प्रथमैक-रात्रे द्वादशो ऽध्यायः
शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तर-कालतः।
किं बभूव रहस्यं च तन् मां व्याख्यातुम् अर्हसि ॥१,१२.१॥
श्री-व्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश् चोपवर्हणः।
तेषां च पुरतो भक्त्या विदयाम् आस वै सदा ॥१,१२.२॥
श्रुत्वा तद् वचनं ब्रह्मा तम् उवाच च संसदि।
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगताम् अपि ॥१,१२.३॥
मथुरा-गमनं चैव कृष्णस्य परमात्मनः।
विलापं गोप-गोपीनां श्रावयास्मांश् च साम्प्रतम् ॥१,१२.४|॥
महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः।
गायन्तु ताश् च संगीतं नृत्यन्त्व् अप्सरां गणाः ॥१,१२.५॥
ब्रह्मणश् च वचः श्रुत्वा ननृत्युश् चाप्सरोगणाः।
चक्रुस् ताः सरसं गीतं विद्याधर्यश् च संसदि ॥१,१२.६॥
मायिनां चैव प्रवरो गन्धर्वश् चोपवर्हणः।
जगौ सन्धान-भावेन मथुरा-गमनं हरेः ॥१,१२.७॥
विलापं गोकुल-स्थानां श्रुत्वा विप्राः सुरादयः।
मूर्च्छां प्रापुश् च रुरुदुर् ददुर् दानं पुनः पुनः ॥१,१२.८॥
गोपीनां विरहालापैर् मूर्च्छितश् चोपवर्हणः।
विस्वरेण वितनात् तु ताल-भङ्गो बभूव ह ॥१,१२.९॥
तत् ताल-भङ्गं विज्ञाय देवाश् च मुनयस् तथा।
चुकुपुः सहसा सर्वे निर्गतास् तन् मुखाग्नयः ॥१,१२.१०॥
तद् दृष्ट्वा सहसा भीतो गन्धर्वश् चोपवर्हणः।
सस्मार कृष्णं स्वभीष्टं परमात्मानम् ईश्वरम् ॥१,१२.११॥
ददृशुः स्मृति-मात्रेण तत्-तेजो नभसि स्थितम्।
स्तम्भिता देवताः सर्वाशि-चक्र-पुत्तलिका यथा ॥१,१२.१२॥
स्तम्भिता वह्नयः सर्वे मुनयश् च विजृम्भिताः।
हरि-स्मृतिश् चाभयदा शुभदा विघ्न-नाशिनी ॥१,१२.१३॥
ददृशुर् देवताः सर्वाः मुनयश् चापि योषितः।
गन्धर्वाश् च तथैवान्ये तेजो दृश्यं सुख-प्रदम् ॥१,१२.१४॥
परं कुञ्ज्ञटिकाकारं कोटीन्दु-किरण-प्रभम्।
योजनायत-विस्तीर्णं सुस्निग्धं सुमनोहरम् ॥१,१२.१५॥
तत् तेजो ऽभ्यन्तरे सर्वे ददृशू रथम् उत्तमम्।
गव्यूतिमानं विस्तीर्णं धनुष्-कोटि-समुच्छ्रितम् ॥१,१२.१६॥
श्वेताश्वानां च चक्राणां सहस्रेण समावृतम्।
अमूल्य-रत्न-रचितम् ईश्वरेच्छा-विनिर्मितम् ॥१,१२.१७॥
नाना-चित्र-विचित्राढ्यं मनोयायि ममोहरम्।
मुक्तामाणिक्य-परम-हीराहारैर् विराजितम् ॥१,१२.१८॥
रत्न-दर्पण-लक्षैश् च त्रि-लक्षैः श्वेत-चामरैः।
वह्नि-शुद्धांशुकानां च त्रि-लक्षैः परिशोभितम् ॥१,१२.१९॥
त्रि-कोटिभिश् च ज्वलितं क्रीडा-सुन्दर-मन्दिरैः।
पारिजात-प्रसूनानां मन्दराणां मनोहरैः ॥१,१२.२०॥
मालाजालैस् त्रि-लक्षैश् च मालतीनां च मण्डितम्।
एवंभूतं रथं दृष्ट्वा ददृशुस् ते तद्-अनन्तरे ॥१,१२.२१॥
मध्य-कोष्ठाभ्यन्तरे च किशोरं श्याम-सुन्दरम्।
वह्नि-शुद्धांशुकेनैव पीत-वर्णेन शोभितम् ॥१,१२.२२॥
रत्न-केयूर-वलय-रत्न-मञ्जीर-रञ्जितम्।
रत्न-कुण्डल-युग्मेन गण्ड-स्थल-समुज्ज्वलम् ॥१,१२.|२३॥
ईषद्धास्य-प्रसन्नास्यं नित्योपास्यं सुरासुरैः।
चन्दनोक्षित-सर्वाङ्गं मालती-माल्य-मण्डितम् ॥१,१२.२४॥
मणिना कौस्तुभेन्द्रेण गण्ड-स्थल-विभूषितम्।
परं प्रधानं परमं परमात्मानम् ईश्वरम् ॥१,१२.२५॥
स्तुतं ब्रह्मेश-शेषैश् च राधा-वक्षः स्थल-स्थितम्।
वेदानिर्वचनीयं च स्वेच्छामयम् अनीश्वरम् ॥१,१२.२६॥
नित्यं नित्यं निर्गुणं च ज्योति-रूपं सनातनम्।
प्रकृतेः परम् ईशानं भक्तानुग्रहकातरम् ॥१,१२.२७॥
कोटि-कन्दर्प-लावण्य-लीला-धाम-मनोहरम्।
मयूर-पुच्छ-चूडं च वरं वंशी-धरं परं ॥१,१२.२८॥
दृष्ट्वा तम् अद्भुतं रूपं तुष्टाव कमलोद्भवः।
गणेशः शेषः शम्भुश् च तद्-अन्ये मुनयः सुराः ॥१,१२.२९॥
ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानम् ईश्वरम्।
वन्दे वन्द्यं च सर्वेषां सर्व-कारण-कारणम् ॥१,१२.३०॥
सर्वेश्वरं सर्व-रूपं सर्वाद्यं सद्भिर् ईडितम्।
वेदावेद्यं च विद्वद्भिर् न दृष्टं स्वप्न-गोचरे ॥१,१२.३१॥
श्री-महादेव उवाच
सिद्ध-स्वरूपं सिद्धाद्यं सिद्ध-बीजं सनातनम्।
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर् गुरुम् ॥१,१२.३२॥
वन्दे वन्द्यं च महतां परात् परतरं विभुम्।
स्वात्मा-रामं पूर्ण-कामं भक्तानुग्रहकातरम् ॥१,१२.३३॥
भक्ति-प्रियं च भक्तेशं स्व-भक्ति-दास्यदं परम्।
स्व-पद-प्रदम् एकं च दातारं सर्व-सम्पदाम् ॥१,१२.३४॥
अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुति-श्रुतम्।
कोटिभिः कोटिभिर् वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥१,१२.३५॥
किम् उ स्तोष्यति शम्भुश् च पञ्च-वक्त्रेण वाञ्च्छितम्।
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्-मुखः ॥१,१२.३६॥
षड्-वक्त्रो गज-वक्त्रश् च देवाश् च मुनयो ऽपि वा।
वेदा वा किं वेद-विदः स्तुवन्ति प्रकृतेः परम् ॥१,१२.३७॥
वेदानिर्वचनीयं च वेदा निर्वक्तुम् अक्षमाः।
वेद-विज्ञात-वाक्येन विद्वांसः किं स्तुवन्ति तम् ॥१,१२.३८॥
श्री-गणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे।
नम इत्य् एवम् अर्थम् च द्वयोर् एव समं फलम् ॥१,१२.३९॥
यस्मै दत्तं च यज् ज्ञानं ज्ञान-दाता हरिः स्वयम्।
ज्ञानेन तेन स स्तौति भाव-ग्राही जनार्दनः ॥१,१२.४०॥
एक-वक्त्रो ऽनेक-वक्त्रो मूर्खो विद्वान् स्व-कर्मणा।
अधनी च धनी वापि सपुत्रो वाप्य् अपुत्रकः ॥१,१२.४१॥
कर्मणा परम् ईशं च स्तोतुं को वाप्य् अनुत्तमम्।
यथा-शक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥१,१२.४२॥
संकीर्तनं च भजनं जपनं बुद्ध्य्-अनुक्रमम्।
कुर्वन्ति सन्तो ऽसन्तश् च सन्ततं परमात्मनः ॥१,१२.४३॥
कार्तिकेय उवाच
सर्वान्तरात्मा भगवान् ज्ञानं च सर्व-जीविनां।
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् ॥१,१२.४४॥
भवेषु त्रि-विधो लोको ऽप्य् उत्तमो मध्यमो ऽधमः।
सर्वे स्व-कर्म-वश-गा निषेकः केन वार्यते ॥१,१२.४५॥
सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्-प्रभुम्।
मद्-ईश्वरस्य समता सर्वेषु किंकरेषु च ॥१,१२.४६॥
भजन्ति केचित् शुद्धान्तं परमात्मानम् ईश्वरम्।
केचित् तद्-अंशांशं प्राप्नुवन्ति क्रमेण तम् ॥१,१२.४७॥
धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा।
विधातुश् च विधाता त्वं सर्वेश्वरं नमो ऽस्तु ते ॥१,१२.४८॥
देवा ऊचुः
यं स्तोतुम् असमर्थश् च सहस्रायुः स्वयं विधिः।
ज्ञानाधिदेवः शम्भुश् च तं स्तोतुं किं वयं क्षमाः ॥१,१२.४९॥
वेदा ऊचुः
किं जानीमो वयं के वाप्य् अनन्तेशस्य यो गुणः।
वयं वेदाश् त्वम् अस्माकं कारणस्यापि कारकः ॥१,१२.५०॥
मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः।
न जानीमस् तव गुणं वेदानुसारिणो वयम् ॥१,१२.५१॥
सरस्वत्य् उवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः।
वेदाधिदेवो धाता च तद्-ईशं स्तौमि किं प्रभो ॥१,१२.५२॥
पद्मोवाच
यत् पाद-पद्मं पद्मेशः शेषाश् चान्ये सुरास् तथा।
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् ॥१,१२.५३॥
सावित्र्य् उवाच
सावित्री वेद-माताहं वेदानां जनको विधिः।
त्वाम् एव धत्ते धातरं नमामि त्रि-गुणात् परम् ॥१,१२.५४॥
श्री-पार्वत्य् उवाच
तव वक्षसि राधाहं रासे वृन्दावने वने।
महा-लक्ष्मीश् च वैकुण्ठे पाद-पद्मार्चने रता ॥१,१२.५५॥
श्वेत-द्वीपे सिन्धु-कन्या विष्णोर् उरसि भू-तले।
ब्रह्म-लोके च ब्रह्माणी वेद-माता च भारती ॥१,१२.५६॥
तवाज्ञया च देवानाम् अविर्भूता च तेजसि।
निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च ॥१,१२.५७॥
तत्-पश्चाद् दक्ष-कन्याहम् अधुना पार्वती हरे।
तवाज्ञया हर-क्रोडे त्वद्-भक्ता प्रति-जन्मनि ॥१,१२.५८॥
नारायण-प्रिया शश्वत् तेन नारायणी श्रुतौ।
विष्णोर् अहं परा-शक्तिर् विष्णु-माया च वैष्णवी ॥१,१२.५९॥
अनन्त-कोटि ब्रह्माण्डं मया सम्मोहितं सदा।
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥१,१२.६०॥
महा-विष्णोश् च माताहं विश्वानि यस्य लोमसु।
रामेश्वरी च सर्वाद्या सर्व-शक्ति-स्वरूपिणी ॥१,१२.६१॥
तद्-रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता।
परमानन्द-पादाब्जं वन्दे सानन्द-पूर्वकम् ॥१,१२.६२॥
यत्-पाद-पद्मं ध्यायन्ते परमानन्द-कारणम्।
पाद-पद्मेश-शेषाद्या मुनयो मनवः सुराः ॥१,१२.६३॥
योगिनः सन्ततं सन्तः सिद्धाश् च वैष्णवास् तथा।
अनुग्रहं कुरु विभो बुद्धि-शक्तिर् अहं तव ॥१,१२.६४॥
इति संवृतं स्तोत्रं यः पठेत् संयतः शुचिः।
इहैव च सुखं भुङ्क्ते यात्य् अन्ते श्री-हरेः पदम् ॥१,१२.६५॥
निवृत्तेषु च वेदेषु देवीषु मुनि-पुङ्गवे।
उपवर्हण-गन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥१,१२.६६॥
अथ गन्धर्व-कृत-स्तोत्रम्
गन्धर्व उवाच
वन्दे नव-घन-श्यामं पीत-कौशेय-वाससम्।
सानन्दं सुन्दरं शुद्धं श्री-कृष्णं प्रकृतेः परम् ॥१,१२.६७॥
राधेशं राधिका-प्राण-वल्लभं वल्लवी-सुतम्।
राधा-सेवित-पादाब्जं राधा-वक्षः-स्थल-स्थितम् ॥१,१२.६८॥
राधानुरागं राधिकेष्टं राधापहृत-मानसम्।
राधाधरं भवाधारं सर्वाधारं नमामि तम् ॥१,१२.६९॥
राधा-हृत्-पद्म-मध्ये च वसन्तं सन्ततं शुभम्।
राधा-सह-चरं शश्वत् राधाज्ञा-परि-पालकम् ॥१,१२.७०॥
ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश् च यम्।
तं ध्याये सततं शुद्धं भगवन्तं सनातनम् ॥१,१२.७१॥
सेवन्ते सन्ततं सन्तो ब्रह्मेश-शेष-संज्ञकाः।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥१,१२.७२॥
निर्लिप्तं च निरीहं च परमात्मानम् ईश्वरम्।
नित्यं सत्यं च परं भगवन्तं सनातनम् ॥१,१२.७३॥
यं सृष्टेर् आदि-भूतं च सर्व-बीजं परात् परम्।
योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् ॥१,१२.७४॥
बीजं नानावताराणां सर्व-कारण-कारणम्।
वेदावेद्यं वेद-बीजं वेद-कारण-कारणम् ॥१,१२.७५॥
योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम्।
इत्य् एवम् उक्त्वा गन्धर्वः पपात धरणी-तले ॥१,१२.७६॥
ननाम दण्डवद् भूमौ देव-देवं परात् परम्।
इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ॥१,१२.७७॥
इहैव जीवन्-मुक्तश् च परे याति परां गतिम्।
हरि-भक्तिं हरेर् दास्यं गोलोके च निरामयः।
पार्षद-प्रवरत्वं च लभते नात्र संशयः ॥१,१२.७८॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गन्धर्व-कृत-स्तोत्रं नाम द्वादशो ऽध्यायः