० भूमिका

<MISSING_FIG href="../books_images/U-IMG-1724182416Screenshot2024-08-21010328.png"/>

असारेऽस्मिन्संसारे धर्मार्थकाममोक्षसाधनैकेहेतुरिदमतिदुर्लभं नरशरीरं पूर्वार्जितपुण्यपुञ्जेनैव लभ्यते। तत्रापि धर्मार्थकाममोक्षेषु धर्मार्थकामास्तु कथंचिदपि सिध्यंत्येव परं च मोक्षसिद्धिस्तु कलिकलुषितान्तःकरणात् दुर्लभतरा जाता। अतः करुणार्द्रचित्तैर्भरद्वाजादिभिर्महर्षिभिर्नारदपंचरात्रांगभूतनिजनानप्रख्यापितसंहितायां हरिशरणागतिरेव मोक्षसाधनभूता घोरकलिदावानलशांतकरणे वारिदायते इति प्रतिपादितम् “हरेर्नामैव नामैव नामैव मम जीवनम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥” “कृते तपः प्रशंसन्ति त्रेतायां ज्ञानमंडज॥ द्वापरे यज्ञचर्या च कलौ केशवकीर्तनम्”इत्यादिवाक्यान्यपि हरिभक्तिमेव दृढीकुर्वन्ति। अतो हरिभक्तिबोधकमिदं पुस्तकं भक्तजनमनोरंजनाय मया स्वीये “श्रीवेङ्कटेश्वर”मुद्रणालये मुद्रयित्वा प्रकाशितमिति शिवम्॥

आपका कृपाकांक्षी—

खेमराज श्रीकृष्णदास,

“श्रीवेङ्कटेश्वर”(स्टीम) यन्त्रालयाध्यक्षः - मुंबई.


श्रीवेङ्कटेश्वराय नमः।

नारदपञ्चरात्र—भारद्वाजसंहिता। सटीका।