विष्णोः परमं पदम्॥१००॥

इति श्रीनारदपञ्चरात्रे भारद्वाजसंहितायां परिशिष्टे द्वितीयोऽध्यायः॥२॥
__________

आतिष्ठेदिति। अपायानपमार्जयन्निराकुलं पारमैकान्त्यमातिष्ठेत्। इह अस्मिल्ँलोके पारमैकान्त्यम् अशुद्धकर्मकरणान्वयात् अपायवत् आपाययुक्तं भवति। पारमैकान्त्यं निरपायम् अपायरहितं यदि भवेत्तदातद्विष्णोः परमं पदं प्राप्यं भवेत्**॥१००॥**

इति श्रीनारदपञ्चरात्रे भारद्वाजसंहितायां परिशिष्टे टीकायां द्वितीयोऽध्यायः॥२॥
__________