३ सत्सेवनाधिकारः

अथ स्वकर्मनिरतः प्राज्ञो भक्तः सुलक्षणः।
सत्सेवाभिरतो ह्येव प्रपन्नः सिद्धिमाप्नुयात्॥१॥

तृतीयाध्याये वृत्त्यंगानि विस्तरेण प्रतिपिपादयिषुः प्रथमं वृत्तिमनुतिष्ठन् सिद्ध्यतीत्याह—अथेति। स्वधर्मनिरतः विहिताचारनिरतः प्राज्ञः दृष्टिसम्पन्नः भक्तः भक्तिसम्पन्नः सुलक्षणः भगवल्लाञ्छनलक्षितः सत्सेवाभिरतः सतां सेवायां निरत एव प्रपन्नः सिद्धिं निश्रेयसं प्राप्नुयात् अत्र प्रतिषिद्धविवर्जनस्य विहिताचारविवर्जनरूपत्वात्। तस्य विरुद्धाधिकारे प्रपञ्चयिष्यमाणत्वात् अस्मिन्नध्याये विहिताचारदृष्टिभक्तिलक्ष्मसत्सेबानामेव प्रपञ्च्यमानत्वादेतस्य श्लोकस्यैतदध्यायसंग्रहरूपत्वात् विहिताचारदृष्ट्यादीन्येवोक्तानि सम्प्रति निषिद्धविवर्जनमिति द्रष्टव्यम्**॥१॥**

यथार्हं विहितैस्तैस्तैः संस्कारैः संस्कृतः क्रमात्।
नयेदात्मगुणोपेतस्तानि तानि व्रतानि च॥२॥

अथ विहिताचारं प्रपञ्चयति—यथार्हमिति। तैस्तैर्विहितैः शास्त्रचोदितैः संस्कारैर्गर्भाधानादिभिः क्रमात्संस्कृतः आत्मगुणोपेतः सर्वभूतदयाक्षान्त्यनसूयार्जवशौचानायासमंगल्या कार्पण्यरूपैरष्टभिरात्मगुणैरन्यैरुत्यमानित्वादिभिरुपेतःतानि तानि

व्रतानि वेदव्रतानि नयेत् कुर्यादित्यर्थः। अत्र ‘यस्यैते चत्वारिंशत्संस्कारा’ इत्यादिना गौतमधर्मोक्तमनुसन्धेयम्**॥२॥**

ध्यात्वा नारायणं देवमादौ कर्माण्यशेषतः।
तस्यैवाराधनतया कुर्यात्सङ्कल्पपूर्वकम्॥३॥

ध्यात्वेति। ध्यात्वेत्यादौ सर्वकर्मणामादौ देवम् अकर्मवश्यतथा दीप्तिमन्तं नारायणं ध्यात्वा तस्यैव नारायणस्यैवाराधनतया सङ्कल्पपूर्वकमशेषतः कर्माणि सर्वाणि कुर्यात्। भगवदाराधनतया इदं कर्म करिष्य इति सङ्कल्पं कुर्यादित्यर्थः। तस्यैवेत्येवकारेण कञ्चुकप्रायेष्वग्नीन्द्रादिषु न दृष्टिर्निधेयेत्युच्यते**॥३॥**

समाप्तानि च कर्माणि तस्मिन्नेव समर्पयेत्।
आदावन्ते च मन्त्राणां योजयेद्व्यापकान्तरम्॥४॥

समाप्तानीति। कर्मसु समाप्तेषु ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पण’मित्येतानि भगवदर्पितानि कुर्यात्। गायत्र्यादिमन्त्राणाम् आदावन्ते च व्यापकान्तरं षडष्टद्वादशवर्णोयद्वात्यन्तमव्यापकं योजयित्वाजपेदित्यर्थः**॥४॥**

प्रातरुत्थाय विधिवत्स्नात्वा नित्यं समाहितः।
यजेत कर्मभिस्तैस्तैर्विष्णुं देवादिसंज्ञितम्॥५॥

प्रातरिति। विधिवत् यथाविधि उद्बोधमारभ्य स्नानपर्यन्तोविधिः श्रीपञ्चरात्रशास्त्रे विशदतममनुसन्धेयः। तैस्तैः कर्मभिः सन्ध्यावन्दनादिभिः। देवादिसंशिलं तत्कर्माराध्यदेवताशरीरकतया तत्तच्छब्दवाच्यं विष्णुं यजेत। तद्देवतावाचकशब्दवाच्यत्वेहेतुतया विष्णुमित्यनेन अन्तर्यामितया व्याप्तिरुक्ता**॥५॥**

ततश्चदेवदेवेशं भोगैरभ्यर्चयेद्धरिम्।
अशुद्धवर्जंसकलैः परिचारैः समन्वितम्॥६॥

ततश्चेति। ततश्चेत्यनेन सन्ध्यादीनां कर्म्मणां भगवत्कैङ्कर्ययोग्यतापादकत्वमभिप्रेतम्। अशुद्धवर्जम्। इन्द्राद्यशुद्धपरिवारं वर्जयित्वा सर्वैः परिवारैः सहितं नारायणं गन्धपुष्पनैवेद्यादिभिर्भोगैरभ्यर्चयेत्**॥६॥**

पूर्वमेव यथान्यायमभिगम्य जगद्गुरुम्।
उपादाय च यागार्थान् सम्भारान्नियतः स्वयम्॥७॥

यजेत पुरुषं साक्षाद्यथेच्छं प्रतिमादिषु।
पञ्चरात्रेण विधिना गुर्वधीनोऽपरेण वा॥८॥

पूर्वमिति। पूर्वं भगवदर्चनात्पूर्वमेव यथाशास्त्रमभिगम्य अभिगमनं कृत्वा योगः अर्थः प्रयोजनं येषां तान् योगसाधनानि उपादाय उपादानसङ्कल्पपूर्वकं सम्पाद्य नियतः सन् पुरुषं पुरुषसूक्तप्रसिद्धं नारायणं गुर्वधीनः आचार्यायत्तः तदनुज्ञापूर्वकं पञ्चरात्रेण विधिना श्रीपञ्चरात्रोक्तमार्गेण अपरेण वा स्मृतिपुराणाद्युक्तेन वा विधिना प्रतिमादिषु साक्षाद्देवतान्तरव्यवधानमन्तरेण स्वयं यजेत**॥७॥८॥**

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेः स्त्रीभिस्तथा परैः।
यथार्हमर्च्यः सेव्यश्च नित्यं सर्वेश्वरो हरिः॥९॥

एवमभिगमनोपादानेज्यानां कर्त्तव्यतामुक्त्वा इज्यायां सर्वेऽप्यधिकारिण इत्याह—ब्राह्मणैरिति इतरेरनुलोमप्रतिलोमजातैः यथार्हंयथोचितं चतुर्णां वर्णानां प्रतिमादिषु प्रतिलोमजातानांपादुकादिषु विभागेनेत्यर्थः इज्यः यष्टव्यः नित्यमित्यनेन भगवत्समाराधनस्य नित्यत्वमुच्यते तदाहुः—‘नित्यं सदायावदायुर्न-

कदाचिदतिक्रमेत्॥इत्युक्त्यातिक्रमेद्दोषश्रुतेरप्यागचोदनात्॥फलश्रुतेर्वीप्सया च तन्नित्यमिति कीर्तितम’सर्वेश्वर इति साभिप्रायं पदम्। भगवदीश्वरत्वस्य सर्वप्रतियोगिकत्वात्सर्वैरपि भगवानिज्य इति भावः यथार्हमितिपदेनाभिप्रेतमर्थं विशदयति ब्राह्मणैरिति चत्वारो वर्णाः प्रतिमादिषु जगद्गुरुं भगवन्तमर्चयेयुः चकारेण पादुकार्चनं समुच्चीयते अन्ये तु तद्व्यतिरिक्तास्तु तत्पादुकाचनं तस्य जगद्गुरोः पादुकायामर्चनं कुर्युः**॥९॥**

अधिकप्रीतिरर्चायामेकान्ती हरिमर्चयेत्।
तदभावेऽग्निवत्सूर्यभूम्यम्बुगगनादिषु॥१०॥

प्रतिमादिष्वित्यत्रादिशब्दाभिप्रेतं विशदयन् तस्य मुख्यत्वं चाह—अधिकेति एकान्ती अधिकप्रीतिः अतिशयितप्रेमा सन्अर्चायां प्रतिमायामेव हरिमर्चयेत्। तदभावे अर्चाभावे वह्निमध्ये हृदयकमलमध्ये सूर्यमण्डले भूमौ अम्बुनि गगने च यथारुचि क्वचिदर्चयेत्।आदिशब्देन पादुकादिसंग्रहः**॥१०॥**

भोजयेद्वैष्णवान्नित्यं पित्रर्थानतिथींस्तथा।
वैष्णवानेव बिभृयात्पुत्रदारादिकान्निजान्॥११॥

भोजयेदिति। नित्यं पित्रर्थान् अतिथींश्च वैष्णवानेव भोजयेत्। पितनुद्दिश्य तान्वैष्णवान्भोजयेत्। नाप्यवैष्णवानतिथीनित्ययमेवकारार्थः। निजान्स्वकीयान्पुत्रदारादीनपि वैष्णवानेव बिभृयात्। स्वकीयानामप्यवैष्णवत्वे भरणं न कर्त्तव्यमित्यर्थः**॥११॥**

नातिसङ्गः परिचरेत्पुत्रादीनप्यवैष्णवान्।
भिक्षेत वैष्णवेष्वेव ब्रह्मचारी यतिस्तथा॥१२॥

नेति। अवैष्णवान्पित्रादीनपि अतिसङ्गः न परिचरेत्किन्तु विभृयादित्यभिप्रायः। ब्रह्मचारी तथा यतिरपि वैष्णवेष्वेव भिक्षेत परमैकान्तिष्वेव भिक्षाटनं कुर्यान्नावैष्णवेमित्यर्थः**॥१२॥**

असद्दृष्टिं परिहरेदच्युतस्य निवेदिते।
दद्यादाचार्यमुख्येभ्यः स्वार्थं चात्र प्रकल्पयेत्॥१३॥

असदिति। अच्युतस्य निवेदिते अन्नादौ असद्दृष्टिम्अवैष्णवदृष्टिं परिहरेत असद्भिर्दृष्टं भगवदर्पितमपि न भुञ्जीतेत्यर्थः। अच्युतस्यनिवेदना इत्यपरः पाठः। तदा भगवन्निषेदनदशायामसतां दृष्टिं परिहरेदित्यर्थः। अथ संविभागमाह दद्यादिति।भगवन्निवेदितम् आचार्यप्रभृतिभ्यो दद्यात् समर्पयेत् अत्र आचार्यमुख्येभ्यो दत्तशिष्टे भगवन्निवेदिते स्वार्थञ्च किंचित्प्रकल्पयेत्**॥१३॥**

निवेद्य हृदि तद्भूयः परिषेकादिपूर्वकम्।
जुहुयादाहुतीः पञ्च विष्णौ प्राणादिसंज्ञके॥१४॥

अथानुयागमाह—निवेद्येति। तद्भगवन्निवेदितं भूयः पुनरपि परिपिंचनादिपूर्वकं हृदि निवेद्य हृदयकमलवासिने भगवते निवेद्य प्राणादिसंज्ञके प्राणापानाद्यन्तर्यमितया तत्तच्छब्दवाच्ये विष्णौ पंचाहुतीर्जुहुयात् प्राणायस्वाहेत्यादिभिर्मन्त्रैर्जुहुयात्**॥१४॥**

निवेदयेच्च भुञ्जानो मनसानागतं पुरः।
मनो हि पूतमन्यत्र सूतोदक्याशवस्पृशः॥१५॥

भोजनमध्ये अपूर्वेषु पदार्थेष्वागतेषु तेषां भगवन्निवेदनप्रकारं निवेदनाधिकारसंपत्तिं चाह—निवेदयोदति। भुञ्जानः अभ्यवहरन्नेव पुरा प्राङ्निवेदनदशायामनागतान्भोग्यान्मनसा भगवते निवेदयेत्। नतु भुञ्जानस्य मनोऽत्र कथं शुद्ध-

मित्यत आह। मनोहीति। सूतोदक्याशवस्पृशःअन्यत्र। मनः पूतं हि प्रमाणप्रसिद्धिं द्योतयति। सूतकिस्पृशः उदक्यास्पृशः शवस्पृशश्च मनः शुद्धं न भवति। तदन्येषां तु शुद्धमित्यर्थः। उदक्या रजस्वला**॥१५॥**

प्रशस्तं भगवद्भुक्तं पितृदेवादिकर्मसु।
लब्धेन चान्यतस्तेन पुनर्यागोऽपि चोदितः॥१६॥

हव्ये कव्ये च भगवन्निवेदितं प्रशस्तमित्याह—प्रशस्तमिति। देवादीत्यादिशब्देन ऋषीणां संग्रहः। उक्तमर्थं कैमुत्यन्यायेन द्रढयति। यत्यादिभिर्भिक्षापनादिना अन्यतः अन्यस्माल्लब्धेन तेन भगवद्भक्तेन पुनर्यागोऽपि चोदितः। पुनरिज्यापि विहिता। किं पुनः पितृदेवतादिकर्मणीति भावः**॥१६॥**

कृत्वानुयागं कुर्वीत स्वाध्यायं वैष्णवं परम्।
ततो युञ्जीत चात्मानं पुरुषे पुष्करेक्षणे॥१७॥

कृत्वेति। अथ स्वाध्याययोगादिबाह्ययागं कृत्वा परं प्रधानं यागानन्तर्भाविनं वैष्णवं भगवन्मन्त्रविषयकं स्वाध्यायजपरूपं कुर्वीत। शाण्डिल्यादिभिः व्यापकमन्त्रानुसन्धानस्य स्वाध्यायतोक्तेः।ततः स्वाध्यायानन्तरं पुष्करेक्षणे पुण्डरीकाक्षे पुरुषे आत्मानं मनो युञ्जीत यद्वाआत्मानं जीवे स्वपुरुषे युञ्जीत ईदृशः। परमात्मायं प्रत्यगात्मायमीदृश इत्यादिशाण्डिल्योक्तप्रक्रियया स्वपरसम्बन्धानुसंधानमविच्छेदेन कर्म कुर्वीतेत्यर्थः**॥१७॥**

ये च भागवता मन्त्रा ये च दिव्याश्चविग्रहाः।
यथोपदेशं नियतस्तांश्च सेवेत नित्यशः॥१८॥

येचेति। ये भगवन्मंत्राः ये वा भगवद्विग्रहाः आचार्यकृपालब्धाः तान्मन्त्रान्विग्रहांश्च नियतः सन्स्वाध्याये योगे च

सेवेत उपदिष्टान्भगवन्मन्त्रान्वाध्याये अधीयीत। आचार्येभ्यो लब्धान् भगवद्विग्रहान्योगे ध्यायीतेत्यर्थः**॥१८॥**(?)

कृत्वाभिगमनं पूर्वमुपादाय च सम्पदः।
इष्ट्वाधीत्य च युञ्जानो भोगैः कालं नयेद्यतिः॥१९॥

पञ्चकालकर्त्तव्यानि सङ्गृह्याह—कृत्वेति। पूर्वम् आदौ अभिगमनं कृत्वा अनन्तरं सम्पदः यागसम्भारान् उपादाय इज्यार्थमुपादानं कृत्वा इष्ट्वा इज्यां कृत्त्वा अधीत्य स्वाध्यायमधीत्य युञ्जानो योगं कुर्वाणो भोगैः कालं नयेदिति अनेन प्रकारेण कालं पञ्चधा विभज्य अभिगमनादिभिर्नयेदित्यर्थः**॥१९॥**

तमेव मत्वा भोक्तारमिज्यं यष्टारमेव च।
यजेत सकलैर्यज्ञैः सर्वयज्ञमयं हरिम्॥२०॥

एवं भगवदाराधनतया फलसङ्गकर्तृत्वपरित्यागपूर्वकं पंचमहायज्ञानन्यानपि ज्योतिष्टोमादिकान्यथाशक्ति कुर्यादित्याह—तमिति। भोक्तारं यागजनितप्रीत्याधारम् इज्यं यागविषयम्। यष्टारं यज्ञकर्तारमपि तमेव भगवंतमेव मत्वासकलैर्यज्ञैः सर्वयज्ञमयं हरिं यजेत सर्वयज्ञमयं भोक्तारमिज्यं यष्टारमिति पदैर्व्याप्तं यष्टारं तमेव मत्वेत्यनेन कर्तृत्वपरित्यागोऽभिहितः भोक्तारमिति यागजनितप्रीतिभोक्तृत्वकथनेन कर्मणां स्वयं प्रजोजनरूपत्वेन फलपरित्यागोऽभिप्रेतः फलितस्य भगवन्निष्ठत्वकथनात्सङ्गपरित्यागः फलितः**॥२०॥**

विष्णोः सेवेत तीर्थानि तथैवायतनानि च।
दद्यादर्थांश्च विप्रेभ्यश्चरेच्च विविधं तपः॥२१॥

विष्णोरिति—विष्णोस्तीर्थानि सेवेतनत्ववैष्णवतीर्थानि ‘अस्वाध्यायमतीर्थग’मित्यभिप्रेतं तीर्थगमनं वैष्णवतीर्थविषय-

नियमाभिति मन्तव्यम्। आयतनानि दिव्याभिव्यक्तिस्थलानि श्रीरङ्गादीनि विप्रेभ्यः अत्र विप्रशब्दः परमैकान्तिपरः। ‘वासुदेवं विजानन्विप्रो विप्रत्वं गच्छति तत्वदर्शी’ इति श्रुतेः। ‘अवैद्येन न केनापि वैद्यः किञ्चित्समाचरेत्’ इति सामान्यतः। ‘अवैष्णवेभ्यो यत्किञ्चित्प्रतिगृह्य प्रदापय’ इत्यादिना विशेषतश्चावैष्णवेभ्यो दानस्य निषिद्धत्वात्। तपः उपवासप्रधानं कृच्छ्रचान्द्रायणादि**॥२१॥**

प्रायश्चित्तं तु परमं प्रपत्तिस्तस्य केवलम्।
कुर्यात्कर्मात्मकं वापि वासुदेवमनुस्मरन्॥२२॥

विशुद्ध्येद्विष्णुभक्तस्य दृष्ट्या स्पर्शेन सेवया।
स्मरणेनान्नपानाद्यैर्गिरा पादरजोऽम्बुभिः॥२३॥

अभागवतदृष्ट्यादिप्रायश्चित्तमाह श्लोकद्वयेन—प्रायश्चित्तेत्यादिना। तस्य भगवन्न्यस्तभरप्रपत्तेः केवलं प्रपत्तिरेव परमं प्रायश्चित्तम्। ‘अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्। प्रायश्चित्तिरियं सात्र यत्पुनः शरणं श्रयेत्’ इत्यादिकमन्त्राण्यनुसन्धेयानि। शक्तौ सत्यां प्रतिपदोक्तं प्रायश्चितं कर्त्तव्यमित्याह। कुर्यादिति। वासुदेवमनुस्मरन् तत्कर्माराध्यं सर्वान्तर्यामिणं सर्वेश्वरं मन्वानः कर्मात्मकं क्रियारूपं वापि प्रायश्चित्तं कुर्यात्। अत्र लघुनिमित्ते यथाश्रुतमेव प्रायश्चित्तम्। गुरुनिमित्ते तु तदर्थविहितं वैष्णवेष्ट्यादिकमनुष्ठाय तदनन्तरमत्रोक्तमाचरेत्। अवैष्णवदृष्टेर्वैष्णवदृष्टिः प्रायश्चितम्। अवैष्णवस्पर्शस्य वैष्णवस्पर्शः। अवैष्णवसेवायाः वैष्णव सेवा। अवैष्णवस्मरणस्य वैष्णवस्मरणम्। अवैष्णवान्नपानादेः हारीतोक्ततदर्थेष्ट्यनुष्ठानानन्तरं वैष्णवान्नपानादिकम्। गिरा अवैष्णवसम्भाषणस्यवैष्णवसम्भाषणम्। अवैष्णवपादरजसः वैष्णवपादरजः। अवैष्णवाम्बुनि वैष्णवाम्बु**॥२२॥२३॥**

विष्णोर्निवेदितान्नाद्यैस्तथा तत्कीर्तनादिभिः।
अभागवतदृष्ट्यादेः शुद्धिरेषा विशेषतः॥२४॥

विष्णोरिति। अनिवेदितान्नादेर्निवेदितान्नादिकाले अवैष्णवकीर्तनादेः वैष्णवकीर्तनादि। अभागवतदृष्ट्यादेरेषा विशेषतः शुद्धिः। तदर्थविहितकर्मानुष्ठानानन्तरं विशेषतः शुद्ध्यापादकं विधीयते यद्वा, अशक्तस्य परमास्तिकस्य दृढाध्यवसायसम्पन्नस्य अभागवतदृष्ट्यादेर्भागवतदृष्ट्यादिकमात्रमेव प्रायश्चित्तं मतव्यम्**॥२४॥**

कृता यज्ञाः समस्ताश्च दानानि च तपांसि च।
प्रायश्चित्तमशेषेण नित्यमर्चयतां हरिम्॥२५॥

अविच्छेदेन भगवन्निरतस्य तदर्चने कालं नयतः प्रायश्चित्तराहित्येऽपि न वृत्तिवैकल्पभित्यभिप्रायेणाह—कृता इति। यथाशक्ति यत्किञ्चिदनुष्ठानेनापि यज्ञदानतपः प्रभृतिकं सर्वम्पूर्णम्भवति प्रायश्चित्तमपि प्रतिपदोक्ताशक्तौ यत्किश्चिदनुष्ठानमात्रेणैव मुख्यकल्पानुष्ठानसदृशं भवतीत्यर्थः। न पुनरत्ननित्यस्य यज्ञादेः सति निमित्ते प्रायश्चित्तस्य चाकरणमभिप्रेतम्। शक्यनित्यकर्मपरित्यागे प्रायश्चित्तानन्वये भगवदिज्यायामप्यनधिकारित्वोक्तेः। यद्वा, अनेन श्लोकेन यज्ञदानादिसकलधर्मापेक्षया नित्यभगवदाराधनस्य परमैकान्तिनः प्रधानधर्मतया तत्प्रशंसा क्रियत इति**॥२५॥**

एवं नित्यानि कर्माणि तथा नैमित्तिकानि च।
भर्तुः प्रियकराणीति कुर्यात्प्रीत्यैव केवलम्॥२६॥

उक्तं विहिताचारं निगमयति—एवमिति। स एवमुक्तानि नित्यानि कर्माणि नैमित्तिकानि च आत्मभर्तुः सर्वेश्वरस्य

प्रीतिकराण्येव कुर्यात् प्रीत्यैव केवलं न तु विहितानीति निर्बन्धबुद्ध्या**॥२६॥**

अथैवं ब्राह्मणो विद्वानेकान्ती धर्ममाचरन्।
सरहस्यमिदं सम्यक्साधुभ्यश्चोपपादयेत्॥२७॥

अथेति। ब्राह्मणो विद्वान् अधीतवेदः कृततद्विचारः परमैकान्तीविप्रः एवमुक्तक्रमेण धर्मं विहिताचारमाचरन् सरहस्यं गोप्यार्थसहितम्। इदं विहिताचाररूपं सर्वं सम्यक् साधुभ्यः उपदेशपात्रेभ्यश्चोपपादयेत् उपदिशेत्**॥२७॥**

प्रजापालनरूपं च धर्मं भागवतं चरन्।
प्राप्यापि महदैश्वर्यं मृतः स्यादेव निर्भरः॥२८॥

एवं क्षत्रियोऽपिस्ववर्णविहिताचारं कुर्यादित्याह—प्रजेति। भगवदाराधनतया प्रजापालनादिरूपं स्वधर्मं चरन्। अत्यधिकमैश्वर्यंलब्ध्वापि राजा निर्भर एव स्यात्। महता तेनैश्वर्येण न बध्यत इत्यर्थः। इदमैश्वर्यं स्वस्य न बन्धकमितिमत्वा निर्भर एवस्यादित्यर्थः**॥२८॥**

तथा वैश्यः स्वधर्मस्थो वैष्णवानभितर्पयन्।
धनेष्वसक्त एकान्ती परं प्राप्नोति तत्पदम्॥२९॥

अथ वैश्योऽपि स्वविहिताचारं कुर्यादित्याह—तथेति। धनेष्वसक्तः जातिनिबन्धनलोभमकुर्वाणः। यद्वा, पशुपालनादिना विहितेन धनं सम्पादयन्नपि न तत्र सक्तः स्यादिति**॥२९॥**

शुश्रूषमाणः शूद्रोऽपि वैष्णवानग्रजन्मनः।
स्वधर्मरत एकान्ती मुच्यते सर्वकिल्बिषैः॥३०॥

शुश्रूषमाणेति। शूद्रोऽपि अग्रजन्मनो वैष्णवान्शुश्रूषमाणः शूद्रस्योक्तं त्रैर्वर्णिकशुश्रूषां वैष्णवत्रैर्वर्णिकविषये नियमस्या

कृते**॥३०॥**

ब्रह्मचारी गृहस्थश्चवानप्रस्थोऽथ भिक्षुकः।
एकान्तिनः स्वधर्मस्थाः सर्वे यान्ति परां गतिम्॥३१॥

एवं चतुर्णां वर्णानां स्ववर्णविहिताचारः अनुल्लंघनीयः, इत्युक्त्वा चतुर्णामप्याश्रमिणां स्वाश्रमविहिताचारोऽवश्यमनुष्ठेयइत्याह—ब्रह्मचारीति। ब्रह्मचारी गृहस्थो,वानप्रस्थो यतिश्चेति परमैकान्तिनः सर्वे स्वधर्मस्थाः स्वाश्रमनियतधर्मनिरताः परां गतिंयान्ति भगवन्निग्रहस्याविषयभूता भवन्तीत्यर्थः**॥३१॥**

नित्योप्तकेशा निभृतास्त्यक्तसर्वपरिग्रहाः।
स्त्रीशूद्राद्याः स्वधर्मेण वर्तेरञ्जगतीपतौ॥३२॥

अथ कासाञ्चित्स्त्रीणां केषाञ्चिच्छूद्राणां च ग्राम्यभोगपरित्यागेनावस्थितिमनुजानाति—नित्येति। उप्ताः वपनं प्रापिता केशा येषां ते तथोक्ताः। निभृताः निश्चलाः। त्यक्तसर्वपरिग्रहाः धनदारादिसकलपरिग्रहरहिताः। स्त्रीशूद्राद्याः। आदिशब्देन तत्सन्निकृष्टा गृह्यन्ते। जगद्गुरौ भगवद्विषये स्वधर्मेण वर्तेरन् स्वधर्मेण भगवन्तमाराधयेयुरित्यर्थः। ‘जपस्तपस्तीर्थसेवा प्रव्रज्यामन्त्रसाधनम्। देवताराधनश्चेति स्त्रीशुद्रपतनानि षट्’इति शास्त्रं परमैकान्तिव्यतिरिक्तविषयम्। अत्र यथार्ह तत्रितयस्यापि तेष्वनुज्ञानात्**॥३२॥**

वर्णाश्रमपराश्चैव परेऽपि हरिमाश्रिताः।
अपायैर्नावसीदन्ति स्वेषु धर्मेष्ववस्थिताः॥३३॥

वर्णेति। चत्वारो वर्णाश्चत्वार आश्रमाः अपरेऽपि अनुलोमप्रतिलोमजाता विदुरादयः हरिमाश्रिताः स्वविहितधर्मनिरताः अपायैरपायाधिकारोक्तैः नावसीदन्ति अवसादं न प्राप्नुवन्ति**॥३३॥इति विहिताचाराधिकारः।**

समाश्रितो दास्यरतिः पतिं विश्वस्य माधवम्।
यथार्हमाचरन्धर्मान्भूयो दृष्ट्यादि संश्रयेत्॥३४॥

प्रतिषिद्धवर्जनस्य विरुद्धेषु प्रपञ्चयिष्यमाणत्वात्विहिताचारानन्तरं षड्विधवृत्युद्देशक्रमा प्रतिषिद्धविवर्जनं विहाय दृष्टिमधिकरोति—समाश्रितेति। विश्वस्य पतिं माधवं श्रियः पतिं दास्यरतिः कैङ्कर्यरूपफलार्थी सन् समाश्रितो यथार्हेस्ववर्णाश्रमोचितधर्मानाचरन्विहिताचारान् कुर्वन् भूयः दृष्ट्यादि संश्रयेत। आदिशब्देन लक्ष्मभक्तिसत्सेवानां संग्रहः**॥३४॥**

प्रतिष्ठां सर्वधर्माणां प्रसादेकात्मनां हरेः।
तदाज्ञारूपमनघं शास्त्रश्रुत्यादि मानयेत्॥३५॥

प्रतिष्ठामिति। हरेः प्रसादैकात्मनां भगवत्प्रसादैकफलानां सर्वधर्माणां प्रतिष्ठां प्रतिष्ठाहेतुत्वात् प्रतिष्ठेत्युच्यते, सकलधर्म प्रतिपादकमित्यर्थः। तदाज्ञारूपं भगवदाज्ञारूपम् अनघंनित्यापौरुषेयतया वक्तव्यदोषभ्रमाद्यमूलकं श्रुत्यादि। आदिशब्देन स्मृतीतिहासपुराणानि संगृह्यन्ते। श्रुत्याद्यात्मकं शास्त्रं मानयेत् बहुमन्येत। तत्वहितपुरुषार्थप्रमापकमिदमेवेति सादरमनुसन्दधीतेत्यर्थः**॥३५॥**

साङ्गान्वेदानधीयीत न्यायेश्चार्थं विचारयेत्।
विद्यात्कर्मादिकं यत्र विष्णोराराधनात्मकम्॥३६॥

साङ्गानिति। साङ्गान् शिक्षाकल्पाद्यङ्गसहितान्वेदान् अधीयीत अध्ययनेन स्वाध्यायसंस्कारं कुर्यात्। न्यायैर्जेमिनिसूत्रोक्तैर्नयैः अर्थं वेदार्थं च विचारयेत्। विष्णोराराधनात्मकम् आराधनरूपमखिलं सर्वमपि कर्मजातं यत्र वेदे शब्देषु विद्यात् जानीयात् तान्वेदानधीयीत। तत्तदर्थंच विचारदित्यन्वयः**॥३६॥**

व्यवस्थां पदवर्णादेश्छन्दः कालक्रियाविधिम्।
ज्ञात्वाङ्गैर्गमयेदर्थान् न्यायैः सर्वत्र साधुभिः॥३७॥

व्यवस्थामिति। पदवर्णादेर्व्यवस्थाम्। आदिशब्देन मानादिकं गृह्यते। पदव्यवस्थां वर्णव्यवस्थां प्रमाणादिव्यवस्थाम्। छन्दः गायत्र्यादि। कालं कालस्वरूपम्। क्रियाविधिं यज्ञविधिम्। अङ्गैर्ज्ञात्वा अङ्गशब्दो न्यायविस्तरस्याप्युपलक्षणार्थः। पदव्यवस्थां व्याकरणेन ‘वर्णव्यवस्थां शिक्षया, प्रमाणादिव्यवस्थां न्यायविस्तरेण, छन्दः छन्दश्चित्त्या’ कालंज्योतिषेण, क्रियाविधिं कल्पसूत्रेण च ज्ञात्वेत्यर्थः। साधुभिः समीचीनैर्न्यायैः सर्वत्र अर्थान्निगमयेत्। मीमांसया वेदार्थवचारं कुर्यादित्यर्थः**॥३७॥**

शिष्टैर्वर्णाश्रमादीनामच्युताराधनात्मकान्।
स्मृतांश्च विविधान्धर्मान्विद्याद्वैदिकसंमतान्॥३८॥

शिष्टैरिति। वर्णाश्रमादीनामित्यत्रादिशब्देन अवस्था गृह्यते अच्युताराधनात्मकान्भगवदाराधनात्मरूपान् शिष्टैर्मन्वादिभिः स्मृतान् स्मृतिविषयीकृतान् विविधान्बहुविधान्वैदिकसंमतान्वेदप्रामाण्याभ्युपगन्तृसंमतान् वर्णाश्रमादीनां धर्मान्वर्णाश्रमादिनियतधर्मान् विद्यात् जानीयात्। अच्युताराधनात्मकं विविधवर्णाश्रमनियतधर्मप्रतिपादकवैदिकसंमतं मन्वादिविरचितस्मृतिपरिशीलनं कुर्यादित्यर्थः। मन्धादिधर्मशास्त्रेः कर्मभागमुपबृंहयेदित्यर्थः**॥३८॥**

अथौपनिषदं चार्थं शृणुयान्न्यायतः सुधीः।
येनाराध्यं परं ब्रह्म जानीयात्पुरुषोत्मम्॥३९॥

अथेति—अथशब्दः आनन्तर्यपरः। आनन्तर्यं चात्र कर्मविचारानन्तरम्। साङ्गान्वेदानधीयीतेत्यारभ्यैतत्पर्यन्तं कर्मविचारस्य प्रतिपाद्यतया प्रकृतत्वात्। ‘अथातो ब्रह्मजिज्ञासा’इत्यत्र ‘अथ’शब्दः अत्रत्याथशब्देन प्रत्यभिज्ञापितः। तेन ‘सौत्राथशब्दस्य साधनचतुष्टयानन्तर्यपरत्ववादिनां कुदृष्टीनामनवकाशोमन्तव्यः। न्यायतः शृणुयादित्यनेन जिज्ञासाशब्दार्थोऽप्युक्तः। येनाराध्यं परं ब्रह्मेत्यनेन सूत्रस्थब्रह्मशब्दः प्रत्यभिज्ञापितः। पुरुषोत्तममित्यनेन ब्रह्मशब्दार्थोक्तेः। अत एव ब्रह्मशब्देन स्वभावतो निरस्तनिखिलदोषानवाधिकातिशयासंख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयत इति भगवद्भाष्यकारोक्तेः। अक्षरार्थस्तु अथ कर्मविचारानन्तरम् औपनिषदम् उपनिषत्प्रतिपादितम् अर्थं न्यायैः शृणुयात्। ‘तद्विजिज्ञासार्थं सद्गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इत्यादिप्रक्रियया आचार्योपसत्तिपूर्वकं गुरुमुखेन वेदान्तमीमांसां शृणुयादित्यर्थः। शृणुयादिति न श्रवणस्य विधिः। तस्य रागतः प्राप्तत्वात्। साङ्गसशिरस्कस्वाध्यायाध्ययनेनापाततः पदपदार्थावगमेन श्रवणे रागत एव प्रवृत्तिः। अपि तु श्रवणमनूद्य गुरूपसत्तिर्विधीयत इति बोद्धव्यम्। येन औपनिषदार्थश्रवणेन अखिलाराध्यं पूर्वभागप्रतिपादितसकलधर्माराध्यं पुरुषोत्तमशब्दवाच्यं परं ब्रह्म जानीयात्। आराध्यमित्यनेन पूर्वोत्तरभागयोराराधनतदाराध्यज्ञापनार्थंप्रवृत्ततया ‘सर्वे वेदा यत्रैकं भवन्ति’ इत्यादिश्रुतिप्रतिपादितपरमार्थपरत्वम् एकार्थपरतयापि एकशास्त्रतद्विचारयोरप्येक व्याख्येयैकव्याख्यानात्मक तया ऐकशाख्यं चाभिप्रेतम्**॥३९॥**

पञ्चरात्रं महद्दिव्यं शास्त्रं श्रुतिविभावनम्।
विशेषेणाधिगन्तव्यं गीतं भगवता स्वयम्॥४०॥

पञ्चरात्रेतिहासपुराणैर्वेदांतार्थमुपबृंहयेदित्याह—पञ्चरात्रमिति। भगवता स्वयं गीतं स्वेनैवोक्तम् अष्टोत्तरशतसंहिता- रूपेण प्रवृत्तत्वान्महत्। वेदगुह्यार्थकत्वात् श्रुतयो विशेषेणभाव्यंते बोध्यंते अनेनेति श्रुतिविभावनम्। श्रुत्युपबृंहणं पञ्चरात्राख्यं शास्त्रं विशेषेणाधिगंतव्यम्। वेदांतोपबृंहणेतत्वहितपुरुषार्थांशेषु विशदतरप्रतिपादकतयात्यंतांतरङ्गत्वेन विशेषेणाधिगंतव्यमिति भावः**॥४०॥**

वेदवेद्यः स भगवान् कृपया परयाच्युतः॥
चतुर्विधमिदं प्राह सर्वेषां हितकारणात्॥४१॥

वेदवेद्येति। कृपया परयेत्यनेन विनिग्रहमूलपाशुपतादितंत्रेभ्यो व्यावृत्तिरस्य प्रदर्श्यते। चतुर्विधम् आगमसिद्धांतमंत्रसिद्धांततंत्रसिद्धतितंत्रांतरसिद्धांतभेदेन चतुर्द्धा विभक्तम्**॥४१॥**

परस्य ब्रह्मणस्तस्य विद्याद्व्यूहादिसंस्थितीः॥
ज्ञानं क्रियाः समस्ताश्च योगं चात्र फलानि च॥४२॥

परस्येति। परस्य ब्रह्मणः तस्य अच्युतस्य व्यूहादिक्रमं ज्ञानं ज्ञानस्वरूपं समस्ताः क्रियाः कर्षणादिप्रतिष्ठांताः प्रतिष्ठाद्युत्सवान्ताः, उत्सवादिप्रायश्चित्तान्ताः सर्वाः क्रियाः योगं योगस्वरूपं ज्ञानक्रियायोगस्वरूपग्रहणं चर्याया उपलक्षणार्थम् अत्र ज्ञानयोगक्रियाचर्यासु फलानि च विद्यात् ज्ञानयोगक्रियाचर्याफलानि च। अत्र पञ्चरात्रशास्त्रे विद्यादितिवान्वयः। प्रायेण संहितादिषु हि ज्ञानयोगक्रियाचर्यास्तदाख्यया समा स्पातैश्चतुर्भिः पादैः प्रतिपादिताः। अतः तत् ज्ञानं सम्पादयेदित्यर्थः**॥४२॥**

पुराणान्यवगाहेत सेतिहासानि यत्र च॥
केशवस्य जगत्सर्गस्थितिभङ्गादि कीर्त्यते॥४६॥

पुराणानीति। यत्र पुराणेषु भगवतः जगत्सृष्टिस्थितिप्रलयादिकं कीर्त्यते, तानिसेतिहासानि इतिहाससहितानि पुराणान्यवगाहेत परिशीलयेत्। जगत्सर्गस्थितिभङ्गादीत्यादि शब्देन दिव्यावतारचेष्टितानि गृह्यन्ते**॥४३॥**

स्तोत्राणि कल्पनामानि कथाश्च विविधा हरेः।
सद्भिः प्रणिहितांश्चान्यान् प्रबन्धान्परिशीलयेत्॥४४॥

स्तोत्राणीति। कल्पाः मन्त्रप्रतिपादकभागाः व्रतप्रतिपादकभागा वा। नामानि श्रीसहस्रनामादीनि। सद्भिः भगवज्ज्ञानेन लब्धसत्ताकैः महात्मभिः प्रणिहितान्निर्मितान् अन्याँश्च प्रबन्धान् परिशीलयेत्**॥४४॥**

मूलस्कन्धमया वेदाः पञ्चरात्रं च यत्परम्।
अन्यच्च तत्परं ग्राह्यं शास्त्रं नान्यादृशं पुनः॥४५॥

मूलेति। मूलस्कन्धमयाः वेदाः मूलवेदाः वेदब्राह्मणा यदात्मकाः स्कन्धमया वेदा अनुवाकोपनिषदात्मकाश्च पञ्चरात्रञ्च यत्परं यदर्थप्रतिपादकम् अन्यत्सर्वं च ग्राह्यमन्यादृशं मूलस्कन्धमयवेदपञ्चरात्रविरुद्धं चेत् न सङ्ग्राह्यम्**॥४५॥इति दृष्ट्यधिकारः॥**

प्रभुं भक्तपराधीनं नित्यमालोकयेद्धरिम्।
विमानमथ वा तस्य दूराद्गोपुरमेव वा॥४६॥

अथ भक्तिमधिकरोति—प्रभुमिति। प्रभुं सर्वेश्वरं तथापि भक्तपराधीनं हरिं नित्यमालोकयेत्। भगवदालोकनादीनां भक्तिमूलकतया तज्जनकतया वा भक्तित्वोक्तिः। अथ तस्य हरेर्विमानं गोपुरमेव वा नित्यमालोकयेदिति वान्वयः**॥४६॥**

स्वरूपरूपविभवगुणकर्माणि शार्ङ्गिणः।
व्याचक्षीत निबध्नीयाच्छृणुयाद्विलिखेत्पठेत्॥४७॥

स्वरूपमिति। स्वरूपं विद्यात्मस्वरूपं, रूपाणि विग्रहाः, विभवशब्दो विभूतिपरः, गुणाः ज्ञानादयः, कर्माणि गजेन्द्ररक्षणपार्थसारथ्यादीनि दिव्यचेष्टितानि व्याचक्षीत व्याकुर्वीत;निवध्नीयात् तद्विषयाणि निबन्धनानि कुर्यात्;शृणुयात् शृणुयान्महन्मुखरितान्; विलिखेत् विशेषेण लिखेत पठेत वाचयेत्**॥४७॥**

चतुर्भुजमुदारांगं श्यामं पद्मनिभेक्षणम्।
श्रीभूमिलीलासहितं चिन्तयेच्च सदा हृदि॥४८॥

चतुर्भुजमिति। उदाराङ्गम् उन्नताङ्गम्**॥४८॥**

उपेत्यायतनं विष्णोः प्रणिपत्य ततस्ततः।
परीत्य देवदेवेशं प्रणम्यात्मानमर्पयेत्॥४९॥

उपेत्येति। परीत्य प्रदक्षिणीकृत्य आत्मानमर्पयेत्। आत्मसमर्पणं कुर्यात्**॥४९॥**

प्रीतिसंहृष्टसर्वाङ्गः स्तुत्वा वापि विलोकयेत्।
कृतप्रसादः सेवेत नियतात्मा यथोचितम्॥५०॥

प्रीतीति। प्रीत्या भगवत्सेवया दृष्टानि रोमाञ्चकंचुकितानि सर्वाङ्गानि यस्य स तथोक्तः स्तुत्वास्तोत्रं कृत्वा अपि च पुनश्च विलोकयेत् पश्येत् कृतः भगवत्कृतः प्रसादो यत्र स तथोक्तः। उत्पादितभगवत्प्रसाद इत्यर्थः कृतप्रसादः प्रसन्नात्मेति वार्थः नियतात्मा नियमितविषयान्तरसञ्चारिहृदयः यथोचितं सेवेत स्ववर्णाश्रमावस्थोचितं सेवेत**॥५०॥**

यात्रादिषु च सेवेत तदृष्टिस्तद्गुणान्वदन्।
तत्कर्माणि च युक्तस्तजनसम्बन्धहर्षितः॥५१॥

यात्रादिष्विति। तद्दृष्टिर्भगवन्यस्तदृष्टिः तद्गुणान् वदनंं भगवद्गुणप्रतिपादकप्रबन्धान्पठन्तत्कर्म्मणि रथाकर्षणपीठोद्वहनादिभगवत्कर्म्मणि सक्तः तज्जनसम्बन्धहर्षितः भगवद्यात्रावलोकनार्थागतजनसंघर्षेण हृष्टरोमा सेवेत**॥५१॥**

गायेदास्फोटयेन्नृत्येदुत्पतेन्निपतेत्स्खलेत्।
कोशेद्विषीदेद्धृष्येच्च विष्णोः प्रेमवशानुगः॥५२॥

गायेदिति। आस्फोटनं भुजास्फोटनं करतालप्रवर्त्तनं वा प्रेमवशानुगः प्रेमपरतन्त्रः**॥५२॥**

कुर्वाणश्च सदावृत्तिं विष्णोरायतने वसेत्।
दद्याच्च विविधान् भोगाननुरूपान्मनोरमान्॥५३॥

कुर्वाणेति। विष्णोरायतने भगवन्मन्दिरे वृत्तिं संमार्जनानुलेपनादि कुर्वाणः सदा वर्त्तेत विविधान् चन्दनागुरुकस्तूरीप्रभृतिकान् अनुरूपान् देशकालानुरूपान् शास्त्रानुरूपान्वा मनोरमान् भोगान् भोगहेतून् भगवते दद्यात्**॥५३॥**

परीवारांश्च सेवेत भक्त्या परमया हरेः।
तत्तदर्चागतान् भक्तान् गुर्वादींश्च विशेषतः॥५४॥

परीवारानिति। हरेः परीवारान् देवी भूषणायुधपरिजन संवाहनानि;परिच्छदान् गरुडसेनाधिपचण्डादिद्वारपालकुमुदादिगणाधिपरूपान्; तत्तदर्चावतारस्थलेषु प्रतिष्ठापितान् परमभक्तान्विशेषतो गुर्वादींश्च सेवेत**॥५४॥**

हरेराश्रितवात्सल्यात्ततत्स्थानाभिनन्दिनः।
असाधारणभावेन तत्र तत्रैव वा वसेत्॥५५॥

हरेरिति। आश्रितवात्सल्यात्ततत्स्थानाभिनन्दिनः श्रीरङ्गकरिगिरियदुगिरिप्रभृत्तिदिव्याभिव्यक्त्तिदेशेषु हर्षेण

वसतीहरेः असाधारणभावेन तदसाधारणत्वेन तत्र श्रीरङ्गादिषुस्थलेष्वेव वा वसेत्**॥५५॥**

ये च भुक्तोज्झिता भोगाः श्रीपतेः शिरसा नतः।
अभ्येत्य प्रतिपद्येत भक्त्या परमया स्वयम्॥५६॥

ये चेति। श्रीपतेर्ये भुक्तोज्झिताः अनुभूय परित्यक्ता भोगामाल्यादिकाः तान् अभ्येत्य आभिमुख्येनागत्य नतः प्रणतः शिरसा प्रतिपद्येत स्वीकुर्यात्**॥५६॥**

पादोदकं भगवतो लब्ध्वा भागवतस्य वा।
तिष्ठन्नेवाथवासीनः पिबेच्छुद्धिश्चनापरा॥५७॥

पादोदकमिति। भगवतो भागवतस्य वा पादोदकं लब्ध्वा तिष्ठन्नेवाथवा आसीनो वा पिबेत् यथास्थितो लभेत तथा स्थित एव पिबेदित्यर्थः। अपरा अन्या शुद्धिर्न आचमनेहस्तक्षालनादिरूपा शुद्धिर्नास्तीत्यर्थः। अथ केषुचित्कोशेष्वतदनन्तरम् ‘अपीत्वा विष्णुपादस्य सलिलं मूर्ध्नि निक्षिपेत। पातयन्वा क्षितौ मोहात् पतत्येव न संशयः’ इति श्लोको दृश्यते बहुकोशसंवादे सति सोऽपि ग्राह्यः। स्पष्टार्थः**॥५७॥**

पुरराष्ट्राभिवृद्ध्यर्थमर्चितस्य जगत्पतेः।
शेषभाजोऽर्थिनः सर्वे सन्त एव सतां गृहे॥५८॥

पुरेति। पुरवृद्ध्यर्थं राष्ट्राभिवृद्ध्यर्थंपुरराष्ट्रादावर्चितस्य चजगद्गुरोर्नारायणस्व शेषमाजः। प्रसादार्हा अर्थिनः सर्वेऽपि तत्प्रसादापेक्षिणः सर्वेऽपि सतां गृहे अर्चितस्य जगद्गुरोःशेषभाजस्तु सन्त एव परमैकान्तिन एवअन्ये तु प्रसादार्हा न भवन्तीत्यर्थः**॥५८॥** इति भक्त्यधिकारः॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो नारी तथेतरः।
चक्राद्यैरङ्कयेद्गात्रमात्मीयस्याखिलस्य च॥५९॥

अथ लक्ष्माधिकारमाह—ब्राह्मण इति। इतरः अनुलोमप्रतिलोमजातः चक्राद्यैः पञ्चभिरायुधैर्गात्रं स्वशरीरम् आत्मीयस्य स्वकीयस्य च गात्रमङ्कयेत् चिह्नितं कुर्यात्**॥५९॥**

अनिष्टानां निवृत्त्यर्थंमैकात्याय जगत्पतेः।
सिद्ध्यर्थंं कर्मणां चैव धार्यं चक्रादिलाञ्छनम्॥६०॥

अनिष्टानामिति। अनिष्टानाम् अमङ्गलादीनां निवृत्त्यर्थं भगवति परमैकान्त्यज्ञापनाय भगवत्कर्मणां सिद्ध्यर्थंं च अधिकारलाभार्थंचक्रादिलाञ्छनं धार्यम्**॥६०॥**

बाह्वोर्ललाटे शिरसि हृदये चाग्रजन्मनाम्।
शङ्खचक्रगदाशार्ङ्गखड्गैर्मन्त्रेण दाहयेत्॥६१॥

बाह्वोरिति। बाह्वोः शंखचक्राभ्यां तत्रापि दक्षिणे चक्रेण सव्ये शंखेन ललाटे गदया शिरसि शार्ङ्गेण हृदये खड्गेन च तत्तन्मन्त्रेण दाहयेदित्यर्थंः**॥६१॥**

विष्णोरायतनाग्नौवा गुरोरात्मन एव वा।
हुते हेमादिभिस्तप्तैः सुरूपैरर्चितैः क्रमात्॥६२॥

विष्णोरिति। विष्णोरायतनाग्नौवा गुरूपाकार्थमुत्पादिते भगवत्पाकशालास्थिते अग्नौ वा इज्याङ्गभूत- होमार्थकल्पिताग्नौ वा इति आयतनाग्निशब्दार्थः। हुते गुरोराचार्यस्य अग्नावौपासनाग्नौआत्मनः शिष्यस्यौपासनाग्नौ वा तप्तैः सुरूपैः शोभनाकारैः अर्चितैर्गन्धपुष्पादिभिरर्चितैः हेमादिभिः सुवर्णरजतादिभिः ताम्रादिभिर्वा निर्मित्तैः शङ्खचक्रगदाशार्ङ्गखड्गैः अग्रजन्मनां त्रैवर्णिकानां बाह्वोर्ललाटे शिरसि हृदये च क्रमान्मन्त्रेण दाहयेदिति श्लोकद्वयस्यैकवाक्यतयान्ययः**॥६२॥**

दासभूतं यदात्मानं बुद्ध्येत परमात्मनः।
तदैव गात्रं कुर्वीत शङ्खचक्रादिलाञ्छितम्॥६३॥

दास्यचिह्नत्वादवश्यं चक्रादिधारणं कुर्यादित्याशयवानाह—दासभूतमिति। आत्मानं स्वं यदा परमात्मनो दासभूतं मन्यते तदैव तस्मिन्नेव काले गात्रं स्वदेहं शंखचक्रादिलाञ्छितं कुर्वीत चक्रादिधारणे भगवच्छेषत्वज्ञानमेवाधिकारः इति भावः**॥६३॥**

अङ्कितं क्वचिदप्येवं चक्रेणैकेन केवलम्।
अनिष्टानां तु भूतानां न तावद्वशगो भवेत्॥६४॥

सुदर्शनधारणमात्रेणापि भागवतत्वासिद्धिरस्तीत्याह—अङ्कितमिति। क्वचिदङ्गे दक्षिणे बाहौ एकेन केवलं शंखाद्यसमवहितेन चक्रेण अङ्कितेऽपि जन्मी अनिष्टानां भूतानां यमकिङ्कराणां पिशाचादीनां वा तावद्वशगो न भवेत्**॥६४॥**

अग्नीषोमौहि चक्राब्जौ सर्व एव तदात्मकाः।
यदि वा मानयन्नेकं पूर्णो हि परमश्नुते॥६५॥

शंखचक्रयोर्नद्वयधारणं मुख्यं तदुभयाधारणे हि द्वयोरन्यतरद्वाबिभ्रद्वैष्णव एव भवतीत्याह—अग्नीति। चक्राब्जौ अग्नीषोमौ चक्रमग्निः अब्जः शंखः सोमः सर्वा एव देवतास्तदात्मकाः अग्निसोमात्मकाः अतश्चक्राब्जधारणं मुख्यमिति शेषः। यदि वा तदुभयधारणरहितो वा एकन्तयोरन्यतरमानयन् दधानः पूर्णः पूर्ण एव सन् परमश्नुते हिशब्द एवकारार्थः प्रसिद्धिपरो वा**॥६५॥**

शङ्खचक्रप्रधानं हि सर्वमन्यद्गदादिकम्।
अंकितः शङ्खचक्राभ्यां सर्वैरङ्गित एव वा॥६६॥

ननूक्तं शंखचक्रद्वयधारणं मुख्यमिति तत्कथं युज्यते? पञ्चायुधधारणस्यापि विहितत्वादित्याशंक्य शंखचक्रयोः प्रधान

तया तदन्येषां तदन्तर्भूतत्वेन तद्वारणं विनापि मुख्यमेवेत्याह—शंखेति। अन्यत् शंखचक्रव्यतिरिक्तं गदादि सर्वंशंखचक्रप्रधानम्। अतः शंखचक्राभ्याम् अङ्कितः सर्वेरेव पञ्चभिरायुधैरप्यङ्कितोभवेत्। पंचायुधधारणं वैकल्पिकमिति भावः। यद्वा अग्नीषोमावित्यादि श्लोकद्वयस्यैवं योजना। अग्नीषोमाविति यदिवेत्यत्रवाशब्दः मतान्तरद्योतनार्थः। अथवेत्यर्थः। अग्निसोमरूपयोः चक्राब्जयोर्मध्ये एकमन्यतरं मानयन् दधानः यदि न अपूर्णः। अस्तु तत् ततः किमित्यत आह पूर्णो हि परमश्नुत इति अन्यतमानि फलानीति भावः। पञ्चायुधानांप्रधानत्वात् चक्राब्जयोस्ताभ्यामेवाङ्गितो भवेत्सर्वेर्वाङ्कितो भवेत् विकल्पोऽविशिष्टफलत्वात्। अधारिणस्त्वपूर्णत्वान्नपरप्राप्तिः। किन्त्वर्वाचीनता तत्र पक्षे अब्जशब्दः शंखपरः औचित्यात्। इत्यभिप्रायेणाह। शंखचक्रेति यतः सर्वात्मकत्वं शंखचक्रयोस्ताभ्यामङ्कितः स्यात् सर्वैरङ्कितो वा स्यात्। अङ्कित इत्यत्र स्यादिति शेषः। ‘अन्ये पुराणां लिङ्गान्यन्ये तावकान्यर्पयन्ती’ति बहुवचनश्रुत्या प्रञ्चायुधधारणं विधाय अन्ये इत्यनेन तस्याधिकारिविशेषनियतत्वकथनाद्व्यवस्थितो विकल्पः**॥६६॥**

धारयेदूर्द्ध्वपुण्ड्राँश्च विष्णोः प्रीतिकरान्सदा।
जपहोमार्चनध्यानदानादिषु विशेषतः॥६७॥

धारयेदिति। भगवन्मुखोल्लासहेतुत्वाज्जपादिभगवत्कैङ्कर्ययोग्यतापादकत्वाच्च ऊर्द्ध्वपुण्ड्रधारणं विशेषतः कर्तव्यमित्यर्थः**॥६७॥**

नश्यन्ति सकलाः क्लेशा नराणां पापसम्भवाः।
अभीष्टान्यखिलानि स्युरूर्द्ध्वपुण्ड्रस्य धारणात्॥६८॥

ऊर्द्ध्वपुण्ड्रधारणस्य फलान्तराण्यप्याह—नश्यन्तीति। पापसम्भवाः क्लेशा नश्यन्ति क्लेशहेतुभूतानि पापानि नश्यन्तीत्यर्थः**॥६८॥**

त्रयोदश द्वादश वाप्यूर्ध्वपुण्ड्राणि धारयेत्।
एकं चत्वारि षट् चाष्टावपि वाञ्छन्ति केचन॥६९॥

ऊर्द्धपुण्ड्रधारणे मतभेदेन संख्याविकल्पमाह—त्रयोदशेति। त्रयोदश, द्वादश वेति स्वमतम्। अन्यत्तुअवमतं परमतम्**॥६९॥**

ऋजुनि स्फुटपावनि सान्तरालानि विन्यसेत्।
ऊर्द्ध्वपुण्ड्राणि दण्डाब्जमत्स्यदीपनिभानि च॥७०॥

ऋजूनीति। ऋजूनि स्फुटपार्श्वानि सुव्यक्तपार्श्वानि यथा स्वेदोद्गमे पार्श्वयोरभास्वरता न भवति यथा वा ललाटचर्मणः प्रत्यक्षविषयता न भवति तथा पार्श्वयोर्नैबिडयं सम्पादनीयमित्यर्थः। सान्तरालानि सच्छिद्राणि न्यसेत्। ललाटादिस्थानेष्विति शेषः। कथंरूपाणि न्यसेदित्यपेक्षायामाह। दण्डाब्जमत्स्यदीपनिभानि चेति द्वन्द्वान्ते श्रूयमाणस्य निमशब्दस्य दण्डादिना प्रत्येकं सम्बन्धश्वकारात् हरिपादाकृत्यूर्ध्वपुण्ड्रसङ्गहः। अत्र दण्डाकारोर्द्ध्वण्ड्रधारणं मुख्यं विष्णुपादकृत्यूर्द्ध्वपुण्ड्रधारणं मुख्यमिति जानीध्वम्। ‘हरेः पादाकृतिमात्मनो हिताय मध्ये छिद्रमूर्द्ध्वपुण्ड्रं यो धारयेत् स परस्य प्रियो भवति स पुण्यभाग भवति’ इत्याथर्वणे श्रुतत्वात् चक्राब्जमत्स्यदीपनिभानि चेत्यपरः पाठः**॥७०॥**

विष्णोरूर्द्ध्वतयाक्षेत्रे पर्वतादौ प्रशस्तया।
मृदोर्द्ध्वपुण्ड्रं देवनामन्यैर्वा छिद्रमेव वा॥७१॥

केन द्रव्येणेत्यपेक्षायामाह—विष्णोरिति। विष्णोः क्षेत्रे पर्वपादौ प्रशस्तया मृदोर्ध्वपुण्ड्रं भवति धारयेदिति वा शेषः।

देवानामर्चाबिम्बानामन्यैर्मृद्व्यतिरिक्तैः कस्तूर्यादिभिर्द्रव्यैर्वा ऊर्ध्वपुण्ड्रं वा भवति तेषामच्छिद्रमेव भवति। मनुष्याणां मृदा सच्छिद्रमेवेत्यर्थः। मृदप्यत्र श्वेतमृत्तिका। “श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं भवेत्॥ श्रीकरंपीतमित्याहुर्वैष्णवं श्वेतमुच्यते”इति ब्रह्माण्डपुराणोक्तेः**॥७१॥**

निघर्षणादि विधिवत्कृत्वा ध्यायन् जगद्गुरुम्।
आसीनोऽङ्गुलिभिर्दद्यादूर्ध्वपुण्ड्रान् स्वयं क्रमात्॥७२॥

धारणप्रकारमाह—निघर्षणेति। विधिवत् यथाशास्त्रं जगद्गुरुं नारायणं ध्यायन् निघर्षणादि सव्यकरेण मृदालोडनब्रह्मतीर्थनिधानादिकं कृत्वा ऊर्द्ध्वपुण्ड्रान् दद्यात्। कथंभूतः सन् जगद्गुरुं ध्यायन् नत्वन्यमनाः। आसीनो न तिष्ठन् गच्छन् धावन् शयानो वा अंगुलिभिर्दद्यात् न तु नखतृणादिना स्वयं दद्यात् नान्यहस्तेन। क्रमात् न व्यतिक्रमेण। अंगुलिभिरिति बहुवचनंमुमुक्षुव्यतिरिक्ताधिकारिणां मध्यमांगुष्ठादिभिरपि धारणानुज्ञानात्। मुमुक्षोस्तु तर्जन्यैवधारणम्। तदुक्तं ब्रह्माण्डपुराणे ब्रह्माणं प्रति भगवता। “अंगुष्ठः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत्। अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी। एतैरंगुलिभेदैस्तु कारयेन्न नखैः क्वचित्”इति**॥७२॥**

ऊर्ध्वपुण्ड्रंललाटे तु कुर्वीत चतुरङ्गुलम्।
उदरे हृदि कण्ठे च दशाष्टचतुरङ्गलान्॥७३॥

ऊर्द्धपुण्ड्राणामौन्नत्ये प्रमाणमाह—ऊर्द्ध्वपुण्ड्रमिति। ललाटे चतुरंगुलं चतुरंगुलोन्नतं कुर्वीत उदरे हृदि वक्षसि कण्ठे च क्रमेण दशाष्टचतुरंगुलानुच्चं कुर्वीत। उदरे दशांगुलपरिमितोच्छ्रायं वक्षस्यष्टांगुलपरिमितोच्छ्रायं कण्ठे चतुरंगुलोछ्रायम् ऊर्द्ध्वपुण्ड्रं कुर्वीत**॥७३॥**

दक्षिणोदरबाह्वंसेष्वेवं त्रीणीतरस्य च।
आद्यवत्पृष्ठतो द्वे च मूर्ध्नि चैवं त्रयोदश॥७४॥

दक्षिणेति। दक्षिणोदरबाह्वंसेषु दक्षिणोदरे उदरस्य दक्षिणपार्श्वे दक्षिणबाहौ दक्षिणांसे च इतरत्र उदरस्य वामपार्श्वे वामबाहौ वामांसे च एवं पूवाक्तक्रमेणैव दशाष्टचतुरंगुलान् कुर्वीत उदरस्य दक्षिणोत्तरबाह्वोरष्टांगुलौ तदसयोश्चतुरंगुलौ कुर्वीतेत्यर्थः आद्यवल्ललाटोर्द्धपुण्ड्रवत्**॥७४॥**

त्रिधा सर्वत्र विस्तारश्चतुस्त्रिद्व्यङ्गुलं क्रमात्।
उत्तमो मध्यमो हीनः पार्श्ववङ्गुलिकौ स्मृतौ॥७५॥

त्रिधेति। सर्वत्र सर्वेषूर्द्धपुण्ड्रेषु चतुस्त्रिद्व्यंगुलान् क्रमात् विस्तारस्त्रिधा भवति तेषु मध्ये एक उत्तमस्त्वपरो मध्यमः अन्यो हीनः चतुरंगुलविस्तार उत्तमः। अत इतरौ यथाक्रमं मध्यमहीनौ पार्श्वौछिद्रोर्द्धपुण्ड्रपार्श्वौ अंगुलिमात्रविस्तारौ स्मृतौयत्तु “दशांगुलप्रमाणन्तु उत्तमोत्तममुच्यते॥ नवांगुलं मध्यमं स्यादष्टांगुलमतः परम्॥ सप्तषट्पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं भवेत्”इति ब्रह्माण्डपुराणवचनं तदतिविशालभालवद्विषयं वेदितव्यम्**॥७५॥**

तत्र तत्र स्मरन्मन्त्रैः केशवादीन्न्यसेत्क्रमात्।
पाणिना दक्षिणेनैव वासुदेवं त्रयोदशे॥७६॥

तत्रतत्रेति। ऊर्द्धपुण्ड्रधारणानन्तरं तत्र तत्र ललाटाद्यूर्द्धपुण्ड्रेषु स्मरन्केशवादीन् ध्यायन् मंत्रैः केशवादिमन्त्रैः क्रमात् केशवादीन् न्यसेत् केन पाणिना दक्षिणेनैव न तु वमकरेण। त्रयोदशेति शिरोधृतत्रयोदशोर्द्धपुण्ड्रे वासुदेवमन्त्रेण वासुदेवं न्यसेत्**॥७६॥**

प्रणवेन तथा व्यूहैः षडष्टद्वादशाक्षरैः।
मन्त्रैरन्यैश्चतांस्तान्वै धारदूर्द्ध्वपुण्ड्रकान्॥७७॥

ऊर्द्ध्वपुण्ड्रधारणमन्त्रमाह—प्रणवेनेति। व्यूहाः केशवादि दामोदरान्तव्यूहचतुष्टयस्यापि प्रत्येकं केशवादिरूपेण त्रिविधस्त्वात्अत्र व्यूहशब्दस्तत्तन्मन्त्रपरः केशवादिद्वादशव्यूहमन्त्रैरित्यर्थः। प्रणवेन केशवमन्त्रेण षडष्टद्वादशाक्षरैरन्यैश्चउपदिष्टैर्भगवन्मन्त्रैः केशवपुण्ड्रधारणम्। एवं प्रणववषडष्टद्वादशाक्षरतदतिरिक्तोपदिष्ट- भगवन्मन्त्रसहितैस्तत्तन्मन्त्रैर्नारायणादिपुण्ड्रधारणमिति विवेकः**॥७७॥**

ततो दिव्यं च हारिद्रं सहेमतुलसीदलम्।
मन्त्रेण धारयेच्चूर्णं ललाटे मस्तके तथा॥७८॥

तत ज्ञात। दिव्यं देहं भगवदर्पितमिति यावत्। सहेमतुलसीदलं सुवर्णतुलसीदलचूर्णैर्मिश्रितं हरिद्रासम्बन्धि चूर्णं ललाटे मस्तके मन्त्रेण च ‘श्रियोजात’ इत्यादिना धारयेत्। ‘ललाटे मस्तके तथे’त्याद्यङ्गग्रहणमुपलक्षणार्थम्**॥७८॥**

पवित्राण्यब्जबीजानि शंखचक्राङ्कभूषणम्।
धारयेद्वैष्णवं नाम वैष्णवाश्रयमेव वा॥७९॥

पवित्रेति। पवित्राणि पवित्रारोपणोत्सवे भगवता धृतानि तन्तुमयानि अब्जबीजानि पद्माक्षबीजवलयानि इंदं च तुलसीकाष्ठनिर्मिताक्षवलयानामप्युपलक्षणम्। शंखचक्राङ्कभूषणं शंखचक्राङ्कचिह्नितं मुद्रिकादि भूषणं वैष्णवं निजसम्बन्धिनामवैष्णवाश्रयं नित्यमुमुक्षुभेदभिन्नवैष्णवगतं नाम भागवतं वा धारयेदित्यर्थः**॥७९॥**

अयुक्सूत्रैर्व्यतिस्यूतं धारयेत्कटिबन्धनम्।
कौपीनंवस्त्रयुग्मं च यथार्हमितराणि च॥८०॥

अयुगिति। अयुक्सूत्रैःअयुग्ममूत्रैः व्यतिस्यूतं व्यत्यासेन स्यूतं कटिबन्धनं कटिसूत्रं धारयेत् कौपीनं वस्त्रयुग्मं यथार्हं यथायोग्यमितराणि उष्णीषादीनि च धारयेत्**॥८०॥**

लक्षणानि स्फुटान्येव क्रियासिद्धिकराणि तु।
धारयेन्नोपहन्येत कदाचित्किङ्करादिभिः॥८१॥

लक्षणानीति। लक्षणानि शंखचक्रोर्द्धपुण्ड्रादिचिह्नानि स्फुटान्येव नत्वस्फुटानि क्रियासिद्धिकराणि भगवत्कैङ्कर्ययोग्यता पादकानीति यावत् किङ्करादिभिर्यमभटादिभिः**॥८१॥ इति लक्ष्माधिकारः॥**

दण्डवत्प्रणमेद्भूमावुपेत्य गुरुमन्वहम्।
दिशे वापि नमस्कुर्याद्यत्रासौवसति स्वयम्॥८२॥

अथ सत्सेवामधिकरोति—दण्डवदिति। दण्डवदित्यनेन अहङ्कारनिवृत्तिराभिप्रेता अस्याहमिति कादाचित्कत्वव्यावृत्तिः यत्र देशे असावाचार्योवसति तस्यै दिशे नमस्कुर्यादित्यर्थः। स्वमित्यनेन अग्निहोत्रादिषत्ऋत्विगादिभिर्न कारयेदित्यर्थः**॥८२॥**

आचार्यायाहरेदर्थानात्मानं च निवेदयेत्।
तदधीनश्च वर्तेत साक्षान्नारायणो हि सः॥८३॥

आचार्यायेति। आचार्याय आचार्यार्थंधनान्याहरेत् आनयेत् आत्मानञ्च निवेदयेत् तदाहमस्मीत्यात्मनिवेदनं कुर्यात् तदधनिश्चवर्तेत आचार्याधीनस्तिष्ठेत्। नन्वियं वृत्तिर्भगवद्विषयेकार्या कथमाचार्यविषयेऽपीत्याह ‘साक्षान्नारायणो हि स’ इति। साक्षान्नारायण इत्यनेन “साक्षान्नारायणो देवः कृत्वामर्त्यमयीं तनुम्। ममानुद्धरते लोकान्काहण्याच्छाक्षणधिना”इति वचनं सूच्यते। आचार्यस्य भगवद्रूपत्वात् तद्विषये कर्तव्या वृत्तिः सर्वाप्येतद्विषये कर्तव्येति भावः**॥८३॥**

कुर्वीत परमांभक्ति गुरौ तत्प्रियवत्सलः।
तदनिष्टापवादी च तन्नामगुणहर्षितः॥८४॥

कुर्वीतेति। परमां निरतिशय्याम्। तत्प्रियवत्सलः आचार्यभक्तवत्सलः। तदनिष्टापवादीच आचार्यानिष्टविषयापवादशीलः। तन्नामगुणहर्षितः आचार्यगुणस्मरणवचनश्रवणादिमिर्हर्षितः**॥८४॥**

नित्यं गुरुमुपासीत तद्वचः श्रवणोत्सुकः।
विग्रहालोकनपरस्तस्यैवाज्ञाप्रतीक्षकः॥८५॥

नित्यमिति। तद्वचःश्रवणोत्सुकः आचार्यवचनश्रवणकुतूहली। विग्रहालोकनपरः आचार्यविग्रहसेवाभिरतः। तस्यैव आचार्यस्यैव आज्ञाप्रतीक्षकः नियोगं प्रतीक्षमाणः**॥८५॥**

प्रक्षाल्य चरणौ पात्रे प्रणिपत्योपयुज्य च।
नित्यं विधिवदर्घ्याद्यैरादृतोऽभ्यर्चयेद्गुरुम्॥८६॥

प्रक्षाल्येति। चरणौ आचार्यचरणौ पात्रे प्रक्षाल्य प्रणिपत्य दण्डवत्प्रणम्य। उपयुज्य पादप्रक्षालनजलं पीत्वा नित्यं प्रत्यहं विधिवत् यथाशास्त्रम् आदृतःआदरवान् कर्त्तरिक्तः। आचार्यादरविषयीभूतो वा गुरुमभ्यर्चयेत्**॥८६॥**

इच्छाप्रकृत्यनुगुणैरुपचारैः सदोचितैः।
भजन्नवहितश्चात्र हितमावेदयेद्रहः॥८७॥

इच्छेति। इच्छाप्रकृत्यनुगुणैरातुरत्वावस्थायामिच्छागुणानामवद्यत्वात् देहपीडायामपर्य्यवासितैः आचार्येगुणैर्नकेवलमिच्छागुणेभ्योनुगुणैरुचितैः शाखाविरुद्धैरुपचारैरवहितः सावधानो भजन्अस्य आचार्यस्य हितं रहः रहस्यावेदयेत् नयमातिक्रमे सति हितं रहो निवेदयेदित्यर्थः**॥८७॥**

यथानुजीवी नृपतिं यथा भक्तस्तु दैवतम्।
तथैव देशिकं शिष्यः सेवेत विनयान्वितः॥८८॥

यथेति। यथानुजीवीभृत्यः नृपतिं राजानं सेवते, भक्तः दैवतं यथा सेवते, शिष्योऽपि देशिकं तथा सेवेत तथेत्यस्यार्थं विशदयति विनयान्वित इति**॥८८॥**

स्नातं च गुरुणा यत्र तीर्थं नान्यत्ततोऽधिकम्।
यच्च कर्म तदर्थं तद्विष्णोराराधनात्परम्॥८९॥

स्नातमिति। गुरुणा यत्र स्नातं स्नानं कृतं ततः तज्जलात् अधिकमुत्कृष्टं तीर्थं नास्ति तदेव सर्वतीर्थााधिकमिति भावः तदुक्तं भागवते विदुरं प्रति धर्मराजेन “भवद्विधा भागवतास्तीर्थभृताः स्वयं विभो। तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता”इति यच्च तदर्थं कर्म तदाचार्यकैङ्कयरूपं कर्म विष्णोराराधनात्परं भगवदाराधनादप्युत्कृष्टम्**॥८९॥**

अपदिश्य पितॄन्देवान्गुरौ यत्प्रतिपाद्यते।
देशकालक्रियामन्त्रनिरपेक्षं तदक्षयम्॥९०॥

अपदिश्येति। पितृदेवानप्यपदिश्य गुरौ आचार्येयत्प्रतिपाद्यते यत्कव्यं हव्यं वा समर्प्यते तद्धव्यं कव्यं वा देशकालक्रियामन्त्रनिरपेक्षम् अदेशे अकाले वा दत्तं मन्त्रहीनं क्रियाहीनं वा अक्षयं भवति**॥९०॥**

आत्मनो ह्यतिनीचस्य योगिध्येयपदार्हताम्।
कृपयैवोपकर्त्तारमाचार्यं संस्मरेत्सदा॥९१॥

** आत्मन इति**। अतिनीचस्यात्मनः योगिध्येयपदार्हतांविधिशिवसनकाद्यैरपि ध्येयं न प्राप्तुं शक्यं यत्पदं तदर्हताम्यद्वा योगध्येयस्य श्रीमतो नारायणस्य पदयोरर्हतां परि

चरणाधिकारः कृपयैवोपकर्तारं योग्यतामविचार्य दत्तवन्तम्। आचार्यं सदा संस्मरेत्। अर्हतामुपकर्त्तारमिति तृन्नंतत्वान्नलोकाव्ययेत्यादिना षष्ठीनिषेधात् द्वितीया**॥९१॥**

स्वयं देहानुकूलानि धर्मार्थौपयिकानि च।
कुर्यादप्रतिषिद्धानि गुरोः कर्माण्यशेषतः॥९२॥

स्वयमिति। आचार्यदेहानुकूलानि पादसंवाहनादीनि धर्मार्थौपयिकानि आचार्यार्थं तदग्निपरिचर्यादीनि अप्रतिषिद्धानि शास्त्राविरुद्धानि गुरोः कर्माण्यशेषतः कार्त्स्येन स्वयं कुर्यात्**॥९२॥**

योऽसौ मन्त्रवरं प्रादात्संसारोच्छेदसाधनम्।
प्रतीच्छेद्गुरुवर्यस्य तस्योच्छिष्टं सुपावनम्॥९३॥

योसाविति। योऽसावाचार्यः संसारोच्छेदसाधनं मोक्षहेतुभूतं मन्त्रवरं मन्त्ररत्नं प्रादात् दत्तवान् तस्य गुरुवर्यस्य आचार्यश्रेष्ठस्य सुपावनमुच्छिष्टं प्रतीच्छेत् स्वीकुर्य्यान्नत्वन्यस्य सुपावनमित्यनेन भगवद्भुक्तत्वात्पावनन्तदेवाचार्यदिव्यवदनसंस्पर्शात् सुपावनमभिप्रेतं मन्तव्यम्**॥९३॥**

ये चोपकुर्वते ज्ञानं किमप्यच्युतसंश्रयम्।
विनोच्छिष्टाशनं कुर्याद्वृत्तिं तेष्वपि गौरवात्॥९४॥

उच्छिष्टाशनं साक्षान्मोक्षसाधनविद्योपदेष्टविषये। अन्यविषये तु उच्छिष्टाशनवर्जं गुरुवृत्तिमाचरेदित्याह—येचेति। अच्युतसंश्रयं भगवद्विषयं किमपि साक्षान्मोक्षसाधनविषयकतया यत्किञ्चिदपि प्रमाधानं ज्ञानं ये चोपकुर्वते प्रयच्छन्ति उच्छिष्टाशनवर्जितां तेष्वपि गौरवाद्वृत्तिं कुर्यात्गुरुवद्वृत्तिमाचरेदित्य

मिवायः**॥९४॥**

गुरोश्च पत्नीपुत्रादिष्वन्येष्वप्यमलात्मसु।
कुर्यादाचार्यवद्वृत्तिं तत्र तत्र व्यवस्थया॥९५॥

गुरोश्चेति। पत्नीपुत्रादिष्वित्यादिशब्देन भ्रात्रादयो गृह्यन्ते। ‘आचार्यपत्नीं पुत्रं वा मातापितरौ च सोदारम्॥आचार्यमेव मन्येत अन्यथा नाशमाप्नुयात्’ इति विहगेन्द्रसंहितोक्तेः। अन्येषु तदन्तरङ्गेषु शिष्टेषु सब्रह्मचारिषु वा तत्र व्यवस्थया वा गुरुपुत्रादौ उच्छिष्टाशनादिवर्जं गुरुदारेषु पादोपसंग्रहणादिवर्जं वृत्तिं कुर्यात्**॥९५॥**

आचार्योऽपि तथा शिष्यं स्निग्धो हितपरः सदा।
प्रबोध्य बोधनीयानि वृत्तिमाचारयेत्स्वयम्॥९६॥

आचार्येति। यथा गुरौ शिष्यः स्नेहयुक्तो भवति तथा आचार्योऽपि शिष्ये स्निग्धो भूत्वा सदा शिष्यहितपरः सन् बोधनीयानि ज्ञापनीयानि प्रबोध्य ज्ञापयित्वा वृत्तिं विहिताचाराद्यात्मिकां षड्विधांवृत्तिमाचरेत्**॥९६॥**

निजधर्मानुरोधेन वैष्णवैरेव वैष्णवः।
कुर्यात्सर्वाणि कार्याणि न कदाचिदवैष्णवैः॥९७॥

निजेति। निजधर्मानुरोधेन स्ववर्णाश्रमावस्थानियतधर्माविरोधेन वैष्णवो वैष्णवैरेव ऋत्विगादिभिः समं सर्वाणि कार्याणि कर्त्तव्यानि कुर्यात्। अवैष्णवैः सह न कदाचित्कुर्यात्**॥९७॥**

अधिकैः सदृशैर्वापि कुर्यादेव तु सङ्गमम्।
हीनांश्च नावमन्येत न च दोषं विभावयेत्॥९८॥

अधिकैरिति। अधिकैः सदृशैर्वापि स्वस्मादुत्कृष्टैः स्वसमानैर्वाहीनान्विकलवृत्तीन्न च दोषं विभावयेद्धीनेषु दोषचिन्तामपि न कुर्यात्**॥९८॥**

वृद्धानाचारसम्पन्नान्विष्णुभक्तान्दृढव्रतान्।
सतः सत्सेवनपरान्नित्यं सेवेत संनतः॥९९॥

वृद्धानिति। दृढव्रतान्बृहस्पतिनाप्यक्षोभ्याध्यवसायान्सतः ब्रह्मज्ञानेन लब्धसत्ताकान्। ‘अस्तिब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः’ इति श्रुतेः सन्नतः प्रह्वीभूतः**॥९९॥**

एवं स्वकर्मणि ज्ञाने भक्तौ च परिनिष्ठितः।
वैराग्येण च संयुक्तो न चेहाजायते पुनः॥१००॥

इति श्रीभारद्वाजसंहितायां न्यासोपदेशे तृतीयोध्यायः॥३॥

———————————

उक्तमर्थं निगमयति—एवमिति। स्वकर्म्मणि विहिताचारे ज्ञाने दृष्टौ भक्तौ चेति चकारेण लक्ष्मसत्सेवे समुच्चीयेते। वैराग्येण च संयुक्तः उक्तवृत्तिविरोधिपरिहारनिरतः। इहलोके पुनर्न आजायते नोत्पद्यते**॥१००॥इति सत्सेवनाधिकारः॥**

इति श्रीनारदपञ्चरात्रे भारद्वाजसंहिताटीकायां न्यासोपदेशे तृतीयोऽध्यायः॥३॥

———————————