अथानुकूल्यमुख्यानि प्रपत्त्यङ्गानि विस्तरात्।
धर्माणां तद्विरुद्धानां स्वरूपं च निबोधत॥१॥
एवं प्रथमाध्याये प्रपत्तिस्वरूपमुक्ता तदभेदेनोपचरितवृत्त्यङ्गानि तद्विरुद्धानि चोक्ता प्रपत्यङ्गस्वरूपं तद्विरुद्धप्रपञ्चनम्अवसरप्राप्तं द्वितीयाध्यायेन क्रियत इति प्रतिजानीते॥
अथेति। आनुकूल्यमुख्यानि आनुकूल्यसङ्कल्पप्रभृतिप्रपत्य-
ङ्गानि। तद्विरुद्धानामानुकूल्यसङ्कल्पादिप्रपत्यङ्गविरुद्धानां धर्माणां स्वरूपं च विस्तरात्प्रपञ्चमानं निबोधतेत्यनेन अवहितेन मनसा श्रोतव्यमिति द्योत्यते**॥१॥**
अन्यत्सर्वं द्वितीयाध्यायवचनजातं विच्छिन्नसम्प्रदायम्॥
इति श्रीनारदपञ्चरात्रे भारद्वाजसंहिताटीकायां द्वितीयोऽध्यायः॥२॥
———————