१ पाप-प्रशमनाधिकारः

<MISSING_FIG href="../books_images/U-IMG-1724243731Screenshot2024-08-21180515.png"/>

श्रुत्वा तु सकलान्धर्मान्सिद्धिमेषां च शाश्वतीम्।
भूय एव मुनिश्रेष्टमिदमूचुर्महर्षयः॥१॥

**श्रीकृष्णाय नमः॥**अथ तत्र भगवान् भरद्वाजो महामुनिः संसाराग्निसंविदीपनव्यपगतप्राणात्मसंजीवनेच्छया सकलवेदान्तेषु प्रतिपन्नन्यासाख्ययोगसकलधर्मोपदेशानन्तरमुपनिषत्कपेन संहिताशेषेणोपादिशत्। तत्र सम्यगुपपन्नानां शिष्याणां महर्षीणां प्रश्नकालप्रतीक्षाणां तादृशोपायश्रवणकौतूहलवतां प्रश्नश्लोकोऽयं श्रुत्वेत्याद्यः धर्मशब्दः अलौकिकश्रेयः साधनपरः। यद्यप्यसौ सामान्यपरः तथापि प्रकरणवशात् निःश्रेयससाधनं परं वक्ति तच्च तत्तद्विद्याप्रतिनियतपरमेश्वरतत्तद्गुणविशेषविषयविशदतमाविच्छिन्नप्रियश्रुतिसन्ततिरूपविद्याबहुत्वाभिप्रायेण बहु- वचनम्। सकलशब्देनावान्तरभेदभिन्नतदङ्गभूतकर्मज्ञानोक्तिः—श्रुत्वेति। न्यासाख्ययोगश्रवणप्रतिबन्धकनिवृत्ति- सूचनम्। क्त्वाप्रत्ययस्तूपायान्तरश्रवणस्य तद्दौष्कर्मानुसन्धानद्वारा अव्यवहितानन्तरभाविन्यासाख्ययोगविषयप्रश्न- व्यवहितपूर्वभावित्वमाह। तुशब्देन पूर्वश्रुतधर्मदौष्कर्यानुसन्धानजनितवैक्लव्यरूपो विशेषो द्योत्यते। एषां धर्माणां शाश्वतीं तत्तद्धर्मप्रतिनियतां सिद्धिं फलरूपाम्। भक्तिस्त्वव्यवधानेनापवर्गं प्रतिनियता सिद्धिः। ज्ञानयोगस्य भक्तियोगः। कर्मयो-

गस्य ज्ञानयोगः। यद्वा, तृतीयाध्यायोक्तप्रक्रियया विशिष्टतया व्यपदिष्टानां ज्ञानयोगव्यवधानमन्तरेणापि कर्मयोगद्वारा साक्षादेवात्मावलोकनम्। भूय इत्याचार्यवचनश्रवणात्1तृतीय एवकारेण2 मुनिश्रेष्ठमिति परमाप्ततमत्त्वमभिप्रैति। इदमूचुर्महर्षय इति। तादृशोपायश्रवणेन सर्वेषामैककण्ठ्यं व्यञ्जयति। मुनिश्रेष्ठं महर्षय इति, शिष्याचार्यसमाजोऽतिरमणीय इति भावः**॥१॥**

केनोपायेन भगवन्निह सर्वेऽपि जन्तवः।
प्राप्नुयुः परमां सिद्धिं सद्यो विगतकल्मषाः॥२॥

केनोपायेनेति। इह अस्मिन् लोके सर्वेऽपि जन्तवः अत्रैवर्णिका अपि जन्तवः सद्यो विगतकल्मषाः सन्तः परमां सिद्धिं निःश्रेयसं प्राप्नुयुः। सर्ववर्णाधिकारिकः अपेक्षितकालमोक्षफल उपायः क इति प्रश्नार्थः। सद्यो विगतकल्मषा इत्यस्यायं भावः। आर्त्यतिशये सति यः सद्यो मोक्षं साधयति तादृशोपायः क इति**॥२॥**

तेषां तद्वचनं श्रुत्वा भरद्वाजो महामनाः।
सस्मार परपं गुह्यं पुनश्चेदमभाषत॥३॥

तेषामिति। तेषामृषीणां तद्वचनं सर्ववर्णाधिकारिकक्षिप्रमोक्षफलदोपायविषयकं वचनं श्रुत्वा महामनाः प्रदिशतु भगवानशेषपुंसां हरिरपि जन्मजरादिकां समृद्धिमित्यादिप्रकारेण श्रीपराशरादिवत् सर्वेषामपि निरतिशयपुरुषार्थप्रतिलम्भकसाधनोपदेशौपयिकमानसौदार्यवान् भरद्वाजः परमं गुह्यं परमं रहस्यं सस्मार स्मृतवान्। पुनश्च पुनरिदं वक्ष्यमाणमभाषत**॥३॥**

श्रूयतां संप्रवक्ष्यामि न्यासाख्यं योगमुत्तमम्।
सिद्धिं चैवास्य परमांद्वयमेतच्छ्रुतं यथा॥४॥

श्रूयतामिति। श्रूयतामित्यनेन श्रवणस्यार्थसिद्धत्वादन्यपरित्यागो लक्ष्यते। इदं परतया श्रोतव्यमित्यर्थः। न्यासाख्यं योगमुपायं संप्रवक्ष्यामि संप्राभ्यामुपसर्गाभ्यां न्यासोपदेशस्य तदङ्गतदवान्तरभेदविषयत्वं द्योत्यते। उत्तमं भक्तियोगादप्यधिकं न्यासाख्यं योगम् अस्य न्यासाख्ययोगस्य परमां निरतिशयां सिद्धिम् एतद्वयं यथाश्रुतं आचार्यसकाशात् येनप्रकोरणार्धातं तथा संप्रवक्ष्यामीत्यर्थः**॥४॥**

अयं च योगो वेदेषु वेदान्तेषु च गीयते।
तथैव धर्मशास्त्रेषु दिव्यशास्त्रगणेषु च॥५॥

न्यासयोगप्रमाणं निदर्शयति—अयमिति। अयं योगः वेदेषु कर्मभागेषु वेदान्तेषु ब्रह्मभागेषु तथैव धर्मशास्त्रेषु मन्वादिस्मृतिषु दिव्यशास्त्रगणेषु श्रीपञ्चरात्रसंहितासु च गीयते ‘तस्माद्बध्यं प्रपन्नं न प्रयच्छन्ति’ इत्यादिभिर्वेदेषु ‘ब्रह्मणेत्वा महसेओमित्यात्मानं युञ्जीत’ इत्यादिभिर्वेदान्तेषु शरणागतबालस्त्रीहिंसकान् संवसेन्नतु’इत्यादिभिर्धर्मशास्त्रेषु ‘प्रपत्तिं तां प्रयुञ्जीतस्वांगैः पञ्चभिरावृताम्’ इत्यादिभिर्दिव्यशास्त्रगणेषु च प्रतिपाद्यत इत्यर्थः**॥५॥**

अनेनैव हि कर्माद्या योगाः सिध्यन्ति योगिनाम्।
सिद्धिर्न तद्व्यपेक्षास्य तस्मादेनं परं विदुः॥६॥

अनेनेति। न्यासाख्यं योगमुत्तममिति पूर्वोक्तमुत्तमत्वं हेतुद्वयेनोपपादयति हिशब्दः प्रमाणप्रसिद्धिं द्योतयति। अनेन न्यासेन योगिनां कर्माद्या योगाः कर्मज्ञानभक्तियोगाः

सिद्धयन्ति। अस्य न्यासस्य सिद्धिर्न तद्व्यपेक्षा न कर्मादिसकांक्षा तस्मात् कर्मयोगादिनिष्पत्तिहेतुत्वात् स्वयं तन्निरपेक्षत्वाच्च एवं न्यासं परं कर्मयोगादिभ्य उत्कृष्टं विदुः वृद्धा इति शेषः**॥६॥**

निश्चितेऽनन्यसाध्यस्य परत्रेष्टस्य साधने।
अयमात्मभरन्यासः प्रपत्तिरिति चोच्यते॥७॥

न्यासस्वरूपमाह—निश्चितेति। अयं न्यासाख्ययोगः अनन्यसाध्यस्य न्यासव्यतिरिक्तोपायान्तरासाध्यस्य इष्टस्य फलस्य साधने निश्चिते साधनत्वेनावधृते परमात्मनि आत्मभरन्यासः आत्मभरसमर्पणम्। अयमेव भरन्यासः प्रपत्तिरिति चोच्यते। अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकमित्यादिकमत्रानुसन्धेयम्**॥७॥**

प्रायो गुणवशादेषकृतः सर्वत्र देहिनाम्।
सर्वेषां साधयत्येव तांस्तानर्थानभीप्सितान्॥८॥

भगवदेकविषयत्वं न प्रपत्तिमात्रस्य लक्षणं किन्तु मोक्षसाधनत्वं प्रपत्तेरेव। रजस्तमोमूलानां निःश्रेयसव्यतिरिक्ताः तत्तत्कामफलार्थनां प्रपत्तीनामन्येऽपि विषयास्सम्भवन्तीत्याह—प्राय इति। गुणवशात् रजस्तमःपारवश्यात्। सर्वत्र ब्रह्मरुद्रादिकेऽपि विषये कृत एष न्यासः सर्वेषां देहिनां तांस्तानभीप्सितानिष्टानर्थान्प्रायः साधयत्येव। एवकारेण सानुक्रोशसमर्थविषयायाः प्रपत्तेः फलाव्यभिचारो द्योत्यते। प्राय इत्यनेन क्वचिदसमर्थनिरनुक्रोशविषयायास्तस्याः फलव्याभिचारो द्योत्यते। मोक्षातिरिक्तपुरुषार्थपरायाः प्रपत्तेर्यः कश्चिदपि कारुणिकः समर्थो विषयो भवतीति श्लोकाभिप्रायः**॥८॥**

अनन्तज्ञानशक्त्यादिकल्याणगुणसागरे।
परे ब्रह्मणि लक्ष्मीशे मुख्योऽयं सर्वसिद्धिकृत्॥९॥

मोक्षार्थस्य न्यासस्य तु भगवानेव विषय इत्याह—अनन्तेति। अनन्तज्ञानेत्यादिना अनन्तत्वमन्त्रेयत्ताराहित्यम्। तयोरनन्तत्वसामर्थ्ययोः सतोरपि ज्ञानाभावे इष्टानिष्टयोरपिज्ञानाभावात्तत्प्रापणनिर्वहणे न युज्येते। अत उक्तं ज्ञानेति। शक्तिः सामर्थ्यम् आदिशब्देन कारुण्यादिसंग्रहः आनन्त्यं ज्ञानादौ सर्वत्र द्रष्टव्यम् एतेन प्रपत्तव्यत्वपूर्तिरुक्ता। परे ब्रह्मणीति, परत्वविषयत्वात् मुख्यत्वं युज्यत इति भावः। मुख्यः श्रेष्ठः मोक्षोपाय इति यावत्। न केवलं भगवत्प्रपत्तेर्मोक्षमात्रफलकत्वम्अपि तु तत्तदर्थिनां तत्तत्फलकत्वमपीत्याह। सर्वसिद्धिकृदिति सकलपुरुषार्थसाधनभूत इति भावः**॥९॥**

प्रशासितुरशेषाणामात्मनां परमात्मनः।
न हि प्रसादनं विष्णोरन्यदात्मार्पणादृते॥१०॥

ननुनिश्चितेऽनन्यसाध्यस्य परत्रेष्टस्य साधने इत्यनेन भगवत एवोपायत्वं कथितम्। तत्कथं प्रपत्तेरुपायत्वमिति शङ्कां वारयितुं प्रपत्तेः प्रसदनोपायत्वं तादृक् प्रसदनं प्रति निरतिशयोपायत्वं चाह—प्रशासितुरिति। अशेषाणामात्मनां प्रशासितुर्नियन्तुः तत्तत्कर्मानुरूपफलप्रदाननिरतस्येति यावत्। अनेन प्रसदनस्य साध्यत्वलाभाय कलुषोञ्झितचित्तत्वमुक्तं परमात्मनो भगवतः अनेन प्राप्तिविषयकत्वात्प्रपत्तेः स्वरूपानुरूपत्वमुक्तम्। आत्मार्पणादृते आत्मसमर्पणमन्तरेणान्यत् प्रसादनं प्रसदनसाधनं नह्यस्ति। यद्यप्युपासनस्यापि प्रसदनसाधनत्वमस्ति, प्रपत्त्यै तस्योक्तेः; प्रसदनसाधनं प्रपत्तिर्निदिध्यासनगत इत्याचार्येक्तेः। अथापि क्षिप्रमोक्षसाधनप्रश्नविषयत्वात् क्षिप्रप्रसदनसाधनं प्रपत्तेरन्यन्नास्तीत्यर्थः। प्रसदन द्वारामोक्षहेतुत्वान्न विरोध इति भावः**॥१०॥**

अहमस्मि तवैवेति प्रपन्नाय सकृत्स्वयम्।
देवो नारायणः श्रीमान्ददात्यभयमुत्सुकः॥११॥

प्रपत्तेर्भगवत्प्रसदनहेतुत्वं सकृदेव प्रपन्नायेत्यादिरूपशरण्यवचनप्रत्यभिज्ञापकेनोतरश्लोकेन द्रढयति—अहमिति। तवैवाहमस्मीति भरन्यासरूपं प्रपत्तिम्। सकृदेवकृतवते। अनेन जात्याद्यनियमसिद्धिः स्वयमित्यौत्सुक्यकार्यं स्वयं प्रपदनमाह भक्त्यादौ तु तेषामेवानुकम्पार्थमित्याद्युक्तरीत्या साहाय्यमात्रमेव न तु स्वयंप्रपदनमिति भावः। देव इत्यनेन प्रनष्टस्य यथालाभ इत्युक्तरीत्या अलभ्यलाभनिमित्तकविकसितमुखकमलत्वमुच्यते। नारायणः स्वाभाविकसम्बन्धबलेन चेतनलाभायावसरप्रतीक्षां कुर्वन्नित्यर्थः। श्रीमानित्यनेन तदिङ्गितपराधीनो विधाताखिलमित्युक्तप्रकारेण प्रपन्नाय अभयदानादिकमपि तत्प्रीत्यर्थमिति व्यज्यते। उत्सुकः अभयं भयाभावं सकृदेव ददाति प्रतिपादनान्तरराहित्येन सम्बन्धिपर्यन्तरक्षणं करोतीत्यर्थः। सर्वभूतेभ्य इति भावयन्**॥११॥**

आत्यन्तिकीमनिष्टानां सद्यः शान्तिमभीप्सताम्।
प्रपत्तिरञ्जसा कार्या न त्वशुद्धमुखी क्वचित्॥१२॥

क्षिप्रकारिण्या भगवत्प्रपत्तेर्विषयनियमोऽप्यस्तीत्याह—आत्यन्तिकीमिति। अनिष्टानामविद्याकर्मवासनारुचिप्रति- सम्बन्धसुखदुःखादीनाम् आत्यन्तिकीम्अनिष्टप्रागभावाक्षयसहचरितां सद्यः शान्तिमविलम्बितत्वध्वंसात्मिकामभीप्सता- मभितः आकाङ्क्षमाणानां विलम्बसहानां प्रपत्तिर्भगवद्विषये अञ्जसा अव्यवधानेन कार्या। अशुद्धमुखी तु प्रतर्दनविद्यान्यायेन चेतनान्तरव्यवहिता न कार्येत्यर्थः। चेतनान्तरव्यवधाने तु तत्सायुज्यप्राप्त्यादिना प्राप्तिर्विलम्बिता भवेदिति भावः**॥१२॥**

प्राप्तुमिच्छन्परां सिद्धिं जनः सर्वोऽप्यकिञ्चनः।
श्रद्धया परया युक्तो हरिं शरणमाश्रयेत्॥१३॥

प्रपत्तेर्भक्त्यपेक्षा अधिकारान्तरमप्यस्तीत्याह—प्राप्तुमिति। सर्वोऽप्यकिञ्चनो जन इत्यनेन प्रपत्तेः सर्वाधिकारित्वम् आकिञ्चन्यरूपं मुमुक्षातिरिक्तं भक्त्यपेक्षया अधिकारान्तरं च कथितम्। श्रद्धया परया युक्त इत्यनेन महाविश्वासपूर्वकत्वमुच्यते। हरिं शरणमाश्रयेत् भगवन्तमुपायत्वेन स्वीकुर्यात्**॥१३॥**

न जातिभेदं न कुलं न लिंगं न गुणक्रियाः।
न देशकालौ नावस्थां योगो ह्ययमपेक्षते॥१४॥

जनः सर्वोऽप्यकिंचन इत्यत्रोक्तं सर्वाधिकारत्वं स्फुटयति—नेति। लिंगं ब्रह्मचर्यादिलिंगभूताजिनबन्धादि। गुणाः औदार्यादयः। क्रियाः योगादिक्रियाः। देशकालौ पुण्यदेशः पुण्यकालः अयं योगो न्यासः जातिभेदादिकं नापेक्षते**॥१४॥**

ब्रह्मक्षत्रविशःशूद्राः स्त्रियश्चान्तरजास्तथा।
सर्व एव प्रपद्येरन्सर्वधातारमच्युतम्॥१५॥

नजाति भेदमित्युक्तमर्थं विवृणोति—ब्रह्मक्षत्रेति। सर्वंधातारमच्युतमित्यनेन सर्देषामप्यविशेषेण प्रपत्तृत्त्वं युक्तमिति युज्येत**॥१५॥**

प्रपत्तिं कारयन्त्येव सर्वभूतानि साधवः।
अनपायहता सा तु तस्य तस्याशु सिद्धिदा॥१६॥

प्रपत्तेः सर्वाधिकारत्वे शिष्टाचारप्रमाणं दर्शयन् तस्या अपायैरनपहतत्वमपेक्षितमित्याह—प्रपत्तिमिति। अत्र पूर्वार्द्धेन शिष्टाचाररूपं प्रमाणमुत्तरार्द्धेन अनपायहतत्वं च प्रदर्श्यते। अपायांश्चअपायाधिकारे वक्ष्यति। आशु सिद्धिदे त्यस्यायं भावः। अपाया अपि न प्रपत्तिं स्वरूपेण नाशयन्ति, अपि तु कालविशेषनियतं फलोद्देशमन्तरेण प्रपत्तिमनुष्ठितवतः

पुंसः फलविलम्बं जनयन्ति। कालविशेषनियतफलोद्देशेनानुष्ठितवतस्त्वपाया एव न सम्भवन्ति। सम्भवन्तोऽपि वात एव प्रपत्याः स्वार्हप्रायश्चित्तान्वयसम्पादनेन नाशयन्तीति**॥१६॥**

प्रपत्तिरानुकूल्यस्य सङ्कल्पोऽप्रतिकूलता।
विश्वासो वरणं न्यासः कार्पण्यमिति षड्विधा॥१७॥

कृतानुकूल्यसंकल्पः प्रातिकूल्यं विवर्जयेत्।
विश्वासशाली कृपणः प्रार्थयन् रक्षणं प्रति॥१८॥

अष्टाङ्गयोगन्यायेन प्रपत्तेरङ्गैः सह षाड्विध्यमाह—प्रपत्तीतिकृतेति च। आनुकूल्यस्य सङ्कल्पः अप्रतिकूलता प्रातिकूल्यवर्जनम्। विश्वासः रक्षिप्यतीति विश्वासः। वरणं गोप्तृत्ववरणम्। न्यासः आत्मभरन्यासः। कार्पण्यमाकिञ्चन्यानुसन्धानात्मकं कृपाजनककृपणवृत्तिनिरतत्वमित्येवं स्वाङ्गैः सह षड्विधा**॥१७॥१८॥**

आत्मानं निक्षिपति यद्विप्रदेवस्य पादयोः।
सा प्रपत्तिरियं सद्यः सर्वपापप्रमोचनी॥१९॥

आत्मानमिति—‘आत्मानं निक्षिपेद्धीमान्धिया देवस्य पादयोः’ आत्मानं निक्षिपतीति यत् सा प्रपत्तिरित्यन्वयः।आत्मनिक्षेपाङ्गीभूतानुकूल्यसङ्कल्पादीन्यङ्गानीत्यर्थः। ‘निक्षेपापरपर्यायो न्यासः पञ्चागसंयुतः’ इत्यादिकं प्रमाणमत्रानुसन्धेयम्**॥१९॥**

आर्त्तानामाशु फलदा सकृदेव कृता ह्यसौ।
दृप्तानामपि जन्तूनां देहान्तरनिवारिणी॥२०॥

ननु सद्यः पापप्रमोचनीत्युक्तम् तत्कथं प्रपत्त्यनन्तरं प्रपन्नानां देहानुवृत्तिरित्याशङ्कायामाह—आर्त्तेति। आर्त्तानां क्षणमपि संसारसम्बन्धमसहमानानाम् आशु फलदा शीघ्रफलदा अनेन

प्रपन्नानां देहसम्बन्धानुवृत्तिरार्त्त्यभावनिबन्धना नप्रपत्यसमर्थतानिबन्धना सत्यामार्त्तौतदेव मोक्षं प्रयच्छतीति ज्ञाप्यते। तर्हिदृप्तानां कदा मोक्षः इत्यपेक्षायामाह। दृप्तानामपीत्यादि। देहान्तरनिवारिणीत्येतदप्युपलक्षणार्थं यावानंशः शोकविषयः तावन्तं वारयतीत्यर्थः**॥२०॥**

एषा च त्रिविधा ज्ञेया करणत्रयभेदतः।
गुणत्रयविभेदादप्येकैका त्रिविधा पुनः॥२१॥

एवमार्तदृप्तभेदेन भेदमुक्त्वा करणभेदेनापि भेदेमाह—एषेति। एकैका, कायिकी, वाचिकी, मानसी च स्वमूलभूतसत्त्वरजतमोरूपगुणभेदेन प्रत्येकं पुनस्त्रिविधा भवति। एवं नवविधेत्यर्थः**॥२१॥**

प्रणामांकनमुख्येन न्यासलिंगेन केवलम्।
गुर्वधीना हि भवति प्रपत्तिः कायिकी क्वचित्॥२२॥

तत्र कायिकीं प्रपत्तिमाह—प्रणामेति। प्रणामः साष्टाङ्गादिरूपः। अङ्कनं चक्रादिचिह्नधारणं मुख्यं प्रधानं यस्य। तेन ऊर्द्धपुण्ड्रादिधारणरूपेण न्यासलिङ्गेन गुर्वधीना आचार्यनियमनपूर्विका कायिकी प्रपत्तिर्भवति। आचार्यनियमनपूर्वकं क्रियमाणं प्रणामाङ्कनादिरूपं प्रपत्तिलिङ्गं कायिकी प्रपत्तिरित्यर्थः। प्रपत्तिलिङ्गे प्रपत्तिशब्दो गौणः क्वचिदित्यनेन वा तूलकादीनां प्रपत्तावनधिकारित्वात् तेष्वियमेव प्रपत्तिरित्यर्थः**॥२२॥**

अविज्ञातार्थतत्त्वस्य मन्त्रमीरयतः परम्।
गुर्वधीनस्य कस्यापि प्रपत्तिर्वाचिकी भवेत्॥२३॥

अथ वाचिकींप्रपत्तिमाह—अविज्ञातेति। अविज्ञातम् अर्थतत्वं मन्त्रार्थतत्वं येन तथोक्तस्य गुर्वधीनस्य आचार्यायत्तस्य

मन्त्रमीरयतः परं मन्त्रमात्रमुच्चारयतः कस्यचिद्वाचिकी प्रपत्तिर्भवति। आचार्योच्चारणपूर्वकप्रपत्तिमात्रोच्चारणं वाचिकी प्रपत्तिरित्यर्थः**॥२३॥**

न्यासलिंगवतांगेन धियार्थज्ञस्य मन्त्रतः।
उपासितगुरोः सम्यक् प्रपत्तिर्मानसी भवेत्॥२४॥

अथ मानसप्रपत्तिमाह—न्यासेति। न्यासलिङ्गवता प्रपत्तिलिङ्गचक्रांकनादिमताङ्गेन उपलक्षितस्य उपासितगुरोः अर्थज्ञस्य मन्त्रार्थज्ञानवतः पुंसः धिया मन्त्रार्थविषयिण्या बुद्ध्यामन्त्रतः मन्त्रेण कृता सम्यक् प्रपत्तिः सङ्गभरन्यासात्मिका मानसी प्रपत्तिर्भवति। आचार्योपास्तिपूर्वकम्। आचार्यान्मूलमन्त्रार्थमवगत्य तदर्थानुसन्धानपूर्वकमाचार्यानुज्ञायां क्रियमाणानुकूल्यादिभिरङ्गैर्विशिष्टा प्रपत्तिर्मानसीप्रपत्तिरित्यर्थः**॥२४॥**

यदीच्छन्प्रतिकूलानि सर्वभूतानुकम्पिनम्।
प्रपद्यते हरिं मोहात्सा प्रपत्तिस्तु तामसी॥२५॥

एतत्प्रपत्तित्रयस्यापि प्रत्येकं गुणभेदेनापि त्रैविध्यस्य विवक्षितत्वान्मोक्षप्रतिकूलप्रपत्तिस्वरूपमाह—यदीति। प्रतिकूलानि भूतहिंसादीनि इच्छन् आकाङ्क्षमाणः सर्वभूतानुकंपिनं सर्वजीवदयापरं हरिं मोहात् यदि प्रपद्यते सा प्रपत्तिस्तामसी सर्वभूतानुकम्पिनमित्यस्य न भूतद्रोहेच्छया तदनुकम्पिप्रपदनमिहकार्यमिति भावः**॥२५॥**

अभीप्सन्विविधान्कामान् यदकामैकवत्सलम्।
प्रपद्यते हृषीकेशं तामिमां राजसीं विदुः॥२६॥

अथ राजसीं प्रपत्तिमाह—अभीप्सन्निति। विविधान्कामान् ऐहिकामुष्मिकभोगान् अभीप्सन्प्राप्तुमिच्छन् अकामैकवत्सलं

निष्कामैकप्रियं हृषीकेशम् इन्द्रियगणनियन्तारं हरिं प्रपद्यत इति यत् सा राजसी प्रपत्तिः। अकामैकवत्सलमित्यस्य पूर्ववदभिप्रायः। हृषीकेशमित्यस्य तस्यैव चरणग्रहणे न्यास एव भोगेच्छामपि निवर्त्तयतीति भावः**॥२६॥**

परित्यज्याखिलान् कामान् भक्त्यैवात्मेश्वरं हरिम्।
प्रपद्यते दास्यरतिर्यदेषा सा तु सात्त्विकी॥२७॥

सात्त्विकप्रपत्तिस्वरूपमाह—परित्यज्येति। अखिलान् कामान् त्रैवर्गिकान्दास्यरतिः कैङ्कर्यरूपफलेच्छुः स्पष्टमुच्यते**॥२७॥**

हीनाहीनतमाश्चैव रजसा तमसा कृताः।
सत्त्वेन याः प्रयुज्यन्ते मुख्यास्ताः परिकीर्तिताः॥२८॥

राजसतामसनिन्दापूर्वकं सात्त्विकप्रपत्तेरुत्कर्षमाह—हीनेति। याः प्रपत्तयः रजसा कृता हीनाः तमसा कृता हीनतमाः। सत्त्वेन प्रयुक्ता मुख्या इत्यर्थः**॥२८॥**

सत्त्वा मानसी त्वेका तत्र मुख्यतमा मता।
तया हि परमां सिद्धिं सद्यो यान्ति मनीषिणः॥२९॥

सत्त्वमूलानां प्रपत्तीनां मुख्यत्वमुक्त्वा तन्मूला मानसी प्रपत्तिर्मुख्यतमेत्याह—सत्त्वजेति। तत्र वाचिककायिकमानस- प्रपत्तिषु सत्त्वजासत्त्वमूला मानसी प्रपत्तिरेकैव मुख्यतमा सत्त्वमूलत्वान्मुख्यत्वम्। मानसत्वान्मुख्यतमत्वं फलाधिक्यं सम्भवति। हेत्वधीनत्वेऽपि तादृशहेतुं न्यस्य विलक्षणफलजनकत्वमन्तरेण न सम्भवतीति मत्वा सहजमानसप्रपत्तिविलक्षणफलहेतुत्वमाह। तया हि परमाम् आत्यन्तिकीं सिद्धिं सद्योयान्ति हि यतः ततो मुख्यतमेत्यर्थः**॥२९॥**

प्रणामः कीर्तनं वापि स्मरणं वापि केवलम्।
एकैकमपि चांगानां प्रपत्तिः प्राज्ञसंश्रयात्॥३०॥

ननु प्रणामाङ्कनरूपस्य न्यारुचिह्नस्य कायिकस्य प्रपत्तिमन्त्रोच्चारणस्य वाचिकस्य च कथं प्रपत्तित्वं तयोरेतल्लक्षणलक्षितत्त्वात्। न च प्रपत्तिकार्यकारित्वात् तत्र तदुपदेशः अतल्लक्षणलक्षितस्य तत्कार्यकारित्वायोगात् न च तल्लक्षणत्वात्तन्मात्रं पाठान्तरम्। मन्त्रत्वाच्च गौणस्तद्व्यपदेशःतथा सति मोक्षार्थप्रपत्तेस्त्रैविध्यकथनमयुक्तं स्यात्। वाचिककाधिकप्रपत्योर्मुक्तिं प्रति प्रपत्तिलक्षणलक्षितत्वेनासाधकत्वादित्याशङ्क्य प्रपतिकार्यकरत्वात्कायिकवाचिक- प्रपत्योः प्रपत्तित्वमभिसन्धाय कायिकवाचिकमानसिकप्रपत्त्येकदेशः प्रणामादिरेव प्राज्ञसंश्रयात प्रपत्तिकार्यकरत्वे- सम्भवतीति वक्तव्यं कायिकवाचिकप्रपत्त्योः प्रपत्तिकार्यकरत्वमित्यभिप्रायेणाह—प्रणाम इति। प्रणामः कायिकप्रपत्येकदेशः पूर्वं प्रणामांकनमुख्येनेति श्लोके अङ्कनस्याप्युक्तत्वात्। कीर्त्तनं वाचिकप्रपत्त्येकदेशः मन्त्रन्तरेणे केवलकीर्त्तनस्य तदेकदेशत्वात् स्मरणं मानसिकप्रपत्त्येकदेशः एकैकमपि चाङ्गानामिति मानसप्रपत्त्येकदेशकथनम् आनुकूल्यसंकल्पप्रभृत्यङ्गविशिष्टस्यात्मभरन्यासस्य मानसप्रपत्तित्वात्। ननु कथमेतावन्मात्रस्य प्रपत्तित्वमत आह। प्राज्ञसंश्रयादिति। शिष्यार्थमपि प्राज्ञेनाचार्येणैव प्रपत्तेरनुष्टितत्वात्। प्रणामादेस्तदन्वयज्ञापकत्वात्पत्तित्वं युज्यते इति भावः**॥३०॥**

अन्वयादपि चैकस्य सम्यङ्न्यस्तात्मनो हरौ।
सर्व एव प्रमुच्येरन्नराः पूर्वे परे तथा॥३१॥

भगवन्यस्तभरस्य सम्बन्धिनोऽपि मोक्षं लभन्त इत्याह—अन्वयादिति। साङ्गमात्मात्मीयभरन्यासं कृतवत इत्यर्थः**॥३१॥**

बालमूकजडान्धाश्च पंगवो बधिरास्तथा।
सदाचार्येण संदृष्टाः प्राप्नुवंति परां गतिम्॥३२॥

सदाचार्यकटाक्षविषयीकृतानामपि मोक्षः सम्भवति, तद्वंश्यानां मोक्षो भवतीति किमुत वक्तव्यमित्यभिप्रायेणाह— बालेति। संदृष्टाः मदीयत्वाभिमानपूर्वकं दृष्टा इति भावः**॥३२॥**

गुरुणा योऽभिमन्येत गुरुं वा योऽभिमन्यते।
तावुभौ परमां सिद्धि नियमादुपगच्छतः॥३३॥

ननु बालादयो गुरुं गुरुत्वेनाभिमन्तुं न ज्ञास्यंति। ततः कथं तेषां मुक्तिरित्यत इत्याह—गुरुणेति। गुरुणा योऽभिमन्येत मदीयोयं मम रक्ष्य इत्यभिमानेनवा वीक्ष्येत। गुरुं वा योऽभिमन्यते। एकलव्यादिन्यायेन ममायं रक्षको गुरुरित्यभिमानेन गुरुं यः आचार्यस्यात्मीयभरन्यासवेलायामुभयविधाभिमानस्य गुर्वन्वयसम्पादकत्वेन नियमेन तत्प्रपत्तिद्वारा सिद्धिहेतुत्वं तत्प्रपत्तिवेलायामनन्वये पश्चाद्गुरुकर्तृकस्वप्रपत्यनुष्ठानपर्यवसाने न्याससिद्धिहेतुत्वमिति बहु मनुते। तावुभौ गुर्वभिमानविषयौगुरुर्बहुमन्ताचेत्युभौ नियमात्अव्यभिचारेण परमां सिद्धिं मुक्तिम् उपगच्छत**॥३३॥**

ज्ञानतस्त्वनुपेतस्य ब्रह्मचर्यमभीप्सतः।
वृथैवात्मसमित्क्षेपो जायते कृष्णवर्त्मनि॥३४॥

पुस्तकनिरीक्षणादिना ज्ञानं सम्पाद्य आचार्य समाश्रयणमन्तरेण प्रपत्तिमनुतिष्ठतां वेषसंवादकत्वेन प्रपत्त्यनुष्ठानपर्यवसानेन सिद्धिहेतुत्वमिति न किञ्चित्फलमित्याह—ज्ञानेति। ज्ञानतः प्रपत्तिस्वरूपतदङ्गतत्प्रकारान् पुस्तकनिरीक्षणादिना सम्यग्ज्ञातवतोऽप्यनुपेतस्य आचार्योपसत्तिमकृतवतः ब्रह्म-

चर्यं परब्रह्मानुभवपूर्वकं तत्कैङ्कर्यमाप्तुमिच्छतः पुंसः कृष्ण इति वर्त्म उपायः तस्मिन्सिद्धोपाये कृतः आत्मसमित्क्षेपः। आत्मसमर्पणं वृथैव जायते न किञ्चित्फलमित्यर्थः। अर्थान्तरे अनुपेतस्य उपनयनकृतिशून्यस्य ब्रह्मचर्यकामस्य कृष्णवर्त्मनि वह्नौआत्मनः समिधां क्षेपो वृथैव जायते तदृष्टान्तत्वेनान्वयः**॥३४॥**

शास्त्रादिषु सुदृष्टापि साङ्गा सह फलोदया।
न प्रसीदति वै विद्या विना सदुपदेशतः॥३५॥

उक्तमर्थं विशदयति—शास्त्रेति। विद्या ब्रह्मविद्या न प्रसीदति, प्रसन्ना न भवति, फलाय न भवतीत्यर्थः**॥३५॥**

कामं लोकप्रमाणस्य कामाः सिध्यन्ति कामिनः।
गृहीतसत्पदस्यैव निरपायफलोदयः॥३६॥

ननु किमाचार्योपदेशेन कृष्णादाविव प्रमाणेन इष्टसाधनतां ज्ञात्वा तदनुष्ठाने फलावश्यंभावादित्याशङ्कयाह—काममिति। लोकप्रमाणस्य, लोकशब्दः प्रत्यक्षानुमानतन्मूललौकिकशब्दपरः प्रत्यक्षादिप्रमाणाधीनप्रवृत्तेः कामिनः प्रत्यक्षादिभिर्गृहीतेष्टसाधनतया कृष्यादिभिः कामं कामाः सिद्धयन्ति सिद्ध्यन्तु निरपाय फलोदयः मोक्षस्तु गृहीत सत्पदस्यैव समाश्रिता चार्यचरणयुगलस्यैव। अयंभावः। लौकिकं हि प्रमाणंकृप्यादाविष्टसाधनतां कृष्यादित्वेनैव बोधयति। न त्वाचार्याधीनकृष्यादित्वेन। अलौकिकप्रमाणम्। आचार्याधीनब्रह्मविद्यात्वेनेष्टसाधनतामवगमयतीति अतन्मूलायास्तस्याः निष्फलत्वमेव युक्तमिति। गृहीतसत्पथस्येति पाठे सत्पथः शास्त्रम्। शास्त्रोक्तक्रमेण आचार्योपसत्तिं कृतवत इत्यर्थः। अभिप्रायस्तु पूर्ववत्**॥३६॥**

न्यासे वाप्यर्चने वापि मन्त्रमेकान्तिनः श्रयेत्।
अवैष्णवोपदिष्टेन मन्त्रेण न परा गतिः॥३७॥

एवमाचार्योपदेशस्यावश्यकत्वमुक्त्वा तत्र त्वेकान्तिनवाचार्यत्वम्। न त्ववैष्णवस्येत्याह—न्यास इति। न्यासः प्रपत्तिः। अर्चनं भगवत्समाराधनम्। न्यासमन्त्रम् आराधनमन्त्रं च। एकान्तिनःअनन्ययाजिनः सकाशात् श्रयेत् भजेतेति यावत्। स्पष्टमन्यत्**॥३७॥**

प्रपित्सुर्मन्त्रनिरतं प्राज्ञं हितपरं शुचिम्।
प्रशान्तं नियतं वृत्तौ भजेद्द्विजवरं गुरुम्॥३८॥

आचार्यलक्षणमाह—प्रपित्सुरिति। प्रपित्तुः प्रपत्तुमिच्छुः। मन्त्रनिरतम्—यद्वा मन्त्रानुसन्धानेन सहेतिवत्सर्वदा मन्त्रानुसन्धाननिरतं प्राज्ञं तदर्थाभिज्ञम्। हितपरं शिष्टशिष्यहितनिरतम्। शुचिम्अर्थाकाङ्गाद्यशुद्धिरहितम्। प्रशान्तं निगृहीतेन्द्रियग्रामम्। वृत्तौ वक्ष्यमाणविहिताचारादिरूपवृत्तौ नियतं द्विजवरं गुरुं भजेत्। गुरुत्वेन समाश्रयेदित्यर्थः**॥३८॥**

सप्तपुरुषविज्ञेये सन्ततैकान्तिनिर्मले।
कुले जातो गुणैर्युक्तोविप्रः श्रेष्ठतमो गुरुः॥३९॥

अयमेव गुरुः सत्कुलप्रसूतश्चेत्श्रेष्ठतम इत्याह—सप्तपुरुषेति। पितृपितामहादिक्रमेण सवृत्तैःसप्तभिः पूरुषैः विज्ञेये ज्ञातुं योग्ये। सन्ततम् अविच्छिन्नम् एकान्तिनः नियमेन निर्मलेशुद्धे तस्मिन्कुले जातः गुणैः पूर्वश्लोकोक्तमन्त्रनिरतत्वादिगुणैर्युक्तो विप्रः श्रेष्ठतमोगुरुः पूर्वोक्तगुणैर्युक्तः शिष्टः स एवात्रोक्तकुले जातश्चेत् श्रेष्ठतम इत्यर्थः**॥३९॥**

स्वयं वा भक्तिसम्पन्नो ज्ञानवैराग्यभूषितः।
स्वकर्मनिरतो नित्यमर्हत्याचार्यतां द्विजः॥४०॥

सत्कुलप्रसूतत्वं तु आचार्यस्य अतिशयः आचार्यत्वप्रयोजको धर्मः। आचार्यत्वस्य तद्बुद्धप्राप्तव्यतिरेक- प्रयुक्तव्यतिरेकप्रतियोगित्वाभावात्। सत्यपि तस्मिन् ज्ञानशक्त्यादिवर्जितत्वे आचार्यत्वाभावाच्चेति श्लोकद्वयेनाह। स्वयमिति। स्वयं वा भक्तिसम्पन्नः स्वपित्रादीनां भक्तिशून्यत्वेन अकुले जातोऽपि क्रमेण आचार्यताम् अन्यं प्रत्याचार्यतामर्हतीत्यर्थः**॥४०॥**

नाचार्यःकुलजातोऽपि ज्ञानभक्त्यादिवर्जितः।
न च हीनवयोजातिः प्रकृष्टानामनापदि॥४१॥

नाचार्य इति। कुलजातोऽपि सप्तपुरुषविजेयसन्ततैकान्तिनिर्मलकुलजातोऽपि ज्ञानभक्त्यादिवर्जितः आचार्यो न भवति। हीनवयोजातिः अपकृष्टवया अपकृष्टजातिश्च क्रमेण प्रकृष्टानाम् उत्कृष्टवयसाम् उत्कृष्टजातीनां च आचार्यो न भवति। अयं नियमः कालविशेषनियत इत्याह। अनापदीति। प्रकृष्टवयोजातित्वाचार्यलक्षणलक्षिताभावात्**॥४१॥**

न जातु मन्त्रदा नारी न शूद्रो नान्तरोद्भवः।
नाभिशस्तो न पतितः कामकामोऽप्यकामिनः॥४२॥

एवमापदि हीनजातीनामप्याचार्यत्वमनुज्ञातं स्त्रीशद्रादीनामपि प्राप्तमाचार्यत्वं निषेधति—न जात्विति। जातु कदाचिदपि आपद्यपीत्यर्थः। नारी जातु मन्त्रदा न भवति आचार्यत्वं नार्हतीत्यर्थः। शूद्रोऽपि मंन्त्रदो न अन्तरोद्भवः प्रतिलोमजातोऽपि मन्त्रदो न।अभिशस्तः महापातकयो-

गवानपि मन्त्रदो न। पतितोऽपि न। अकामिनः निष्कामस्य कामकामोऽपि मन्त्रदो न भवतीत्यर्थः**॥४२॥**

स्त्रियः शूद्रादयश्चैव बोधयेयुर्हिताहितम्।
यथार्हंमाननीयाश्च नार्हन्त्याचार्यतां क्वचित्॥४३॥

अप्रधानहिताहितोपदेषृत्वस्य स्त्रीशूद्रादीनामप्यनिषिद्धत्वं तादृशहिताहितबोधकेषु तेषु कर्त्तव्यं वृत्तिविशेषं चाह—स्त्रिय इति। यथार्हं माननीयाः। उच्छिष्टाशनादिवर्जं माननीयाः स्पष्टमन्यत्**॥४३॥**

किमप्यत्राभिजायन्ते योगिनः सर्वयोनिषु।
प्रत्यक्षितात्मनाथानां नैषां चिन्त्यं कुलादिकम्॥४४॥

पूर्वश्लोकद्वयेन स्त्रीशूद्रादीनामाचार्यत्वं निषिद्धमित्युक्तम्। इदानीं तु प्रत्यक्षितात्मनाथविषये तु निषेधो नास्तीत्याह—किमिति। अत्र लोके योगिनः सर्वयोनिषु निकृष्टास्वपि योनिषु अभिजायन्ते किमपि किं वा कारणं प्रयोजनं नावजानीम इत्यर्थः। किमपि प्रतिसन्धाय सर्वयोनिषु अभिजायन्त इति वान्वयः। प्रत्यक्षितात्मनाथानां साक्षात्कृतभगवत्तत्त्वानाम् एषां योगिनां कुलादिकं न चिन्त्यम् एतेन हीनकुलजाताः आचार्यतां नार्हन्तीति न चिन्तनीयम् अपि तु तेऽपि तु आचार्यतामर्हन्तीत्यपीत्यर्थः**॥४४॥**

विश्वात्मन्यात्मनो न्यासं धिया वृत्तिं च शाश्वतीम्।
मन्त्रेणोच्चारयेद्यस्तु स आचार्यः परो मतः॥४५॥

एवमाचार्यलक्षणमभिधाय यस्तु मन्त्रेण प्रपत्तिं कारयेत्वृत्तिं वक्ष्यमाणां विहिताचारदृष्टिभक्त्याद्यात्मिकां च मन्त्रे-

णोच्चारयेत्। स उपकारातिशयात् पर आचार्य इत्याह—विश्वात्मनीति। सर्वान्तर्यामिणि भगवति आत्मनः शिष्यस्य न्यासं रक्ष्यत्वेन समर्पणं प्रपत्तिमिति यावत् धिया ज्ञानेन शाश्वतीं वृत्तिं च यो मन्त्रेणोच्चारयेत् स पर आचार्यो मतः**॥४५॥**

शान्तोऽनसूयुः श्रद्धावान्गुर्वर्थार्थात्मवृत्तिकः।
शुचिः प्रियहितो दान्तः शिष्यश्चोक्तो मनीषिभिः॥४६॥

अथ शिष्यलक्षणमाह—शान्त इति। शान्तः अचलितमनाः अनसूयुः गुणेषु दोषाविष्करणमसूया तद्रहितः श्रद्धावान् आस्तिक्यसम्पन्नः। अर्थाः धनानि, आत्मवृत्तयः स्वव्यापाराश्च गुर्वर्थाः यस्य सः गुर्वर्थार्थात्मवृत्तिकः। शुचिः शुद्धः। प्रियहित आचार्यविषये प्रियहितपरः। नियमातिक्रमे रहसि बोधयेदित्यादिविधेः कदाचिद्रहसिहितोपदेशस्याभिमतत्वाद्धितपरत्वमविरुद्धमादान्तः निगृहीतेन्द्रियः निषिद्धविषयेषु विमुखः विहितेषु च विषयेषु अत्यासङ्गरहित इत्यर्थः। वृत्त्यतिरिक्तलौकिकव्यापारेभ्य उपरतः। सुधीः उपदिष्टार्थग्रहणसमर्थबुद्धिः**॥४६॥**

न मत्तोन्मत्तपतिताभिशस्तक्रूरनास्तिकाः।
नानर्थिनो न चाज्ञाताः कर्तव्या मन्त्रगामिनः॥४७॥

शिष्येषु वर्ज्यानाह—नेति। अज्ञाताः अपरीक्षिताः**॥४७॥**

स्त्रीणां च पतिमित्रादीननतिक्रम्य सत्तमान्।
अनुज्ञया वाप्यन्येभ्यः स्मृतो मन्त्रपरिग्रहः॥४८॥

स्त्रीणां चेति। पतिश्च पिता चेति द्वन्द्वः। आदिशब्देन श्वशुरादिसङ्ग्रहः। पत्युः पिता श्वशुर इत्येके। सत्तमान्। उक्ताचार्यत्वलक्षणलक्षितान् उक्तलक्षणाभावे पतिपित्रादयोऽपिनाचार्या इति भावः। अनुज्ञया पतिपित्रादीनामनुज्ञया। वा-

शब्दो भिन्नक्रमः। अन्येभ्यो वा पतिपित्रादिव्यतिरिक्तेभ्योऽपि वा मन्त्रपरिग्रहः स्मृतः**॥४८॥**

वैदिकांस्तान्त्रिकश्चैव यथार्था लौकिकास्तथा।
प्रपत्तौ विहिता मन्त्रास्तत्र तत्र व्यवस्थया॥४९॥

पूर्वं ‘विश्वात्मन्यात्मनो न्यासं धिया वृत्तिं च शाश्वतीम्। मन्त्रेणोच्चारयेद्यस्तु’इत्यत्र प्रपत्तेर्मन्त्रेणोच्चारणमुक्तम्। स मन्त्रो वैदिकस्तान्त्रिको वेत्यपेक्षायामाह—वैदिकास्त्विति। यथार्था वैदिकतान्त्रिकमन्त्रसदृशार्थास्तु तत्र व्यवस्थया त्रैवर्णिकानां वैदिकास्तान्त्रिकश्चाशूद्रादीनां तान्त्रिकाः प्रतिलोमजानांवैदिकादिमन्त्रसमानार्था लौकिका इति व्यवस्था द्रष्टव्या**॥४९॥**

न्यासिनो न्यास एव स्यान्निष्ठा तत्पूर्विकाः क्रियाः।
व्यापकैर्नैष्टिकैर्वान्यैः कुर्यात्तेऽप्यर्पणे मताः॥५०॥

अथ कुत्र मन्त्रे निष्ठेत्यपेक्षायामाह—न्यासिन इति। न्यासिनः प्रपन्नस्य न्यास एव प्रपत्तिप्रतिपादकमन्त्ररत्न एव निष्ठा तस्यैव नित्यजप इत्यर्थः। क्रिया अर्चनादिक्रियास्तत्पूर्विकाः तन्मन्त्रपूर्विकाः कुर्यात्। व्यापकैः विष्णुगायत्र्यामानाम्नातैः षडष्टद्वादशाक्षरैः नैष्ठिकैः निष्ठामन्त्रैरन्यैः मन्त्ररत्नव्यतिरिक्तैर्वा कुर्यात्। मन्त्ररत्नव्यतिरिक्तेष्वपि व्यापकेषु वा निष्ठा क्रियाश्च तत्पूर्विका भवितुमर्हन्तीत्यर्थः। ननु तेषां प्रपत्तिप्रतिपादकत्वाभावात्। प्रपन्नस्य कथं तेषु निष्ठा विधीयत इत्याह। तेऽप्यर्पणे मता इति तेषामपि नमःशब्दादिविशिष्टत्वात्प्रपत्तिप्रतिपादकत्वमस्तीत्यर्थः**॥५०॥**

करेण स्पर्शयन्गात्रं मन्त्रविद्भावयेदृशा।
एषा वा सर्ववर्णानां दीक्षेत्याह मुनिः स्वयम्॥५१॥

अर्चनादिक्रियायाः मन्त्राणां च दीक्षितैरनुष्ठेयत्वाद्दीक्षस्वरूपमाह—करेणेति। मन्त्रविदाचार्यः करेण गात्रं शिष्यस्य देहं स्पर्शयन् स्पृशन् दृशा भावयेत्पश्येदिति यतः सर्ववर्णान्दीक्षेति मुनिर्भरद्वाजः स्वयमाह**॥५१॥**

यां सिद्धिं वैष्णवैर्मन्त्रैराधत्ते वैष्णवो गुरुः।
सर्ववेदधरोऽप्यन्यो नान्यैः कुर्वीत तादृशीम्॥५२॥

वैष्णवेन गुरुणा मन्त्रैरपि वैष्णवैरेव भवितव्यमित्याह—यामिति। वैष्णवैर्मन्त्रैर्यादृशीं सिद्धिम्आधत्ते सर्ववेदधरोप्यन्यः अन्यैरवैष्णवैर्मन्त्रैः तादृशीं न कुर्वीत**॥५२॥**

वैदिकास्तान्त्रिकाश्चैव द्वये मुख्या द्विजन्मनाम्।
शूद्रानुलोमजातीनां मन्त्राः स्युस्तान्त्रिकाः परम्॥५३॥

भाषाख्या लौकिका मन्त्राः प्रपत्त्यर्थविभावनाः।
सर्वेभ्यः प्रतिलोमेभ्यो देयाः कामं द्विजातिभिः॥५४॥

वैदिकास्तान्त्रिकाश्चैवेति श्लोकोक्तां मन्त्रे व्यवस्थां विशदयति वैदिक इत्यादिश्लोकद्वयेन। भाषाख्या इतिलौकिकशब्दार्थ भाषारूपा इत्यर्थः। प्रपत्त्यर्थविभावनाः प्रपत्तिरूपमर्थं विभावयन्तीति प्रपत्त्यर्थविभावनाः प्रपत्तिप्रकाशका इत्यर्थः द्विजातिर्भिरिति भाषारूपमन्त्रदानमपि द्विजातिभिरेव कर्तव्यमिति भावः**॥५३॥५४॥**

मन्त्रं नियतमग्र्याणां यो हीनाय प्रयच्छति।
स वै हीनगुरुर्निन्द्यस्तेन सार्द्धं पतत्यधः॥५५॥

अत्रैवर्णिकादिभ्यो वैदिकादिमन्त्रप्रदाने प्रत्यवायमाह—मन्त्रमिति। अग्र्याणां त्रैवर्णिकानां नियतं वैदिकादिकमित्यर्थः। हीनाय अत्रैवर्णिकाय वैदिकं प्रतिलोमजाय तान्त्रिकं च प्रयच्छन्पततीत्यर्थः**॥५५॥**

तदेवं स्वोचितैरेव मन्त्रैर्मन्त्रविदाश्रयाः।
श्रयेयुः शरणं सर्वे सर्वभूतेश्वरं हरिम्॥५६॥

तदेवमिति। मन्त्रविदाश्रयाः मन्त्रविदाचार्यसमाश्रयाः। सर्वभूतेश्वरमिति तस्य सर्वभूतेश्वरत्वात् सर्वेऽपि शरणं गन्तुमर्हाइत्यर्थः**॥५६॥**

पुण्येऽनुकूले समये देशे भागवते शुभे।
निमज्ज्य नियतस्तीर्थे प्रणिपत्याश्रयेद्गुरुम्॥५७॥

पुण्येति। इदं च अनापद्विषयम्। आपदि तु न देशकालादिनियमः। ‘स एष देशः कालश्च’इत्याद्युक्तेः। ‘न देशकालौरावस्थां योगोह्ययमपेक्षते’ इति प्रागभिधानाच्च**॥५७॥**

आचार्यश्चोपसन्नाय भक्त्याभ्यर्च्य जनार्दनम्।
गुरून्प्रणम्य मन्त्रेण प्रपत्ति प्रतिपादयेत्॥५८॥

अथाचार्यकृत्यमाह—आचार्यश्चेति। भक्त्या उपसन्नाय प्राप्ताय शिष्याय जनार्दनमभ्यर्च्य गुरून्प्रणम्य मन्त्रेण प्रपत्तिं प्रतिपादयेत् दद्यात् गुरुपरम्पराप्रणामपूर्वकं मन्त्रेण प्रपत्ति कारयेदित्यर्थः**॥५८॥**

अथ स्त्रीशूद्रसङ्कीर्णानिर्मलापतितादिषु।
अनन्येनान्यदृष्टौ च कृतापि न कृता भवेत्॥५९॥

आचार्यत्वानर्हेणाचार्यत्वेन परिगृह्य कृता प्रपत्तिरकृतप्रायेणाह—अथेति। सङ्कीर्णाअनुलोमप्रतिलोमजाताः अनिर्मलाः आचार्यसमाश्रयणरहिताः आपतिताः महापतकादियुक्ताः अन्यदृष्टिह्यकुदृष्टिर्यदि शास्त्रमात्रसम्पन्नज्ञानः। एतेष्वाचार्येषु सत्सु अनन्येन शिष्येण कृतापि प्रपत्तिः कृता न भवेत्।

अन्यदृष्टाविति पदम् अपाञ्चरात्रादिकान्यभक्तालक्ष्यान्यसेवकानामुपलक्षणम्**॥५९॥**

अतोऽन्यत्राशु विधिवत्कर्त्तव्या शरणागतिः।
उपदेश तु मन्त्रस्य मूढः प्रच्यवते ह्यधः॥६०॥

अतोन्य इति। अन्यत्र स्त्रीशूद्रादिव्यतिरिक्ते आचार्ये शरणागतिः कर्तव्या। मन्त्रस्य उपदेष्टा मूढः स्त्रीशूद्रादिः अधः प्रच्यवते च्युतो भवति। मूढः प्रच्यवतेऽधम इत्यपरः पाठः**॥६०॥**

अनादेर्वासनायोगाद्विपरीतादिहात्मनः।
स्मृतिर्न जायते विष्णौ कुत एवार्पणे मतिः॥६१॥

अतिसुकरोऽपि न्यासोपायः अनादिदुर्वासनाकलुषितानां दुरात्मना दुर्लभ इत्याह—अनादेरिति। अनादेः अविच्छिन्न-प्रवाहात् विपरीताद्वासनायोगाद्विपरीतवासनासम्बंधाद्विष्णौस्वान्तरवस्थितेऽपि भगवति विषये स्मृतिरपि न जायते अर्पणे आत्मरक्षाभरसमर्पणे मतिः कुतः? रुचिर्दूरापास्तेत्यर्थः**॥६१॥**

स्वपापसंभवादेव कुलात्संसर्गतोऽन्यतः।
देशात्कालात्स्वभावाच्च प्रपद्यन्ते न केशवम्॥६२॥

स्वपापेति। स्वपापसम्भवादेव स्वपापैकमूलात्कुलात् अन्यतः संसर्गाद्भगवद्विमुखैः संसर्गाद्देशात्पापदेशवासात्कालात्दुष्टकालात्स्वभावात्पापमूलदुःखस्वभावाच्च केशवं न प्रपद्यन्ते**॥६२॥**

अविज्ञाय सदा शुद्धं नरा नारायणं प्रभुम्।
अशुद्धानामहोऽन्येषां दास्यभिच्छन्त्यबुद्धयः॥६३॥

पापमूलदुर्बुद्धिमहिन्माभगवंतमविज्ञाय अन्यशेषत्वमभ्यंगीकुर्वतीत्याह—अभिज्ञयेति। नरा नारायणमित्यनेन स्वयं नरा अपि

नारायणं नराणामयनभूतमपि अविज्ञाय अन्यं प्रपद्यन्ते इत्यनौचित्यमुच्यते। अशुद्धानां कर्मवश्यानां रजस्तमोऽभिभूतानामपि अन्येषां ब्रह्मरुद्रादीनां दास्यमिच्छन्ति तत्र हेतुरबुद्धय इति**॥६३॥**

केचित्सर्वेश्वरं विष्णुमशेषदुरितापहम्।
कामकामाः प्रपद्यन्ते न ते दास्यं परं विदुः॥६४॥

भगवंतं प्रपद्यापि केचिद्भाग्यहीना व्यर्था भवन्तीत्याह—केचिदिति। सर्वेश्वरमित्यनेन स्वामिविषये प्रपत्तिः स्वरूपान्तर्गतेति सूच्यते अशेषदुरितापहमित्यनेन सर्वपापनिवर्तकत्त्वे सत्यपि तदनपेक्ष्य कामानेव कामयन्ते दुर्भगा इति सूच्यते दास्यं भगवत्कैङ्कर्यैपरं प्राप्यं न विदुः**॥६४॥**

बहुजन्मकृतैः पुण्यैरात्मनः क्षीणकल्मषाः।
हरिं सन्तः प्रपद्यन्ते तद्दास्यैकफलार्थिनः॥६५॥

भाग्याधिकास्तु भगवद्दास्यमेवापेक्ष्य भगवन्तमेव प्रपद्यन्त इत्यत आह—बहुजन्मेति। सन्तःपरस्वरूपाभिज्ञाःअस्तिब्रह्मेतिचेद्वेद सन्तमेनं ततो विदुः, इति श्रुतिः**॥६५॥**

कृतिनां वीतमोहानां केशवे निहितात्मनाम्।
स्वदते केवलं दास्यं स्वधर्मकरणादिकम्॥६६॥

प्रपन्नस्योत्तरकृत्यत्वेन वर्णाश्रमधर्माणां कर्तव्यत्वं महाभाग्यसम्पन्नानां तेषु भोग्यताबुद्धिसंभवं चाह—कृतिनामिति। केशवमिहितात्मनां भगवन्निक्षितात्मस्वरूपाणाम्। अत एव कृतिनां वीतमोहानाम्।अर्थपञ्चकविषयकाज्ञानशून्यानां स्वधर्मकरणादिकं वर्णाश्रमादिनियतधर्मकरणादिकं केवलं पुंसाम् उपायत्वबुद्धिरहितं दास्यं स्वदते स्वादुत्वेन भाति**॥६६॥**

वासुदेवं प्रपन्नानां तद्दास्यैकरसात्मनाम्।
भेदो वीतभयानां हि नात्र कश्चित्परत्र वा॥६७॥

भोग्यतया स्वधर्माननुतिष्ठन्तो मुक्तप्राया इत्याह—वासुदेवमिति। वीतभयानां ‘न बिभेति कुतश्च न’इतिवदत्राप्यभयं प्राप्तानाम्। अत्र इह लोके परत्र परलोके**॥६७॥**

इह श्रुत्यादिनियता वृत्तिरेव स्वयं फलम्।
परत्र च परेशस्य कामात्कामप्रवृत्तयः॥६८॥

उक्तमर्थं विशदयति—इहेत्यादि। इह अत्र लोके श्रुत्यादिविहिता श्रुतिस्मृतिचोदिता वृत्तिरेव स्वयं फलं परत्र परमपदे परेशस्य भगवतः कामात् नियमनरूपात् सङ्कल्पात्कामप्रवृत्तयः स्वछन्दकैङ्कर्यप्रवृत्तयः स्वयं फलं परमपदेऽपि हि स्वाम्यभिमतकैङ्कर्यं स्वयं फलं स्वाम्यभिमतस्तु मोक्षो मुक्तेन साक्षात्क्रियते। अत्र शास्त्रमुखेन ज्ञायते। कैङ्कर्ये तु उभयत्र तुल्यं फलम्। अतस्तथाविधकैङ्कर्यानुष्ठातृणां मुमुक्षूणां मुक्तानां च न भेद इति भावः**॥६८॥**

निक्षिप्यात्मानमात्मीयमशेषमखिलात्मनि।
क्रियाश्च सकलास्तत्र वर्त्तन्ते वीतकल्मषाः॥६९॥

एतावद्भिः श्लोकैरुक्तमर्थं सङ्गृह्याह—निक्षिप्येति। अत्र पूर्वार्द्धेन प्रपत्यनुष्ठानमुक्तम्। उत्तरार्द्धेन भगवत्कैङ्कर्यतया प्रपत्रस्य स्ववर्णाश्रमावस्थोचिताशेषधर्मानुष्ठानात्मकमुत्तरकृत्यमुक्तं तत्रेति परमात्मपरामर्शः सकलाः क्रियाश्च परमात्मनि निक्षिप्य परमात्मप्रीणनार्थतया सङ्कल्प्य वर्त्तन्ते तत्र वर्त्तन्ते च इति सन्मुख एव चान्वयः। भगवदनुसंधानेन कालं नयन्तीत्यर्थः**॥६९॥**

मन्यन्ते च स्वकीयान्नः स्वप्रीत्यै स्वोचितां स्वयम्।
नाथः स्वकीयसेवां तां वृत्तिं कारयतीति वै॥७०॥

अथ प्रपन्नानां फलासंगतः अकर्तृत्वानुसंधानं चाह—मन्यन्ते चेति। स्वकीयान् स्वशेषभूतान्नः स्वप्रीत्यै स्वसन्तोषाय स्वोचितां स्वार्थी स्वकीयसेवां तां भगवतः दास्यपर्यंतांवृत्तिं स्वयं कारयतीति मन्यन्ते च**॥७०॥** इति प्रपत्त्यधिकारः॥

यथा प्रपत्तिर्विहिता भगवच्चरणाब्जयोः।
तथैव तत्र वृत्तिश्च कार्या गुरुनिदेशतः॥७१॥

“धिया वृत्तिं च शाश्वतीम्”इत्युक्तां वृत्तिं विधानप्रदर्शनमुखेन विशदयितुमारभते—यथेति।भगवच्चरणाब्जयोः। प्रपत्तिर्यथा विहिता। येन प्रकारेण षाड्विध्येन कृता तथैव षाड्विध्येनैव तत्र भगवच्चरणाब्जयोः गुरुनिर्देशतः आचार्यानुज्ञया वृत्तिश्च कार्या**॥७१॥**

वृत्तिश्व विहिताचारः प्रतिषिद्धविवर्जनम्।
दृष्टिर्भक्तिस्तथा लक्ष्म सतां सेवेति षड्विधा॥७२॥

षाड्विध्यमेवाह—वृत्तिरिति। विहितानामाचारः करणं विहिताचारः। दृष्टिर्ज्ञानम्। लक्ष्म भगवल्लाञ्छनादिकं भागवतचिह्नम्**॥७२॥**

अनन्यरतिरत्यन्तं विहितानि समाचरन्।
वर्जयन् प्रतिषिद्धानि वेदवेदांततत्त्ववित्॥७३॥

अथ श्लोकद्वयेन पूर्वश्लोकार्थं विवृणोति—अनन्येति। अनन्यरतिः प्रयोजनान्तरेच्छारहितः। अत्यन्तमनन्यरतिरिति वान्वयः। अत्यन्तं वर्जयन्निति वान्वयः पूर्वश्लोकस्य दृष्टिरित्यस्य विवरणं ‘वेदवेदान्ततत्ववि’ इति। भक्तिरित्यस्य विवरणम्। अर्चादिष्यर्चयन्विष्णुमिति लक्ष्मेत्यस्य विवरणम्। ‘अङ्कितो हरिलाञ्छनैः’ इति। सतांसेवेत्यस्य विवरणम्।‘सेवते यद्गुरून्भक्त्या’ इति यत्सेयंवृत्तिरित्यन्वयः**॥७३॥**

अर्चादिष्वर्चयन्विष्णुमङ्कितो हरिलाञ्छनैः॥
सेवते यद्गुरून्भक्त्या सेयं वृत्तिः परा मता॥७४॥

अर्चादिष्विति। अस्य श्लोकस्यापि पूर्वेणान्वयः**॥७४॥**

स्वाभाविकोऽस्य सम्बन्धः पुंसो यः परमात्मना।
तस्यैव बोधो न्यासाख्यः प्रथमं यात्युपायताम्॥७५॥

प्रपत्तेर्वृत्तेश्चाभेदं वक्तुं न्यासस्वरूपं कथयन्नर्थात् अनुरूपस्वरूपवृत्तित्वेन प्रपत्तेः सकृत् कर्तव्यता न स्यादिति चोद्यं च परिहरति—स्वाभाविक इति। अस्य पुंसो जीवस्य परमात्मना समं यः स्वाभाविकः सम्बन्धः स्वस्वामिभावलक्षणः, तस्य बोध एव न्यासाख्यः न्यासशब्दवाच्यः सन् प्रथममुपायतां भगवद्वशीकरणोपायतां याति सम्बन्धबोधस्यन्यासत्वस्वरूपकभरसमर्पणभूतन्यासैकदेशस्वरूपसमर्पणात्मत्वात्॥प्रथमं यात्युपायतामित्यनेन उपायत्वेन सकृत्करणम्। आवृत्तिस्तु फलस्वरूपस्य तस्येति न विरोधः इति सूचितम्**॥७५॥**

स एवोपर्युपर्यस्य परां प्रीतिमुपावहन्।
वृत्त्याख्यां फलतां याति तदेवामृतमुच्यते॥७६॥

सेति। स एव सम्बंधः स्वबोधस्वरूपोपन्यासः उपर्युपरि प्रथमानुष्ठानानंतरमुपर्युपरि अस्य परमात्मनः परां प्रीतिं हर्षमुपावहन् जनयन् वृत्त्याख्यं यत्फलं तत्स्वरूपतां याति अस्य परां प्रीतिमुपावहन्नित्यस्य प्रपन्नस्य भोग्यतया निरतिशयां प्रीतिं जनयत्रिति भावार्थः॥ ननु प्रपन्नस्य मोक्षफलं न वृत्तिरित्यत आह तदेवामृतमुच्यत इति। तद्वत्याख्यफलमेव अमृतं मोक्ष उच्यते यद्वा जीवपरमात्मसम्बन्धज्ञानं प्रथममुपायः अनन्तरं वृत्त्याख्यं फलं भवति अनन्तरं मोक्षस्वरूपं भवति। ‘बद्धाञ्जलिपुटा हृष्टा नम इत्येव वादिनः।’ इत्यादिवत्स्वरूपाविर्भावस्यैव मोक्षत्वात्

शेषत्वस्यैव स्वरूपाच्चेति भावः॥तदिति नपुंसकलिंगनिर्देशः विधेयस्यामृतशब्दस्य नपुंसकलिंगत्वादुपपद्यते ‘शैत्यं हि यत्सा प्रकृतिर्जलस्य’ इत्यादितुल्यन्यायात्**॥७६॥**

या स्वधर्मेष्वभिरतिः सा भवत्यनुकूलता।
वर्जनं प्रतिषिद्धानां तथैषा प्रतिकूलता॥७७॥

वेदवेदान्तविज्ञानं विश्वासो गोप्तरि स्वयम्।
गोप्तृत्ववरणादन्यन्न विष्णोरर्चनादिकम्॥७८॥

प्रपत्तेर्ह्यात्त्मनि क्षेपो दास्यचिह्नैकलक्षणः।
सतां देशिकमुख्यानां सेवा कार्पण्यमुच्यते॥७९॥

प्रपत्तिवृत्त्योः समभेदं श्लोकत्रयेण दर्शयति—यास्वधर्मेत्यादि। स्वधर्मेष्वाभिरतिर्वृत्तिश्व विहिताचार इत्यत्रोक्तो विहिताचारः, सा अनुकूलता भवति प्रपत्यङ्गभूत आनुकूल्यसङ्कल्पो भवति प्रातिकूल्यवर्जनं प्रतिषिद्धानां वृत्तिशरीरानुप्रविष्टं प्रतिषिद्धविवर्जनम्। अप्रतिकूलता प्रपत्यङ्गभूतप्रातिकूल्यवर्जनम्। भगवदनभिमतनिषिद्ध- वर्जनस्यैव प्रातिकूल्यवर्जनं वेदवेदान्तविज्ञानं वृत्त्यनुप्रविष्टा दृष्टिः। विश्वासः प्रपत्यङ्गभूतो रक्षिष्यतीति विश्वासः। विश्वासो हि रक्षकत्वाध्यवसायविशेषश्च। गोप्तरि भवति वेदवेदान्तविज्ञानम् अयमेव रक्षक इत्यध्यवसायात्मकमेवेत्यर्थः। विष्णोरर्चनादिकं वृत्त्यनुप्रविष्टभक्तिशब्दवाच्यम् अर्चनादिकं गोप्तृत्ववरणादन्यत्र भवति गोप्तृत्ववरणाय घटितत्वादिति भावः। आत्मनिक्षेपः अङ्गीभूतो न्यासः दास्यचिह्नैकलक्षणः प्रथते। तवैवाहमिति दास्यानुसन्धानात्मकत्वात् न्यासस्य चक्राङ्गनादिचिह्नानामपि तत्प्रवाहबाह्यरूपतया दास्यामि व्यञ्जकत्वावृत्त्यनुप्रविष्टं लक्ष्म आत्मनिक्षेपान्नातिरिच्यत इत्यर्थः। देशिकमुख्यानाम आचार्य-

मुख्यानां सतां सेवा वृत्तिशरीरानुप्रविष्टा प्रपत्यङ्गभूतकार्पण्यमुच्यते। सेवायाः कृपाजनककृपणवृत्तिरूपत्वात् आकिञ्चन्यानुसन्धानकार्यत्वात्तदव्यभिचरितत्वाच्च कार्पण्यान्नातिरेक इति भावः**॥७७॥७८॥७९॥**

अतः प्रपत्तिरेवेह वृत्तिर्भवति शाश्वती।
तस्यैवास्मीति बोधात्मा प्रवृत्ति र्वृत्तिरेव च॥८०॥

वृत्तिप्रपत्योरभेदं निगमयति—अत इति। यतः प्रपत्तिर्वृतिरेव च तस्यैवाहमस्मीति बोधात्मा अतः प्रपत्तिरेव शाश्वती वृत्तिरित्यन्वयः**॥८०॥**

तदेवं भगवान्प्रीतः प्रपत्त्या साधनं परम्।
तयैव वृत्तिवपुषा प्रीतः फलमपि स्वयम्॥८१॥

ननु प्रपत्तेरेवोपायोपेयत्वे भगवत एवोपायत्वोपेयत्ववादो न स्यादित्यत आह—तदेवमिति। प्रपत्त्या प्रीतोभगवान् परं साधनं भवति; वृत्तिवपुषा तया प्रीतः फलमपि भवति; न स्वरूपेण प्रपत्तेरुपायत्वम्। अपि तु भगवत्प्रसादनद्वारा। नापि वृत्तिस्वरूपायास्तस्याः स्वरूपेण फलत्वमपि भगवत्प्रीणनहेतुत्वात्। अतः प्रपत्त्युपायोपेयभावस्य भगवदुपायोपेयभाव निबन्धनत्वात्साक्षादुपायोपेयभावो भगवत एवेत्यर्थः**॥८१॥**

विहितांतर्गतान्येव दृष्ट्यादीनि तथापि तु।
तेषां विशेषमान्यत्वात्पृथक् चांगतया विधिः॥८२॥

ननु वृत्तेः षाड्विध्यमुक्तं तन्न युक्तं दृष्ट्यादीनां विहिताचारान्तर्गतत्वादित्याशङ्कयाह। न्यायशास्त्रादिमे सूत्रे सर्वेषां प्रमेयान्तर्गतत्वेऽपि प्रकारातिशयेन पृथग्वक्तव्यत्वात्प्रमाणादीनामिव दृष्ट्यादेरपि पृथगुपादानं युक्तमित्याह—विहितेति। दृष्ट्यादी-

त्यादिशब्देन भक्तिसत्सेवयोः सङ्ग्रहात्तेषां दृढदृष्ट्यादीनां विशेषमान्यत्वात् विशेषतः प्राधान्येन ज्ञातव्यत्वात्**॥८२॥**

निषिद्धांतर्गतान्येव विरुद्धान्यखिलान्यपि।
हानं सर्वस्य चैकांगं पृथग्व्याचक्षते परे॥८३॥

एवं वक्ष्यमाणदृष्ट्यादिविरुद्धपरित्यागोऽपि प्रतिषिद्धवर्जनान्तर्गत एव। तथापि विशेषतः परित्याज्यत्वात् दृष्ट्यादिविरुद्धानां पृथगुक्तिरित्याह—निषिद्धेति। अखिलान्यपि विरुद्धानि दृष्टिभक्तिलक्ष्मसत्सेवाविरुद्धानि सर्वाण्यपि निषिद्धान्तर्गतान्येव षड्विधवृत्त्यन्तर्गतप्रतिषिद्धवर्जनप्रतियोगिप्रतिषिध्दान्तर्गतान्येव तथापि प्राधान्यात् पृथगुक्तिरिति भावः। यथा विहिताचारान्तर्गतानामपि दृष्ट्यादीनां पृथगङ्गत्वेन विधिः एवं प्रतिषिद्धवर्जनान्तर्गतस्यापि दृष्ट्यादिविरुद्धहानस्य पृथगङ्गत्वं केचिदव्याचक्षत इत्याह। हानमिति। तस्य दृष्टिभक्तिलक्ष्मसत्सेवाविरुद्धस्य हानं वर्जनं पृथगेकाङ्गं परे व्याचक्षते। तन्मते वृत्तेः सप्तविधत्वमित्यर्थः। यद्वा सर्वस्य विहिताचारस्य दृष्टिभक्तिलक्ष्मसत्सेवाविरुद्धस्य सर्वस्यापि हानं पृथगेकांगं व्याचक्षते अस्मिन् व्याख्याने विहिताचारदृष्टिलक्ष्मसत्सेवा विरुद्धवर्जनरूपेण षाड्विध्यमेव द्रष्टव्यत्वात्**॥८३॥**

आनुकूल्यस्य संकल्पात्प्रातिकूल्यस्य वर्जनात्॥
प्राप्ते समस्तेऽपि तथा विश्वासादेः पृथग्विधिः॥८४॥

सर्वेषामपि वृत्तिभेदानां विहिताचारप्रतिषिद्धवर्जनान्तर्गतत्वेऽपिदृष्ट्यादेः पृथगुपन्यासः आनुकूल्यसङ्कल्पप्रातिकूल्य- वर्जनान्तर्गतत्वेऽपि प्रपत्त्यंगानां विश्वासादीनां पृथग्विधिरेव युज्यते इति ज्ञापयितुम् आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनयोरितरेषातमंतर्भावमाह—आनुकूल्यस्येति। आनुकूल्यस्य सङ्कल्यात्

भगवदनुकूलशास्त्रविहितवृत्तानुवृत्तिसङ्कल्पात् प्रातिकूल्यस्यभगवन्प्रतिकूलनिषिद्धानुवर्तनस्य वर्जनादपि समस्ते विश्वासादौ सर्वस्मिन् प्राप्ते सिद्धेऽपि विश्वासादेः पृथग्विधिः यथा आनुकूल्यसङ्कल्पप्रातिकूल्यवर्जनांतर्गतत्वेऽपि विश्वासादीनां पृथग्विधिः, तद्वत्तावपीति भावः यद्यपि आनुकूल्यसङ्कल्पेन विश्वासादेरंतर्भावः तेषामानुकूल्यान्तर्गतत्त्वेऽपि तत्सङ्कल्पान्तर्गतत्वाभावात् अथापि सङ्कल्पविद्यानुकूलांतर्गतत्वात्तथोक्तिः**॥८४॥**

न कर्म हीनं ज्ञानेन न तत्तेन न ते अपि॥
भक्त्या ताभ्यां न सा तानि न वैराग्येण तन्न तैः॥८५॥

वृत्तिभेदाः षडपिपरस्परेण विनाकृता न भगवत्प्रीणनाय प्रभवन्तीत्याह—नेति। ज्ञानेन दृष्टया हीनं कर्म विहिताचारः न भगवत्प्रीणनहेतुर्भवितीत्यर्थः। तत् ज्ञानं तेन कर्मणा हीनं न भवति। ते अपि कर्मज्ञाने अपि भक्त्या विना न भवतः। भक्तिशब्देन लक्ष्मसत्सेवयोरपि सङ्ग्रहः। ताभ्यां ज्ञानकर्मभ्यां हीना सा भक्तिर्न भगवत्प्रीणनाय भवति। तानि भक्तिकर्मज्ञानानि वैराग्येण विना न भवन्ति। तैर्भक्त्यादिभिर्हीनं विरुद्धवर्जनं न भगवत्प्रीणनाय भवतीत्यर्थः**॥८५॥**

विहिताचरणं कर्म वैराग्यं निंद्यवर्जनम्॥
ज्ञानं सुदृष्टिर्भक्तिस्तु हरिचिह्नसमाश्रया॥८६॥

असङ्गत्वशङ्कामपाकर्तुं कर्मज्ञानादिशब्दानामर्थमाह—विहितेति। भक्तिस्तु हरिचिह्नसमाश्रयेति हरिचिह्नं वृत्त्यनुप्रविष्टं लक्ष्म सतांसेवेत्युक्ताः परमैकान्तिनः। ते आश्रया यस्याः सा भक्तिशब्देन लक्ष्मसत्सेवयोरन्तर्भावात्संग्रह इति भावः**॥८६॥**

एवं चतुर्विधामेनां प्रीतिरूपां हरेः स्वयम्।
यो वृत्तिमवमन्येत न हि तस्यास्ति निष्कृतिः॥८७॥

वृत्त्यवमाने प्रत्यवायमाह—एवमिति। चतुर्विधां विहिताचारदृष्टिभक्तिविरुद्धवर्जनात्मकवैराग्यरूपां भक्तिशब्देन लक्ष्मसत्सेवयोरपि सङ्ग्रहात् चातुर्विध्यमविरुद्धम्। हरेः स्वयं प्रीतिरूपां साक्षाद्भगवत्प्रीणनहेतुभूतां वृत्तिं योऽवमन्येत तस्य निष्कृतिः प्रायश्चित्तं नास्तीति**॥८७॥**

न देवतान्तरपरा न च कस्यापि साधनम्।
परं प्रसाद एवैषा वृत्तिर्विश्वात्मनो हरेः॥८८॥

परमैकान्तिनः कर्मणां त्यागे हि द्वौहेतू। कर्मणां देवतान्तरसम्बन्धः काम्यरूपत्वं च। तद्वयस्यापि वृत्तावभावात्। केवलभगवत्प्रीणनत्वात् वृत्तिरवश्यमनुष्ठेयेत्याह—नेति।ननु विहिताचारात्मकवर्णाश्रमधर्माणामग्नीन्द्रादि- देवतासम्बन्धित्वात्कथं देवतान्तरपरत्वाभाव इत्याशङ्कयाह। विश्वात्मन इति। तत्रापि तदन्तर्यामिण एव भगवत आराध्यत्वादितिभावः। ननु कस्यापि साधनं यदि न स्यात्तर्हि किं तदनुष्ठानेनेत्याशङ्कायामाह। परं प्रसाद इति। भगवत्प्रीतिहेतुत्वान्निषेधस्य तद्व्यतिरिक्तविषयवाच्चेति भावः**॥८८॥**

देहस्यात्यन्तिकलये मोक्षाख्ये सति सा पुनः।
निःश्रेयसं परं ब्रह्म निर्वाणमिति चोच्यते॥८९॥

मुक्तिदशायामपि कैङ्कर्यस्यैव पुरुषार्थत्वात् वृत्तेरपि कैङ्कर्यत्वात् कदाचिदपि तत्र स्ववशायां पुरुषार्थभूतायां शैथिल्यं न सम्पादनीयमित्यभिप्रायेणाह—देहस्येति। मोक्षाख्ये देहस्यात्यन्तिकलये अपुनरसङ्करं विलये सति सा वृत्तिः पुनः निरवधिकश्रेयोरूपकुत्वात् निःश्रेयसमप्युच्यते। परब्रह्मविषयत्वात् परब्रह्मेत्युच्यते। निरवधिकसुखरूपत्वात् सकलदुरितबन्धनिवृत्यनन्तरभावितत्त्वाच्चनिर्वाणमिति चोच्यते। पश्चादनु-

भावस्यापि मोक्षस्य तद्रूपत्वात् मोक्षफलरूपेयं वृत्तिरवहेया न भवतीत्यभिप्रायः**॥८९॥इतिवृत्त्यधिकारः**॥

प्रपन्नस्यापि हि पुनर्देहे कर्मकृते स्थिते।
दुरितानि परां वृत्तिं दूषयन्ति मुहुर्बलात्॥९०॥

एवं वृत्तिं निरूप्य तद्विरुद्धानि विवक्षुस्तद्विरुद्धानां प्रपन्नेषु सम्भवबीजं तत्प्रशमनोपायं च श्लोकद्वयेनाह—प्रपन्नस्येति। देहे कर्मकृते स्थित इति अभ्युपगतप्रारब्धांशनिविष्टदुरितसंभावनाभिप्रायः**॥९०॥**

तानि सर्वाण्यशेषाणि पापानि प्रशमं नयेत्।
पुनः प्रपदनेनाशु कर्मभिर्वापि तत्परैः॥९१॥

तानीति। तत्परैः भगवत्परैः कर्मभिः वैष्णवेष्ट्यादिभिः**॥९१॥**

एकांती शक्तितः कुर्वन् विहितानि समुत्सुकः॥
तथैव प्रतिषिद्धानि त्यक्त्वा याति परां गतिम्॥९२॥

एवमुपायैरपराधारम्भकपापानि प्रशमय्य वृत्तिमनुतिष्ठन्मुक्तो भवतीत्याह—एकान्तीति। शक्तितः कुर्वन्विहितानीत्यनेनदृष्ट्यादेः संग्रहः। प्रतिषिद्धानीत्यनेन दृष्ट्यादिविरुद्धस्यापि संग्रहः**॥९२॥**

पाखण्डशैवशाक्तादितंत्रार्चालोकनादिकम्।
स्वतो ब्रह्मशिवादीनां बद्धानामर्चनादिकम्॥९३॥

पाखण्डेति। पाखण्डाः वेदबाह्याः। तेषां तंत्रालोकनं च आदिशब्देन अनुमोदनादिसंग्रहः। इदं च दृष्टिविरुद्धम्। स्वतो ब्रह्मशिवादीनां बद्धानामर्चनादिकमित्यनेन भक्तिविरुद्धमित्युक्तम्। स्वतः अर्चनामित्यनेन नियतेषु तदन्तर्याम्याराधनमदोषावहमिति ज्ञाप्यते**॥९३॥**

ऊनधीः समताशङ्का विष्णोर्विस्मृतिरेव च।
अनादरश्वतन्मन्त्रलक्षणार्चाक्रियादिषु॥९४॥

ऊनधीरिति। ऊनधीरित्यादिकं दृष्टिविरुद्धं भक्तिविरुद्धं चोक्तम्। अनादरश्च तन्मन्त्रलक्षणार्चाक्रियादिष्वित्यनेन लक्ष्मभक्तिविरुद्धे उक्ते**॥९४॥**

तस्यैवात्यन्तिके दास्ये विमतिः कामकामिता।
अविश्वासः प्रपदने साधनान्तरसंश्रयः॥९५॥

तस्यैवेति। कामकामिता प्रयोजनान्तरपरता साधनान्तरसंश्रयः उपायान्तरान्वयः। इदं भक्तिविरुद्धम्**॥९५॥**

साधनत्वाभिमत्या च निजधर्मस्य वर्जनम्।
असच्छास्त्रेष्वभिरतिर्दिव्यशास्त्रावधीरणम्॥९६॥

साधनेति। साधनत्वाभिमत्या निजधर्मानुष्ठाने साधनान्तरान्वयः स्यादित्यतिशङ्कया निजधर्मस्य स्ववर्णाश्रमोचित धर्मस्य वर्जनम्। इदं विहिताचारविरुद्धम्।असच्छास्त्रेष्वभिरतिः दिव्यशास्त्रं भगवच्छास्त्रम् इदं सर्व दृष्टिविरुद्धम्**॥९६॥**

अभागवतसंसर्गोरीढा भागवतेषु च।
मर्त्यसामान्यभावेन गुरौ चानतिगौरवम्॥९७॥

अभागवतेति। रीढा अवमानना। मर्त्यसामान्यभावेन मनुष्यत्वबुद्ध्या अनतिगौरवमतिगौरवाभावः। इदं सत्सेवाविरुद्धम्**॥९७॥**

इति भागवतस्योक्ताः प्रपन्नस्य विशेषतः।
अपाया दुस्त्यजा ह्येते देहबन्धनिबन्धनाः॥९८॥

इतीति। भागवतस्य भगवत्प्रात्युपायनिष्ठस्य प्रपन्नस्य तद्विशेषस्य देहबन्धनिबन्धनाः शरीरसम्बन्धमूलाः**॥९८॥**

एतानन्याँश्च विविधानपचारान्विशेषतः।
सर्वानप्यनपाकृत्य नाप्नोति मधुसूदनम्॥९९॥

एतानिति। एतानन्याँश्च वक्ष्यमाणाननपाकृत्य आलयमेव सदा आवर्त्तयन् वृत्तिं विहिताचारादिलक्षणाम् अनिवर्त्य**॥९९॥**

अतो देहस्य कालुष्यान्मंत्रमर्थेन केवलम्।
आवर्त्तयन्सदा वृत्तिं कुर्वन्कालं नयेत्सुधीः॥१००॥

इति श्रीनारदपञ्चरात्रे भारद्वाजसंहितायां न्यासोपदेशो नाम प्रथमोऽध्यायः॥१॥

———————————

अपराधप्रवेशावकाशसाहित्ये हेतुमाह—अत इति। देहस्य कालुष्यात्कलुषहेतुत्वात्। अर्थेन सह मन्त्रं केवलं द्वयमेय सदा आवर्त्तयन् वृत्तिं विहिताचारादिलक्षणां कुर्वन्कालं नयेत्**॥१००॥इति पापप्रशमनाधिकारः॥**

इति श्रीनारदपंचरात्रे भारद्वाजसंहिताटीकायां न्यासोपदेशोनामप्रथमोऽध्यायः॥१॥

———————————


  1. “अनन्तरमिति शेषः ।” ↩︎

  2. “वार इति शेषः ।” ↩︎