प्रथमैक-रात्रे पञ्चदशो ऽध्यायः
गते नियमिते काले गन्धर्वश् चोपवर्हणः।
स्व-योगेन जहौ देहं भारते प्राक्तनाद् अहो ॥१,१५.१॥
स जज्ञे शुद्र-योनौ च पितुः शापेन च दैवतः।
विष्णु-प्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥१,१५.२॥
विमुक्तस् तात-शापेन सम्प्राप्य ज्ञानम् उत्तमम्।
प्रति-जन्म-स्मृतिस् तस्य कृष्ण-मन्त्र-प्रसादतः ॥१,१५.३॥
पितुः सकाशाद् आगत्य सम्प्राप चन्द्र-शेखरात्।
श्री-कृष्ण-मन्त्रम् अतुलं स्वर्ग-मन्दाकिनी-तटे ॥१,१५.४॥
स्वर्ग-मन्दाकिनी-तीराद् गुरुणा शङ्करेण च।
सहितः प्रययौ तूर्णं पार्वती-सन्निधानतः ॥१,१५.५॥
उवास तत्र शम्भुश् च नारदश् च महा-मुनिः।
पार्वती भद्र-काली स्कन्दो गण-पतिः स्वयम् ॥१,१५.६॥
महा-कालश् च नन्दी च वीर-भद्रः प्रतापवान्।
सिद्धा महर्षयश् च मुनयः सन्कादयः ॥१,१५.७॥
योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भु-संसदि।
यत् स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥१,१५.८॥
नारायणर्षि-भगवान् ब्राह्मणाय ददौ पुरा।
पूजा-विधानं यद् यच् च पुरश्-चरण-पूर्वकम् ॥१,१५.९॥
तद् एव भगवान् शम्भुः प्रददौ नारदाय च।
उवाच शम्भुं देवर्षिर् योगिनां च गुरोर् गुरुम्।
पार्वती-सन्निधौ तत्र नारदश् च महा-मुनिः ॥१,१५.१०॥
भगवन् सर्व-धर्म-ज्ञ सर्व-ज्ञ सर्व-कारण।
सद् यत् पृष्टं मया पूर्वं तन् मां व्याख्यातुम् अर्हसि ॥१,१५.११॥
यद् यत् पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च।
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्-सभासदः ॥१,१५.१२॥
आध्यात्मिकं च यज् ज्ञानं वेदानां सारम् उत्तमम्।
ज्ञानं ज्ञानिषु सारं यत् कृष्ण-भक्ति-प्रदं शुभं ॥१,१५.१३॥
निर्वाण-मुक्तिदं ज्ञानं कर्म-मूल-निकृन्तनम्।
तत्-सिद्धि-योगान् मुक्तिश् च योगिनाम् अपि वाञ्च्छितम् ॥१,१५.१४॥
संसार-विषयं ज्ञानं शश्वत् सम्मोह-वेष्टितम्।
आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् ॥१,१५.१५॥
चतुर्णां वर्णनां विधानां महेश्वर।
भिक्षूणां वैष्णवानां च यतीनां ब्रह्म-चारिणाम् ॥१,१५.१६॥
वान-प्रस्थाश्रमाणां च पण्डितानां तथैव च।
पति-व्रतानां यद् यच् च श्री-कृष्ण-पूजनं च यत् ॥१,१५.१७॥
यत् स्तोत्रं कवचं मन्त्रं पुरश्-चरणम् ईप्सितम्।
सार्वाह्निकम् अभीष्टं च विपाकं कर्म-जीविनाम् ॥१,१५.१८॥
संसार-वासना-बद्धं लक्षणं प्रकृतीशयोः।
तयोः परं वा यद् ब्रह्म तस्यावतार-वर्णनम् ॥१,१५.१९॥
कस् तत् कलावतीर्णश् च कस् तद्-अंशश् तथैव च।
परिपूर्णतमः कश् च कः पूर्णः कः कलांशकः ॥१,१५.२०॥
कस्य वाराधने शम्भो किं फलं किं यशस् तथा।
अङ्गाङ्गिनोर् भेद-फलं विस्तीर्णं निरपेक्षकम् ॥१,१५.२१॥
नारायणर्षि-कवचं सुभद्र-ब्राह्मणाय च।
यद् दत्तं किं तद् देवेश तद्-आराध्यश् च कः सुरः ॥१,१५.२२॥
अति-संगोपनीयं च कवचं परमाद्भुतम्।
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥१,१५.२३॥
सनत्-कुमारो जानाति नोक्तं तेन पुरा च माम्।
मया ज्ञानम् अनापृष्टं यद् यज् जानासि मङ्गलम् ॥१,१५.२४॥
वेद-सारम् अनुपमं कर्म-मूल-निकृन्तनम्।
तन् मे कथय भद्रेश माम् एवानुग्रहं कुरु ॥१,१५.२५॥
अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम्।
पुराणेष्व् इतिहासे च वेदाङ्गेषु सुदुर्लभम् ॥१,१५.२६॥
गुरोश् च ज्ञानोदिगरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः।
तत् तन्तं स च मन्त्रः स्यात् कृष्ण-भक्तिर् यतो भवेत् ॥१,१५.२७॥
ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यानतः प्रभो।
वेद-कारण-पूज्यश् त्वं ज्ञानाधिष्ठातृ-देवता ॥१,१५.२८॥
तस्माद् भवान् परं ज्ञानं वद वेद-विदां वर।
मां भक्तम् अनुरक्तं च शरणागतम् ईश्वर ॥१,१५.२९॥
नारदस्य वचः श्रुत्वा योगिनां च गुरोर् गुरुः।
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥१,१५.३०॥
इत्य् एवं कथितं सर्वं पूर्वाख्यानं मनोहरम्।
हरि-भक्ति-प्रदं सर्वं कर्म-मूल-निकृन्तनम् ॥१,१५.३१॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चदशो ऽध्यायः
समाप्तश् चेदं नारद-पञ्च-रात्रैक-रात्रम्