प्रीतिरूपांस्तथा विष्णोः स्वधर्मानाचरेद्यथा।
तथैवाप्रीतिरूपाणि प्रतिषिद्धानि वर्जयेत्॥१॥
अथ ‘वैराग्येण संयुक्त’ इत्यमुमर्थं विशदयितुं तद्विरुद्धवर्जनमधिकरोति—प्रीतिरिति। भगवत्प्रीतिहेतुतयोक्तानि शरणं प्रपन्नस्य प्रतिषिद्धानां भगवदप्रीतिहेतुतयोक्तानि वर्जनीयानीत्यर्थः**॥१॥**
विष्णोर्ध्यानप्रणामार्च्चास्तुतिचिह्नादिवर्जितम्।
समारब्धं तु यत्कर्म तत्कर्म विफलं भवेत्॥२॥
प्रपन्नस्य देवतान्तरस्पर्शस्य निषिद्धत्वात्कर्मारम्भेऽपि कर्मसमृद्ध्यर्थं न देवतान्तरस्तुतिनमस्कारादि कुर्यादित्याशयवा-
नाह—विष्णोरिति। चिह्नशब्देन ऊर्द्धपुण्ड्रादि भगवच्चिह्नमुच्यते**॥२॥**
विष्वक्सेनः स्मृतो नेता भगवाँच्छुद्धकर्मणाम्।
तस्मान्नान्यमुपासीत कर्मणां विघ्नशान्तये॥३॥
विघ्नोत्तरणार्थमपि न देवतान्तरमुपासीतेत्याह—विष्वक्सेनेति। भगवान्विष्वक्सेनः सर्वकर्मणां नेता प्रभुः। शुद्धकर्मणामिति क्वचित्पाठः। तस्माद्विष्वक्सेनादन्यं विघ्नशान्तये नोपासीत। तस्मादिति पदं हेतुपरम्**॥३॥**
ब्रह्मरुद्रदिगीशार्कतच्छक्तिप्रसवादयः।
नित्यमभ्यर्चने वर्ज्याः कामोऽपि स्यान्न तन्मुखः॥४॥
ब्रह्मेति। दिगीशा दिक्पालाः॥अर्कः सूर्यः तच्छक्तिप्रसवादयः तच्छक्तयः ब्रह्मादीनां शक्तयः शक्तिशब्दो भार्यापरः। तत्प्रसवाः ब्रह्मादीनामपत्यानि तदवतारपरत्वे तद्भार्या विवक्षणीयाः। नित्यमभ्यर्चने वर्ज्याः नित्यार्चने परिहरणीयाः क्वचित्कर्मविशेषे भगवच्छरीरत्वेन तेषामन्वयेऽपि नित्यार्चने तु शरीरत्वेनापि न तेषामन्वयः कार्य इतिभावः। कामोऽपिस्यान्न तन्मुखः। कामानभिलष्यापि न तेषामुपास्तिं कुर्यादित्यर्थः कामेषु सर्वत्र नित्येष्वपि देवतार्चायां ब्रह्मादीनां शरीरत्वेनापि नान्वयः सम्पादनीय इति श्लोकाभिप्रायः**॥४॥**
न जातु परमां वृत्तिं कुर्वीत विरसाशयः।
प्रमादालस्यनास्तिक्यकामाद्यैर्न च हापयेत्॥५॥
नजात्विति। वृत्तिंविहिताचारलक्षणां प्रमादेन आलस्येन नास्तिक्येन कामेन आदिशब्देन क्रोधादिना वा जातु कदाचिदपि न हापयेत् न परित्यजेत्। विरसाशयः विहितत्वधिया
भक्तिहीनोवा न कुर्वीत भगवदाराधनत्वप्रतिपत्त्या अत्यन्तभक्तियुक्तः कुर्यादिति भावः**॥५॥**
देशकालकुलादीनां विना पापेन संविदः।
आस्त्रीभ्यश्चाखिलाचारान्नातिक्रमेत्कदाचन॥६॥
देशेति। देशसंविदः एतद्देशे अयं धर्मः कर्त्तव्य इत्येवमात्मकः। एवं कालजातिसंविदश्च देशजातिकुलादीनामित्यपरः पाठः। तदा जातिशब्दो ब्राह्मणत्वादिजातिपरः। कुलशब्दोऽपि वंशादिपरः। तेषां पापेन विना संविदः अनिषिध्दान् समयान्। आस्त्रीभ्यः स्त्रीपर्य्यन्तमखिलाचारांश्च नातिक्रमेत्**॥६॥**
न वृत्तेरधिकामृद्धिं न मृत्युं न च जीवितम्।
न चाप्रशस्तान्विषयानिच्छेदिह परत्र वा॥७॥
न वृत्तेति। वृत्तिर्देहयात्रा। मृत्युर्मरणम्। जीवितम् आयुः। अप्रशस्ता विषयास्त्रयोनिषिद्धाः। परत्र परलोके**॥७॥**
न पापेन न पुण्येन नात्यायासेन कर्मणा।
सम्पदां संग्रहं कुर्याद्विपदां च प्रतिक्रियाम्॥८॥
न पापेनेति। पापेन चौर्यादिना हिंसादिना वा क्रमेण सम्पदां संग्रहं विपदां प्रतिक्रियां च न कुर्यात्। पुण्येन सम्पत्त्याप्तिहेतुभूतेन लक्ष्मीव्रतादिना विपन्निवृत्तिहेतुभूतेन स्तुतिपाठमन्त्रजपादिना वा क्रमेण सम्पत्संग्रहविपत्प्रतीकारौ वा न कुर्यात्। अत्यायासेन अविहिता प्रतिषिद्धेनापि बह्वायाससाध्येन कर्मणा न कुर्यात् किन्तु विहिताप्रतिषिद्धेनाल्पायासेन कर्मणा सम्पत्संग्रहविपत्प्रतीकारौ कुर्यादिति भावः**॥८॥**
विनैव प्रतिषिद्धेन सर्वार्थान्साधयेत्सुधीः।
नोपेक्षेत च भूतानां व्यसनं शक्यवारणम्॥९॥
विनैवेति। उक्तपुण्यपापभिन्नेन कर्मणाल्पायासेन यत्सङ्ग्रहविपत्प्रतीकारौ कुर्यादित्ययन्तु नियमः स्वसम्पत्संग्रहविपत्प्रतीकारयोरेव। आचार्यस्तद्विषये तु पापमपहाय पुण्येनात्यायासेन कर्मणा वा सम्पत्संग्रहं विपत्प्रतिक्रियां च कुर्यादित्याह। एवकारो भिन्नक्रमः। प्रतिषिद्धेनैव विना आचार्यतदीयानां सर्वार्थान्साधयेत्। इदं च विपत्प्रतीकारस्याप्युपलक्षणार्थम्। भूतानां च सद्व्यतिरिक्तानां ह्यसतामपि चेतनानां शक्यवारणं स्वेन वारयितुं शक्यं व्यसनं नोपेक्षेत शक्यश्चेन्निवर्त्तनीयमेवेत्यर्थः। सतां व्यसनन्तु अशक्यवारणमपि अतिप्रयासेनापि वारणीयमिति भावः**॥९॥**
न विषज्वरभूतादिहरणं स्तम्भनादि च।
नाद्भुतानि तथान्यानि साधयेत्सत्त्वसंश्रयः॥१०॥
नेति। विषं सर्पादीनाम्। ज्वरः प्रसिद्धः। भूतादीत्यादिशदेन ब्रह्मराक्षसादयो गृह्यन्ते। एतेषां हरणं मन्त्रैर्निवारणं न कुर्यात्। स्तम्भनादि अग्निस्तम्भनादिकम्। उच्चाटनादि आदि शब्दार्थः। तथा अन्यान्यद्भुतानि पाषणप्रविकरणजलवृद्धिकरणादीनि न साधयेत्**॥१०॥**
न विपत्तिषु वैक्लव्यं नोदयेषु समुन्नतिम्।
न कामेषु प्रसक्तिञ्च भजेदच्युतमानसः॥११॥
नविपत्तिष्विति। विपत्तिषु आपत्सु वैक्लव्यं विक्लवताम् अवसादन्नगच्छेत् उदयेषु समुन्नतिं समुद्धर्षणं न गच्छेत्। कामेषु भोगेषु प्रसक्तिम् अतिसङ्गं न गच्छेत् न यायात्। भजेदच्युतमानस इत्यपरः पाठः। अच्युतमानस इत्यस्यायं भावः।
पुण्यपापरूपमभ्युपगतप्रारब्धमनेन प्रकारेण नाशयन् भगवान्मम हितमाचरन् न माञ्च्यावयतीति विपत्त्यादिषु नावसादं भजेतेति**॥११॥**
विनिन्दितः प्रशस्तो वा विमतः संमतोऽपि वा।
विलुप्तोऽभ्यर्चितो वापि विक्रियेत न तत्त्ववित्॥१२॥
विनिन्दितइति। विनिन्दितः दुर्गुणारोपेण गर्हितः। प्रशस्तः सद्गुणारोपेण स्तुतः। विमतः अविश्वासविषयीकृतः। सम्मतः विश्वासविषयीकृतः। विलुप्तः तिरस्कृतः। अभ्यर्चितः पूजां प्रापितो वा तत्त्वविन्न विक्रियेत हर्षशोकादिविकारं न प्राप्नुयात्**॥१२॥**
न च क्रियान्तरङ्गाणां नायस्येदप्यसम्भवे।
हानिं निवेद्य देवाय मनसैव प्रपूरयेत्॥१३॥
न चेति। क्रिया भगवत्कैङ्कर्यमित्यादिरूपं तदन्तरङ्गाणां तदावश्यकानां द्रव्याणामसम्भवे अलाभेऽपि नायस्येत् आयस्तो न भवेत्। तत्सम्पिपादयिषया दुष्करायासं न कुर्यादित्यर्थः। तादृशायासेन योगाभावप्रसङ्गादिति भावः। किन्तु देवाय भगवते हानिं क्रियान्तरङ्गद्रव्यालाभं निवेद्य विज्ञाप्य मनसैव प्रपूरयेत। अलब्ध्वा क्रियान्तरङ्गाणि मनसा प्रकल्प्य समर्पयेदित्यर्थः**॥१३॥**
वर्जयेत्प्रतिषिद्धानि सर्वाण्यस्खलितः शुचिः।
प्रवृत्ते कारणं चात्र कामक्रोधादिकं त्यजेत्॥१४॥
वर्जयेदिति। शुचिः सम्यगध्यवसायवान् अस्खलितः वृत्तौ स्खालित्यरहितः सर्वाणि प्रतिषिद्धानि वर्जयेत्। अत्र प्रतिषिद्धेषु प्रवृत्तेः कारणं कामक्रोधादिकं त्यजेत्। निषिद्धानां कामक्रोधादिमूलत्वात्त्यजेदित्यर्थः**॥१४॥**
अगम्यागमनं हिंसामभक्ष्याणां च भक्षणम्।
असत्यवचनं स्तेयं तद्वत्सङ्गांश्च वर्जयेत्॥१५॥
अगम्येति। अगम्याः पारदारादिकाः तद्वत्सङ्गान् अगम्यागमनादिमत्सङ्गान्। यद्वा अगम्यागमनमित्यनेन गुरुतल्पस्पर्शादिकमुच्यते। हिंसा ब्रह्मवधादिका। अभक्ष्याणाञ्च भक्षणमसत्यवचनमित्यनेन निषिद्धभक्षणं जैह्नमुत्कर्षे च वचोऽनृतमित्याद्युक्तं सुरापानसमं तदुपलक्षितं सुरापानं च विवक्षितम्। स्तेयं ब्राह्मणस्वर्णहरणम्**॥१५॥**
पातकानि समस्तानि गुरूणि च लघूनि च।
विभोः कालुष्यकारीणि मनसापि न चिन्तयेत्॥१६॥
पातकानीति। विभोः कालुष्यकारीणि भगवन्मनः कालुष्यजनकानि**॥१६॥इति विहिताचारविरुद्धवर्जनम्॥**
ज्ञानं तु स्वपरोपायफलान्वयविरोधिनाम्।
अन्यथा विपरीतं वा ज्ञानं हानिकरं परम्॥१७॥
एवं विहिताचारविरुद्धवर्जनमुक्त्वा दृष्टिविरुद्धकर्मवर्जनमाह—ज्ञानमिति। स्वं प्राप्ता प्रत्यगात्मा। परं प्राप्यं ब्रह्म। उपायः प्राप्त्युपायः। फलं प्राप्तेः फलम्। अन्वयः सम्बन्धः। विरोधि प्राप्तिविरोधि। एषामन्यथा ज्ञानं ज्ञानाभावः अन्यथाधर्मिणिस्वस्वरूपादौ स्वासाधारणभासमाने प्रकारे विपर्ययरूपं यथा ‘शंखः पीत’ इत्यादि ज्ञानां तु धर्मिणि धर्मान्तरारोपरूपस्वस्वरूपादीनां देहादिरूपेण ज्ञानम्। यथा इदं रजतमित्यादि ज्ञानम्। जीवपरमात्मसम्बन्धसहितस्यार्थपंचकस्य ज्ञानाभावोऽन्यथाज्ञानं विपरीतज्ञानं वा परमुत्कृष्टं हानिकरमित्यर्थः**॥१७॥**
छन्दांसि सरहस्यानि दिव्यशास्त्रान्विताः स्मृतीः।
न जातु विचिकित्सीत पुराणादि च सात्विकम्॥१८॥
छंदांसीति। सरहस्यानि सोपनिषत्कानि छन्दांसि वेदान्दिव्यशास्त्रं श्रीपञ्चरात्रं तदन्विताः तदविरुद्धा इति वा स्मृतीः मन्वादिधर्मशास्त्राणि सात्त्विकं सत्त्वगुणप्रचुरेषु कल्पेषु तद्गणप्रचुरेषु ब्रह्मणा निर्मितपुराणादिषु श्रीविष्णुपुराणश्रीभागवतादिकं प्रति जातु कदाचिदपि न विचिकित्सीत संशयीत तदुक्तार्थे संशयवान्नभवेदित्यर्थः**॥१८॥**
शरण्यमिज्यं लक्ष्मीशं सदा सेव्यमनिच्छताम्।
नेच्छेद्दृष्टिं कुदृष्टीनां सुधीः श्रुत्यर्थनिर्णयात्॥१९॥
वेदार्थनिर्णयाय कुष्टिकल्पितानि शास्त्राणि नाद्रियेतेत्याह—शरण्यमिति। शरण्यत्वेन इज्यत्वेन लक्ष्मीपतित्वेन सदा सेव्यत्वेन ये भगवन्तं नेच्छन्ति तेषां कुदृष्टीनां दृष्टिलक्षणया शास्त्रम्, श्रुत्यर्थनिर्णयात् प्रयोजनहेतुत्वात् पञ्चमी, श्रुत्यर्थनिर्णयात् सात्त्विकपुराणेतिहासधर्मशास्त्रश्रीपंचरात्रादिना श्रुत्यर्थस्य निर्णीतत्वात्तद्विरुद्धशास्त्रं नेच्छेत् न परिगृह्णीयादित्यर्थः**॥१९॥**
ज्ञानं ज्ञेयं च तत्त्वेन कारणं चाच्युतं परम्।
अजानद्भिर्वृथानीतान्नाश्रयेन्यायविस्तरान्॥२०॥
ज्ञानमिति। ज्ञायतेऽनेनेति ज्ञानं शास्त्रम् अच्युतस्य शास्त्रसामानाधिकरण्यं तत्प्रवर्त्तकत्वनिबन्धनम्। शास्त्रप्रवर्त्तकमित्यर्थः ज्ञेयं शास्त्रं प्रवर्तितं शास्त्रं वेष्टम्। तत्त्वेन अञ्जसा कारणं जगत्कारणभूतं परं सर्वस्मात्परम् अच्युतं नारायणमजानद्भिरजानानैर्वृथा व्यर्थमेव च नीतान्यायविस्तरान्नाश्रयेन्नपश्येदित्यर्थः। यद्यपि न्यायविस्तारोऽप्यष्टादशस्थानेष्वभ्यर्हितः अथापि कुदृष्टिरचितमपहाय न्यायतत्त्वे न्यायपरिशुध्द्यादिवत्सुधीरचितमुपाददीतेति भावः**॥२०॥**
प्रकृतिं पुरुषं योगं परं प्राप्यञ्च माधवम्।
अन्यथा मन्यमानानां स्मृतीश्चपरिवर्जयेत्॥२१॥
“या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः”इत्यादिमनूक्तप्रक्रियया रजस्तमोमूलाः स्मृतयोऽप्यनादेया इत्याह—प्रकृतिमिति। प्रकृतिं त्रिगुणात्मिकाञ्चिद्विशेषं पुरुषं जीवं योगं प्रकृतिपुरुषसम्बन्धं जीवात्मपरमात्मसम्बन्धं वा मुक्त्त्युपायं व्यापारमुत्कृष्टं प्राप्यं माधवं श्रियःपतिश्च अन्यथा मन्यमानानां स्मृतीश्च‘स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्’ ‘अत एव योगः प्रयुक्तः’ इत्यादिना भगवता बादरायणेन निरस्ताः कापिलादिकाः परिवर्जयेत् अन्यथा मन्यमानानामित्येतद्विपरीतं मन्यमानानामप्युपलक्षणार्थम्। यद्वा ‘शरण्यमित्यादिश्लोकद्वयेन अज्ञानवतां वचनमनादेयमित्युक्तम्।’ प्रकृतिं पुरुषमित्यादिना अन्यथा ज्ञानवतां च वचनमनादेयमित्युक्तम्। ‘तामसांस्तथा। अनीशानां परेशत्व’मित्यादिना विपरीतज्ञानवतां वचनमनादेयमित्युक्तमिति विवेकः। यद्वा शरण्य इत्यादिना वेदविरुद्धमदृर्षिवचनं त्याज्यमित्युक्तम्। ऋषिवचनेष्वपि वेदविरुद्धाः स्मृतयः त्याज्या इत्युक्तम् ‘प्रकृतिं पुरुष’मित्यनेन। ‘नाद्रियेते’त्यादिना वेदविरुद्धं पुराणं त्याज्यमित्युक्तम्। तथा रुद्रेणेत्यनेन ऋषिभ्योऽप्यधिकेन रुद्रेणापि प्रणीतं तच्च तमोमूलत्वात्त्याज्यमिति विवेको द्रष्टव्यः प्रकृत्यादीनामन्यथा मन्यमानत्वात्तासु स्मृतिषु स्फुटम्। तथा हि गुणाधिकरणप्रकृतिः त्रिगुणस्वरूपा क्रियते। भगवत्परतंत्रः पुरुषस्वतन्त्रत्वेन उपायोजीवात्ममाज्ञानत्वेन। ईश्वरसांख्यैरीश्वराभ्युपगमेऽपि अपरत्वेन अप्राप्यत्वेन अलक्ष्मीपतित्वेन सोऽभ्युपगम्यत इति**॥२१॥**
नाद्रियेत पुराणादीन्राजसांस्तामसांस्तथा।
अनीशानां परेशत्वं वृथा यत्रोपवर्ण्यते॥२२॥
नाद्रियेति। अनीशानां रुद्रादीनाम्**॥२२॥**
तथा रुद्रेण कथितं मोहनं क्षुद्रकामदम्।
तन्त्रं बहुविरुद्धञ्च तामसं परिवर्जयेत्॥२३॥
तथेति। तन्त्रं पाशुपताख्यं बहुविरुद्धं बहुप्रमाणविरुद्धं पूर्वोत्तरविरुद्धमिति वा तामसं तमोमूलं पत्युरसामञ्जस्यादित्यधिकरणर्थोऽभिप्रेतः**॥२३॥**
अन्येषां त्रिदशादीनां स्तुतीर्मन्त्रांश्च वर्जयेत्।
निबन्धनं गुणादीनां निबन्धांश्चान्यचेतसाम्॥२४॥
यद्यप्ययंश्लोको भक्तिविरुद्धाधिकारे पूर्वोत्तरश्लोकेषु स्मृतिपादप्रक्रियया वेदविरुद्धतन्त्राणामनादेयत्व- कथनान्नान्यश्लोकस्यात्र सङ्गतिरस्ति; तथापि कोशान्तरेऽप्यत्रैव लिखितत्वादत्र व्याख्यायते—अन्येषामिति। अन्येषां भगवदैकान्त्यरहितानां त्रिदशादीनां देवादीनां स्तुतीःस्तोत्राणि मन्त्राँश्च वर्जयेत् देवतान्तरस्तोत्राणि आपन्निवारकतया सम्पत्करतया वा पुराणादिषु प्रसिद्धानि देवतान्तरमन्त्रांश्च वर्जयेत्। गुणादीनां देवतान्तरगुणकर्मणां निबन्धनं तद्विषयकगद्यपद्यादिनिर्माणं च वर्जयेत् न कुर्यात्। अन्यचेतसां अन्यचेतनानां निबन्धाँश्च वर्जयेत् प्रयोजनान्तरमनस्कैर्देवतान्तरनिष्ठहृदयैर्वा कृतात् भगवद्विषयान्प्रबन्धान्वर्जयेदित्यर्थः**॥२४॥**
बाह्यं दुष्टं तमोनिष्ठं विपरीतमनर्थकम्।
मतं न सौगतादीनां मनसापि विचिन्तयेत्॥२५॥
बाह्यमिति। बाह्यं वेदबाह्यं दुष्टं कुतर्कमूलत्वात्व्याघातादिदोषदुष्टम्। अत एव तमोनिष्ठं तमोगुणे स्थितं तमोमूल
मित्यर्थः। तमोनिष्ठमित्यनेन ‘या वेदबाह्याः स्मृतय’इत्यादिमनुवचनं स्मारितम्। विपरीतं विपरीतार्थप्रतिपादकम्। अनर्थक दृष्टादृष्टप्रयोजनशून्यम्। तथा सौगतादीनां बौद्धादीनां मतं मनसापि न चिन्तयेत्। किमुत न वचसोच्चारयेदिति भावः**॥२५॥**
कामं मतानि चान्येषां पश्येत्प्राज्ञोऽपनुत्तये।
न च तेषु प्रसज्जेत नानुमन्येत नाभ्यसेत्॥२६॥
बाह्यकुदृष्टिमतानामपि दूषणार्थमवलोकनमनुजानातिकाममिति। अन्येषां बाह्यदृष्टानां मतानि अपनुत्तये निराकरणाय कामं पश्येत्। तेषु मतेषु न च प्रसज्जेत प्रकर्षेण सङ्गन भजेत आदरवान्नभवेदित्यर्थः। नानुमोदेत अत्र युक्तिः सम्यक्कथितेत्यादिरूपेणानुमोदनं न कुर्यात्। नाभ्यसेत् धारणार्थंपुनर्निरीक्षणादिकं न कुर्यात्**॥२६॥ इति दृष्टिविरुद्धाधिकारः॥**
अपचारांश्च विविधान्हरेर्यत्नेन वर्जयेत्।
महानपायो माध्यस्थ्यं किं पुनर्विपरीतता॥२७॥
अथ भक्तिविरुद्धवर्जनमाह—अपचारानिति। माध्यस्थ्यं महापायः। उपचारापचारयोरप्यनन्वयो माध्यस्थ्यम्। स एव महाननर्थः। विपरीतान्वयः अपचारान्वयस्तु किं पुनर्महानपाय इति। किमुत वक्तव्यमिति भावः। यद्वा, माध्यस्थ्यम्। अन्येषु भगवदपचारेषु प्रवर्त्तमानेषु सत्सु स्वयं तेषामनिवारणं स एव महानपायःविपरीतान्वयस्त्वपचारान्वयस्तु किं पुनरिति**॥२७॥**
विष्ण्वर्चारहिते ग्रामे विष्ण्वर्चारहिते गृहे।
न कुर्यादन्नपानादि न तत्र दिवसं वसेत्॥२८॥
विष्ण्वर्चेति।दिवसमित्यत्यन्तसंयोगे द्वितीया। प्रयोजन
म्शात्किञ्चित्कालावस्थानेपि सर्वोऽपि दिवसस्तत्र न नेतव्य इति भावः**॥२८॥**
न च मन्त्रोपजीवी स्यान्नचाप्यर्चोपजीविकः।
नानिवेदितभोगश्च न च निन्द्यनिवेदकः॥२९॥
न चेति। दृष्टार्थतया परपीडानिवृत्यर्थं मन्त्रजपशीलो न स्यात्। न चाप्यर्चोपजीविकः वृत्यर्थं भगवदर्चांन कुर्यात्। अनिवेदितभोगः अनिवेदितं भुञ्जानो न स्यात्। निन्द्यनिवेदकः भगवते शास्त्रनिषिद्धलशुनादिनिवेदको न स्यात्**॥२९॥**
वर्ज्याःपाखण्डशैवाद्यैः स्थापिताश्च तथार्चिताः।
अन्यत्र च स्वतो बद्धा नियमात्सर्वदेवताः॥३०॥
वर्ज्या इति। पाखण्डशैवाद्यैः पाखण्डाश्च ते शैवाश्चेति कर्मधारयः गोबलीवर्दन्यायात पाखण्डशब्दो वेदबाह्यपरो वा तदाख्यैः स्थापिता अर्चिताश्च भगवद्विग्रहा वर्ज्याः। नियमादन्यत्र नीतेरन्यत्र बद्धाः कर्मवश्याः सर्वदेवता वर्ज्याः नित्या अपि स्वतश्च भगवच्छरीरभावमन्तरेण च वर्ज्या नोपास्याः**॥३०॥**
गृहे यस्यान्यदेवार्चाव्यक्तो न च जनार्दनः।
न तस्य किञ्चिदश्नीयादपि वेदान्तवेदिनः॥३१॥
गृहे इति। किञ्चिदपक्वमपीत्यर्थः। अपि वेदान्तवेदिनः। किं पुनरन्यस्येति भावः। अपि ऋतुसहस्रिण इत्पपरः पाठः**॥३१॥**
वर्जयेदन्यदेवानामालयाद्युपसर्पणम्।
तथा गोपुरहर्म्यार्च्चायानास्त्राद्यवलोकनम्॥३२॥
वर्जयेदिति। आर्चा पूजा। यानं रथोत्सवादि अस्त्रंशूलादि**॥३२॥**
गीतवादित्रघण्टादिशब्दानां श्रवणं तथा।
कर्माणि च समस्तानि बाह्यान्याभ्यन्तराणि च॥३३॥
गीतेति। बाह्यानि आलयाद्बहिः क्रियमाणानि। आभ्यन्तराणि आलये क्रियमाणानि। देवतान्तरसम्बन्धीनि कर्माणि वर्जयेदिति पूर्वश्लोकक्रिययान्वयः**॥३३॥**
द्रव्याणां भुक्तभोगानां स्वीकारं स्पर्शनं तथा।
भोगादीनां तदर्थं चाप्यर्थानां प्रतिपादनम्॥३४॥
द्रव्याणामिति। भुक्तभोगानां देवतान्तरोपभुक्तानां द्रव्याणां स्वीकारम् आदानम्। तथा स्पर्शनं भूस्पर्शनं हस्तादिना तथा तद्वद्भोग्यपेयादीनामर्थानां पदार्थानां तदर्थं रुद्राद्यर्थं प्रतिपादनं दानं च वर्जयेत्**॥३४॥**
प्रणामं स्पर्शनं सेवां स्मरणं कीर्तनं तथा।
निन्दाञ्च तद्भक्तिपराण्यप्येतानि विवर्जयेत्॥३५॥
प्रणाममिति। प्रणामो नमस्कारः। स्पर्शनं तद्विम्बस्पर्शणम्। सेवां सम्मार्जनोपलेपादिरूपाम्। स्मरणं विग्रहगुणादिविषयकं ध्यानम्। कीर्त्तनं नामोच्चारणाद्यात्मकम्। निंदां
तदवतान्तरनिन्दान्निन्दायामपि तत्स्मरणादिति भावः। तद्भक्तिपराणि देवतान्तरभक्तिमूलानि एतानि प्रणामादीनि निन्दां च वर्जयेदित्यन्वयः**॥३५॥ इतिभक्तिविरुद्धाधिकारः॥**
शंखचक्रोर्द्धपुण्ड्राद्यैश्चिह्नैःप्रियतमैर्हरेः।
रहितः सर्वधर्मेभ्यः प्रच्युतो नैनमाप्नुयात्॥३६॥
अथ लक्ष्मविरुद्धवर्जनमाह—शंखेति। सर्वधर्मेभ्यः प्रच्युतः सर्वेषु धर्मेष्यधिकाररहितः एवं भगवन्तं नाप्नुयाद् उपायेऽप्य-
अधिकारप्रसंगे भगवन्तं नाप्नुयादित्यर्थः**॥३६॥**
चक्राम्बुजगदाशार्ङ्गखङ्गेभ्योऽन्यैर्हरेरपि।
न लक्षणैर्दहेञ्चाङ्गान्नान्यदग्धोऽर्हति क्रियाम्॥३७॥
चक्रेति। अम्बुजशब्दः शंखवाची भगवदायुधैरपि शंखचक्रगदाशार्ङ्गखङ्गव्यतिरिक्तैरङ्गितोन्यदग्धश्चक्रादि- पंचव्यतिरिक्तान्यलक्षणदग्धः क्रियां भगवत्कैङ्कर्यं नार्हति**॥३७॥**
धारयेन्नान्यचिह्नानि विशेषेणाङ्कनं क्वचित्।
धारणादन्यचिह्नानां महदाप्नोति किल्बिषम्॥३८॥
धारयेदिति। अन्यचिह्नानि देवतान्तरचिह्नानि न धारयेत् क्वचिदप्यङ्गे तैरङ्कनं दाहं विशेषतो दाहं न धारयेत्। अन्यचिह्नानां देवतान्तरचिह्नानां धारणेन महत्किल्बिषं पारमैकान्त्यभङ्गरूपं प्राप्नोतीत्यर्थः। चक्रादिव्यतिरिक्तभगवच्चिह्नधारणेन विशेषतो नान्यदग्धोऽर्हति क्रियामिति प्रागेव निषिद्धत्वात्। भगवच्चिह्नव्यतिरिक्तानां धारणमपिनिषिद्धमिति बोध्यम्**॥३८॥**
अन्यचिह्नाङ्कितान्मर्त्यान् दूरतः परिवर्जयेत्।
पयोऽस्थिचर्ममांसादि पशूनां चातिगर्हितम्॥३९॥
अन्येति। अन्यचिह्नांकितानां मर्त्यानां छायास्पर्शोऽपि न कार्य इति भावः। पशूनाम् अन्यचिह्नाङ्कितानामिति वचनव्यत्ययेनानुषङ्गः। तेषां पयः क्षीरं वर्जयेत्, “रुद्रादिव्यपदेशिन्यो याश्च गावस्तदङ्किताः। तासां क्षीरमकर्मण्यं प्रयत्नेन विवर्जयेत्”इति स्मृत्यन्तरोक्तेः। अत्र पयः शब्दस्तद्विकराणामप्युपलक्षणम्। यासां क्षीरमकर्मण्यं तद्विकाराँश्चर्जयेदिति स्मृतेः। अजखड्गादीनां चर्म कृष्णादीनां मांसमपि तादृशमेव अतिगर्हितमेवेति निन्दितमित्यर्थः**॥३९॥**
वृक्षादीनां च सर्वेषामकर्मण्यं फलादिकम्।
अन्यचिह्नाङ्कितं चैव गृहक्षेत्रादिकं त्यजेत्॥४०॥
वृक्षेति। अत्रादिशब्दो लतादिपरः। द्वितीय आदिशब्दोऽत्र पत्रादिपरः। अन्यचिह्नाङ्कितानां वृक्षादीनां पत्रपुष्पफलादिकं त्याज्यमित्यर्थः। अन्यचिह्नाङ्कितत्वमन्यार्थकल्पितानामप्युपलक्षणम्। क्षेत्रादीनामन्यचिह्नाङ्कित- शिलादिमत्वम्**॥४०॥**
वर्तुलं तिर्यगच्छिद्रं ह्रस्वं दीर्घन्ततं तनुम्।
वक्रंस्वरूपं बद्धाग्रंछिन्नमूलं पदच्युतम्॥४१॥
वर्तुलमिति। वर्तुलं मण्डलीकृतम्। तिर्यक्तिरश्चीनं पुण्ड्रमछिद्रं छिद्ररहितं ह्रस्वम् ‘ऊर्द्धपुण्ड्रं ललाटे न कुर्वीत चतुरंगुलम्। उदरे हृदि कण्ठे च दशाष्टचतुरंगुलान्’ इत्यायुक्तदीर्घपरिमाणात् न्यूनपरिमाणं दीर्घमतिरिक्तपरिमाणं ततः ‘त्रिधा सर्वत्र विस्तारश्चतुस्त्रिद्व्यंगुलं क्रमादि’त्याद्युक्तविस्तारादधिकविस्तारं तनुन्ततोऽल्पविस्तारं वक्रमनृजुं विरूपमत्यसुन्दरम्बद्धाग्रंमिश्रिताग्रंछिन्नमूलं भ्रुवोर्मूले मेलनरहितं पदच्युतं पदं विहितस्थानं तस्मात्प्रच्युतम्**॥४१॥**
अशुभ्रं रूक्षमासक्तं तथानङ्गलिकल्पितम्।
विगन्धमपसंख्यञ्च पुण्ड्रमाहुरनर्थकम्॥४२॥
अशुभ्रमिति। अशुभ्रमधवलम्। यस्यां हृदि धार्यमाणायां तत्र स्फोटाद्युत्पत्तिर्भवति तत्पुण्ड्रंरूक्षम्। आसक्तं पुण्ड्रान्तरेण मिश्रितम्। अनंगुलिकल्पितम्अंगुलिभिन्नेन साधनेन रचितम्। विगन्धं गंधरहितम्। अपसंख्यं ‘त्रयोदश द्वादश वाप्यूर्द्धपुंड्राणि धारयेत्। सूक्ष्मं चत्वारि षट्चाष्टावपि वांछन्ति केचन’ इत्याद्युक्तप्रकारेण संख्यारहितं पुंड्रमनर्थकं धृतस्याप्यधृतप्रायत्वात् अप्रयोजकमाहुः**॥४२॥**
न चन्दनादिभिर्गन्धैः कर्त्तव्यं न च भस्मना।
न मृद्भिश्चाप्रशस्ताभिरूर्द्ध्वपुण्ड्रं कदाचन॥४३॥
न चन्दनेति। चन्दनादिभिर्गन्धेरिति विशेषणविशेष्यभावेनान्वयः। चन्दनं मलयजन्तदादिभिरादिशब्दादगुर्वादिकं गृह्यते गन्धशब्दो गन्धवदनुलेपनपरः। अप्रशस्ताभिर्मुद्भिर्विष्णोर्विरुद्धतया क्षेत्रे पर्वतादौ प्रशस्तयेत्यादि गुणरहिताभिरिति। न कदाचन आपद्यपीत्यर्थः**॥४३॥**
तमसो भस्म रजसो गन्धः सत्त्वस्य मृत्तिका।
तस्माद्भस्मादिभिर्नैच्छेदेकान्ती शुद्धिमात्मनः॥४४॥
तमस इति। भस्म तमसः कारणमिति शेषः गन्धो रजसः कारणम्। मृत्तिकासत्त्वस्य कारणम् तस्माद्रजस्तमोहेतुत्वात् भस्मादिभिः पुण्ड्रसिद्धिमात्मनो नेच्छेत् किन्तु सत्त्वकारणभूतया मृदोर्ध्वपुण्ड्रमिच्छेदिति भावः। शुद्धिमिति पाठे पुण्ड्रजन्यां शुद्धिमित्यर्थः**॥४४॥**
रौद्रवतादिनियतैस्तथा मोहनतान्त्रिकैः।
शवेन्धनकरीषादिभस्मभिः कर्म साध्यते॥४५॥
रौद्रेति। रौद्रव्रतादिनियतैः रुद्रादिव्रतनिक्षिप्तैः मोहनतान्त्रिकरित्यनेन वेदविरुद्धतन्त्रनिष्ठा दूषिता। शवेन्धनकरीषादिभस्मभिः भस्मशब्दस्य शवेन्धनभस्मना करीषादिभस्मना चेत्यन्वयः। कर्म साध्यते कर्माङ्गतया शवेन्धनादिभस्मभिः पुण्ड्राणि विभ्रतीत्यर्थः**॥४५॥**
मूलजं गन्धसारादि मृगनाभ्यादि जीवजम्।
मनःशिलादि धातूत्थं त्रयं पुण्ड्रेषु कामिनाम्॥४६॥
मूलजमिति। मूलप्रभवं यद्गंधसारादि;जीवजं प्राण्यङ्गोत्थम्। यन्मृगनाभ्यादि कस्तूर्यादि धातूत्थं धातुजन्यम्;
यन्मनःशिलादि; तदेतत्त्रयं कामिनां पुण्ड्रेषु विहितानीति शेषः**॥४६॥**
कुर्याद्रक्षाविधानञ्च नान्यैः पञ्च विना मृदः।
गोरजो गोकरीषञ्च चूर्ण हारिद्रमेव च॥४७॥
कुर्यादिति। पञ्चमृत्तिकाः पंचविधमृत्तिकाः ताश्च शास्त्रेषु विहिताः पंचविधमृत्तिकाः। तथा च ब्रह्मरात्रे “तस्मात्सर्वप्रप्रयत्नेन संग्राह्याः पञ्चमृत्तिकाः॥पर्वताग्रे नदीतीरे मम क्षेत्रे विशेषतः॥सिन्धुतीरेऽथ वल्मीके तुलसीमूलमृत्तिकाः॥मृद एतास्तु संग्राह्या वर्जयेदन्यमृत्तिकाः”इति गोरजो गोकरीषं हरिद्राचूर्णं पञ्चमृदी वा विना अन्यैर्भस्मादिभिः रक्षाविधानञ्च न कुर्यात्**॥४७॥**
न च भागवतः कुर्यादूर्ध्वपुण्ड्रममृत्तिकम्।
धारणादेव मृत्स्नायाः प्रीयते धरणीधरः॥४८॥
न चेति। अमृत्तिकं मृत्तिकारहितम् ऊर्ध्वपुण्ड्रं न कुर्यात्। धरणीधर इति साभिप्रायम्। धारणीधरत्वादेव मृद्धारणात्त्प्रीयत इति**॥४८॥**
यः प्रपन्नोऽपि लक्ष्मीशं न चक्रादिभिरंकितः।
न वहत्यूर्ध्वपुण्ड्रं वा नैकान्त्यन्तस्य विद्यते॥४९॥
य इति। लक्ष्मीशं प्रपन्नोऽपि यश्चक्रादिभिरङ्कितोवा नस्यादूर्ध्वपुण्ड्रं वा न वहति न बिभर्त्तितस्यैकान्त्यं न विद्यते**॥४९॥**
राजसाँस्तामसाँश्चैव व्यपदेशान्विवर्जयेत्।
ध्रुवं व्यपेति भक्तोऽपि व्यपदेशैरसात्त्विकैः॥५०॥
राजसानिति। व्यपदेशान्नामानि राजसतामसनामानि न विभृयादित्यर्थः। असात्विकैः सात्विकभिन्नैराजसतामस-
व्यपदेशैर्भक्तोऽपि व्यपैति विशेषेणापैति प्रच्युतो भवतीति यावत्**॥५०॥**
सात्त्विकं नाम शुद्धानामशुद्धानान्तु राजसम्।
बाह्यादितंत्रसिद्धानां देवादीनान्तु तामसम्॥५१॥
सात्त्विकमिति। राजसतामसनामानि वर्जयेदित्युक्तं ‘व्यपदेशैरसात्त्विकैः’ इति। प्रतियोगितया सात्त्विकान्यर्थादिहीनानि कानि तानि सात्त्विकानि चिह्नानि तदितराणि राजसतामसानीत्याकांक्षायामाह। शुद्धानामनन्ययाजिनां नाम सात्विकमशुद्धानामन्ययाजिनां नाम राजसं नाम बाह्यादि तन्त्रसिद्धानामवैदिकानां नाम तामसं नाम**॥५१॥**
दास्यं हि नामकरणमपि तद्वाचकैर्विना।
गुणकर्मादिभिः स्वैश्चरूढं श्लाघ्यैः सनातनम्॥५२॥
नामकरणतन्नामधारणतद्धार्यनियमानाह—दास्यमिति। हि शब्दः‘पद्यमञ्जलिविच्छेद उरोविन्यस्तमक्षरम्। तन्नामकरणश्चेति बाह्यमेतञ्चतुर्विधम्’ इति प्रमाणप्रसिद्धिं द्योतयति। तन्नामधारणस्य तद्दास्यापादकत्वादशुद्धानामवैदिकानाञ्च नामानि न धार्याणीति पूर्वोक्तार्थे हेतुरुक्तः। शुद्धानां नामकरणस्य तद्दास्यरूपत्वात् तत् श्लाघ्यमिति भावः। तद्वाचकैर्विना शुद्धानां बाधकैर्नामभिर्विनापि स्वीयैः स्वकीयैः श्लाघ्यैर्दास्यविज्ञापकतया श्लाघनीयैर्गुणकर्मादिभिर्ज्ञानादिभिः गुणैः प्रवचनादिभिः कर्मभिश्च रूढं सङ्केतितं ‘वैष्णवदासः’ ‘वेदान्ताचार्यः’ इत्यादिकमपिनाम सतां मतं धार्यमिति अभिमतं स्यात्**॥५२॥**
युग्मैर्विवर्त्तितं रौद्रमयुग्मैर्ब्राह्ममुच्यते।
उभयैस्तैर्व्यतिस्यूतमयुग्मैर्वेष्णवं गुणैः॥५३॥
उपवीतं सदा ब्राह्मं वैष्णवं कटिबन्धनम्।
उभयं धारयेद्रौद्रं साधयन्कर्म तामसम्॥५४॥
युग्मैरिति। उपवीतं ब्राह्मं भवेत्। गुणत्रयरूपत्वादिति भावः। कटिबंधनन्तु वैष्णवं युग्मयुग्ममयैः पञ्चभिर्गुणैः व्यतिस्यूतत्वादिति भावः। उभयं ब्राह्ममुपवीतं वैष्णवव्यतिस्यूतं कटिबन्धनञ्च धारयेद्रौद्रं तर्हि केन धार्यमित्यत आह। तामसं कर्म साधयन्कुर्वन्रौद्रं युग्मं विवर्तितं कटिबन्धनं धारयेदिति शेषः। रौद्रस्य तामसकर्माङ्गत्वात्सात्त्विकं कर्माचरता न धार्यमिति भावः**॥५३॥५४॥**
तामसं नग्नमेकन्तु राजसं वसनद्वयम्।
कौपीनसहितं तत्तु सात्त्विकं मुनिभिः स्मृतम्॥५५॥
** तामसमिति**। एकं वसनं नग्नंनग्नप्रायं तामसं,वसनद्वयं राजसं, कौपीनसहितं तद्वसनद्वयं मुनिभिः सात्त्विकं स्मृतम् अतः कौपीनसहितं वस्त्रद्वयं धार्यमित्यर्थः**॥५५॥**
दर्भाक्षसूत्रवस्त्रांकनामपुण्ड्रविभूषणम्।
अन्यत्तु तामसं सर्वं विशेषेण विवर्जयेत्॥५६॥
मोहनार्थं प्रवृत्ततामसतन्त्रसिद्धं दर्भादिकं त्याज्यमित्याह—दर्भेति। दर्भास्तामसक्षेत्रादुत्पन्नाः। अक्षाणि रुद्राक्षादीनि वस्त्रं धातुविशेषरञ्जितम् अन्यचिह्नाङ्कितं वा सूत्रमयुग्मगुणनिर्मितकटिबन्धनादि अङ्कस्त्रिशूलाद्यङ्कनं नाम चअशुद्धदेवतान्तरसम्बन्धि पुण्ड्रंतिर्यगादि भूषणं त्रिशूलाद्याकारभूषणम् आभरणम् अन्यदितोऽतिरिक्तमपि तामसं सर्वं विशेषेण विवर्जयेत्**॥५६॥**
अन्यतन्त्रैकसिद्धानि काम्यानि विविधानि च।
द्रव्यनामादिरूपाणि लक्षणानि विवर्जयेत्॥५७॥
तामसतन्त्रमात्रविहितानि कर्मादीन्यपि त्याज्यानीत्याह—अन्येति। विविधानि कर्माणि शिवरात्र्युपवासादीनि तथा तन्त्रमात्रव्यवहृतानि द्रव्यनामानि तन्त्रैकसिद्धानि रूपाणि द्रव्याणामाकारविशेषांश्च विशेषेण विवर्जयेत्। इतरतन्त्रमात्रसिद्धैर्नामभिर्द्रव्याणि न व्यवहर्त्तव्यानि तान्यपि तन्त्रमात्रविहिताकारवन्त्यपि वा न कुर्यादित्यर्थः**॥५७॥इति लक्ष्मविरुद्धाधिकारः॥**
गुरोरपह्नवात्त्यागात्साम्याद्विस्मरणादपि।
लोभमोहादिभिश्चान्यैरपचारैर्विनश्यति॥५८॥
अथ सत्सेवाविरुद्धपरिहारमाह—गुरोरिति। साम्यात्साम्यानुसन्धानादित्यर्थः। लोभः गुरोर्वृत्तिकर्मस्वस्थद्रव्ये सत्यपि तस्मैतदप्रदानहेतुर्दुर्गुणः। मोहः तद्वैभवाज्ञानादिरूपः। विनश्यति विशेषेण नश्यति**॥५८॥**
विशेषाद्विष्णुभक्तेषु दम्भं लोभं नृशंसताम्।
क्रोधमीर्ष्यांमदं मानं साम्यञ्च परिवर्जयेत्॥५९॥
विशेषेति। दम्भः अननुष्ठायैव धर्मानुष्ठानख्यापनम्। नृशंसता दयाभावः। ईर्ष्या परातिशयासहिष्णुता। मानोऽहङ्कारः। साम्यं साम्यानुसन्धानम्**॥५९॥**
स एकान्त्यन्यविमुखो हरिं सर्वेश्वरं प्रभुम्।
यः समाश्रयते किंचित्फलमभ्यर्थयन्नरः॥६०॥
वैष्णवेषु दम्भादिकं त्यजेदित्युक्तं के नाम वैष्णवा इत्याकांक्षायाम् एकान्तिपरमैकान्तिनौ वैष्णवाविति विवक्षुः क्रमेण एकान्तिपरमैकान्तिनोर्लक्षणमाह—स इति। अन्यविमुखः देवतान्तर विमुखः। किंचित्फलं भगवत्पादभक्तिज्ञानकैङ्कर्य- तदि-
तरवैराग्यव्यतिरिक्तं यत्किञ्चित्फलमभ्यर्थयन्सर्वेश्वरं हरिं यत्समाश्रयेत्स एकान्तीत्यर्थः**॥६०॥**
न्यस्ताशेषभरः श्रीशे यस्तु दास्यैकजीवितः।
स एष परमैकान्ती द्वावेतौ वैष्णवा स्मृतौ॥६१॥
न्यस्तेति। न्यस्ताशेषभरः न्यस्तात्मात्मीयभरः। दास्यैकजीवितः दास्यातिरिक्तफलविमुखः। अनन्यदैवत्यम् एकान्तिपरमैकान्तिनोर्द्वयोरपि समानम्। अनन्यप्रयोजनत्वं परमैकान्तिनोऽधिकं द्वावेतौ उक्तावेकान्तिपरमैकान्तिनौ द्वौ वैष्णवौस्मृतौ**॥६१॥**
अन्ये त्ववैष्णवाः सर्वे मनुष्या जिह्मदृष्टयः।
असतस्तान्विदुर्देवास्तैः सतां नास्ति सङ्गमः॥६२॥
अन्ये इति। अन्ये एकान्तिपरमैकान्तिनोर्व्यतिरिक्ताः जिह्मदृष्टयः कुटिलबुद्धयः**॥६२॥**
अवैष्णवात्स्वधर्मस्थाद्वैष्णवः स्खलितोऽपि सन्।
श्रेयानेव हि मन्तव्यो मूलात्स न परिच्युतः॥६३॥
अवैष्णवादिति। स्वधर्मस्थात्स्ववर्णाश्रमधर्मनिरतादवैष्णवाद्वैष्णवः स्खलितोऽपि स्ववर्णधर्मात्प्रच्युतोऽपि सन् श्रेयान् श्रेष्ठतमो मन्तव्यः एवकारेण नियम्यते। तत्र हेतुः। मूलात्स न परिच्युत इति। स वैष्णवः मूलात्परिच्युतो न हि यतः**॥६३॥**
स्वेश सम्बन्धविज्ञानं मूलमन्याः क्रियाः पुनः।
तस्य शाखाः प्रशाखाश्च काश्च ता मूलवर्जिताः॥६४॥
किं मूलम् का शाखा? इत्याकांक्षयामाह—स्वेशेति। स्वस्यईशस्य व सम्बन्धविज्ञानं स्वस्वामिभावलक्षणसम्बन्धज्ञानं मुलमम्याः क्रियाः तस्य शाखाः प्रशाखा उपशास्त्राश्च मूलवर्जिताः मूलरहितास्ताः शाखाः न काश्चिदपि व्यर्था इत्यर्थः**॥६४॥**
बाह्यानां जिह्मदृष्टीनामज्ञानां संशयात्मनाम्।
नालोकमपि कुर्वीत न च तैः किञ्चिदाचरेत्॥६५॥
प्रसङ्गादसत्सङ्गवर्जनमाह—बाह्येति। बाह्यानां विपरीतज्ञानानां जिह्मदृष्टीनामन्यथाज्ञानवतामज्ञानां ज्ञानाभाववतां संशयात्मनां संशयचित्तानां तत्त्वहितपुरुषार्थेषु अज्ञानान्यथाज्ञानवतामालोकं दर्शनमपि न कुर्वीत तैर्बाह्यादिभिः किञ्चिल्लौकिकदानादिकपि नाचरेत् शास्त्रीयं यज्ञदानादि किन्तु किमुतेति भावः**॥६५॥**
प्रपन्नैश्चान्यभजनाद्युक्तापायसमन्वितैः।
वैष्णवो वर्जयेत्सङ्गं प्रच्युतास्ते वैष्णवाः॥६६॥
वैष्णवः स्खलितोऽपि सन् श्रेयानित्युक्तम्। तद्वत्प्रपन्नस्य देवतान्तरभजनादिष्वपि संस्पर्शोऽपिश्रेयानेव स्यादिति प्राप्ते तत्राह—प्रपन्नैरिति। अन्यभजनायुक्तापायसमन्वितैर्देवतान्तरभजनप्रभृतिभिः शास्त्रोक्तैरपायैः समन्वितैः संयुक्तैः प्रपन्नैरपि सङ्गं वैष्णवो वर्जयेत्। तत्र हेतुमाह। प्रच्युतास्ते ह्यवैष्णवाः इति। प्रच्युताः स्वधर्मात् च्युतास्ते अन्यभजनान्विताः अवैष्णवाः ऐकान्त्यरहिता यतः**॥६६॥**
देवेषु पित्र्येषु तथाधर्मार्थेष्वितरेषु च।
अवैष्णवं न गृह्णीयात्पात्रं दानेषु कर्हिचित्॥६७॥
न च तैः किञ्चिदाचरेदित्युक्तं विवृणोति—देवेष्विति। दैवेषु चार्थेषु पित्र्येषु पित्रर्थेषु धर्मार्थेषु धर्मप्रयोजनकेषु इतरेषु अर्थाद्यर्थेषु लौकिककर्मसु अवैष्णवम्। अनैकान्तिनं न गृह्णीयाद्याजकत्वेन भोक्तृत्वेन सहायत्वेन वा न गृह्णीयात्। कर्हिचित् क्वचिदपि दानेषु पात्रं न गृह्णीयात् पात्रत्वेन न गृह्णीयात्। यद्वा देवार्थेषु न गृह्णीयात्**॥६७॥**
न कञ्चित्प्रतिगृह्णीयाद्विष्णुभक्तिविवर्जितात्।
पानीयं पक्वमन्नञ्च विशेषण विवर्जयेत्॥६८॥
नेति। पानीयं पक्वान्नं च विशेषेण विवर्जयेत्। पापाधिक्यादिति भावः**॥६८॥**
विद्यार्थीसंप्रयोगोऽपि प्राकृतैर्न कथंचन।
विवादोऽपि न कर्त्तव्यः क्रीडासंकथनानि च॥६९॥
विद्येति। विद्यार्थसंप्रयोगोऽध्ययनाध्यापनलक्षणः। विवादः तत्त्वनिश्चयात्मको वादः। तत्वाध्यवसायसंरक्षणार्थं जल्पवितण्डेबीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवादित्यनेन अक्षपादे न जल्पवितण्डयोरनुज्ञानाद्यद्वा विवादो व्यर्थकलहः क्रीडासंकथ नसाहचर्यात्। क्रीडासंकथनानि इष्टालापाः**॥६९॥**
न चैकस्मिन्भजेत्साम्यं कर्मण्यैकान्त्यवर्जितैः।
न चैषां कर्म कुर्वीत न स्वकर्म च कारयेत्॥७०॥
न चेति। एकस्मिन् लौकिके वैदिकेऽपि कर्मणि ऐकान्त्यवर्जितैः साम्यं न भजेत्। अनेनेदं कृतम् अहप्येष इव एतदनुतिष्ठामीत्यनुसन्धानेन न तदनुतिष्ठेदित्यर्थः। तेषामैकान्त्यवर्जितानां कर्म लौकिकमलौकिकं वा स्वयं न कुर्वीत। तैरेकान्त्यवर्जितैः स्वकर्म वैदिकं लौकिकं वा न कारयेत् यद्वा, उत्तरार्धस्य अवैष्णवस्य आर्त्विज्यं स्वयं न कुर्यात् तेनापि स्वार्त्विज्यं न कारयेदित्यर्थः**॥७०॥**
पंक्तौसमाजे ग्रामादौ न त्वभागवतोत्तरे।
वसेदेकत्र भवने नैकेनाप्यसता सह॥७१॥
पंक्ताविति। अभागवतोत्तरे समाजे। इदं विशेषणं ग्रामस्य लिङ्गव्यत्ययेन पंक्तेरपि यस्यां पंक्तौ समाजे ग्रामे वा
अभागवता अधिका विरला वा भागवतास्तस्यां पङ्क्तौ समाजे ग्रामे वा न वसेत्। भागवतानां समसंख्याकत्वे अधिकसंख्याकत्वे वा पङ्क्तिसमाजग्रामेषु वासो न दोषावह इति भावः। भवने गृहे तु भागवताधिक्येऽपीति भावः असता एकेनापि समं न वसेत् न तिष्ठेत्**॥७१॥**
प्रीत्यप्रीतिसमायोगं स्पर्शं मुक्तिं सहोषिताम्।
स्वैरप्यैकान्त्यविमुखैरघवर्जं विवर्जयेत्॥७२॥
** प्रीत्येति**। प्रीत्यप्रीतिसमायोगं कल्याणादिहर्षकाले अभिमतं मरणादिदुःखकाले वा, हर्षशोकाद्यनुपालनाद्यर्थं तैः सङ्गमं स्पर्शम्। प्रसिद्धम्। भुक्तिं भोजनम्। सहोषिताम् एकस्मिन्नासने उपवेशनम् इदं च नवविधसङ्करस्याप्युपलक्षणम्। ‘नवधा सङ्करः प्रोक्तो न कर्तव्योऽधर्मैःसह’ इत्युक्तेः। इदं सर्वमैकान्त्यविमुखैः स्वैः स्त्रैः स्वकीयैरपि सह अघवर्ज्जंविवर्जयेत्। अयं तु परिपालनीयमेवेत्यर्थः। अघं जननमरणनिबन्धनमाशौचम्**॥७२॥**
अवैष्णवं न वन्देत नार्चयेद्विधिपूर्वकम्।
संप्रश्नासनदानादि कुर्याद्वाप्यानृशंस्यतः॥७३॥
अवैष्णवमिति। न वन्देत न नमस्कुर्यात्। विधिपूर्वकं नार्चयेत्। अर्घ्यादिभिर्न पूजयेत्। संप्रश्नः कुशलप्रश्नः। आसनमुपवेष्टमासनदानम् सदादिकम् आनृशंस्यमसतोऽपि न कुर्यात्। ‘संप्रश्नासनदानादि न कुर्यादानृशंस्यत’ इति पाठानुसारेणेदं व्याख्यानम्। ‘संप्रश्नासनदानादि कुर्याद्वाप्यानृशंस्यत, इति पाठान्तरम्। अत्र यद्युक्तं तद्वाह्यम्**॥७३॥**
अभक्तमच्युतस्यापि नावमन्येत कञ्चन।
हितं वा बोधयेत्साधोर्दद्याद्वा किञ्चिदीप्सितम्॥७४॥
अभक्तमिति। अच्युतस्य अभक्तम् अच्युतविषयकभक्तिरहितं कञ्चिन्नावमन्येतापीति अवमानं न कुर्यादित्यर्थः। अपि शब्दः संप्रश्नासनदानादि विधिनिषेधं समुच्चिनोति। साधोरभक्तस्याप्याभिमुख्यवतः हितं बोधयेद्वाशब्देन हितबोधनाभावरूपकल्पान्तरसंग्रहः क्रियते एवमेव दद्याद्वा किञ्चिदीप्सितमित्यत्रापि वाशब्दार्थः स्वयमानृशंस्यवाँश्चेदभक्तस्याभिमुख्ये हितबोधनं किञ्चिदभीप्सितप्रदानमपि न दोषावहमित्यर्थः**॥७४॥**
न च मैत्रीं प्रकुर्वीत वैष्णवः प्राकृतैः सह।
क्वायमच्युतसक्तात्मा क्व ते विषयचंचलाः॥७५॥
मैत्रीं न प्रकुर्वीतेत्यत्र हेतुमाह—नचेति। क्वायमित्यादिना भिन्नप्रकृतिकत्वान्मैत्री न युज्यत इति भावः**॥७५॥**
असतां गुणकर्माणि नानुमोदेत किंचन।
स्मरणादपि यत्तेषां महदाप्नोति किल्बिषम्॥७६॥
असतामिति। गुणा औदार्यादयः। कर्माणि अरिनिरसनादीनि न तु शास्त्रविहितानि धर्मानुमोदनस्य विहितत्वादादिशब्दाद्देहबलादिकं गृह्यते गुणकर्माणि नानुमोदेत। तत्र हेतुमाह स्मरणादिति। यद्यस्मात् कारणात् तेषामसतां स्मरणादपि महत्किल्बिषं भवति किम्पुनः स्मरणादिकृतेन गुणकर्माद्यनुमोदनेनेति भावः**॥७६॥**
विशिष्टः परमैकान्ती ज्ञानवैराग्यभक्तिभिः।
तादृशैरेव कुर्वीत सह संकथनादिकम्॥७७॥
उक्तान्येतानि सर्वाणि योऽवमन्येत मूढधीः।
स एष तमसोऽभ्येति पारमैकान्त्यवर्जितः॥७८॥
तर्हि परमैकान्तिकैः सह संकथनादिकं कुर्यादित्यपेक्षायामाह—विशिष्ट इति द्वाभ्याम्। ज्ञानवैराग्यभक्तिभिर्विशिष्ट इत्यन्वयः। तादृशैः ज्ञानवैराग्यविशिष्टैः**॥७७॥७८॥**
अथ वृत्तिमिमां सम्यक्कुर्वाणो विगतव्यथः।
विसृज्य देहं प्राप्नोति तद्विष्णोः परमं पदम्॥७९॥
अथेति। इमां वृत्तिं पूर्वोक्तां विहिताचाराध्यात्मिकाम्**॥७९॥ इति सत्सेवाविरुद्धाधिकारः।**
अशक्तमपि च स्मर्तुमन्ते पूर्वकृतं स्मरन्।
स्वयमेव परं धाम स्वयं नयति माधवः॥८०॥
ननुवृत्तिं शश्वत्सदाकुर्वाणः देहं विसृज्य तत्प्रमाणप्रसिद्धं विष्णोः परं पदं प्राप्नोतीत्युक्तं नतद्युज्यते। ‘यं यं वापि स्मरन् भाव’मित्यस्यावश्यकत्वाभिधानाच्छरीरावसानदशायां धातुसंक्षोभेण स्मरणाशक्तेः सम्भावितत्वात्कथं देहावसानानन्तरं मोक्ष इति निश्चेतुं शक्य इत्याशङ्कायामाह—अशक्तमिति। अन्ते शरीरावसानावश्यंभावावसरे स्मर्तुं भगवन्तं स्मर्तुमशक्तमपि च जनं प्रपन्नं माधवः श्रियः पतिः पूर्वकृतं पूर्वं चेतनेन कृतं प्रपदनं स्वयमेव स्मरन् परं धाम परमं पदं नयति। ‘ततस्तु म्रियमाणं तं काष्ठपाषाणसंनिभम्। अहं स्मरामि मद्भक्तं नयामि परमां गतिमि’ त्याद्यत्रानुसन्धेयम्1॥८०॥
न खल्वपि दशादेशकालहेतुविपर्ययैः।
प्रपत्तुस्त्यक्तदेहस्य परा यात्रा विहन्यते॥८१॥
नखल्विति। दशा शुचित्वाद्यवस्था। देशः पुण्यक्षेत्रादिः। काल उत्तरायणादिः। दशादेशकालरूपाणां हेतूनां विपर्ययैरपि
अभावैः सहापि त्यक्तदेहस्य प्रपत्तुः प्रपन्नस्य परा यात्रा अर्चिरादिमार्गेण गमनं न विहन्यते। खलुइत्यनेन ‘रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालवेश्मन्यथवा स्मशाने। कृतप्रयत्नोऽप्यकृतप्रयत्नो देहावसाने लभते च मुक्तिम्॥’ ‘यतश्चायनेऽपि दक्षिण’ इत्यादि प्रमाणप्रसिद्धिर्द्योत्यते**॥८१॥**
अर्चिरादिकया गत्या तत्र तत्रार्चितः सुरैः।
अतीत्य लोकानभ्येति वैकुठं वीतकल्मषः॥८२॥
अथार्चिरादिगतिमाह—अर्चीति। अर्चिरर्चिःपुरुष आदिः प्रथमः अतिवाहको यस्यां सा अर्चिरादिका तया गत्या तत्रतत्रातिवाहकस्थले सुरैरर्चिर्दिनपूर्वपक्षोत्तरायणसंवत्सरवातसूर्यचन्द्रविद्युत्पुरुषवरुणेन्द्रधातृभिरचितः पूजितः सन् लोकान् तल्लोकानतीत्य वैकुण्ठमभ्येति प्राप्नोति**॥८२॥**
अथैनममरास्तत्र सह दिव्याप्सरोगणैः।
सोपहाराः प्रहर्षेण प्रत्युद्गच्छन्त्युपागतम्॥८३॥
अथेति। अथ वैकुण्ठलोकप्राप्त्यनन्तरम्। तत्र वैकुण्ठलोके दिव्याप्सरोगणैः सह माला चूर्णाञ्जनक्षौमभूषाहस्तैरप्सरसाङ्गणैः सह दूराद्वैकुण्ठवासिनः सूरयः सोपहाराः उपहारसहिताः सन्तः उपागतं प्राप्तमेतं प्रपन्नं हर्षेण दूरतः प्रत्युद्गच्छन्ति**॥८३॥**
ततः प्राप्य जगन्नाथं प्रणिपत्य श्रियः पतिम्॥
आसीनमासने दिव्ये भक्तैर्भागवतैर्वृतम्॥८४॥
ततइति। दिव्ये पाद गात्राद्यात्मकधर्माधिसूरिनिर्मिते**॥८४॥**
आलुतः सस्मितालापमधुरालोकनामृतैः।
पादमूलं भजत्यस्य दास्यैकानन्दनिर्भरः॥८५॥
आप्लुत इति। सस्मिताः स्मितपूर्वका आलापाः सूक्तयः मधुराणि मनोहराणि आलोकनानि चअमृतानि तैराप्लुतः अस्य
श्रियःपतेर्दास्यैकानन्दनिर्भरःआनन्दपरिपूर्णः सन् पादमूलम्भजति सेवते**॥८५॥**
स च सर्वेषु लोकेषु तमेवाभ्यनुसंचरन्॥
समोदते समगुणः कामान्नी कामरूपधृक्॥८६॥
स चेति। स च मुक्तश्च तमेवाभ्यनुसंचरन् कामान्नी, कामरूपमनुसञ्चरन्निति श्रुतिरत्रानुसन्धेया। समगुणः भगवद्गुणतुल्य। संकुचितज्ञानादिगुणकः। कामान्नी, काम्यन्त इति कामाः कल्याणगुणाः। त एवान्नमदनीयं भोग्यं तदस्यास्तीति कामान्नीइदं चोपलक्षणम्। गुणविभूतिविशिष्टभगवदनुभवानन्दभरित इत्यर्थः। कामरूपधृक्स ‘एकधा भवति द्विधा भवति’ इति प्रक्रियया एकधा दशधा शतधा सहस्रधा स्वसङ्कल्पादात्तकिङ्करविग्रहः सन् सम्मोदते। समित्येकीकारे तेन सह तुल्यभोगो मोदत इत्यर्थः। तथा च शारीरकं सूत्रम् “भोगमात्रलिङ्गाच्च” इति**॥८६॥**
अथेह बान्धवास्तस्य गतस्य परमां गतिम्।
वैष्णवास्त्वाभिनन्देयुः पुण्यामवभृथक्रियाम्॥८७॥
अथ प्रपन्नस्य मोक्षप्राप्त्यनन्तरं तदीयानां कर्त्तव्यविशेषमाह—अथेति। लोके परमामुत्कृष्टां गतिं गतस्य प्राप्तस्य प्रपन्नस्य वैष्णवास्तस्य पुण्यामवभृथक्रियां ‘मृतिर्यन्मरणं तदवभृथ’इति श्रुतेरभिनन्देयुः। हर्षेणोपलालयेयुः। भागवतमृतेः पुण्यत्वं च ‘यत्तु ब्रह्मविदा त्यक्तमपि तन्मङ्गलं वपुः। स्पृष्ट्वाविमुच्यते ब्रह्महत्यये’त्यादिषु प्रसिद्धम्**॥८७॥**
क्रियते चास्य पुत्राद्यैर्यत्किमप्यौर्द्ध्वदैदैह्निकम्।
तत्सर्वं प्रियभक्तस्य विष्णोः प्रीतिकरं परम्॥८८॥
पुत्रादिभिः क्रियमाणोपसंस्कारोऽपि केवलभगवन्मुखोल्लासफलक इत्याह—क्रियत इति। प्रियः भक्तो यस्य तस्य प्रियभक्तस्य। इदं च साभिप्रायं विशेषणम्**॥८८॥**
गुरूणामन्तिमतिथौ जन्मर्क्षे श्रवणेऽपि वा।
हरिमभ्यर्चयेद्भक्त्या तद्भक्तांश्च विशेषतः॥८९॥
शिष्याणां कर्त्तव्यविशेषमाह—गुरुणामिति। अन्तिमतिथौ मरणदिने जन्मर्क्षे गुरूणां जन्मनक्षत्रे**॥८९॥ इति गत्यधिकारः॥**
ज्ञानकर्मक्रियामन्त्रध्यानयोगगतिक्रमाः।
विस्तरेण मया पूर्वमुक्तास्तत्रापि ते समाः॥९०॥
ज्ञानमिति। अत्रप्रपञ्चेऽपि उपायत्वबुद्धिं विहाय प्रपन्नेनापि सर्वमनुष्ठेयमिति भावः**॥९०॥**
उपासनविधौ धर्मा ये चान्यैः परिकीर्तिताः।
न्यस्तात्मनस्तु तान्सर्वान्फलान्येव निबोधत॥९१॥
उपासनेति। अन्यैः स्वव्यतिरिक्तैःमुनिभिर्न्यस्तात्मनः प्रपन्नस्य फलान्येव न तूपायान्निबोधत**॥९१॥**
अभ्यर्थितो जगद्धात्र्याश्रिया नारायणः स्वयम्।
उपादिशदिमं योगामिति मे नारदाच्छ्रुतम्॥९२॥
प्रपत्तियोगस्य सम्प्रदायमाह—अभ्यर्थित इति जगद्धात्र्या जगन्मात्रा इमं योगं पूर्वमुक्तं प्रपत्त्युपायम्**॥९२॥**
इति हस्तपदे साङ्ख्यं शास्त्रं गुह्यतमं परम्।
शिरश्चैतन्मयोक्तायाः संहिताया भविष्यति॥९३॥
इतीति। इति अनेन प्रकारेण प्रवृते गुह्यतमे देवानां गुह्यतमे देवानांगुह्यम्“यएवं वेद ब्राह्मणो महिमानमेति”इति
श्रुतेरत्यन्तगुह्यम् एतच्चतुरध्यायात्मकं मयोक्तायाः संहितायाः भारद्वाजसंहितायाः**॥९३॥**
संहितोपनिषद्यस्मिञ्च्छास्त्रे नेयान्यनुक्रमात्।
आदौ न्यासः फलञ्चास्य तदुपायश्चसंग्रहः॥९४॥
संहितेति। उक्तानर्थाननुक्रम्य संहितोपनिषदि भारद्वाजोपनिषद्रूपेअस्मिन् चतुरध्यायात्मके शास्त्रे**॥९४॥**
ततो न्यासस्य चाङ्गानां निर्णयः सविरोधिनाम्।
ततश्च फलरूपाया वृत्तेरङ्गानि विस्तरात्॥९५॥
तत इति अङ्गानामानुकूल्यसङ्कल्पादीनां सविरोधिनाम्। आनुकूल्याद्यङ्गविरोधिसहितानाम्**॥९५॥**
वृत्त्यङ्गमेवं च ततो निन्द्यहानं गतिस्तथा।
एवं चतुर्भिरध्यायैः कथितानि विशेषतः॥९६॥
वृत्त्यङ्गमिति। निन्द्यहानिं प्रतिषिद्धविवर्जनम्**॥९६॥**
इत्थं प्रसादाद्देवर्षेर्नारदस्यामितौजसः।
कृतोऽत्र वेदवेदान्तपञ्चरात्रार्थनिर्णयः॥९७॥
इत्थमिति। अमितौजसः महातपस्विनः। अत्र चतुरध्याये वेदानांवेदान्तानां पञ्चरात्रस्य च योऽर्थः प्रधानतात्पर्यविषयः तस्य शास्त्रकृतनिर्णयः कृतः**॥९७॥**
इत्येतत्परमं गुह्यं श्रुत्वा भागवतोत्तमाः।
मुनयः पूजयांचक्रुर्भरद्वाजं तपोनिधिम्॥९८॥
इतीति। परमंरहस्यं वेदगुह्यम्**॥९८॥**
श्रुत्वादौनारदात्सम्यग्भरद्वाजोऽर्थसंग्रहम्।
महतीं संहितामेतां चकार मुनिचोदितः॥९९॥
श्रुत्वेति। अर्थसंग्रहं श्रुत्वेत्यन्वयः**॥९९॥**
यश्चेमां संहितां पुण्यां शृणुयाच्छ्रावयेत वा।
स मुक्तः सर्वपापेभ्यः सर्वकामान्समश्नुते॥१००॥
इति श्रीनारदपञ्चरात्रे भारद्वाजसंहितायां न्यासोपदेशो नाम चतुर्थोऽध्यायः॥
__________
यश्चेति। पुण्यां सर्वपापहरां श्रावयेत्। सर्वान्कामान्समश्नुते मुक्तो भवतीत्यर्थः**॥१००॥**
इति श्रीनारदपंचरात्रे भारद्वाजसंहिताटीकायां चतुर्थोऽध्यायः॥
__________
-
“यदि वातादिदोषेण मद्भक्तो मां च विस्मरेत्। तर्हि स्मराम्यहं भक्तन्नयामि परमां गतिमित्याद्यादिपदेन संगृह्यते॥” ↩︎