१३

प्रथमैक-रात्रे त्रयोदशो ऽध्यायः

श्री-शुक उवाच स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह।
तन् मे कथय भद्रं ते भगवन् भगवद्-वचः ॥१,१३.१॥

श्री-व्यास उवाच स्तोत्रान्तरे च काले च गन्धर्वश् चोपवर्हणः।
उवाच ब्रह्म-संसदि भगवन्तं सनातनम् ॥१,१३.२॥

सर्वैर् देवैर् अहं शप्तश् चाधुना देव-हेतुना।
देवानाम् अग्नि-पुञ्जश् च प्रदीप्तश् च सुमेरुवत् ॥१,१३.३॥
अधुना च त्वयि गते भस्मासान् मां करिष्यति।
अतो रक्ष जगन्नाथ मां समुद्धर्तुम् अर्हसि ॥१,१३.४॥
त्वद्-अंश-शूकरेणैव धरोद्धारः कृतः पुरा।
हिरण्याख्यं महा-दैत्यं निहत्य चावलीलया ॥१,१३.५॥
पाद्म-पद्मार्चित-पदे पद्मे ते शरणागतम्।
माम् अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् ॥१,१३.६॥

गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्-ईश्वरः।
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्म-संसदि ॥१,१३.७॥

अथ गन्धर्व-मोक्षणम्

श्री-भगवान् उवाच गन्धर्व-राज-प्रवर स्थिरो भव भयं त्यज।
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥१,१३.८॥
सर्वेभ्यो ऽपि भयं नास्ति मद्-भक्तानाम् अकर्मणाम्।
जन्म-मृत्यु-जरा-व्याधि-भयं तेषां न विद्यते ॥१,१३.९॥
मन्-मन्त्रोपासकश् चैव स्वतन्त्रो नित्य-विग्रहः।
पुनर् न विद्यते जन्म मन्त्र-ग्रहण-मात्रतः ॥१,१३.१०॥
नास्ति कालाद् भयं तस्य न निषेकाद् विधेर् अपि।
मन्त्र-ग्रहण-मात्रेण मुच्यते सर्व-कर्मणः ॥१,१३.११॥
मन्-मन्त्रो हि देहात् पापं कोटि-जन्म-कृतं च यत्।
सुदीप्तो ज्वलद्-अग्निश् च तृण-पुञ्जं देहाद् यथा ॥१,१३.१२॥
मन्-मन्त्र-ग्रहणाद् योगान् मन्-नाम-ग्रहणस्य वा।
तेषां पापानि वेपन्ते कोटि-जन्म-कृतानि च ॥१,१३.१३॥
यमस् तन्-नाम-लिखनं दूरी-भूतं करोति च।
अन्ते दास्यं च लभते गत्वा गोलोकम् उत्तमम् ॥१,१३.१४॥
यावद् आयुर् भ्रमेत् तावत् स्वतन्त्रो मत्त-कुञ्जरः।
ततः पापाः फलायन्ते वैनतेयाद् इवोरगाः ॥१,१३.१५॥
तेषां च पाद-रजसा सद्यः पूता वसुन्धरा।
पुनाति सर्व-तीर्थानि दूरतो दर्शनाद् अपि ॥१,१३.१६॥
पूतश् च पवनो वह्निर् जलं च तुलसी-दलम्।
पूतान्य् एव हि तीर्थानि गङ्गादीनि च गायन ॥१,१३.१७॥
पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पति-व्रता।
मन्-मन्त्रोपासकाश् चैव तेभ्यः पूतोत्तमाः सदा ॥१,१३.१८॥
मन्त्रोपासकानां च तीर्थ-स्थानं व्रतं सुत।
श्राद्धं दानं पूजनं च यथा चर्वित-चर्वणम् ॥१,१३.१९॥
भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः।
तत् तन्त्रं च तथा दान-मलं श्राद्धं च निष्फलम् ॥१,१३.२०॥
श्राद्धस्य सम्प्रदानं च कर्तुश् च पुरुष-त्रयम्।
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्ध-वस्तु च ॥१,१३.२१॥
केचिद् एवं वदन्तीति पितृ-लोकार्थम् एव च।
तद्-विरुद्धं च ते तुष्टा मन्त्र-ग्रहण-मात्रतः ॥१,१३.२२॥
तेषां शुभाशिषं कर्म नैव भोगाय कल्पते।
देवान् न प्रभवेद् वत्स सिद्ध-धान्ये यथाङ्कुरः ॥१,१३.२३॥
साक्षात् करोति तेषां च कर्म-मूल-निकृन्तनम्।
मन्त्रोपासकाद् अन्ये कर्म-भोगं च भुञ्जते ॥१,१३.२४॥
मया स्वयं प्रदत्तश् च स्व-मन्त्रः पुरुषाय च।
पर-द्वाराद् ग्राहयित्वा भक्तं मुक्तं करोम्य् अहम् ॥१,१३.२५॥
मया प्रदत्त-मन्त्रश् च पुरा मृत्युञ्जयस् तथा।
मृत्युञ्जयाय गोलोके शुद्ध-सत्त्व-गुणाय च ॥१,१३.२६॥
पुनः सनत्-कुमाराय धर्माय ब्रह्मणे तथा।
कपिलाय च शेषाय गणेशाय च महा-मते ॥१,१३.२७॥
नारायणर्षये चैव धर्म-पुत्राय धीमते।
पुनर् महा-विष्णवे च विश्वानि यस्य लोमसु ॥१,१३.२८॥
कालाधिष्ठातृ-देवाय तस्मै सर्वान्तकाय च।
उपेन्द्राय च कामाय भृगवे ऽङ्गिरसे तथा ॥१,१३.२९॥
सरस्वत्यै च पद्मायै राधायै विरजा-तटे।
शवित्र्यै विष्णु-मायायै पार्षदेभ्यश् च पुत्रक ॥१,१३.३०॥
तुभ्यं न दत्तो मन्त्रो ऽत्र श्रूयतां तन् निमित्तकम्।
जनिष्यसि शूद्र-योनौ ब्रह्मणो वाक्य-पालनात् ॥१,१३.३१॥
इत्य् एवं कथितं सर्वं गच्छ वत्स यथा सुखम्।
द्वादशाब्दान्तरे शूद्र-योनौ देवाज् जनिष्यसि ॥१,१३.३२॥
पञ्च-वर्षाभ्यन्तरे च मन्-मन्त्रं प्राप्य विप्रतः।
दशाब्दान्ते वपुस् त्यक्त्वा ब्रह्म-पुत्रो भविष्यसि ॥१,१३.३३॥
मन्-मन्त्रं पुनर् एवेति शम्भु-वक्त्राल् लभिष्यसि।

इत्य् एवम् उक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥१,१३.३४॥
गन्धर्वः प्रययौ तस्माद् योषिद्भिः सह पुत्रक।
इत्य् एवं कथितं सर्वं पूर्व-वृत्तान्तम् एव च ॥१,१३.३५॥

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गन्धर्व-मोक्षणं नाम त्रयोदशो ऽध्यायः