भूय एवर्षिभिः पृष्टो भरद्वाजस्तपोनिधिः॥
अनुक्तानब्रवीद्धर्मानुक्तांश्चैव प्रसादयन्॥१॥
भूय इति। प्रसादयन् विशदीकुर्वन्**॥१॥**
धर्मो वर्णाश्रमादीनां कार्त्स्न्येन मुनिसत्तमाः॥
शिष्टो व्याससमासाम्यामाषैर्दिव्यैस्तथागमैः॥२॥
धर्म इति। हे मुनिसत्तमाः वर्णाश्रमादीनां धर्मः आर्षेः ऋषिप्रोक्तैः धर्मशास्त्रैस्तथा दिव्यैरागमैः पञ्चरात्रसंहिताभिश्च व्यास समासाद्यैर्व्यासो विस्तारः समासः सङ्कोचः। आदिशब्देन अनतिसङ्कोचविस्तारो विवक्षितः**॥२॥**
अत्र केचित्परं तत्त्वं रजोमीलितदृष्टयः॥
अपश्यन्तोऽभिजानन्ति धर्मस्य न परां गतिम्॥३॥
अत्रेति। केचिद्रजोमीलितदृष्टयः रजोगुणसंकुचितज्ञानाः अत्र आर्षदिव्यशास्त्रगणेषु अपश्यन्तः धर्मस्य परां गतिं नाभजानन्ति। अपश्यन्तो नाभिजानन्तीति पदाभ्यां साधनभूतं-
समीचीनन्यायपरिशीलनाभावः तत्फलभूतनिर्णयाभावश्च विवक्षितः**॥३॥**
केचित्तु सत्त्वसम्पन्नाः केशवेनावलोकिताः।
सारासारविदः प्राज्ञाः परं धर्मं विजानते॥४॥
केचिदिति। सत्त्वसम्पन्नाः उद्रिक्तसत्त्वगुणाः। केशवेनावलोकिताःजायमानदशायां भगवता विलोकिताः। एतच्च सत्त्वसम्पत्कारणम्। ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः। सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः’ इति वचनात्परं धर्मं मोक्षधर्मम्**॥४॥**
यदैकान्त्यङ्गता विष्णो भगवत्यात्मभावने।
तद्वैष्णवा भागवताः सन्त इत्यपि ते स्मृताः॥५॥
यदेति। आत्मनो भावयति करणकलेवरादि योगिनः करोतीत्यात्मभावने भगवति विष्णो विषये ऐकान्त्यङ्गताः प्राप्तास्ते भागवताः। त एव सन्त इत्यपि स्मृताः**॥५॥**
नियोक्ता भगवान्विष्णुर्नियोगस्तस्य वै श्रुतिः।
नियोज्याः सत्त्वसम्पन्ना मुख्या मोक्षार्थचिन्तकाः॥६॥
नियोक्तेति। भगवान् ज्ञानादिषाड्गुण्यपरिपूर्णः। “ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः। भगवच्छब्दवाच्यानि विनाहेयैर्गुणादिभिः”इति श्रीपराशरोक्तेः। विष्णुर्व्याप्तिमान्नारायणः नियोक्ता नियोजकः। श्रुतिस्तस्य विष्णोर्नियोग आज्ञारूपः। सत्त्वसम्पन्नाः सत्त्वनिष्ठाः सत्त्वगुणस्थानीयनियोगविषयाः। अतस्ते वै मुख्याः। कुतः?मोक्षार्थचिन्तकाः मोक्षाख्यं पुरुषार्थं यतः काङ्क्षन्ते अतस्ते मुख्या नियोज्या इति वान्वयः। एतत्सर्वं भगवतो नियोक्तृत्वं श्रुतेर्नियोगत्वं सत्वस्थानां नियोज्यत्वमित्येतत्सर्वम्अजानन्तः**॥६॥**
अन्यथैवाभिमन्यन्ते सर्वमेतत्कुदृष्टयः।
यतो दूरतरास्ते हि परस्य परमात्मनः॥७॥
अन्यथैवाभिमन्यन्ते तत्र हेतुमाह—अन्यथैवेति यत इति यतः कारणात्ते कुदृष्टयः परस्य सर्वस्मात्परस्य परमात्मनः आत्मनामन्तर्यामिणः दूरतरा अतिविप्रकृष्टास्तद्दास्यरहिताः जायमानकटाक्षरहिताश्चेत्यर्थः**॥७॥**
यथा पृथग्विधा वर्णा यथा तत्रैव चाश्रमाः।
विविक्तमतयस्तत्र तथा भागवता अपि॥८॥
एवं भागवतानां भगवत्कृपापारतन्त्र्यात्तेषां शास्त्रात् समीचीनज्ञानसम्भवः नान्येषामित्याभिध्याय भागवतानां बहुविधत्वमाह—यथेति। यथा वर्णाः पृथग्विधाः परस्परं भिन्ना यथा वा तत्रैव ब्राह्मणक्षत्रियादिवर्णेष्वेव आश्रमाः ब्रह्मचर्यादयः पृथग्विधाः यथा विविक्तमतयः अनन्यधियः भागवता अपि तत्र वर्णेष्वेवाश्रमेष्वपि च पृथग्विधाः। भक्तप्रपन्नभेदात्शुद्धमिश्रभेदाच्च बहुविधा इत्यर्थः**॥८॥**
ईशभक्तिफलो पाया ईशैकफलसाधनाः।
द्विधा ह्येकान्तिनस्ते च शुद्धा मिश्रा इति द्विधा॥९॥
द्वैविध्यमेवाह—ईशेति। ईशस्तद्भक्तिश्च क्रमेण फलमुपायश्चयेषां ते ईशभक्तिफलोपायाः भक्त्युपायनिष्ठा इत्यर्थः। ईशैकफलसाधनाःभगवल्लाभाय भगवन्तमेवोपायत्वेन स्वीकृतवन्तः प्रपन्ना इत्यर्थः। अयं भेदो वर्णस्थानीयः। अत्रैकान्तिशब्दः परमैकान्तिपरः। ईशैकफलसाधनत्वाभावोक्तेः। ‘स एकान्त्यन्यविमुखोहरिं सर्वेश्वरं परम्॥ यत्समाश्रयते किञ्चित्फलमभ्यर्थयन्नर’ इति एकान्तिन ईशैकफलसाधनत्वाभावोक्तेः। ते चैका
न्तिनः प्रत्येकं शुद्धा मिश्रा इति द्विधा भिन्ना इत्यर्थः। अयं भेद आश्रमस्थानीयः**॥९॥**
विशुद्धज्ञानकर्माणः श्रौतदिव्यार्षवर्त्मभिः।
भक्तिनिष्ठाः परं ब्रह्म नारायणमुपासते॥१०॥
ईशभक्तिफलोपाया इत्युक्तं विवृणोति। विशुद्धमिति। विशुद्धं फलाभिसन्धिरहितं ज्ञानं ज्ञानयोगः कर्म कर्मयोगश्च येषां ते तथोक्ताः। इयं च भक्तेः साधनोक्तिः। भक्तिनिष्ठः मोक्षोपायतया कर्मज्ञानसाध्यभक्तियोगं स्वीकृतवन्तः श्रौतदिव्यार्षवर्त्मभिः श्रौतं श्रुतिविहितं दिव्यं श्रीपञ्चरात्रोक्तम् आर्ष धर्मशास्त्रोक्तं तैर्वर्त्मभिर्मार्गेः परं ब्रह्म बृहत्त्वादिगुणयुक्तं नारायणमुपासते**॥१०॥**
नारायणैकशरणाः फलं नारायणः स्वयम्।
तैस्तैः स्वादुत्तमैः कल्पैर्यजन्तोऽनुभवन्ति वै॥११॥
द्वितीयपादं विवृणोति—नारायणेति। नारायणैकशरणाः नारायणैकोपायाः फलं फलभूतं नारायणं स्वयं स्वादुत्तमैः स्ययम्प्रयोजनभूतैर्नतूपायकुक्षिनिक्षिप्तैस्तैस्तैः कल्पैः श्रौतदिव्यार्षविधिभिर्यजन्त आराधयन्तोऽनुभवन्ति**॥११॥**
ये तु वाकनिषन्निष्ठास्तत्तत्संस्कारसंस्कृताः।
ते वै भागवताः शुद्धा वासुदेवैकयाजिनः॥१२॥
येत्विति वाकनिषनिष्ठाः वाकेषु मूलवेदेषु निषत्सु च परिनिष्ठिताः तत्तत्संस्कारसंस्कृताः वाकनिषद्विहितगर्भाधानादि- चत्वारिंशत्संस्कारैः संस्कृताः वासुदेवैषयाजिनः नत्वग्रीन्द्राद्यान्तर्याम्याराधकाः। शुद्धयाजिन इत्यर्थः। एवं भूतास्ते शुद्धा इत्यन्वयः**॥१२॥**
त्रय्या विहितसंस्कारास्त्रय्यन्ते परिनिष्ठिताः।
यजन्त्येकान्तिनो मिश्रा विष्णुं विश्वतनुं हरिम्॥१३॥
मिश्रैकान्तिनां लक्षणमाह-त्रय्येति। त्रयी ऋग्यजुः सामनि विहिताः संस्कारा येषां ते तथोक्ताः। त्रय्यन्तेषु वेदान्तेषु परिनिष्ठिताः। विश्वतनुं विष्णुम् इन्द्राद्यन्तर्यामिणं हरिं स्वकर्मभिर्यजन्ते॥१३॥
श्रूयते यत्र यष्टव्या यादृशी या हि देवता।
तादृशी सा भवेत्तत्र यजन्त्येकान्तिनो हरिम्॥१४॥
विश्वततुमित्युक्तमर्थं विशदयति श्रूयत इति। यत्र कर्मणि यादृशी यादृग्गुणविग्रहादिविशिष्टा या देवता यष्टव्या श्रूयते श्रुत्या विधीयते तत्र नित्यनैमित्तिकात्मके कर्मणि तादृशी तादृग्गुणविग्रहादिविशिष्टा सा देवता भवेत्। तादृग्गुणविग्रहा-दिविशिष्टदेवतान्तर्यामिणं हरिमेकान्तिनः अनन्यदेवताः यजन्ति। तेषामाराध्यत्वेन तत्तद्देवतान्तर्यामिरूपेण सन्निहितो भवतीत्यर्थः॥१४॥
तथा हि वाक् शची दुर्गा धाता शक्रस्त्रियम्बकः।
इति नानाभिधारूपो लक्ष्मीशः स्वयमिज्यते॥१५॥
व्यक्तमर्थं विवृणोति-तथेति। वाक् सरस्वती। शचीइन्द्राणी। दुर्गा पार्वती। धाता सरस्वतीभर्त्ता। शक्रः शचीपतिः। त्र्यम्बको दुर्गापतिः। इति एवं प्रकारेण नानाभिधारूपः नानाविधनामरूपविशिष्टः सन् लक्ष्मीशः स्वयमिज्यते पूज्यते। तत्तद्देवतान्तर्यामी सन् तत्तद्रूपद्वारा स्वपर्यन्ताभिधायिभिस्तन्नामभिः स्वयं श्रियः पतिरेवाराध्यत इत्यर्थः। लक्ष्मीश इति सामिप्रायं विशेषणम्। ‘देवतिर्यङ्ममुष्येषु पुन्नामाभगवान्हरिः। स्त्रीनाम्नीलक्ष्मीमैत्रेय नानयोर्विद्यतेपरम्’
इत्यादिप्रक्रियया धात्रादीनामाराधनं भगवदाराधनं लक्ष्म्याराधनश्चेति भावः॥१५॥
तथैवात्मपृथिव्याद्या यतो लक्ष्मीपतेर्वपुः।
अतस्तैरौपनिषदैरिज्यतेऽखिलविग्रहः॥१६॥
एवं नित्ये नैमित्तिके च कर्मणि रुद्रेन्द्रादिदेवताके तत्तदेवतान्तर्यामिणो नारायणस्याराध्यतया पारमैकान्त्यमभग्नमित्यु- क्त्वा’जीवमुख्यप्राणलिङ्गात्’ इत्यादिनोपासनात्रैद्विध्यादौ श्रुतत्वादिह तद्योगादियुक्ता चिद्विशिष्टोपासनजीवविशिष्टोपासन-स्वरूपोपासने उपासनद्वय इव प्रतर्दनविद्यासु इन्द्रादिजीवशरीरकपरमात्मोपासनमपि न पारमैकान्त्यभङ्गाय भवती- त्याहतथैवेति। तथैव नित्यनैमित्तिके जीव आत्मा आत्मपृथिव्याद्याः जीवपृथिव्याद्या जीवपृथिवीप्रभृतयः।आदिशब्देन अन्तर्यामिब्राह्मणे ‘य आत्मनि तिष्ठन्यः पृथिव्यां तिष्ठन् यो अप्सु तिष्ठन् ’ इत्यारभ्य पठितानामबादीनां संग्रहः। यतः कारणात्लक्ष्मीपतेः श्रियः पतेर्वपुः शरीरं ‘यस्य पृथ्वीशरीर’ मिति अत्रानुसन्धेयम्। अतः कारणादौपनिषदैः उपनिषत्प्र- तिपादितब्रह्मविद्यानिष्ठितैर्मिश्रपरमैकान्तिभिर- खिलपृथिव्यादितत्तच्छरीरको लक्ष्मीपतिरिज्यते उपास्यते। पृथिव्याद्युपा- दानं दृष्टान्तार्थम्। यथा पृथिव्याद्यन्तर्याम्युपासनेन न पारमैकान्त्यभङ्गः एवं जीवान्तर्याम्युपासनेनापि नपारमैकान्त्यभङ्ग इति॥१६॥
ततः शुद्धं परं ब्रह्म विशुद्धपरिवारकम्।
इज्यते विविधैर्भोगैर्नित्यं च प्रतिमादिषु॥१७॥
एवं मिश्रैकान्तिनां मिश्रताप्रयोजकं मिश्रयजनमुक्ता तेषाम् उपादानामन्तर्भाविनीत्येव भगवदिन्यायामपि शरीरत्वेन देव-
तान्तरसम्बन्धशङ्कायां तन्निषेधति तत इति। शुद्धं देवतान्तर्यामिभावमन्तरेणाप्राकृतदिव्यंविग्रहविशिष्टत्वेनावस्थितं विशुद्धपरिवारकं संसारानुपहतदेवीभूषणदिव्यायुधगणादिपरिवारसमेतं परं ब्रह्म प्रतिमादिषु विविधैर्भोगैर्नित्यमिज्यते। नित्यार्चनन्तु विशुद्धपरिवारकशुद्धविषयमेवेत्यर्थः। यद्वा व्यामिश्राणां न केवलं सर्वत्रापि व्यामिश्रयजनं; प्रतिमादिषु नित्यं शुद्धं यजनमप्यस्तीत्यर्थः॥१७॥
अशुद्धा ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतयः।
तान्वै कुदृष्टयः साम्यात्परत्वादप्युपासते॥१८॥
अशुद्धानां ब्रह्मादीनामाराधनमपि तु तदन्तर्यामिण एवाराधनम्। नित्यार्चनादिषु तेषां शरीरत्वेनापि नान्वय इत्युक्त्वा इदानीं स्वातन्त्र्येण चतुर्मुखाद्याराधनं कुदृष्टिमूलमित्याहअशुद्धा इति। अशुद्धाः कर्मवश्याः ब्रह्मरुद्राद्याः। आदिशब्दादिन्द्रादीनां ग्रहणमादिशब्देन तग्रहणं च दृष्टान्तार्थम्। यथा नाकेशेन्द्रो ‘नत्वदुत्तरो ज्यायानस्ति वृत्रह ‘न्नित्यादिभिर्वाक्यैरापातत इन्द्रस्य परत्वे प्रतिपन्ने त्वाष्ट्रवधबलिबन्धनब्रह्महत्यादिकर्मसम्बन्धनिबन्धनदुःखानुभव श्रवणात्सृज्यत्वसंहार्यत्वश्रवणाश्चापरत्वं स्थिरीकृतम्;एवं चतुर्मुखादीनाम् अपि वेदा-पहारगुरुपातकनिवन्धनदुःखानुभवस्य’ नारायणादिन्द्रो जायते नारायणाद्ब्रह्मा जायते’ इत्यादिभिः सृष्टिकाले सृज्यस्य प्रलये कर्माभावस्य च श्रूयमाणत्वात् अपरत्वमेवेति जीवाः। अयं च साध्ये ब्रह्मरुद्रयोर्जीवत्वे अशुद्धत्वं हेतुः। आदिशब्देन संगृहीता इन्द्रादयो दृष्टांततया स्वीकृताः। अशुद्धत्वञ्च कर्मवश्यत्वम्। सृष्टिप्रलयकर्माभावश्च जीवत्वेऽपि न स्वतन्त्र इत्याह। विष्णोर्विभूतय इति। तानित्थं भूतान् रुद्रादीन्कुदृष्टयः कुम-
तयः साम्याद्विष्टरित्येतदनुषज्यते। विष्णोस्तुल्यत्वेन ततोऽपि परत्वेनाप्युपासते। इदमुभयमपि कुदृष्टिमूलमित्यर्थः॥१८॥
अपरत्वेन चाप्येता ये यजन्ति हि देवताः।
तेषां भवति नैकान्त्यमतो नैवाप्नुयुः परम्॥१९॥
एषा साम्येनाधिक्येन च देवतान्तरोपासने प्रतिषिद्धिः अपरत्वेन तदुपासनं प्राप्तं निषेधति-अपरत्वेनेति। चकारात्पू- र्वोक्त साम्येनाधिक्येन चोपासनं समुच्चीयते। एताः पूर्वोक्ता ब्रह्मरुद्राद्या देवता ये। अपरत्वेन चोपासते तेषामेकान्त्यं न भवति नास्ति। अत ऐकान्त्याभावात् परं निःश्रेयसं नाप्नुयुः॥१९॥
अङ्गभावेन शुद्धानामर्चा प्रियतमा हरेः।
या स्वतन्त्रधिया तत्र सा निहन्ति विविक्तताम्॥२०॥
शुद्धानामपरत्वेनार्चनं पारमैकान्त्यव्यापकमित्याह-अङ्गभावेनेति। शुद्धा नित्यमुक्ता अनन्तादयस्तेषामङ्गभावेन भगवच्छेषत्वेनार्चाहरेः प्रियतमा इष्टतमा तत्र शुद्धविषयेऽपि या स्वतन्त्रतयार्चाअङ्गमावमन्तरेण पूजा सा विविक्ततां पारमैकान्त्यं निहन्ति नाशयतीत्यर्थः॥२०॥
भावनांनां तु कालुष्यादशुद्धिः कर्मणां भवेत्।
तस्मात्तेषां विशुद्धयर्थं विष्णुमेव सदा भजेत्॥२१॥
नन्वेकस्यैव कर्मणः कथं पारमैकान्त्यानुकूलत्वतद्विरोधित्वेइत्याकांक्षायां बुद्धिभेदात्तदा तदुभयविरुद्धमित्याहभाव- नानामिति। भावनानां कलुष्यात्कलुषितत्वात्तञ्च नित्यनैमित्तिकेष्वन्तर्यामिपर्यङ्गभावभावत्वं शुद्धविषयकेषु अपि कर्मसु स्वतन्त्रत्वञ्च। यस्मात्कालुष्यात्कर्मणामशुद्धिर्भवेत्। अतस्तेषां कर्मणां विशुद्धयर्थं विष्णुमेव सदा भजेत्। नित्यनै-
मित्तिकेषु तत्तदन्तर्यामिणं विष्णुमेव सदा भजेत्। विशुद्धविषयकमपि विष्णुशेषत्वानुसन्धानपूर्वकमेव कुर्यादित्यर्थः॥२१॥
बाह्यः सदसतां नास्ति भेदः प्रायेण कर्मसु।
सङ्कल्पादेव भिन्नानि स हेतुर्बन्धमोक्षयोः॥२२॥
उक्तमर्थं स्फुटयति-बाह्य इति। सदसतामेकान्तिनां सतामसतामनेकान्तिनां च कर्मसु प्रायेण बाह्यो भेदो नास्ति क्वचिद्भेदे विद्यमानेऽपि न सर्वत्र बाह्यो भेद इत्यर्थः किन्तु सङ्कल्पादेव भिन्नानि सतां कर्माणि भगवत्पर्यन्तानि फलाभिसन्धिविधुराणि च। असतां तु असत्पर्यन्तानि कामनोपहतानि चेत्ययमान्तरभेद एव स एव सङ्कल्पः। बन्धमोक्षयोर्हेतुः। असत्सङ्कल्पो बन्धस्य सत्सङ्कल्पो मोक्षस्य हेतुरित्यर्थः॥२२॥
यजेच्छुद्धानशुद्धान्वा साम्यात्पारम्यतोऽपि वा।
लभते विविधान्कामान्विभोस्तस्यैव शासनात्॥२३॥
शुद्धानामशुद्धानां च साम्यात्पारम्यतो वा यजनन्तु तावन्निष्फलत्वान्निन्द्यते किन्तु परमपुरुषार्थलक्षण मोक्षपरिप-न्थित्वादित्यभिप्रायवानाह यजेदिति। विभोः सकलकर्मफलप्रदस्य विष्णोरेव शासनाद्विविधान्कामान् लभते न मोक्षमिति भावः। तथा च गीतं भगवता ‘स तथा श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान्मयैव विहितान्हितान्। अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्’ इति॥२३॥
त्रिभिः प्रजापतेर्भक्तः सप्तभिः शङ्करस्य तु।
विंशत्याग्नीन्द्रसूर्यादेर्जन्मभिर्वैष्णवो भवेत्॥२४॥
अपरत्वेन ब्रह्मरुद्राद्युपासनन्तु परम्परयामोक्षाख्यपुरुषार्थसम्बन्धमित्याहत्रिभिरिति। प्रजापतेश्चतुर्मुखस्य भक्तस्त्रि- भिर्जन्मभिर्वैष्णवो भवेत् शंकरस्य सेवी सप्तभिर्जन्मभिर्वैष्णवो
भवेत्। अग्नीन्द्रसूर्यादेर्भक्तः विंशत्या विंशतिजन्माभिर्वैष्णवो भवेत्। अपरत्वेन चायं जन्मचयादिव्यवधानेन वैष्णवत्व-लाभः। साम्येन पारम्पर्येण वा देवतान्तरोपासकस्य ‘अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्’ इति तेषामन्तवत्फलोक्त्या निरवधिकपुरुषार्थान्वयाभावादतत्त्वज्ञानमूलस्य तदुपासनस्य मोक्षफलकत्वकथनायोगात्साम्यादुपासनस्य फलं कथितम्।तदनन्तरमपरत्वेनोपासनफलकथनस्याप्तत्वात्तदुपासनस्यतत्त्वज्ञानमूलतया मोक्षसम्बन्धकथनाचिन्त्या ‘तान्वै कुदृष्टयः साम्यात्परत्वादप्युपासत’ इत्यनन्तरम् ‘अपरत्वेन चाप्येता ये यजन्ति हि देवताः’ इत्याद्युक्तेस्तत्कर्मणैव तदुभयफलकथने तत्कथनौचित्या ’ द्यो महाविष्णुमन्येन हीनदेवेन दुर्मतिः॥साधारणं निरीक्षेत सोन्त्यजो नान्यथान्त्यज’ इत्यादिप्रमाणमप्येतेन साम्योपासनस्यमोक्षपरिपन्थित्वोक्तेश्च तस्माद्यथोक्त एवार्थः॥२४॥
न सांख्येन न योगेन शैवेनापि न तत्पदम्।
यदौपनिषदैः प्राप्यं पञ्चरात्रविशारदैः॥२५॥
रजस्तमोमूलतत्तत्स्मृतिविहितप्रकारेणोपासकस्य न मोक्षप्राप्तिरित्याह-न सांख्येनेति। सांख्यं कपिलस्मृतिः। योगः हैरण्यगर्भः। शैवं पाशुपततन्त्रम्। एतत्त्रितयमपि ‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ अत एव योगः प्रत्युक्तः ‘पत्युरसामञ्जस्यात्’ इत्यादिभिर्भगवता बादरायणेन निरस्तत्वात्। औपनिषदैर्वेदान्तिभिः।पञ्चरात्रविशारदैः श्रीपञ्चरात्रनिष्ठैः। औपनिषदैरित्यनेन व्यामिश्रयाजिनः। पञ्चरात्रविशारदैरित्यनेन शुद्धयाजिनश्च विवक्षिताः। इति वा साम्येन पारम्येण वा देवतान्तरोपासनस्य रजस्तमोमूलतन्त्रसिद्धत्वात्तदुपासकानां न सांक्षान्नापि परम्परया मोक्षान्वय इत्यर्थः॥२५॥
एकैकं वापि नैकान्ती भजेन्नैकान्त्यलक्षणम्।
कालेनैकान्त्यमाप्नोति नरो विगतकल्मषः॥२६॥
भगवत्पारम्याभ्युपगमस्य परमैकान्तिलक्षणतया तन्मात्राभ्युपगमेन देवतान्तरोपासकत्वादनैकान्तिनामपि जन्मत्रया- दिव्यवधानेन पारमैकान्त्यप्राप्तिरस्तीत्यभिप्रायवानाहएकैकमिति। अनेकान्ती परमैकान्त्यरहितः नरः बहुष्वेकान्ति- लक्षणेषु एकैकमेकान्तिलक्षणं वा भजन् तद्भजनजनितपुण्येन विगतकल्मषः विनष्टपारमैकान्त्यप्रतिबन्धकदुरितः कालेन जन्मत्रयादिव्यवधानकालेन ऐकान्त्यं पारमैकान्त्यमाप्नोति॥२६॥
नारायणैकनिष्ठा ये सात्त्विकास्तान्निबोधत।
पुरुषा राजसा ज्ञेया नानादैवतयाजिनः॥२७॥
सत्त्वनिष्ठानामेव मोक्षो नान्येषामिति विवक्षुः क्रमेण सत्त्वरजस्तमोनिष्ठानाहनारायणेति। एकनिष्ठा य इत्यनेनानन्य- याजित्वमुच्यते। स्पष्टमन्यत्॥२७॥
बाह्या निर्देवताश्चैव तामसाः परिकीर्त्तिताः।
रजस्तमोऽभिभूतानां न तु मोक्षः कथंचन॥२८॥
बाह्येति। बाह्या वेदबाह्याः। निर्देवताः निरीश्वराः। रजस्तमोऽभिभूतानां रजोऽभिभूता नानादैवतयाजिनः। तमोऽ-भिभूता नानादैवतयाजिन इत्यत्र भगवत्साम्येन पारम्येण वा दैवतयाजिनो गृह्यन्ते ‘न तु मोक्षः कथञ्चन’ इत्यनेन व्यवधा-नेनापि मोक्षप्रतिषेधात्॥२८॥
मुनयः सत्त्वनिष्ठानां लक्षणानि निबोधत।
विष्णोर्दास्यैकफलता तदेकोपायता स्थितिः॥२९॥
नारायणैकनिष्ठा इत्यनेन विवक्षितानि सत्त्वनिष्ठानां लक्षणानि निबोधत। विष्णोर्दास्यैकफलतां विविच्याह मुनय इति।
मुनय इति सम्बोधनम्। दास्यमेव एकं फलं येषां तेषां भावोदास्यैकफलता एव शब्दोऽवधारणार्थः। मुख्यार्थोवा तदेकोपायतास्थितिः अङ्गत्वेन प्रधानत्वेन वा भगवदेकोपायनिष्ठा। उभयेषामपि प्रवृत्तत्वात्॥२९॥
तदाज्ञाकरणे प्रीतिस्तत्कर्मगुणकीर्त्तनम्।
तचिह्नाङ्कितदेहत्वं तदीयाराधने रतिः॥३०॥
तदेति। तदाज्ञाकरणे ‘श्रुतिस्मृती ममैवाज्ञे’ इत्यादिप्रमाणप्रसिद्धे नित्यनैमित्तिकात्मभगद्दास्ये कैंकर्ये प्रीतिस्तत्कर्म गुणकीर्त्तनं दुष्टनिग्रहशिष्टपरिपालनार्थानां भगवच्चेष्टितानां ज्ञानशक्त्यादीनाम् अश्रितवात्सल्यादीनां गुणानां च तत्कीर्तनम्। तच्चिह्नाङ्कितदेहत्वं चक्रादिभगवल्लाञ्छनाञ्छितशरीरत्वम्। तदीयाराधने भागवताराधने रतिः प्रीतिः॥३०॥
तदन्यस्पर्शवैराग्यमिन्द्रियार्थेष्वलोलता।
आचार्य्याधीनवृत्तित्वमाचार्यार्थांत्मवृत्तिता॥३१॥
तदन्येति। तदन्यस्पर्शवैराग्यं भगवद्व्यतिरिक्तोपायेपि सम्बन्धासहिष्णुत्वम् इन्द्रियार्थेषु विषयेष्वलोलता अनासक्तिः धर्मानुबन्धिमोगेष्वपि ‘शरीरं प्राणवत्पश्येदन्नम्माणविलेपनम्। प्राणाभावेन च न तावानन्दस्तन्तु प्राणव’ दित्यादिक्रमेण प्रावण्यविधुरत्वम् आचार्य्याधीनवृत्तित्वम्॥३१॥
क्रोधलोभमदालस्यमानमोहविहीनता।
सत्यशौचदयाधैर्य्यक्षमासन्तोषयुक्तता॥३२॥
क्रोधेति। क्रोधः कोपः। लोभः उचितव्ययप्रतिबन्धकजनितस्तब्धभावापादकवित्तौन्नत्यविशेषः। आलस्यं कर्त्तव्येषु प्रवृत्यभावप्रयोजको मनोदौर्बल्यविशेषः। मानः उत्कृष्टजनाव मानहेतुरहङ्कारपदवाच्यो गर्वः। मोहो यथावस्थितज्ञानाभावः।
पुत्ररादादिष्वनिरुद्धा ममता बुद्धिर्वा तत्रापि। तच्छब्दप्रयोगात्। एतद्विहीनता अभावः। सत्यं यथार्थवचनम्। शौचं मृज्जलादिभिः शरीरशुद्धिरिति। इन्द्रियार्थेष्वलोलतेत्यादिना रागाद्यभावलक्षणाया आन्तरशुद्धेरुक्तत्वात्। दया दुःख- प्रहारणेच्छा। धैर्यं व्यसनैरभिभवे सत्यपि कर्त्तव्येष्वप्रमत्तत्वम्।अनवसन्नचित्तत्वमित्यर्थः। सन्तोषो यथालब्धेन प्रहर्षः। एतैर्युक्तता विशिष्टत्वम्॥३२॥
इत्येतैर्लक्षणैर्युक्ता वैष्णवा वीतकल्मषाः।
सभाज्या दर्शनेनैव नावज्ञेयाः कदाचन॥२३॥
इत्येतैरिति। दर्शनेनैव दर्शनमात्रेणैव, सभाज्याः पूज्याः। यदा दृष्टाः तदानीमेव प्रणामादिना पूजनीया इत्यर्थः। कदाचिदपि नावज्ञेयाः नावमन्तव्याः। प्रत्युत्थानाभावलक्षणमवज्ञानं न कर्त्तव्यमित्यर्थः॥३३॥
अज्ञैः कुदृष्टिभिर्बाह्यैर्नास्तिकैः संशयात्मभिः।
न तु भागवतः किंचित्प्रच्युतैश्व समाचरेत्॥३४॥
एवमेकान्तिनां भक्तप्रपन्नप्रभेदेन तत्रापि शुद्धमिश्रभेदेन च वैविध्यमुक्त्वातेषामेव सत्त्वनिष्ठत्वकथनार्थं सत्त्वरज- स्तमोनिष्ठानां वृत्तिमुक्त्वासत्त्वनिष्ठानामेव मोक्षो नान्येषामित्यनन्तरममिधाय सत्त्वनिष्ठानां लक्षणानि च निर्दिश्य तेषां दर्शनमात्रेणैव पूजनीयत्वं विधाय तदन्येषां संसर्गः सर्वप्रकारेणापि परित्याज्य इत्याह-अज्ञैरिति। अज्ञाः शास्त्रज्ञानशून्याः कुदृष्टयः वेदं प्रमाणतया परिगृह्याप्यन्यथाप्रतिपत्तिविपरीत प्रतिपत्तिभिर्विनष्टाः पापिष्ठाः। बाह्या वेदविरुद्धैकपरस्परवि- रुद्धेषु तन्त्रेष्वन्यतरप्रामाण्यनिर्णयरहिताः प्रच्युतानां तन्त्रैक शरणाः नास्तिकाश्चार्वाकमतस्थाः संशयात्मनां स्वरूपं वक्ष्यति। एतैः सह किंचिदपि न समाचरेत्॥३४॥
तुल्याभिजनचारित्रा बान्धवास्तुल्यदृष्टयः।
आपाद्य दृष्टयोऽपि स्युर्न कदापि कुदृष्टयः॥३५॥
बान्धवमपिपरमैकान्तिभिः सममेव सम्पादनीयम्। न पूर्वोक्तैरित्याह-तुल्येति। तुल्याभिजनचरित्रा बाह्यान्तरतुल्य- कुल वृत्तयः। तुल्यदृष्टयः समानज्ञानाः। बान्धवाः स्युः। आपदि तुल्याभिजनचारित्रतुल्यदृष्ट्यभावा आपत् तस्यां दशायाम्। अदृष्टयः ज्ञानशून्या बान्धवाः स्युः कदाचिदपि आपदि कुदृष्टयः अन्यथा ज्ञानविपरीतज्ञानग्रस्ता बान्धवा न स्युः॥३५॥
विवाहयज्ञाध्ययनस्पर्शसंवासभोजनम्।
एकान्तिनान्तु कर्त्तव्यं तादृशैः सह बान्धवैः॥३६॥
श्लोकद्वयेनोक्तमर्थं विशदयति-विवाहेत्यादि। विवाहः तत्कन्यकानां स्वीकारः स्वकन्यकानां तेभ्यः प्रदानञ्च। यज्ञः तेषुयाजकेषु सत्सु स्वयं यजनम्; तेषु यष्टुषु स्वयं याजनं च। अध्ययनं तेषु अध्यापकेषु स्वय मध्ययनम्। तेष्वध्येतृषु स्वयमध्यापनञ्च। एवं सद्यस्तत्साम्यापादकं विवाहयाजनाऽध्यापनलक्षणं सम्बन्धत्रयमुक्तम्। अथोपवृत्त्या तत्साम्यापादकं सम्बन्धान्तरमाह। स्पर्शसंवासभोजनमिति स्पर्शः प्रसिद्धः। संवासः एकशय्यायां सह वासः। भोजनं तदन्नभोजनम्। एकपंक्तौ भोजनञ्च ‘एकशय्यासनं पंक्तिभाण्डपक्वान्नमिश्रणम्। याजनाध्यापने योनिस्तथैव सहभोजनम्॥नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः’ सह इतिवचनाद्विवाहादिकं सर्वमेकान्तिनान्तादृशैरेकान्तिभिरेव संकलं कम कारयेत्॥३६॥
सतामनवकाशत्वात्कालांशेषु न लौकिकम्।
तस्मादलौकिकैरेव सकलं कर्म कारयेत्॥३७॥
भगवदेकफलसाधनैरपि भगवच्छास्त्रसिद्धपञ्चकालविभागेनाच्छिद्रभगवत्कर्मकारिभिरेव सममच्छिद्रपञ्चकालः परमैकान्तिभिः सकलं याजनाध्यायनादिकं कर्म कारयेत्। न तु दक्षाद्युक्तप्रकारेणाष्टधा विभागेना ‘ष्टमेलोकयात्रा चे’ त्यादिप्रक्रियया लोकयात्रापरायणैरित्यभिप्रायवानाह-सतामिति। सतामनवकाश त्वात्पञ्चस्वपि कालेष्वच्छिद्र- भगवत्कैङ्कर्यैकरतितया कालांशेषु कालभागेषु अवकाशाभावाल्लौकिकं लोकयात्रारूपकर्म नास्ति अतः स्वयमलौकिकत्वादलौकिकैर्लोकयात्राविमुखैरेव सकलं कर्म कारयेत्। कालांशेष्वित्यस्य उपादानाद्व्यर्थकालेषु अप्रयोजनसिद्धद्रव्यादिकस्य पुरुषार्थः। अतिरिक्तांशेष्विति वार्थःअतिरिक्तांशेष्वपि हि स्वाध्यायादेव सुप्रवेशो भगवच्छास्त्रेषु कथितः। न तु लोकयात्रायाः। द्रव्ययोजनाभावात्॥३७॥
समित्पुष्पहविस्तोयपात्रोपनयनादिषु।
अवैष्णवान्विशेषेण न कर्मसु नियोजयेत्॥३८॥
चतुर्थाध्याये न चैषां कर्म कुर्वीत न स्वकर्म च कारयेदित्युक्तस्यार्थे विशयदयन्नाह समिदितिविशेषेण समिधां पुष्पा-णाञ्च यज्ञियानाम्। आनयनादिषु कर्मस्ववैष्णवान्न नियोजयेत्॥३८॥
नोभोक्तव्यमन्नाद्यमवैष्णवनिवेदितम्।
नावैष्णवाय दातव्यं स्वयं विष्णोर्निवेदितम्॥३९॥
नेति। अवैष्णवनिवेदितं वैष्णवैः स्वादितमपि अवैष्णवैर्भगवते निवोदितमन्नाद्यं न नियोक्तव्यम्। यद्वा भगवत्प्रसाद बुद्धयापि अवैष्णवनिवेदितं न स्वीकार्यमित्यर्थः॥३९॥
ये त्ववैष्णवभर्तव्या ये चावैष्णभर्तृकाः।
ऐकान्त्यस्योपघातेन न तैः कर्माण्यनापदि॥४०॥
येत्विति। अवैष्णवा भर्त्तव्यापुत्रदारादिका येषां ते तथोक्ताः। वाषैष्णवा भर्त्तारो भरणकर्त्तारो पित्रादयो येषांते तथोक्ताः। ये चेति पुल्लिङ्गमविवक्षितं वा। तदा भर्तृशब्दः पतिवाची।भर्त्तव्यशब्दश्व भार्यावाची यस्या भर्त्ता न वैष्णवः यस्य भार्य्या न वैष्णवी उभयोरप्यैकान्त्योपघातेन उपहतैकान्त्यत्वाद्भार्याया भर्तुरर्द्धत्वेन श्रूयमाणतया भर्तुरपि तदर्द्ध-तथा अर्द्धस्य अपारमैकान्त्योपहतत्वादनापदि। आपदि एवं विधपरमैकान्त्यलाभदशायां तु न दोष इति भावः॥४०॥
त्यक्ताचारस्त्यक्तदृष्टिस्त्यक्तार्थस्त्यक्तलक्षणः।
त्यक्ताचार्यस्त्यक्तमन्त्रः प्रत्येकं प्रच्युतो नरः॥४१॥
‘न तु भागवतः किञ्चित्प्रच्युतैश्च समाचरे’ दिति पूर्वमुक्तम्। इदानींप्रच्युतानाह-त्यक्तेति।विहिताचारदृष्टिभक्तिलक्ष्मस- त्सेवाख्येषु पञ्चसु वृत्त्यवयवेष्वैकैकविकलः प्रच्युत इत्याशयः। त्यक्ताचारः वृत्त्यवयवविहिताचाररहितः। त्यक्तदृष्टिः दृष्ट्याख्यवृत्त्यवयवरहितः। त्यक्तार्थार्थः। इदमुपलक्षणम्। भक्तिलक्षणवृत्त्यवयवविकल इत्यर्थः। त्यक्तलक्षणः लक्ष्माख्यवृत्त्यवयवशून्यः। त्यक्ताचार्यः सत्सेवारूपवृत्त्यवयवविधुरः। त्यक्तमन्त्रः लक्ष्मान्तर्गतत्वेऽपि मन्त्रस्य पृथगुपादनं प्रधानत्वात्। प्रत्येक्तं प्रच्युतः त्यक्ताचारः। एवं त्यक्तदृष्टिः त्यक्ताचार्यश्च प्रत्येकं प्रच्युत इत्यर्थः॥४१॥
पातकेन कुदृष्ट्यान्यभजनेनान्यलक्षणैः।
अवैष्णवोपसत्त्यान्यमन्त्रेणापि च्यवन्ति वै॥४२॥
एवं विहिताचारादिवृत्यवयवविरुद्धान्विता अपि प्रत्येकं प्रच्युता इत्याह-पातकेनेति। पातर्क विहिताचारविरुद्धम। कुदृष्टिर्दृष्टिविरुद्धा अन्यभजन भक्तिविरुद्धम्।
अन्यलक्षणामि लक्ष्मविरुद्धानि। अवैष्णवोपसत्तिःसत्सेवा विरुद्धा।अन्यमन्त्रेण इतरमन्त्रेण। अत्रापि त्यक्तमन्त्र इत्यत्रेव निर्वाहो दृष्टव्यः। च्यवन्ति प्रत्येकं प्रच्युता भवन्ति प्रत्येकमिति योज्यम्। नृत्यवयवेष्वेकैकानन्वयिनां प्रत्येकं प्रच्युतत्वेतद्विरुद्धानां षण्णांप्रत्येकं प्रच्युतत्वस्य कैमुत्यन्यायेनसिद्धत्वात्॥४२॥
यो दिव्यशास्त्रमन्त्रेषु कुरुते त्ववधीरणाम्।
तथान्यशास्त्रमन्त्रेषु प्रसक्तिं न च वैष्णवः॥४३॥
त्यक्ताचार इति श्लोके त्यक्तदृष्टिस्त्यक्तमन्त्र इत्ति पदाभ्यां तदनन्तरं श्लोकेषु च कुदृष्ट्या अन्यमन्त्रेणेति पदाभ्यां च विवक्षितमर्थं पूर्वोत्तराभ्यां स्फुटयति-य इति दिव्यशास्त्रमन्त्रेषु दिव्यशास्त्रेषु दिव्यमन्त्रेषु चेत्यर्थः। अवधीरणामवज्ञां यः कुरुते तथा अन्यशास्त्रेषु अन्यमन्त्रेषु च यः प्रसक्तिम् अत्यादरेण संगं करोति स दिव्यशास्त्रमन्त्रप्रसक्तश्च न वैष्णवः दिव्यशास्त्रमन्त्रे ष्वपि दृढविश्वासे पर्याकलनासक्ततया वा देशकालादिवैगुण्येन वा देशे काले येन दिव्यशास्त्रविलोकनं दिव्यमन्त्रजपो वा न कृतः येन निरासार्थं हेयत्वेन ज्ञानार्थं वा अन्यशास्त्रमन्त्रावलोकनंकृतं न तयोरभागवतत्वमिति भावः। यद्वा त्यक्ताचार इत्यादि श्लोके वृत्यवयवविकल्पः। प्रच्युत इच्युक्ताः। अनन्तरश्लोकेतद्विरुद्धसेविनस्ततोऽपि निकृष्टा उक्ताः। अनेन श्लोकेन वृत्त्यवयवबाधितकरणपूर्वकं तद्विरुद्धसेविनस्ततोऽपि निकृष्टा उक्ता इति ध्येयम्॥४३॥
सर्वैश्च लक्षणैर्युक्तो नियतश्च स्वकर्मसु।
यस्तु भागवतान्द्वेष्टि सुदूरं प्रच्युतो हि सः॥४४॥
अथैकैकवृत्यवयवविकलतद्विरुद्धसेवा तदवधीरणापूर्वकतद्विरुद्धसेविभ्योऽपि निकृष्टं प्रच्युतमाह-सर्वैरिति। सर्वैश्चलक्ष-
णैस्तापपुण्ड्रादिलक्षणैर्युक्तः। स्वकर्मसु विहिताचारे नियतो वस्तु भागवतान् परमैकान्तिनः साम्यतो वैष्णवान्वा द्वेष्टि ससुदूरं प्रच्युतः त्यक्ताचारादिभ्यः पातकाद्यन्वयिभ्यः दिव्यशास्त्रावमन्तृभ्योऽपि अत्यन्तं प्रच्युत इत्यर्थः। हि शब्दः ‘नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्नयमस्य दण्डात्। नाग्न्यर्कसोमानिलवित्तपात्राच्छङ्के भृशं ब्रह्मविदोऽवमानात्’। ‘पद्मकोटिशतेनापि न क्षमामि वसुन्धरे’ इत्यादिप्रसिद्धिं द्योतयति॥४४॥
अपि चेत्सेवनपरो न चेत्तापादिसंस्कृतः।
अनर्चार्हतया विष्णोर्दास्यात्प्रच्यवते ध्रुवम्॥४५॥
त्यक्तलक्षण इति पूर्वोक्तं लक्षणत्यागं स्पष्टयति-अपि चेति-अपीति सत्सेवनपरोऽपि भागवतसेवारतोऽपि तापादि- संस्कृतो न चेत् तापपुण्ड्रानामादिसंस्कारहीनो यदि स्यात्तथा विष्णोरर्चानर्हतया विष्ण्वर्चायामनर्हतया दास्यात्प्रच्यवते प्रच्युतो भवति ध्रुवं नात्र कार्य्या विचारणेत्यर्थः॥४५॥
यस्तु प्राप्य गुरोर्विद्यां नार्चयेत्पुरुषोत्तमम्।
प्रणमेदन्यदेवाय न स भागवतः स्मृतः॥४६॥
त्यक्तार्च इत्युक्तंविशदयति यस्त्विति-गुरोराचार्याद्विद्यां मन्त्रं प्राप्य लब्ध्वा पुरुषोत्तमं भगवन्तं नार्चयेदन्यदेवान्वा प्रणमेद्देवतान्तरनमस्कारं वा कुर्यात् स भगवदनर्चकः देवतान्तरप्रणामो वात्र न भागवत इत्यर्थः। देवतान्तरप्रणामी तृतीये त्यक्तार्चपदेन संगृहीत इति भावः। भागवतो न स्मृतः॥४६॥
ये नात्मानमनात्मानं विद्याविद्ये फलाफले।
उपास्यमनुपास्यञ्च वेत्ति भागवतो न सः॥४७॥
त्यक्तदृष्टिस्वरूपमाह-येनेति। आत्मानं ज्ञानाधिकरणमात्मस्वरूपम्। अनात्मानं ज्ञानानधिकरणं प्रकृतिस्वरूपम्।
विद्याविद्ये विद्याशब्दो मोक्षोपायज्ञानपरः। अविद्याशब्दस्तद्विरोधिपरः। मोक्षोपायस्वरूपं तद्विरोधिस्वरूपञ्चेत्यर्थः।फलाफले मोक्षाख्यफलस्वरूपं तद्विरोधिस्वरूपं चेत्यर्थः। उपास्यमीश्वरस्वरूपमनुपास्यं तदितराँश्च यो न वेत्ति स भागवतो न स्मृतः। अर्थपञ्चकज्ञानरहितो भागवतो न भागवतइत्यर्थः॥४७॥
देवतानाञ्च याथात्म्यं कैङ्कर्य्यस्य हरेरपि।
अविदित्वाचरन् कर्म विहीनां गतिमश्नुते॥४८॥
त्यक्ताचार इति पदेनाभिप्रेतमाह-देवतानामिति। देवतानामित्यादिश्लोकद्वयेन देवतानां तत्कर्मसु चोदितानाम्। अग्नीन्द्रादीनां याथात्म्यं भगवद्देहभावं हरेः कैङ्कर्यश्च अविदित्वाअज्ञात्वा कर्मवर्णाश्रमनियतम्। आचरन् कुर्वन् विहीनां निकृष्टां गतिमश्तुने अनुभवति। क्रियमाणेषु वर्णाश्रमनियतेषु कर्मसु तत्तद्देवतान्तर्याम्याराधनत्वं भगवदाज्ञाकैर्यत्वं च ज्ञात्वा तत्तकर्म कुर्वाणोऽपि त्यक्ताचारपदेन संगृहीतः। प्रच्युत इत्यर्थः। अविदित्वा त्यजन्कर्मेत्यपरः पाठः। तत्र देवतानां कंचुकत्वं हरेराराध्यत्वं कर्मणां कैङ्कर्य्यत्वमविदित्वा देवतान्तरविषयत्वबुद्ध्या साधनत्वबुद्ध्या च कर्म त्यजन् विहीनां गतिमश्नुत इत्यर्थः॥४८॥
देवर्षिभूतात्मतया त्यजन्केवलमेव वा।
विष्णुं तत्तत्फलाकांक्षी पारमैकान्त्यतश्च्यवेत्॥४९॥
देवर्षीति। देवतानामृषीणां भूतानात्मतया केवलं देवर्षिभूतव्यवधानं विना वा तत्तत्कर्मफलाकांक्षी आपाततस्तत्त-त्कर्म साध्यतयावनफलाकांक्षी सन् विष्णुं यजन्पारमैकान्त्यतश्च्यवेत् च्यतोभवेत्। वर्णाश्रमनियताचारेषु देवाद्य- न्तर्यामितया
भगवन्तमाराधयन्नपि स्वधर्मेषु साक्षादेव यजन्नपि फलाकांक्षी चेत् च्युतोभवेत् पारमैकान्त्याच्च्युतोभवेदित्यर्थः॥४९॥
तेषां न परिशुद्धानि यो निर्विद्याञ्च कर्म च।
ये विष्णुचरणैकान्त्यविहीना ब्राह्मणादयः॥५०॥
तेषामिति। विष्णुचरणैकान्त्यविहीनाः भगवत्पदारविन्दपारमैकान्त्यविधुराः ये ब्राह्मणादयः। आदिशब्देन वर्णान्तर- संग्रहः। तेषां योनिर्विद्या च कर्मचेत्येतानि न परिशुद्धानि। तैः सह योनिसम्बन्धो विद्यासम्बन्धो याजनादि लक्षणकर्म- सम्बन्धश्च न कर्त्तव्य इति भावः॥५०॥
मरणं जन्मने जन्म मरणायैव केवलम्।
तेषां भगवदैकान्त्यविमुखा ये नराधमाः॥५१॥
पारमैकान्त्यरहितानां जन्म विफलमिति तान्निन्दति-मरणमिति। ये भगवदैकान्त्यविमुखाः नराधमाः, तेषां जन्म मरणायैव केवलं मरणातिरिक्तफलकं न भवतीत्यर्थः। मरणमपि जन्मने केवलं न तु मुमुक्षोर्मरणमिव मोक्षफलकमितिभावः॥५१॥
न विद्या केवलार्थाय नाचारो नार्चनं हरेः।
न चक्राद्यङ्कदेहत्वं विना भागवतार्चनम्॥५२॥
वृत्त्युदयस्य एकैकमित्यनेन आवश्यकत्वम्। अवरोहक्रमेण प्रपञ्चयन् प्रथमं सत्सेवां प्रपञ्चयति-न विद्येति। केवल भागवतार्चनं विना भागवताराधनेन विना कृता विद्या दृष्टिः अर्थाय प्रयोजनाय। आचारो विहिताचारः। अत्रापि केवल इति लिङ्गव्यत्ययेन सम्बन्धः। एवमुत्तरत्रापि सम्बन्धोद्रष्टव्यः। सोऽपि नार्थाय केवलं चक्राद्यङ्कदेहत्वमपि नार्थाय।केवलशब्दः विना भागवतार्चनमित्येतदनुवादकरूपो वा यन्तव्यः॥५२॥
न प्रपत्तेः परा विद्या न विष्णोर्दैवतम्परम्।
न तद्दास्यात्परा सिद्धिर्न गुरुर्वैष्णवात्परः॥५३॥
न प्रपत्तेरिति। प्रपत्तेः परा अधिका विद्या न। “सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा। नार्हन्ति शरणस्थस्य कलांकोटितमामपि” इत्यादिकमत्रानुसन्धेयम्। वेदान्ताचार्य्याश्वाहुः ‘तन्निष्ठोऽप्यन्यनिष्ठान्प्रभुरतिशयितुंको- टिकोट्यंशतोऽपि’ इति। विष्णोः परमधिकं दैवतं नास्ति। सर्वानन्दातिशाय्यवाङ्मनसगोचरं ब्रह्मानन्दानुभवजनितप्रीतिकारिततत्कैङ्कर्य्यादधिका सिद्धिर्नास्तीत्यर्थः। एतत्त्रयं दृष्टान्तार्थम्। वैष्णवात्परमैकान्तिनः परः अधिक गुरुर्नास्ति पूजनीय इति। “आराधनानां सर्वेषां विष्णोराराधनं परम्। तस्मात्परतरं प्रोक्तं तदीयाराधनं नृप। मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत्। तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः” इत्यादिकमत्रानुसन्धेयम्॥५३॥
नित्यमच्युतभक्तानां कुर्यात्पादावनेजनम्।
नम्रः समुपभुञ्जीत सर्वंपातकनाशनम्॥५४॥
नित्यमिति। अच्युतभक्तानां नित्यं पादावनेजनं पादप्रक्षालनं कुर्यात। तत्तीर्थं पादतीर्थम् उपयुञ्जीत सेवेत पिबेत्॥५४॥
वैष्णवस्याकशय्यायां वैष्णवस्य गृहेऽपि वा।
देशे वा तद्विचरिते संस्थिता यान्ति सद्गतिम्॥५५॥
वैष्णवस्येति। वैष्णवस्याङ्कएव शय्या तस्यां वैष्णवस्य गृहे भवनेऽपि वा तद्विचारतेवैष्णवसञ्चारवति विविक्ते देशे वा संस्थिताः मृताः। सम्पूर्वतिष्ठतेर्मरणवाचित्वात्तदुक्तं श्रीवत्साङ्कमिश्रैः ‘पुत्रादयः कथममी मयि संस्थिते स्युरित्यप्रतिक्रियनिरर्थकचिन्तनेन। दूये न तु स्वयमहं भवितास्मि कीदृगित्यं न हस्तिगिरिनाथविनर्शितैति’ इति सद्गतिं यान्ति॥५५॥
यत्र क्वाप्यथ वा देशे वैष्णवो म्रियते यदा।
तदा तत्राशु सान्निध्यं करोति गरुडध्वजः॥५६॥
यत्रेति। यत्र क्वापि देशेऽपि “रथ्यान्तरेमूत्रपुरीषमध्ये चण्डालवैश्मन्यथ वा श्मशाने। कृतप्रयत्नोऽप्यकृतप्रयत्ने देहाव- साने लभते च मुक्तिम्” इत्यादिकमत्रानुसन्धेयम्। गरुडध्वज इत्यस्य गरुडस्कन्धमारोग्य दिव्यं धाम नेतुं तेन सह गच्छतीति भावः।
न जन्मनो नाध्ययनान्न यज्ञान्न तपःश्रमात्।
न त्यागादश्नुते ब्रह्म गुरूपसदनं विना॥५७॥
मत्सेवायामपि गुरुवश्यता प्रधानेत्यभिप्रायेणाह-न जन्मन इति। गुरूपसदनं विना आचार्यसमाश्रयणं विना जन्मनः ब्राह्मणाद्युतमवर्णाज्जननादपि ब्रह्मभगवद्वासुदेवनारायणशब्दवाच्यं परं ब्रह्म नाश्नुते न प्राप्नोति। अध्ययनाद्वेदाध्ययनादपिनाश्नुते। यज्ञाद्यज्ञाद्यनुष्ठानादपि नाश्नुते। तपःश्रमाच्चान्द्रायणादि तपोऽनशनक्लेशादपि नाश्नुते। त्यागात् विषयत्यागात्। अध्ययनयज्ञतपस्त्यागशब्दैस्तत्प्रधानमाश्रमचतुष्टयमुच्यते॥५७॥
देहकृन्मन्त्रविन्न स्यान्मंत्री संस्कारकृत्परः।
तौ च नात्मविदौ स्यातामन्यस्त्वात्मविदात्मकृत्॥५८॥
आचार्यतया को वा करणीयइत्यपेक्षायामाह-देहकृदिति। देहकृत् पिता मन्त्रविन्न स्याच्चेत्परः अन्यः मन्त्री मन्त्रवित्संस्कारकृदुपनयनादिसंस्कारकृत् उपनयनादिसंस्कारकर्त्ता तौ देहकृतसंस्कारकृतौ च आत्मविदौआत्मज्ञौ न स्याताश्चेदन्यः ताभ्यामन्यः आत्मविदात्मज्ञः आत्मकृद्ब्रह्मविद्योपदेष्टा आचार्यः पिता चेन्मन्त्रज्ञः स्यात्सएव संस्कार- कृद्भवितुमर्हति। स एवआत्मविच्चेदात्मकृद्भवति सोऽप्यात्मविन्नस्थाश्चेदन्य एवात्मज्ञः आत्मकृदित्यर्थः। देहकृदित्यनेन ‘शरीरमेव
मातापिरौ जनयतः’ इत्ययमंशः स्मारितः। आत्मकृदित्यनेन ‘सहि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्मे’ त्येतत्स्मारितम्॥५८॥
न चक्राद्यंकनं नेज्या न ज्ञानं न विरागता।
न मन्त्रः पारमैकान्त्यं तैर्युक्ता गुरुवश्यता॥५९॥
न चक्रेति। चक्राद्यङ्कनन्नकेवलं तप्तचक्रादिधारणमपि पारमैकान्त्यम् न इज्या। इदञ्चभक्त्युपलक्षणम्।केवलेज्यापि पारमैकान्त्यं न ज्ञानं दृष्टिरपि पारमैकान्त्यं न विरागता वैराग्यमपि पारमैकान्त्यं न वृत्त्यवयवविरोधिवर्ज्जनं वैराग्यम्। ‘निन्द्यवर्जन’ मित्यत्रैवान्यन्नोक्तेः। मन्त्रः केवलमन्त्रोऽपि पारमैकान्त्यं न किन्तु तैश्चक्राद्यङ्कनादिभिर्युक्ता गुरुवश्यता आचार्याधीनता पारमैकान्त्यमित्यर्थः॥५९॥
विद्या विभूषणं पुंसस्तस्या वृत्तं विभूषणम्।
विष्णुभक्तिर्विभूषास्य सा चक्राद्यंकभूषणा॥६०॥
एवं सत्सेवां प्रपंच्यइदानीं लक्ष्म प्रपञ्चयन् विहिताचारादेर्भूप्यभूषणभावमाह-विद्येति। पुंसः विद्यादृष्टिर्विभूषणम्। तस्या वृतं विहिताचारो विभूषणम् अस्य वृत्तस्य विष्णुभक्तिर्विभूषा सा विष्णुभक्तिश्चक्राद्यङ्कभूषणा विष्णु- भक्तेर्लक्ष्मभूषणमित्यर्थः। आत्मनः हेयोपादेयविवेककारणं शास्त्रजन्यज्ञानं भूषणवदतिशयावहन्तस्य च ज्ञानस्य यथाज्ञानमाचारोभूषणवत् ‘शुनः पुच्छमिव व्यर्थ पाण्डित्यं धर्मवर्जितम्। नाच्छादयति कौपीनं न दंशमशकापह’ मित्यादिवदुपहास्यत्वप्रसङ्गात् वृतमतिशयावहम् ‘जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः। नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते’ इति समचारस्य भक्तिफलकतया फलभूता भक्तिः वृत्तस्यातिशयावहा। तस्यापि भक्तेर्लक्षणतया चक्राद्यङ्कनं भूषणमित्यर्थः॥६०॥
ध्यानेन मन्त्रयोगेन पूजनेनांकनेन च।
तोषयन्ति जगन्नाथं वासुदेवं युगक्रमात्॥६१॥
कलियुगस्य पापभूयिष्ठतया विशेषतोऽन्तिमयुगे सकलपापनिवर्त्तकं चक्राद्यङ्कनमावश्यकमित्यभिप्रायवानाह- ध्यानेनेति। मन्त्रयोगो मन्त्रजपो जपानुष्ठानम्। कृतयुगे ध्यानेन त्रेतायां मन्त्रयोगेन द्वापरे पूजनेन कलौ चक्राद्यंकनेन जगन्नाथं वासुदेवं तोषयन्ति॥६१॥
अष्टमात्षोडशब्दाद्वा धार्य्यं चक्रादिभूषणम्।
प्रतप्तैरंकनं पश्चात् सदा वा भूषणं स्त्रियाः॥६२॥
स्फुटतया यस्मिन्काले निष्कर्तुं शक्यते तावत्पर्यन्तभूषणतया पञ्चायुधधारणं कर्त्तव्यम्। ततः प्रतप्तैश्चक्रादिभिरंकनं कार्यमित्यभिप्रायेणाह-अष्टमादिति। अष्टमाब्दादारभ्य इदं चोपनयनोपलक्षणार्थम् अष्टमाब्दस्य ब्राह्मणोपनयनकालत्वात्। अथवा आषोडशाब्दात् अष्टमादूर्ध्वम् आषोडशब्दाद् ब्राह्मणस्य गौणोपनयनकालत्वात्। केषु चिद्वचनेषु उपयनकाले चक्राद्यंकनस्य विधानात्उपनयनस्य षोडशाब्दपर्यन्तं सम्भावित त्वात्तावात्पर्यन्तंचक्रादिभूषणं धार्यम्। पश्चात्प्रतप्तैश्चक्रादिभिरङ्कनम्। स्त्रिया भीरुतया कस्याश्चिदङ्गनाशक्तायाः सदा भूषणमेव वाच्छन्तीत्यर्थः। वा इत्यनेन अमुख्यत्वम्। अन्यमतत्वं च ज्ञाप्यते॥६२॥
शिष्यपुत्रकलत्राणां भृत्यानाञ्च गवामपि।
कुर्यादचेतनानाञ्च वैष्णवं नाम लक्ष्म च॥६३॥
लक्ष्मधारणवत् वैष्णवनामधारणमपि पुत्रादीनां कार्यमित्याह-शिष्येति। भृत्यः भृतिमूलदास्वसम्बन्धवान् गर्भाधानादिमान्अचेतनानां गृहोपकरणानां वैष्णवं विष्णुसम्बन्धि लक्ष्मचक्राद्यङ्कनम्॥६३॥
आमा ह्यतप्ततनवस्तप्ताङ्गा हरिलाञ्छनैः।
सुश्रुता भोग्यतां प्राप्य भुज्यन्ते परमात्मना॥६४॥
‘अतप्ततनूर्नतदामोअश्रुते, इति श्रुतिमुपबृंहयति-आमा हीति। अतप्ततनवः सप्तचक्रानङ्कितदेहाः आमाः अपक्काः अदग्धपापा इति यावत्। हरिलाञ्छनैश्चक्रादिभिस्तप्ताङ्काः सुशृताः परिपक्वाः। दग्धपापा इति यावत्। श्रापाक इति धातुः। भोग्यतां भोगयोग्यतां प्राप्य आमस्य अपक्वस्य भोगायोग्यत्वादितिभावः। परमात्मना नारायणेन भुज्यन्ते’ अहमन्नमुन्नमदन्तमघ्नी, तिवद। भोगयोग्यो भूत्वा भुज्यत इत्यर्थः॥६४॥
ऊर्द्ध्वपुण्ड्रान्तरालस्थांश्चक्रादीन्धारयेत्सदा।
बहिष्कृता ह्यतिक्रुद्धाः पदात्प्रच्यावयन्ति ते॥६५॥
ऊर्द्धपुण्ड्रेति। चक्रादीन्हेतीन्सदा ऊर्द्धपुंड्राणामन्तरालस्थान्धारयेत्। बहिष्कृताः उर्द्धपुण्ड्रान्तरालस्थतया अधृताश्चेत्पदात्प्रच्यावयन्ति। चक्रादिभिरङ्कनं बाहुवक्षोललाटमस्तकेधाय्योर्द्धपुण्ड्रान्तरालस्थलेष्वेव कर्त्तव्यमित्यर्थः॥६५॥
प्रातर्मध्यंदिने सायमूर्द्ध्वपुण्ड्रेण केशवः।
अकृतैर्वापि सुकृतैस्तैस्तैः प्रीणाति कर्मभिः॥६६॥
प्रातरिति। अकृतैः सुकृतैः सम्यगनुष्ठितैर्वातैस्तैस्तत्कालचोदितैः कर्मभिः केशवः प्रीणाति। कालत्रयोर्द्धपुण्ड्रधारणं तत्तत्कालविहितकर्मणां न्यूनातिरिक्तदोषशामकतया भगवत्प्रीणनमिति भावः॥६६॥
प्रभाते दिव्यलोकस्थं मध्याह्ने चार्कमध्यगम्।
तोषयन्त्यूर्द्ध्वपुण्ड्रेण सायं स्वात्मगतं हरिम्॥६७॥
प्रभात इति। दिव्यलोकस्थं परमपदवासिनं मध्याह्ने अर्क्कमध्यगम् \। आदित्यमण्डलान्तर्वर्तिनं सायङ्काले॥६७॥
सन्तः सतोऽनुगृह्णन्ति दर्शनादेव लक्ष्मभिः।
त्यजन्त्यन्ये तदुभयं मुख्यमेकान्त्यकारणम्॥६८॥
लक्ष्मधारणस्य फलान्तरमाह-सन्तइति। सन्तः शेषत्वज्ञानलब्धसत्ताका लक्ष्मभिः चक्राद्यूर्द्धपुण्ड्रान्तैःचिह्नैर्दर्शनादेव दर्शनमात्रेण सतः सत्पुरुषाननुगृह्णन्ति सतो मत्वा परिगृह्णन्तीत्यर्थः। अन्ये असन्तः अवैष्णवा वैष्णवचिह्नं दृष्ट्वा वैष्णवा इमे इति त्यजन्ति। तदुभयं सत्परिग्रहासत्परिग्रहात्मकद्वयमपि मुख्यं प्रधानम् ऐकान्तस्य परमैकान्तित्वस्य कारणमतो लक्ष्मधारणमावश्यकमित्यर्थः॥६८॥
क्रमाप्त भगवन्मन्त्रः कल्पविच्छुद्धमानसः।
धृतोर्द्धपुण्ड्रश्चक्रादिलाञ्छितो हरिमर्चयेत्॥६९॥
अथ भक्तिं प्रपञ्चयन्लक्ष्माङ्गत्वाद्भक्तेर्लक्ष्मप्रपञ्चनानन्तरं भक्तिप्रपञ्चनमुचितमिति सङ्गतिमभिप्रदर्शयन्नाह-क्रमाप्तेति क्रमाप्तभगवन्मन्त्रः सम्प्रदायक्रमलब्धभगवन्मन्त्रः। कल्पविन्मन्त्रकल्पज्ञः भगवत्समाराधनकल्पज्ञो वा॥६९॥
यथापूर्वाकृतीन्नित्यान्मुक्ताँश्चैव यथागमम्।
यथावतारदेहं च पूजयेद्धरिमिच्छया॥७०॥
अर्चयेदित्यर्चनं प्रस्तुतम्। तच्च सपरिवारकं भगवद्विषयकं परिवाराश्च नित्यमुक्ताः। किमाकृतींस्तानर्चयेत्। कीदृशाकृतिंहरिं वा पूजयोदित्यपेक्षायामाह-यथेति। मुक्तान्यथापूर्वाकृतीन् तादृशाकृतिमतः पूजयेदित्यर्थः। इच्छया बहुष्ववतारेषु स्वेच्छाविषयं पूजयेदित्यर्थः॥७०॥
अवैष्णवाद्वैष्णवाद्वा चेतनं वाप्यचेतनम्।
यदवाप्तं समस्तं तद्विष्णवे विनिवेदयेत्॥७१॥
इज्याया उपादानपूर्वकत्वात्। उपादानार्जितं चेतनाचेतनात्मकं भगवते निवेदनीयमित्याहअवैष्णावादिति। अवैष्णवोऽप्यत्र शाण्डिल्यादिप्रतिषिद्धकुलटापाखण्डपतितादिव्यतिरिक्तः अनुकूलो ज्ञेयः। वैष्णवासस्मादलाभे अवैष्णवाद्वा प्राप्तं चेतनाचेतनात्मकं सर्वंविष्णवे विनिवेदयेदित्यर्थः॥७१॥
वासः स्रग्गन्धभूषादि भक्ष्यभोज्यादिकं तथा।
न किञ्चिदुपभोक्तव्यमनिवेद्य श्रियः पतेः॥७२॥
भगवदर्थमुपादत्तस्य भगवते निवेदनात्पूर्वमुपयोगो न कर्त्तव्य इत्याह-वास इति। वासो वस्त्रम् स्रक् माला गन्धः मलयजादिः। भूषा भूषणम् आदिशब्दादायुधादिसंग्रहः भक्ष्यं शष्कुल्यादि भोज्यमन्त्रादि आदिशब्दाच्चोष्यादिग्रहणम्॥७२॥
वेदवेदाङ्गतत्त्वज्ञो वेदान्तपरिनिष्ठितः।
मीमांसान्यायनिपुणो धर्मशास्त्रविशारदः॥७३॥
अथ दृष्टिं प्रपञ्चयन् ‘यदेवविद्यया करोति तदेववीर्य्यवत्तरं भवती’ति न्यायेन ज्ञानपूर्वकमेव पारमैकान्त्यनियतं धर्मानुष्ठानं कर्त्तव्यमित्याह-वेदेति। वेदाः ऋग्यजुःसामाथर्वाख्याः वेदाङ्गानि शिक्षाकल्पव्याकरणनिरुक्तज्योतिश्छन्दांसि वेदान्तपरिनिष्ठितः मीमांसान्यायनिपुणः वेदपूर्वोत्तरभागार्थनिर्णायकमीमांसाद्वयनिपुणः। धर्मशास्त्रविशारदः पूर्वभागोपबृंहणमन्वादिधर्मशास्त्रपरिशीलनपरः। अस्य श्लोकस्य उत्तरश्लोकेनान्वयः॥७३॥
इतिहासपुराणज्ञः पंचरात्रार्थतत्त्ववित्।
परं भगवदैकान्त्यं ज्ञात्वा धर्मं समाचरेत्॥७४॥
इतिहासेति। इतिहासपुराणज्ञः उत्तरभागोपबृंहणभारतरामायणवैष्णवपुराणभागवतादिषु गृहीततात्पर्यः। पंचरात्रार्थ-
तत्ववित् परमैकान्तिधर्मानुष्ठानपरस्य परमकारुणिकेन भगवता वेदवेदान्तार्थनिर्णेयाय प्रवर्तितस्य पंचरात्राख्यस्यदिव्यशास्त्रस्यतत्त्वज्ञः परं ‘सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः’ इत्यादिभिः॥७४॥
सर्वसंस्कारसंस्कारो ज्ञानं भागवतं परम्।
तत्संस्कृता हि संस्काराः कल्पन्ते मुक्तिहेतवः॥७५॥
सर्वेति। भागवतं भगवद्विषयकं ज्ञानम् इदं चार्थपंचकज्ञानस्याप्युपलक्षणार्थम्। यद्वा, सप्रकारकभगवज्ज्ञाने अर्थपंचकज्ञानस्यापि सिद्धत्वात्तथोक्तिः। सर्वेषामपि संस्काराणां वर्णाश्रमनियतानां चत्वारिंशत्संस्काराणां वैष्णवत्वनियतानां चक्राद्यंकनादीनां च संस्कारः अतिशयापादकः। हि यस्मात्कारणात संस्कारास्तत्संस्कृताः ज्ञानसंस्कृताः मुक्तिहेतवः कल्पन्ते अतो भागवतज्ञानं सर्वसंस्कार इत्यर्थः॥७५॥
परमात्मा हरिः स्वामी स्वतोऽहं तस्य किङ्करः।
कैङ्कर्य्यमखिला वृत्तिरित्येष ज्ञानसंग्रहः॥७६॥
किं तद्भागवतं ज्ञानं यत्पुनः सर्वसंस्काररूपमुच्यत इत्यपेक्षायां संग्रहेणाह- परमात्मेति। परमात्माआत्मनामन्तरात्मा। ‘हरिर्ब्रह्माणमीशमिन्द्रश्च यमं वरुणमेव च। प्रसह्य हरते यस्मात्तस्माद्धरिरिहोच्यते’ इति प्रमाणनिरूपणनिरुक्तहरिनामा स्वामी मध्यस्थः स्वतःशब्दः काकाक्षिन्यायादत्राप्यन्वेति। निरुपाधिकशेषीत्यर्थः। अहम् अहंबुद्धिवेद्यः प्रत्यगर्थः। स्वतः किङ्करः निरुपाधिकशेषभूतः। ‘दासभूताः स्वतः सर्वे ह्यात्मनः परमात्मनः। नान्यथा लक्षणं तेषांबन्धे मोक्षे तथैवच’ इत्यादिकमनुसन्धेयम्। अखिला वृत्तिः सर्वोऽपि व्यापारः लौकिकरूपः कैङ्कर्य्यलीलारसग्रहनिवर्त्तकतया कैङ्कर्य्यरूपमिति। इत्येष ज्ञा-
नसंग्रहः। अवश्यापेक्षितं संग्रहरूपं ज्ञानमित्यर्थः। यद्वा इतिशब्दः पूर्वोक्तप्रतिपादितपरः। ‘परमात्मा हरिः स्वामी स्वतोऽहं तस्य किङ्करः। कैङ्कर्यमखिला वृत्ति’ रित्येषश्लोकांशोज्ञानस्य संग्रहः संगृह्यत इति संग्रहः संग्राहक इत्यर्थः॥७६॥
नित्यमर्चाजपध्यानस्नानदानव्रतादिकम्।
विशुद्धमेव कर्त्तव्यमनन्यैर्न विमिश्रितम्॥७७॥
अथ विहिताचारम्प्रपंचयन् नित्यनैमित्तिककाम्यरूपेण त्रिविधस्यापि तस्य शुद्धमिश्रभेदेन भिन्नत्वात्काम्येषु विमिश्रानन्वयेऽपि नित्यनैमित्तिकयोस्तदन्वयाभ्यनुज्ञानात् नित्यनैमित्तिकयोरविशेषेण सर्वशोऽपि विमिश्रस्य प्राप्त्या तयोरपि कानिचित्कर्माणि शुद्धान्येव कुर्यात् इत्याह-नित्यमित्यादिना। अर्चा देवपूजा। जपः निष्ठामन्त्रजपः ध्यानं स्मृति- संततिः व्रतम् एकादश्युपवासादिकम् अर्चादिकन्नित्यन्तद्विशुद्धमेव कर्त्तव्यम्। देवतान्तरसम्बन्धसहितमर्चनादिकम् तत्र-कर्त्तव्यमित्यर्थः। ऐच्छामिच्छाजपध्यानेत्यपरः पाठः। तथाविधम् इच्छायां सत्यां कर्तव्यमनुज्ञाकैंकर्यमित्यर्थः। ऐच्छमिति पाठान्नित्यमिति पाठ एव साधुः। उत्तरं नैमित्तिककाम्ययोर्वक्ष्यमाणत्वात् नित्यस्यार्चाजपादेः शुद्धसेवाचारात् कैश्चिदपि परमैकान्तिभिरर्चादेर्मिश्रस्यानुष्ठानात्। ‘तथाशुद्धं परब्रह्मविशुद्धपरिवारकम्। इज्यतेविविधैर्भोगैर्नित्यं च प्रतिमादिष्विति’ नित्यार्चायाः शुद्धाया एवं पूर्वमुक्तत्वाच्च। ननु गायत्री जपः कथमिति चेन्न तस्य सन्ध्योपास्त्यन्तर्गतत्वेन पृथक्कर्मत्वा-भावातस्याश्च मिश्राया एवाभावाभ्यनुज्ञातत्वेन तदन्तर्गतस्य तस्याप्यनुज्ञातत्वात्। अत्रोच्यमानस्य नह्यतिरिक्तनिष्ठामम्बजपत्वात् न च मन्त्रः कश्चिदपि देवतान्तरमिश्रितः पारमेैकान्तिभिर्निष्ठामन्त्रतया जप्य इत्यर्थः॥७७॥
सद्ब्रह्म वासुदेवाद्यैर्विविक्तैर्यत्र नामभिः
।
प्रोच्यते भगवान्विष्णुस्तद्विशुद्धमुदाहृतम्॥७८॥
शुद्धस्य स्वरूपमाह-सद्ब्रह्मेति।
यत्र कमर्णिविविक्तैः केवलभगवद्वाचकैः सदादिभिर्नामभिः भगवान्विष्णुः प्रोच्यते तत्कर्म विशुद्धमुदाहृतम्। देवतान्तरान्तर्य्यामिभावमन्तरेण साक्षाद्भगवद्देवताकंविशुद्धमित्यर्थः॥७८॥
यत्राविविक्तैः शब्देस्तु प्रोच्यते पुरुषोत्तमः।
देवादीनामशुद्धानां व्यामिश्रं तत्प्रचक्षते॥७९॥
विमिश्रितस्वरूपमाह-यत्रेति। यत्र कर्मणि अविविक्तैः केवलभगवद्वाचकेभ्यः सद्ब्रह्मादिशब्देभ्यो विविक्तेभ्यो भिन्नैः अशुद्धानां रजस्तमोऽभिभूतानां देवादीनां शब्दैः धातृशक्तिशिवादीनां नामभिः पुरुषोत्तमः प्रोच्यते तत्कर्म व्यामिश्रं प्रोच्यते। अशुद्धदेवतान्तर्यामिभावेन भगवद्देवताकं विमिश्रितमित्यर्थः॥७९॥
दुर्निमित्तमये पापे ग्रहादीनां विपर्य्यये।
विष्णुतद्भक्तपूजाभिः शान्तिं कुर्वीत नान्यथा॥८०॥
नैमित्तिकान्यपि कानिचिद्विशुद्धान्येव कर्तव्यानीत्याहदुरिति। दुर्निमित्तत्वलक्षणं भयमकस्मान्मानसोद्वेगरूपम्। यद्वा भयशब्दस्य तत्कारणे लक्षणया दुर्निमित्तादिविशेषणत्वम्। तत्प्रमृतिभिरुत्थितं वा पापम् अकृत्यकरणकृत्याकरणभगवदपचारभागवतापचारादिकम्। ग्रहादीनां सूर्यादीनां विपर्ययो-द्वादशाष्टमजन्मादिव्यवस्थानम् एषु निमित्तेषु यथायोगं विष्णुतद्भक्तपूजादिभिः शान्तिं कुर्वीत नान्यथा। ग्रहयज्ञादिनाविमिश्रितेन न कुर्वीतेत्यर्थः। विष्णुपूजाभिः शान्तिश्च परमाख्या, वैयूही मूर्त्याख्या, वैभवीतिचेत्युक्ता चतुष्टयीमहा-
शान्तिस्तद्भक्तपूजाभिः। शान्तिश्चआनन्ती, गारुडी, वैष्वक्सेनी, सौदर्शनी ततः ‘इत्युक्ता उपशान्तिचतुष्टयी’।तथा च वक्ष्यति ‘करणे प्रतिषिद्धानां विहिताकरणे तथा। विधेयामहतीशान्तिर्विज्ञायगुरुलाघवम्। अवैष्णवेभ्यो यत्किंचित्प्रतिगृह्य प्रदाय वा। कृत्वोपशान्तिं शुद्धयेत परिवादे सतामपि। असतः परिगृह्णीयात् पुत्रदारादिकान यदि। विधाय परमां शान्तिं वृत्तिमाचारयेन्निजाम्। भजनेचान्यदेवानामनाचारे च शार्ङ्गिणः। वैयूहीं परमां वापि कुर्याच्छान्तिंविशुद्धये। लक्षणानामकरणे धारणे चान्यलक्षणे। मूर्तिं कुर्यान्महाशान्तिं तथा सौदर्शनीन्तु वा। अपचारे गुरूणाञ्च वैष्णवानां च सर्वशः। वैष्वक्सेन्यथ वा शान्तिः कार्या चासन्निषेवणे। असाच्छास्त्राभियोगं सच्छास्त्राणां निराकृतौ। कर्त्तव्या गारुडी शान्तिर्दुर्निमित्तेषु वैष्णवी’ इत्यादि॥८०॥
प्राज्यैः प्रियतमैर्भोगैर्विशेषेण जनार्दनम्।
आराधयेन्निमित्तेषु वैष्णवाँश्च विशेषतः॥८१॥
अल्पेषु निमित्तेषु चन्दनकुसुमादिभिः पायसापूपादिभिश्च भगवन्तमाराध्य वैष्णवानप्याराधयेदित्यत्राह- प्राज्या इति। यद्वा उक्तमेवार्थंविशदयन्नाह-प्राज्यैरिति। प्राज्यैः श्रेष्ठैःप्रियतमैरिष्टैः। प्राज्यैरित्यनेन लोके श्रेष्ठतया प्रसिद्धवृत्तान्तैः। प्रियतमैरित्यनेन आत्मनः प्रियतमा उच्यन्ते। ‘यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः। तत्तत्रिवेदयेन्मह्यं तदानन्त्याय कल्पते’ इत्युक्तम्। भोगैर्गन्धपुष्पधूपदीपसूपापूपादिभिः विशेषेण नित्यपरिकरादाधिक्येन। ननूक्त’न पापेन न पुण्येन नात्यायासेन कर्मणा। सम्पदां संग्रहं कुर्याद्विपदां च प्रतिक्रियाम्।’ इति तत्कथमुच्यतेदुर्मिमित्तेत्यादिना पुण्येन विपत्प्रतीकार इति। उच्यते। तत्रापि प्राप्ताया रोगदारिद्यादिरूपाया विपदः प्रतीकारः पुण्यने
कर्त्तव्य इत्युच्यते। नः प्रत्यवायपर्य्यवसन्ना प्रतीकारकेषु दुर्निमित्तादिषु विहिता शान्तिः प्रतिषिध्यते। तत्रापि ‘विनैव प्रतिषेधेन सर्वार्थान्साधयेत्सतामिति’ पुण्येनापि वैष्णवानां सम्पत्संग्रहविपत्प्रतीकारयोश्वोक्तत्वात्तदर्थं वा उक्तनिमित्तेषु भगवद्भागवताराधनस्याविरोधात्’वृतश्च परितानेन शान्तिं शश्वत्प्रयोजये, दिति स्वधर्माविभेदार्थमपि शान्त्यनुष्ठानं परिनिष्ठम्। तस्मान्न पापेनेत्यादिना प्रत्यवायपर्य्यवसन्ना प्रतिकार विपत्प्रतीकारो निषध्यत इति न विरोधः॥८१॥
कुर्वन्ति वैष्णवार्थाय स्वधर्माणाञ्च सिद्धये।
शान्तिकर्म हरेः केचित्प्रपत्तिं केवलं हरेः॥८२॥
शान्त्यनुष्ठानस्य वैष्णवप्रयोजनवृत्तेः परिपोषलक्षणफलद्वयेन संग्रहप्रपत्त्या समविकल्पं दर्शयति-कुर्वन्ति इति। वैष्णवार्थाय वैष्णवप्रयोजनाय स्वधर्माणां स्ववृत्तैः सिद्धये परिपोषाय च शान्तिकर्म कुर्वन्ति केचिद्धरेः केवलां प्रपत्तिमेव कुर्वन्ति। केचिदित्यनेन शान्तिकर्मकरणानधिकारिण उच्यन्ते। प्रपत्तिलक्षणपरीक्षायां स्वाभीष्टस्वानन्यसाध्यत्वावश्यं भावादकिंचनस्यवाधिकारित्वात्॥८२॥
यास्तत्रतत्रश्रूयन्ते पुंसां काम्यतया श्रुतौ।
ताः किलैकान्तिना दिव्या भगवद्भोगसम्पदः॥८३॥
शुद्धानि काम्यान्यपि कर्माणि स्वयं प्रयोजनभगवत्कर्यतयानुष्ठेयानीत्याह- या इति। श्रुतौ तत्रतत्र याः क्रियाः काम्यतया श्रूयन्ते एकान्तिनां विद्याशुद्धास्ताःक्रियाभगवद्भोगसम्पदः भगवतोऽत्यन्तमभिमता इत्यर्थः ‘याः क्रियाः संप्रयुक्ताः स्युरैकान्त्यगतबुद्धिभिः। ताः सर्वाः शिरसा देवः प्रतिगृहाति वै स्वयमि’ त्युक्तत्वात्। यद्वा पुंसां काम्यतयाश्रुतौ याः क्रियाः
श्रूयन्ते ताः परमैकान्तिनां भगवद्भोगसम्पदः भगवदाराधनरूपाः। संपच्छब्देन स्वयं पुरुषार्थत्वमुच्यते। स्वयं पुरुषार्थः भगवत्कैंकर्यमित्यर्थः**॥८३॥**
आरम्भे कर्मणां सिद्ध्यै विघ्नानां प्रशमाय च।
कुर्यात्सपरिवारस्य विष्वक्सेनस्य पूजनम्॥८४॥
कर्मारम्भेषु विघ्नोत्सारणार्थं कर्मानुष्ठानमविशुद्धमेव कुर्यादित्याह-आरम्भे इति। सिद्ध्यैअभिवृद्धये सपरिवारस्य गजाननजयत्सेनहरिवक्रकालप्रकृतिसंज्ञाख्यपार्षदसमेतस्य। गजाननादीनामपि विघ्ननिवर्तकत्त्वंप्रसिद्धम्। ‘यस्य द्विरदवक्राद्याः पारिषद्याः परः शतम्। विघ्नं निघ्नन्ति भजतां विष्वक्सेनं तमाश्रये’ इति सकलशिष्टेर्वाक्यतयानुसन्धानात्। उक्तंच भट्टपराशरैः। ‘विदधतु सकलं विष्वक्सेनस्य ते प्रथमैर्विषमैर्भटैःकरिमुखजयत्सेनौ कालप्रकृतिसिंहमुखादयोगणाः। जगति भवन्ति अजतां तत्प्रत्यूहतूलदवानला दिशिदिशि विचरन्तः श्रीरङ्गपालनकर्मठाः**^(१)’** इति**॥८४॥**
स्वल्पापि हन्ति भूयांसं स्वधर्मंनिन्दिता क्रिया।
दृष्टिं कुदृष्टिर्भकिन्तु देवतान्तरसंश्रयः॥८५॥
वृत्तिं प्रपञ्चयँस्तद्विरुद्धवर्जनमाह-स्वल्पेति। भूयांसं स्वधर्मं स्वल्पापि निन्दिता क्रिया हन्ति कुदृष्टिर्दृष्टिं हन्ति देवतान्तरसंश्रयश्च भक्तिं हन्ति**॥८५॥**
सत्सेवनमसत्सेवा लक्षणं चान्यलक्ष्मता।
तस्माद्विरुद्धान्येकान्ती विशेषेण विवर्ज्जयेत्॥८६॥
सत्सेवनामिति। असत्सेवा सत्सेवनं हन्ति। अन्यलक्ष्मता देवतान्तरचिद्वधारणं लक्षणं लक्ष्माख्यं वृत्त्यवयवं हन्ति**॥८६॥**
———————————————————————————————————————-
१.॥
सत्यन्तरविरहाच्छोद्भून्नाशकं सम्यक्श्लोकमिमम्॥
एकस्यापि हि धर्मस्य विनाशे च विरोधिभिः।
अनन्वयापचारेण नश्यत्येकान्तिवृत्तिता॥८७॥
एकस्येति। एकस्यापि विहिताचारादिष्वेकस्यापि धर्मस्य विरोधिभिर्निन्दितक्रियादृष्टिभिर्विनाशे सति अनन्वयापचारेण वृत्त्यन्वयाभावरूपापचारेण ऐकान्त्यवृत्तिता नश्यति। अनन्वयापचारेति पाठे धर्मस्य अन्वयरूपे अकरणरूपे चेत्यर्थः॥८७॥
परमैकान्तिनां धर्मः कृते पूर्णः प्रवर्त्तते।
क्षीयमाणः क्रमेणायं कलौ स्थास्यति वा न वा॥८८॥
परमैकान्तिनामाचारस्यान्यदुर्लभत्त्वं ज्ञापयितुं तस्य कृते पूर्णतां क्रमेण हानिं चाह-परमैकान्तिनामिति। कृते कृतयुगे क्रमेण युगक्रमेण स्थास्यति वा न वेत्यन्त्रयस्य ‘यस्य चेतसि गोविन्दो हृदये यस्य नाच्युतः। कलिः कृतयुगं तस्य कृतं तस्य कलिर्भवेत्’ इति। कलावपि कृतयुगसम्भवादिति विरलतया क्वचिदेव महानुभावे पुरुषधौरेये परमेकान्तिधर्मोऽयं वर्तते न प्रचुरतयेति भावः॥८८॥
नानाकामहतज्ञाना नानादेवतयाजिनः।
नरा भगवदैकान्त्ये न स्थास्यन्ति कलौ युगे॥८९॥
नानेति। नानाकामहतज्ञाना बहुविधफलाभिलाषा नष्टबुद्वयः नानादैवतयाजिनः रजस्तमःप्रचुरदेवतान्तरपूजकाः। इदञ्च विशेषणद्वयं पारमैकान्त्यानवस्थाने हेतुतयोक्तम्॥८९॥
परं भागवतं वर्त्म दृष्ट्वापि कलिमोहिताः।
प्रभवन्ति न विद्वांसस्त्यक्तुंपूर्वान्धवर्त्मनीम्॥९०॥
एवं पारमैकान्त्यज्ञानस्याभावे केचित्वारमैकान्त्ये न स्थास्यन्ति;इत्युक्वाकेचित् ज्ञात्वापि दुर्वासनामहिम्नापारंमै-
कान्त्येन स्थास्यन्तीत्याह-परमिति। परं सर्वोत्कृष्टं सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिरित्युक्तत्वाद्भागवतं वर्त्म वैष्णवं मार्गेदृष्ट्रा ज्ञात्वापि विद्वांसो विबुधाः कलिमोहिताः सन्तः पूर्वेषामन्धानां वर्त्तनीं त्यक्तुं न प्रभवन्ति समर्था न भवंति पितृपितामहादिपरिगृहीतवर्त्तनीदुर्गासनादार्ढ्यात्। ज्ञात्वापि पारमैकान्त्यं न तत्र तिष्ठन्तीत्यर्थः**॥९०॥**
भविष्यन्ति कलौ केचित्क्वाचिदेकान्तिनो हरेः।
मोहयिष्यन्ति च परे कुतर्कैस्तान्कुदृष्टयः॥९१॥
भविष्यन्तीति। केचिन्न सर्वे क्वचिन्न सर्वत्र एकान्तिनः परमैकान्तिन इत्यर्थः। कुतर्कैःप्रमाणविरुद्धतर्कैःकुदृष्टयः रजस्तमोमूलग्रन्थजन्यविपर्ययज्ञानाः**॥९१॥**
निरीश्वराः कर्मफला निष्क्रिया ब्रह्मवादिनः।
परावरविमूढाश्च भविष्यन्ति कलौ युगे॥९२॥
** निरीश्वराइति**। केचित्कर्मपराः कर्मरताः निरीश्वराः भविष्यन्ति इत्यनेन कबन्धमीमांसका उक्ताः केचिद् ब्रह्मवादिनो निष्क्रिया भविष्यन्तीत्यनेन राहुमीमांसका उक्ताः। केचित्परावरविमूढा भविष्यन्ति कुत्र? कलौ युगे**॥९२॥**
क्षीणायुर्ज्ञानशक्तित्वान्मनुष्याणां कलौ युगे।
विद्यानां परमा विद्या न्यास एव परायणम्॥९३॥
एवं कलियुगस्य सकलपरमधर्मं लब्धुमनर्हतया पापिष्ठत्वमुक्त्वा तस्मिन्नुपायान्तरानुष्ठानाशक्तानां पुरुषाणां प्रपत्तिरेव भवभयसंतरणोपाय इत्याह-क्षीणायुरिति क्षीणमल्पम् आयुर्ज्ञानं शक्तिश्च येषां तेषां भावस्तत्त्वं तस्मात्। क्षीणायुष्यकथनेन बहुकालसाध्योपायान्तराभाव उक्तः। एवं ज्ञानशक्तिसाध्य-
त्वादुपायान्तराणां क्षीणज्ञानशक्तित्वकथनेनापि तदन्वय उक्तः विद्यानां परमाविद्या अनवधिकायाससाध्यकर्मज्ञानाङ्गकत्रैवर्णिकाधिकारिकविलम्बितफलकेभ्यो विध्यन्तरेभ्योऽधिकाविद्या न्यास एव न्यासशब्दवाच्या प्रपत्तिरेव परायणम् उपायः ‘तस्मान्न्यासमेषां तपसामतिरिक्तमाहु’ रिति श्रुतिः स्मारिता विद्यानां परमा विद्या न्यास इत्यर्थः**॥९३॥**
कर्म ज्ञानञ्च भक्तिश्च साधनानि मनीषिणाम्।
न्यास एवाचिरात्सिद्धिं वाञ्छतां सर्वदेहिनाम्॥९४॥
परमविद्यात्वमेव विशदयति-कर्मेति। कर्म कर्मयोगः। ज्ञानं ज्ञानयोगः। भक्तिर्भक्तियोगः। मनीषिणां ज्ञानिनाम्। साधनानि सद्द्वारकतया च मोक्षं प्रतिसाधानानि कर्मज्ञाने तु सद्वारकतया साधनम्। मनीषिणामित्यनेन अधिकृताधिकारत्वं ज्ञाप्यते। अचिरात् क्षिप्रमेव सिद्धिं वाञ्छतां सर्वदेहिनां न्यास एव साधनमिति वचनव्यत्ययेन सम्बन्धः। अचिरादित्यनेन शीघ्रफलप्रदत्वरूपातिशयः सिद्धिमिति सामान्यशब्देन सकलफलप्रदत्वातिशयः। सर्वदेहिनामित्यनेन सर्वाधिकारकत्वरूपातिशयश्च प्रतिपाद्यते**॥९४॥**
ज्ञानानन्दमयो नित्यः शुद्धो देहान्तरं हरेः।
जीवोऽयं संसरत्यस्य माययैव विमोहितः॥९५॥
नित्यशुद्धार्हस्यापि जीवस्य भगवन्मायातिरोहितस्वभावतया कर्मकृतनिरतिशयावार्याशुद्धिभोक्तृत्त्वम्। तद्वाराणाय प्रपत्तिरवश्यं कर्तव्येत्याह-ज्ञानानन्दमयेत्यादिश्लोकद्वयेन। अयं जीवो ज्ञानानन्दमयः ज्ञानानन्दस्वरूपः ज्ञानानन्दगुणक इति वा नित्यः। उभयावधिरहितः। शुद्धः। नित्यशुद्धाई इति वा। अन्यथासंसरतः शुध्यभावात्। हरेः देहान्तरं शरीरान्तर-
मित्यर्थः। तथापि अस्य हरेः चेतनकर्मानुरूपसङ्कल्पेन तदधीनतया प्रकृत्या वा विमोहितः सन्संसरति**॥९५॥**
अनीश्वरोऽहमीशोऽहमिति धीर्मायया हरेः।
भवेत्सा संसृतेर्मूलं तं प्रपद्यैव तां त्यजेत्॥९६॥
अनीश्वर इति। अहम् अनीश्वर ईश्वररहितः। अहमेवेश इतिधीर्बुद्धिर्हेरेर्मायया भवति सा अनीश्वरोऽहमीश्वरोऽहमिति धीः संसृतेः संसारस्य मूलं भवति। अतस्तां मायान्तं प्रपद्यैव वर्जयेत्भगवन्तं शरणमुपगम्य वर्जयेत्। ‘दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इत्यत्रानुसन्धेयम्। तं प्रपद्यैवेत्येवकारेण लिङ्गभावेन वा प्रपत्तिमभिगम्यैव मायां जयेत्। नान्यथेत्यवगम्यते**॥९६॥**
ज्ञानानन्दमयोऽनन्तो दिव्यात्मगुणविग्रहः।
नारायणो जगद्योनिः प्राप्यो लक्ष्मीपतिः स्वयम्॥९७॥
एवं विद्यानां परमा विद्येत्यादिना उपायस्वरूपमुक्तम् - ज्ञानेति। ज्ञानानन्दमयो ज्ञानानन्दस्वरूपः ज्ञानानन्दप्रचुर इति वा। अनन्तः देशादिपरिच्छेदरहितः। दिव्या अकर्मकृताः आत्मगुणविग्रहाश्च यस्य स तथोक्तो नारायणः नारशब्दवाच्यत्वेन चेतनात्मकनित्यवस्तुसर्वायनभूतः। जगद्योनिः जगद्भिन्ननिजभिन्नोपादानभूतः। लक्ष्मीपतिर्नारायणः सतां प्राप्य इत्यन्वयः**॥९७॥**
आब्रह्मलोकाल्लोकानां यदैश्वर्यं न तद्ध्रुवम्।
अथ नित्यं महत्साधु यद्दास्यं परमात्मनः॥९८॥
अथ प्राप्तिस्वरूपमाह-आब्रह्मेति। आब्रह्मलोकादित्यन्नाभिविधिरेव ग्राह्यः। ब्रह्मलोकमभिव्याप्य यल्लोकानामैश्वर्यं
तन्न ध्रुवम्, अनित्यं कर्मणा परिपाकत्वादाविर्भावममङ्गलम् इत्यादिकमत्रानुसन्धेयम्। अथ परमात्मनो यदास्यं तत्साधु निरवद्यं महत् निरतिशयं नित्यम अन्तरहितं फलमिति शेषः। यत्साधु मोक्षदशायां साधुतया भासमानं महत्सर्वोत्तरं दास्यं तंन्नित्यमिति वान्वयः**॥९८॥**
एवंविधस्वधर्मेण युक्तस्यानन्यचेतसः।
नित्यमाराधनं विष्णोर्यत्तद्दास्यमिहोच्यते॥९९॥
मुमुक्षुत्वावस्थायामपि भगवद्दास्यरूपं फलमाह-एवंविधेति। एवंविधस्वधर्मेण गुणयुक्तस्यानन्यचेतसः प्रयोजनान्तरविमुखस्य चेतनस्य यन्नित्यमहरहर्हरेर्विष्णोराराधनं तदिह अस्मिन् लोके दास्यमुच्यते। मोक्षभगवदिच्छासाक्षात्कारपूर्वकं क्रियमाणस्य निरतिशयकैङ्कर्यस्यैव पुरुषार्थत्वात्तस्य चात्र सम्भवान्नित्यं भगवदाराधनात्मकं दास्यमिह पुरुषार्थ इतिभावः**॥९९॥**
अनुज्ञाताः स्त्रियश्चैवमर्चयन्त्यो जगद्गुरुम्।
यथार्हमपि शूद्राद्याः सर्वे यान्ति परां गतिम्॥१००॥
इति श्रीनारदपंचरात्रे भारद्वाजसंहितायां परिशिष्टे प्रथमोऽध्यायः॥१॥
______________
भगवदाराधनात्मके दास्ये स्त्रीशूद्रादीनामप्यधिकारोऽस्तीत्याह-अनुज्ञाता इति। अनुज्ञाता आचार्यादिभिः पतिपुत्रादि-मिर्वा यथार्हं स्वार्हकत्वेन अर्चयन्त्यः शूद्राद्या इत्यादिशब्देन अनुलोमप्रतिलोमजातानां ग्रहणम्**॥१००॥**
इति श्रीनारदपंचरात्रे भारद्वाजसंहितापरिशिष्टटीकायांप्रथमोऽध्यायः॥१॥
_______________