प्रथमैक-रात्रे एकादशो ऽध्यायः
अथ महोत्सव-दर्शनम्
श्री-व्यास उवाच
अथ गन्धर्व-राजस् तु भगवान् आज्ञया विधेः।
संगीतं च जगौ तत्र कृष्ण-रास-महोत्सवम् ॥१,११.१॥
सुसमं तालमानं च सुतानं मधुरं श्रुतम्।
वीणा-मृदङ्ग-मुरज-युक्तं ध्वनि-समन्वितम् ॥१,११.२॥
रागिणी-युक्त-रागेण समयोक्तेन सुन्दरम्।
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्ष-कारणम् ॥१,११.३॥
विचित्रं नृत्य-रुचिरं रूप-वेशम् उत्तमम्।
लोकानुराग-बीजं च नाट्योपयुक्त-हस्तकम् ॥१,११.४॥
दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्व-योषितः।
मूर्च्छां प्रायुश् च सहसा चेतनां च पुनः पुनः ॥१,११.५॥
गोपीनां वस्त्र-हरणं गोपी-गण-विलापनं।
ताभ्यो वस्त्र-प्रदानं च संमानं वरदानकम् ॥१,११.६॥
कात्यायनी-व्रतं चापि विप्र-दारान्न-भोजनम्।
महेन्द्र-दर्प-पूजादि भञ्जनं शैल-पूजनम् ॥१,११.७॥
पुनश् च शुश्रुवुः सर्वे श्री-वृन्दावन-वर्णनम्।
संप्रापुश् च पुनर् मूर्च्छां पुनः प्रापुश् च चेतनाम् ॥१,११.८॥
तस्मै ददौ पुरो ब्रह्मा वह्नि-शुद्धांशुकं परम्।
परं शुभाशीर्-वचनं यत् तन्-मानस-वाञ्छितम् ॥१,११.९॥
अमूल्य-रत्न-निर्माणं चारु-कुण्डाल-युग्मकम्।
मणीन्द्र-सार-मुकुटं परं रत्नाङ्गुरीयकम् ॥१,११.१०॥
सुगन्धि चन्दनं पुष्पं स्व-पाद-रेणुम् ईप्सितम्।
अमूल्य-रत्न-तिलकं रत्न-भूषणम् उज्ज्वलम् ॥१,११.११॥
प्रत्येकं वस्तु रुचिरं तद्-योषिद्भ्यश् च संददौ।
विश्वकर्मा च निर्माण-मणिं भूषणम् उत्तमम् ॥१,११.१२॥
प्रत्येकं शङ्ख-सिन्दूरं कस्तूरी-युक्त-चन्दनम्।
सकर्पूरं च ताम्बूलं रत्नेन्द्र-सार-दर्पणम् ॥१,११.१३॥
मणि-निर्माणा-मञ्जोरं श्वेत-चामर-शोभनम्।
मनोयायि रथं दिव्यं ईस्वरेच्छा-विनिर्मितम् ॥१,११.१४॥
मुक्ता-माणिक्य-हीरेन्द्रैर् मणीन्द्रैश् च परिष्कृतम्।
सद्-रत्न-माला-जालैश् च श्वेत-चामर-दर्पणैः ॥१,११.१५॥
सुशोभितं च परितो लक्षैः सुन्दर-मन्दिरैः।
मणि-मानिक्य-हीराढ्यं सद्-रत्न-कलशोज्ज्वलम् ॥१,११.१६॥
सहस्र-चक्र-संसक्तं योजनायत-सम्मितम्।
धनुर् लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् ॥१,११.१७|
एतद् एव ददौ ब्रह्मा प्रहृष्टस् तुष्ट एव च।
शम्भुस् तुष्टो ददौ हृष्टो हरि-भक्तिं च निश्चलाम् ॥१,११.१८॥
ज्ञानम् अध्यात्मिकं चैव योग-ज्ञानं सुदुर्लभम्।
नाना-जन्म-स्मृति-ज्ञानं नैपुण्यं सर्व-सिद्धिषु ॥१,११.१९॥
हरेश् चर्चाविधानं च स्तवनं पूजनं तथा।
माणिक्य-हीराहारं च रत्न-लक्षं सुदुर्लभम् ॥१,११.२०॥
नाग-हारं ददौ शेषो नागेन्द्रमौलि-मण्डनम्।
नाग-कन्या-शतं चैव वर-भूषण-भूषितम् ॥१,११.२१॥
नागेभ्यश् चाभ्यं नित्यं हिस्र-जन्तुभ्य एव च।
नृपालय-गति-ज्ञानं सर्व-लोक-विलोकनम् ॥१,११.२२॥
निर्विघ्नत्वं ददौ तस्मै विघ्न्-राजश् च संसदि।
सुदुर्लभं पाद-पद्म-युग्म-रेणुम् अभीप्सितम् ॥१,११.२३॥
अमूल्यं च निरुपमं ग्रीष्म-सूर्य-प्रभोपमम्।
मणि-राजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् ॥१,११.२४॥
सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः।
संगीत-विद्या-विज्ञानं तन्-नैपुण्यं मनोहरम् ॥१,११.२५॥
लक्ष-स्वर्णं धनेशश् च दासानां च शतं शतम्।
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥१,११.२६॥
विषय-जीर्णापहरणं ददौ धन्वन्तरिर् मनुम्।
सूर्यः स्यमन्तक-मणिं स्वर्णा-भाराष्टकप्रसुम् ॥१,११.२७॥
चन्द्रः श्वेताश्व-रत्नं च ह्य् अमूल्यम् उत्तमं ददौ।
वह्नि-शुद्धांशुक-युगं ददौ वह्निश् च संसदि ॥१,११.२८॥
उपेन्द्रो रत्न-कोटिं च तद् एवेन्द्रो ददौ पुरा।
वीणा-शिल्पं विश्वकर्मा वरुणश् च मणि-स्रजम् ॥१,११.२९॥
स्मरः शृङ्गार-नैपुण्यं वीर्य-स्तम्भनम् एव च।
काम-सन्दीपनं ज्ञानं कामिनी-प्रेम-मूर्छनम् ॥१,११.३०॥
कामिनी-वश-गं शिल्पं रति-तत्त्वं ददौ तथा।
पाप-दाहन-मन्त्रं च रत्न-छत्रं समीरणः ॥१,११.३१॥
यमश् च धर्म-तत्त्वं च नरक-त्राण-कारणम्।
वसवश् च वसून् दिव्यान् रुद्रस् तेभ्यो ऽभयं ददौ ॥१,११.३२॥
मधु-पात्रं सुधा-पात्रं जयन्तो नलकूवरः।
शुक्ल-पुष्पं शुक्ल-धान्यं पाद-रेणुम् अभीप्सितम् ॥१,११.३३॥
मनोभिरां मनुयो ददौ तस्मै शुभाशिषम्।
लक्ष्मीश् च परमैश्वर्यं भारती हारम् उत्तमम् ॥१,११.३४॥
रत्न-मालां ददौ दुर्गा सर्वत्राभयम् ईप्सितम्।
तत्-पत्नीभ्यश् च रत्नानि सिन्दूराभरणानि च ॥१,११.३५॥
क्रीडा-पद्मं रोहिनी च रतिः सद्-रत्न-दर्पणम्।
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥१,११.३६॥
गङ्गा च विपुलं पुण्यं स्वाहा सद्-रत्न-पाशकम्।
यमुना जलजं पद्मम् अम्लानं सार्वकालिकम् ॥१,११.३७॥
वारुणीं वारुणी तुष्टा रत्न-पात्रं शची ददौ।
मनसा प्रददौ तस्मै नागानां मौलि-मण्डनम् ॥१,११.३८॥
गन्धर्वाश् चापि तत्-पत्न्यः स्व-शिल्पं प्रददुस् तथा।
परमानन्द-युक्ताश् च मुनि-पत्न्यः शुभाशिषम् ॥१,११.३९॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे महोत्सव-दर्शनं नाम एकादशो ऽध्यायः