१४

प्रथमैक-रात्रे चतुर्दशो ऽध्यायः

श्री-शुक उवाच प्रयाते राधिका-नाथे गोलोकं च निरामयम्।
बभूव किं रहस्यं च गते गन्धर्व-पुङ्गवे ॥१,१४.१॥

श्री-व्यास उवाच सर्वे देवाश् च मुनयः प्रयाते परमात्मनि।
सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये ॥१,१४.२॥
उवाच शम्भुर् ब्रह्माणं नीति-सार-विशारदम्।
ज्ञानाधिदेवो भगवान् परिणाम-सुखं वचः ॥१,१४.३॥

श्री-महा-देव उवाच रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम्।
स यस्य विघ्न-कर्ता च रक्षितुं तं च कः क्षमः ॥१,१४.४॥
स्मृति-मात्रेण निर्विघ्ना ये च कृष्ण-परायणः।
विघ्नं कर्तुं के समर्थास् तेषां च मुनयः सुराः ॥१,१४.५॥
कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम्।
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥१,१४.६॥
यदि तिष्ठन्ति भूमौ च दग्ध-शस्या वसुन्धरा।
जले यदि ततस् तप्तं नष्ठास्ते जल-जन्तवः ॥१,१४.७॥
स्थाले दहन्ति लोकांश् च वृक्षांश् च प्रलयाग्नयः।
विधानं कर्तुम् उचितम् एषां च जगतां विधे ॥१,१४.८॥
त्वम् एव धाता जगतां पिता च विष्णुर् ईश्वरः।
कालाग्नि-रुद्रः संहर्ता नेदानी प्रलय-क्षमः ॥१,१४.९॥
एते विषयिणः सर्वे कृष्णस्य परमात्मनः।
आज्ञावहाश् च सततं दिक्-पालाश् च दिग्-ईश्वराः ॥१,१४.१०॥
तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम्।
भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः ॥१,१४.११॥
अहं न पाता न स्रष्टा न संहर्ता च जीवनाम्।
निर्लिप्तो ऽ हं तपस्वी च हरेर् आराधनोन्मुखः ॥१,१४.१२॥
संहार-विषयं मह्यं श्री-कृष्णश् च पुरा ददौ।
दत्वा रुद्राय तद् अहं तपस्यासु रतो हरेः ॥१,१४.१३॥
तद्-अर्चनेन ध्यानेन तपसा पूजनेन च।
स्तवेन कवचनेनैव नाम-मन्त्र-जपेन च ॥१,१४.१४॥
मृत्युञ्जयो ऽ हं अधुना न च कालाद् भयं मम।
कालः संहरते सर्वं मां विना च तथेश्वरम् ॥१,१४.१५॥
पुरा सर्वादि-सर्गे च कस्यचित् स्रष्टुर् एव च।
भालोद्भवाश् च ते रुद्रास् तेष्व् एको ऽ हं शङ्करः ॥१,१४.१६॥
कल्पश् च ब्रह्मणः पाते लये प्राकृतिके तथा।
सर्वे नष्टा विषयिणो न भक्ताश् च यथेश्वरः ॥१,१४.१७॥
असंख्य-ब्रह्मणः पातः कल्पश् चासंख्य एव च।
समतीतः कति-विधो भविता या पुनः पुनः ॥१,१४.१८॥
श्री-कृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत्।
तत्र प्राकृतिकाः सर्वे तिरो-भूताः पुनः पुनः ॥१,१४.१९॥
न प्राकृतो न विषयी नित्य-देही च वैष्णवः।
हरेर् वरेणामरो ऽहं शिवाधारस् ततस् ततः ॥१,१४.२०॥
जल-प्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम्।
आब्रह्म-लोक-पर्यन्तं परं कृष्णालयं विना ॥१,१४.२१॥
सर्वा देव्यो विलीनाश् च कृष्णः सत्यं सुनिश्चितम्।
सर्वे पुमांसो लीनाश् च सत्ये नित्ये सनातने ॥१,१४.२२॥
अहं कृष्णश् च प्रकृतिः पार्षद-प्रवरो हरेः।
नित्यं नित्या विद्यमाना गोलोके च निरामये ॥१,१४.२३॥
एक ईशो न द्वितीय इति सर्वादि-सर्गतः।
नहि नश्यन्ति तद्-भक्ताः प्रकृति-प्राकृते लये ॥१,१४.२४॥
तस्य भक्तोत्तमानां च सततं स्मरणेन च।
आयुर्-व्ययो नहि भवेत् कथं मृत्युर् भविष्यति ॥१,१४.२५॥
न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित्।
तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥१,१४.२६॥
जन्म-मृत्यु-जरा-व्याधि-भयं नाप्य् उपजायते।
अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥१,१४.२७॥
स्थलं कोपानलानां च विधानं यद् विधे कुरु।
शम्भोश् च वचनं श्रुत्वा कम्पितः कमलासनः।
स्थलं चकार वह्नीनाम् आज्ञया शङ्करस्य च ॥१,१४.२८॥

ब्रह्मोवच ज्वरस् त्रि-पादस् त्रि-शिराः षड्-भुजो नव-लोचनः।
भस्म-प्रहरणो रौद्रः कालान्तकयमोपमः ॥१,१४.२९॥
भवे भवतु सर्वत्र भव-कोपानलो ऽधुना।
प्राकृतेषु च देहेषु व्यापारो ऽस्य मया कृतः ॥१,१४.३०॥
मम कोपानलः शम्भो संस्कृताग्निर् द्विजस्य च।
भवे भवतु सर्वत्र व्यापारो ऽस्य मया कृतः ॥१,१४.३१॥
शेषस्य कोप-वह्निश् च शेषास्ये ऽस्त्व् अधुना शिव।
यतो विश्वं च प्रलये दहेद् गोमय-पिण्डवत् ॥१,१४.३२॥
वह्नेर् मुख्यानलो विश्वे व्यवहाराग्निर् ईश्वरः।
भ्वत्व् एव हि सर्वत्र सर्वेषाम् उपकारकः ॥१,१४.३३॥
धर्मास्य-कोप-वह्निश् च कृष्णाग्निश् च भवत्व् अयम्।
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥१,१४.३४॥
सूर्य-कोपानलश् चायं दावाग्निश् च वनेषु च।
स्थितिर् अस्य तरोः स्कन्धे तद्-भक्ष्याः पशु-पक्षिणः ॥१,१४.३५॥
चन्द्र-कोपानलो विश्वे कामिनां विरहानलः।
दम्पत्योर् विरहे शश्वद् भक्ष्यति स्म द्वयोस् तनुम् ॥१,१४.३६॥
इन्द्र-कोपानलः सद्यो वज्राग्निश् च बभूव ह।
उपेन्द्रस्यानलश् चैव विद्युद् एव भ्वत्व् अयम् ॥१,१४.३७॥
रुद्राणाम् आस्य-वह्निश् च महोल्काग्निर् भवत्व् अयम्।
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥१,१४.३८॥
यत्र तिष्ठेत् तद् उषरम् एवम् एवं विदुर् बुधाः।
स्कन्द-कोपानलश् चैव रणास्त्राग्निर् बभूव ह ॥१,१४.३९॥
कामेतराणां देवानां मुनीनां च मुखानलः।
जग्राहौर्व-मुनिस् तत्र तेजसि ब्रह्मणः सुतः ॥१,१४.४०॥
स्व-दक्षिणोरौ स मुनिः संस्थाप्य वेद-मन्त्रतः।
ब्रह्मणं च नमस्-कृत्य शङ्करं तपसे ययौ ॥१,१४.४१॥
कालेन तस्मान् निःसृत्य समुद्रे वाडवानलः।
स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥१,१४.४२॥
कामाग्निम् उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः।
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥१,१४.४३॥
अजुहाव स्त्रियः सर्वाः सुव्रताश् च पति-व्रताः।
आयुयुर् योषितः सर्वास् ता ऊचुः कमलोद्भवम् ॥१,१४.४४॥

स्त्रिय ऊचुः किम् अस्मान् ब्रूहि भगवन् शाधि नः करवाम किम्।
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥१,१४.४५॥

ब्रह्मोवाच गृहीत्वा मदनाग्निं च मैथुने सुख-दायकम्।
विश्वे च योषितः सर्वाः शश्वत्-कामा भवन्तु च ॥१,१४.४६॥
ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः।
तम् ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥१,१४.४७॥

स्त्रिय ऊचुः धिक् त्वां जगद्-विधिं व्यर्थं चकार परमेश्वरः।
अपूज्यो मोहिनी-शापात् पुत्र-शापेन साम्प्रतम् ॥१,१४.४८॥
गृहीत्वा मदनाग्निं च पुरुषाश् च तथा स्त्रियः।
नित्यं दहन्ति सततं वास्तवं दुःसहं परम् ॥१,१४.४९॥
तद्-एक-भागः पुरुषे त्रि-भागश् चापि योषिति।
तेन दुग्धाः स्त्रियः सर्वाश् चास्माकम् अपरेण किम् ॥१,१४.५०॥
समर्पणं चेत् पुरुषे यद् यस्मासु स्मरानलः।
भस्मी-भूतं करिष्यामो रक्षिता को भवेत् तव ॥१,१४.५१॥

पति-व्रता-वचः श्रुत्वा तम् उवाच शिवः स्वयम्।
हितं सत्यं निति-सारं परिणाम-सुखावहम् ॥१,१४.५२॥

अथ कुलटोत्पत्तिः

श्री-महा-देव उवाच त्यज द्वन्द्वं महा-भाग सुव्रताभिः सहाधुना।
पति-व्रतानां तेजश् च सर्वेभ्यश् च परं भवेत् ॥१,१४.५३॥
निर्माणं कुरु देवेन्द्र कृत्यां स्त्री-जातिम् ईश्वर।
तस्यै देहि दुःख-बीजं काम-कोपानलं परम् ॥१,१४.५४॥

शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः।
ससृजे तत्-क्षणं मूर्तिं स्त्री-रूपां सुमनोहरां ॥१,१४.५५॥
अहो रूपम् अहो वेशम् अहो अस्या नवं वयः।
अहो चक्षुः कटाक्षं च मुनीनां मोहयन् मनः ॥१,१४.५६॥
अहो कठिनं चारु स्तन-युग्मं सुवर्तुलम्।
विचित्रं कठिनं स्थूलं श्रोणि-युग्मं च सुन्दरम् ॥१,१४.५७॥
नितम्ब-युग्मं वलितं चक्राकारं सुकोमलम्।
श्वेत-चम्पक-वर्णाभं सर्वावयम् ईप्सितम् ॥१,१४.५८॥
शरत्-पार्वण-कोटीन्दु-विनिन्दास्यं सुशोभनम्।
ईषद्धास्य-प्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥१,१४.५९॥
वपुः सुकोमलम् चालं नाति-दीर्घं न वखरम्।
वह्नि-शुद्धांशुकं रत्न-भूषणैर् भूषितं सदा ॥१,१४.६०॥
दाडिम्ब-कुमुदाकारं सान्द्रं सिन्दूर-सुन्दरम्।
कस्तूरी-विन्दुना सार्धं स्निग्ध-चन्दन-विन्दुभिः ॥१,१४.६१॥
पक्व-बिम्ब-फलाकारम् अध-रौष्ठ-पुटं परम्।
दन्त-पंक्ति-युगं चैव दाडिम्ब-बीज-सन्निभम् ॥१,१४.६२॥
सुचारु कवरी-भारं मालती-माल्य-मण्डितम्।
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥१,१४.६३॥
दृष्ट्वा सा चन्द्र-रूपं च कामोन्मत्ता विचेतना।
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्य् उवाच सा ॥१,१४.६४॥
सस्पितः प्रययौ चन्द्रो लज्जया च सभा-तलात्।
कामं दृष्ट्वा च चकमे कामार्ता सा गत-त्रपा ॥१,१४.६५॥
दुद्राव कामस् तस्माच् च तत्-पश्चात् सा दधाव च।
जहसुर् देवताः सर्वा मुनयश् चापि संसदि ॥१,१४.६६॥
लज्जिता योषितह् सर्वास् तां वारयितुम् अक्षमाः।
सर्वे चक्रुः परीहासं स्त्री-वर्गं शङ्करादयः ॥१,१४.६७॥
कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि।
तम् अश्विनी-कुमारं चाप्य् उवाच सुर-सन्निधौ ॥१,१४.६८॥

कृत्या-कामिन्य् उवाच मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा।
शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥१,१४.६९॥
त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने।
रहसि रहसि क्रीडां करिष्यामि दिवानिशम् ॥१,१४.७०॥
मधु-पानं च दास्यामि वासितं चामलं जलम्।
सकर्पूरं च ताम्बूलं भोग-वस्तु मनोहरम् ॥१,१४.७१॥
शय्यां मनोरमां कृत्वा सपुष्प-चन्दनार्चिताम्।
भगवन्तं करिष्यामि पुष्प-चन्दन-चर्चितम् ॥१,१४.७२॥

कुमार उवाच वचनं वद वामे माम् आत्मनो हृदयङ्गम।
विहाय कपटं कान्ते कपटं धर्म-नाशनम् ॥१,१४.७३॥
स्त्री-धर्मं स्त्री-मनस्-कामं स्त्री-स्वभावं च कीदृशम्।
तद्-आचारं कति-विधं तन् मां व्याख्यातुम् अर्हसि ॥१,१४.७४॥

अश्विनीज-वचः श्रुत्वा कामार्ता तम् उवाच सा।
कामार्तानां क्व लज्जा च क्व भयं मानम् एव च ॥१,१४.७५॥

अथ कुलटा-स्वभाव-कथनम्

कामिन्य् उवाच स्थानं नास्ति क्षणं नास्ति नास्ति दूती तद् उत्तमा।
तेनैव युवतीनां च सतीत्वम् उपजायते ॥१,१४.७६॥
सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा।
तद् रात्रं च पुलकितं योनौ कण्डूयनं परं ॥१,१४.७७॥
विचेतना भवेत् सा च काम-ज्वर-प्रपीडिता।
सर्वं त्यजति तद्-धेतोः पुत्रं कान्तं गृहं धनम् ॥१,१४.७८|॥
लब्ध्वा युवानं पुरुषं देश-त्यागं करोति सा।
तद्-उत्तमं पुनर् लब्ध्वा तं त्यजेत् सा क्षणेन च ॥१,१४.७९॥
विषं दातुं समर्था सा स्वामिनं गुणिनां वरम्।
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुम् उत्सुका ॥१,१४.८०॥
त्यजेत् कुल-भयं लज्जां धर्मं बन्धुं यशः श्रियम्।
सम्प्राप्य रति-शूरं च युवानं सुरतोन्मुखम् ॥१,१४.८१॥
सुदृश्यं सुन्दर-मुखं शश्वन्-मधुरितं वचः।
हृदयं क्षुर-धाराभं को वा जानाति तन्-मनः ॥१,१४.८२॥
विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे।
तथास्थिरा च कुलटा-प्रीतिः स्वप्नं च तद्-वचः ॥१,१४.८३॥
कुलटानां न सत्यं च न च धर्मो भयं दया।
न लौकिकं न लज्जा स्याज् जार-जिन्ता निरन्तरम् ॥१,१४.८४॥
स्वप्ने जागरणे चैव भोजने शयने सदा।
निरन्तरं काम-चिन्ता जारे स्नेहो न चान्यतः ॥१,१४.८५॥
कुलटा नर-घातिभ्यो निर्दया दुष्ट-मानसाः।
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥१,१४.८६॥
न हि वेदा विदन्त्य् एवं कुलता-हृदयङ्गमम्।
कथं देवास् च मुनयः सन्तो जानन्ति निश्चयम् ॥१,१४.८७॥
रति-शूरं प्रियं दृष्ट्वा क्षीरं घृतम् इवाचरेत्।
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत् क्षणात् ॥१,१४.८८॥
न विश्वसेयुस् तां दुष्टो तस्मात् सन्तो हि सन्ततं।
न रिपुः पुरुषाणां च दुष्ट-स्त्रीभ्यः परो भुवि ॥१,१४.८९॥
विषं मन्त्राद् उपशमं जलाद् वह्निश् च निश्चितं।
अग्नेश् च कण्ठकोच्छन्नं दुर्जनः स्तवनाद् वशः ॥१,१४.९०॥
लुब्धो धनेन राजा च सेवया सततं वशः।
मिश्रं स्वच्छ-स्वभावेन भयेन च रिपुर् वशः ॥१,१४.९१॥
आदरेण वशो विप्रो यौवती प्रेम-भारतः।
बन्धुर् वशः समतया गुरुः प्रणतिभिः सदा ॥१,१४.९२॥
मूर्खो वशः कथायां च विद्वान् विद्या-विचारतः।
न हि दुष्टा च कुलटा पुंसश् च वशगा भवेत् ॥१,१४.९३॥
स्व-कार्ये तत्-परा शश्वत् प्रीतिः कार्यानुरोधतः।
न सर्वस्य वशी-भूता विना शृङ्गारम् उल्वणम् ॥१,१४.९४॥
न प्रीत्या न धनेनैव न स्तवान् न सेवया।
न प्राण-दानतो वेश्या वशी-भूता भवेत् क्षणम् ॥१,१४.९५॥
आहारो द्वि-गुणस् तासां बुद्धिस् तासां चतुर्-गुणा।
षड्-गुणा मन्त्रणा तासां कामश् चाष्ट-गुनः स्मृतः ॥१,१४.९६॥
शश्वत्-कामा च कुलटा न च तृप्तिश् च क्रीडया।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥१,१४.९७॥
दिवानिशं च शृङ्गारं कुरुते तत्-पुमान् यदि।
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुम् इच्छति ॥१,१४.९८॥
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्व-भूतानां नासां तृप्यति सम्पदाम् ॥१,१४.९९॥
न श्रेयसां मनस् तृप्तं वाडवाग्निर् न पाथसाम्।
वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥१,१४.१००॥
इत्य् एवं कथितं किंचित् सर्वं वक्तुं च नोचितम्।
लज्जा बीजं योषितां च निबोध भास्करात्मज ॥१,१४.१०१॥

श्रुत्वा च कृत्या-स्त्री-वाक्यं जहसुर् मुनयः सुराः।
चुकुपुर् योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥१,१४.१०२॥
लज्जा-नतानना लक्ष्मीर् निर्ययौ देव-मण्डलात्।
तत् पश्चात् पार्वती सार्धं सरस्वत्या नतानना ॥१,१४.१०३॥
सावित्री रोहिनी स्वाहा वारुणी च रतिः शची।
सर्वा बभूवुर् एकत्र प्रचक्रुर् मन्त्रणां च ताः ॥१,१४.१०४॥
कृत्या-स्त्रियः समाहूय ता ऊचुश् च क्रमेण च।
रोधयाम् आसुर् इष्टां तां सुगोप्यां अपि योषितः ॥१,१४.१०५॥
तस्या मुखे ददौ हस्तं सुशीला कमलालया।
सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥१,१४.१०६॥
सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम्।
मौखर्यं वावदूकत्वं मन्त्रणाम् आत्म-रक्षणम् ॥१,१४.१०७॥
सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम्।
आत्म-संगोपनं चैव गाम्भीर्यं कुलतो भयम् ॥१,१४.१०८॥

पार्वत्य् उवाच धिक् त्वां स्व-भाव-कुलटां लज्जिता भव सुन्दरि।
स्व-मानं गौरवं रक्ष ह्य् अस्माकं च स्मरातुर ॥१,१४.१०९॥
जनि लभ पृथिव्यां च काय-व्यूहं विधाय च।
पुंसाम् अष्ट-गुणं कामं लभस्व च पृथक् प्रृथक् ॥१,१४.११०॥
लज्जां चतुर्-गुणां चापि द्विगुणां धैर्यतां तथा।
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् ॥१,१४.१११॥
पुंसां च द्वि-गुणः कामो वास्तवीणां च योषिताम्।
लज्जा चाष्ट-गुणा चापि धैर्यता च चतुर्-गुणा ॥१,१४.११२॥
कुल-धर्मः कुल-भयं सौशील्यं मानम् ऊर्जितम्।
शश्वत् तिष्ठतु पुंस्य् एव स्त्रीषु च ममाज्ञया ॥१,१४.११३॥
यस्मात् सदसि सर्वेभ्यो लज्जा-हीनः सुराधमः।
स्त्री-स्व-भावं च पप्रच्छ यज्ञ-भाक् न भवेत् ततः ॥१,१४.११४॥
अद्य-प्रभृति विश्वेषु नाग्राह्यं पाप-संयुतम्।
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥१,१४.११५॥

इत्य् एवम् उक्त्वा प्रययुर् देव्यश् च सर्व-योषितः।
देवाश् च मुनयश् चापि ये चान्ये च समागतः ॥१,१४.११६॥
देवाश् च मुनयश् चापि ये चान्ये सर्वतः सुत।
पति-व्रताणां स्त्रीणां च लज्जा बीज-स्वरूपिणी ॥१,१४.११७॥

इति श्री-नारद-पञ्च-रात्रे ज्ञाणामृत-सारे प्रथमैक-रात्रे कुलटोत्त्पतिर् नाम चतुर्दशो ऽध्यायः