प्रथमैक-रात्रे दशमो ऽध्यायः
श्री-शुक उवाच
नारदो हि महा-ज्ञानी देवर्षिर् ब्रह्मणः सुतः।
सर्व-वेद-विदां श्रेष्ठो गरिष्ठश् च वरिष्ठकः ॥१,१०.१॥
कथं स नोपदिष्टश् च ज्ञान-हीनो महा-मुनिः।
तन् मां बोधय विभो सन्देह-भञ्जनं कुरु ॥१,१०.२॥
श्री-व्यास उवाच
नारदो ब्रह्मणः पुत्रः पुरा-कल्पे बभूव सः।
सर्व-ज्ञानं ददौ तस्मै विधाता जगताम् अपि ॥१,१०.३॥
वेदांश् च पाठयाम् आस वेदाङ्गान्य् अपि सुव्रत।
सिद्ध-विद्यां शिल्प-विद्यां योग-शास्त्रं पुराणकम् ॥१,१०.४॥
भगवान् एकदा पुत्रं कथयाम् आस संसदि।
सृष्टिं कुरु महा-भाग कृत्वा दार-परिग्रहम् ॥१,१०.५॥
ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः।
उवाच पितरं कोपात् परं कृष्ण-परायनः ॥१,१०.६॥
श्री-नारद उवाच
सर्वेषाम् अपि वन्द्यानां पिता चैव महा-गुरुः।
ज्ञान-दातुः परो वन्द्यो न भूतो न भविष्यति ॥१,१०.७॥
स्तन-दात्री गर्भ-धात्री स्नेह-कर्त्री सदाम्बिका।
जन्म-दातान्न-दाता स्यात् स्नेह-कर्ता पिता सदा ॥१,१०.८॥
न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम्।
करोति सद्-गुरुः शिष्य-कर्म-मूल-निकृन्तनम् ॥१,१०.९॥
गुरुश् च ज्ञानोद्गिरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः।
तत् तन्त्रं स च मन्त्रश् च कृष्ण-भक्तिर् यतो भवेत् ॥१,१०.१०॥
श्री-कृष्ण-विमुखो भूत्वा विषये यस्य मानसम्।
विषम् अत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥१,१०.११॥
स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः।
यो ददाति हरौ भक्तिं कर्म-मूल-निकृन्तनी ॥१,१०.१२॥
श्री-कृष्ण-भजनं तात सर्व-मङ्गल-मङ्गलम्।
कर्मोपभोग-रोगआणाम् औषधं तन्-निकृन्तनम् ॥१,१०.१३॥
अहो जगद्-विधातुश् च धर्म-शास्तुर् इयं मतिः।
स्वयं माया-मोहितश् च परं भ्रष्टं करोति च ॥१,१०.१४॥
विष्णुस् त्वां मोहिताम् कृत्वा युयोज स्रष्टुम् ईश्वरः।
न ददौ स्वात्म-भक्तिं तां स्व-दास्यं चाति-दुर्लभम् ॥१,१०.१५॥
माता ददाति पुत्राय मोदकं क्षुन्-निवारकम्।
स च बालो न जानाति कथंभूतं च मोदकम् ॥१,१०.१६॥
बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः।
पिता प्रयाति कार्यार्थं विष्णुना मोहितस् तथा ॥१,१०.१७॥
संसार-कूप-पतितो विष्णुना प्रेरितो भवान्।
न युक्तं पतनं तत्र तद् उद्धारम् अभीप्सितम् ॥१,१०.१८॥
ज्ञानी गुरुश् च बलवान् भवाब्धेः शिष्यम् उद्धरेत्।
गुरुः स्वयम् असिद्धश् च दुर्बलः कथम् उद्धरेत् ॥१,१०.१९॥
गुरोर् अत्य्-अवलिप्तस्य कार्याकार्यम् अजानतः।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥१,१०.२०॥
स गुरुः परमो वैरी यो ददाति ह्य् असन्-मतिम्।
तं नमस्-कृत्य सत्-शिष्यः प्रयाति ज्ञानदं गुरुम् ॥१,१०.२१॥
संसार-विषयोन्मत्तो गुरु-रार्तः स्व-कर्मणि।
दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥१,१०.२२॥
नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रम् उवाच सः।
कम्पितस् तमसा धाता कोप-रक्तास्य-लोचनः ॥१,१०.२३॥
ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्री-जितो भव पामर।
सर्व-जातिषु गन्धर्वः कामी सो ऽपि भवान् भव ॥१,१०.२४॥
पञ्चाशत्-कामिनीनां च स्वयं भर्ता भवाचिरात्।
तासां वशश् च सततं स्त्रीणां क्रीडा मृगो यथा ॥१,१०.२५॥
शृङ्गार-शूरो भव रे शश्वत्-सुस्थिर-यौवनः।
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥१,१०.२६॥
काम-बाध्यो भव चिरं दिव्य-वर्ष-सहस्रकम्।
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥१,१०.२७॥
ततो वर्ष-सहस्रान्ते मया शप्तः स्व-कर्मणा।
विप्र-दास्यां तु शूद्रायां जनिष्यसि न संशयः ॥१,१०.२८॥
ततो वैष्णव-संसर्गात् विष्णोर् उच्छिष्ट-भोजनात्।
विष्णु-मन्त्र-प्रसादेन विष्णु-माया-विमोहितः ॥१,१०.२९॥
तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः।
शशाप पितरं शिघ्रं दारुणं च यथोचितम् ॥१,१०.३०॥
अपूज्यो भव दुष्टं त्वं त्वन्-मन्त्रोपासकः कुतः।
अगम्यागमनेच्छा ते भविष्यति न संशयः ॥१,१०.३१॥
नारदस्य तु शापेन सो ऽपूज्यो जगतां विधिः।
दृष्ट्वा स्व-कन्या-रूपं च पश्चाद् धावितवान् पुरा ॥१,१०.३२॥
पुनः स्व-देहं तत्याज भर्त्सितः सनकादिभिः।
लज्जितः काम-युक्तश् च पुनर् ब्रह्मा बभूव सः ॥१,१०.३३॥
नारदस् तु नमस्-कृत्य पितरं कमलोद्भवम्।
विप्र-देहं परित्यज्य गन्धर्वश् च बभूव सः ॥१,१०.३४॥
नव-यौवन-कालेन बलवान् मदनोद्धतः।
जहार कन्याः पञ्चाशत् बलाच् चित्र-रथस्य तु ॥१,१०.३५॥
गान्धर्वेन विवाहेन ता उवाह च निर्जने।
मूर्च्छां प्रापुश् च ताः कन्या दृष्ट्वा सुन्दरम् ईश्वरम् ॥१,१०.३६॥
विसस्पुरुश् च पितरं मातरं भ्रातरं तथा।
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥१,१०.३७॥
कन्दरेर् कन्दरे रम्ये रम्ये सुन्दर-मन्दिरे।
शैले शैले सुरहसि कानने कानने तथा ॥१,१०.३८॥
पुष्पोद्यने तरु-द्याने नद्यां नद्यां नदे नदे।
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्र-सरोवरे ॥१,१०.३९॥
सुरेशस्यापि निकटे सुभद्रस्य तटे तटे।
अगम्ये च महा-घोरे गन्ध-मादन-गह्वरे ॥१,१०.४०॥
परिजात-तरुणां च पुष्पितानां मनोहरे।
तद्-अन्तरे सुन्दरे चामोदिते पुष्प-वायुना ॥१,१०.४१॥
मलये निलये रम्ये सुगन्धे चन्दनान्विते।
चन्दनोक्षित-सर्वाङ्गश् चन्दनाक्तेन कामिना ॥१,१०.४२॥
रम्य-चम्पक-शय्यासु चन्दनाक्तासु सस्मिताः।
दिवानिशं न जानन्ति कामिना सस्मितेन च ॥१,१०.४३॥
विस्यन्दके शूरसेने नन्दने पुष्प-भद्रके।
स्वाहा-वने काम्यके च रम्यके पारिभद्रके ॥१,१०.४४॥
सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रके ऽपि च।
कालञ्जरे पञ्जरे च काञ्ची-काञ्चन-कानने ॥१,१०.४५॥
मधु-माधव-मासे च मधूरे मधु-कानने।
वने कल्प-तरूणां च विश्व-कारु-कृत-स्थले ॥१,१०.४६॥
रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे।
सुवेले च सुपार्श्वे च प्रवालांकुर-कानने ॥१,१०.४७॥
मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे।
वने केलि-कदम्बानां केतकीनां मनोहरे ॥१,१०.४८॥
माधवी-मालतीनां च यूथिकानां वने वने।
चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥१,१०.४९॥
नागेश्वर-लवङ्गानां अन्तरे ललितालये।
कुमुदानां पङ्कजानां पङ्किले कोमल-स्थले ॥१,१०.५०॥
स्थल-पद्म-प्रकारो च भूमि-चम्पक-कानने।
लाङ्गलीनां रसालानां पनसानां सुख-प्रदे ॥१,१०.५१॥
कदली-बदरीणां च श्री-फलानां च श्री-युते।
जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥१,१०.५२॥
कृत्वा बिहारं ताभिश् च गन्धर्वश् चोपवर्हणः।
दिव्यं वर्ष-सहस्रं च स्वाश्रमं पुनर् आययौ ॥१,१०.५३॥
श्रुत्वा विधातुर् आह्वानं पुष्करं च ययौ पुनः।
ददर्श तत्र ब्रह्माणम् रत्न-सिंहासन-स्थितम् ॥१,१०.५४॥
देवेन्द्रैश् चापि सिद्धेन्द्रैर् मुनीन्द्रैः सन्कादिभिः।
समावृतं सभायां च रक्षो-गन्धर्व-किन्नरैः ॥१,१०.५५॥
सुशोभितं यथा चन्द्रं गगने भगणैः सह।
प्रणनाम सभा-मध्ये ताभिः सार्धं जगद्-विधिम् ॥१,१०.५६॥
महेशं च गणेशं च धनेशं शेषम् ईश्वरम्।
धर्मं धन्वन्तरिं स्कन्दं सूर्य-सोम-हुताशनम् ॥१,१०.५७॥
उपेन्द्रेन्द्रं विश्व-कारुं वरुणं पवनं स्मरम्।
यमम् अष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् ॥१,१०.५८॥
सर्वान् देवान् नमस्-कृत्य ननाम मुनि-पुङ्गवम्।
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् ॥१,१०.५९॥
सर्व-श्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा।
सनकं सनन्दं च तृतीयं च सनातनम् ॥१,१०.६०॥
सनत्-कुमारं योगीशं ज्ञानिनां च गुरोर् गुरुम्।
वोढुं पञ्च-शिखं सङ्खं भृगुम् अङ्गिरसं तथा ॥१,१०.६१॥
आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम्।
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् ॥१,१०.६२॥
बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम्।
वाल्मीकिं परशु-रामं संवर्तं च विभाण्डकम् ॥१,१०.६३॥
देवलं च वाम-देवम् ऋशयशृङ्गं पराशारम्।
एतान् सर्वान् नमस्-कृत्य तस्थौ स पुरतो विधेः ॥१,१०.६४॥
तुष्टाव सर्वान् देवांश् च मुनीन्द्रांश् च तथैव च।
तम् उवाच सभा-मध्ये विधाता जगताम् अपि।
सस्मितः सुप्रसन्नश् च गन्धर्वम् उपवर्हणम् ॥१,१०.६५॥
ब्रह्मोवाच
श्री-कृष्ण-रस-सङ्गीतं वीणा-ध्वनि-समन्वितम्।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥१,१०.६६॥
गोपीनां वस्त्र-हरणं हरं रास-महोत्सवम्।
ताभिः सार्धं जल-क्रीडां हरेर् उत्कीर्तनं कुरु ॥१,१०.६७॥
कृष्ण-सङ्कीर्तनं तूर्णं पुनाति श्रुति-मात्रतः।
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥१,१०.६८॥
यत्रैव प्रभवेद् वत्स तन्-नाम-गुणानुकीर्तनम्।
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥१,१०.६९॥
तत्-कीर्तन-ध्वनिं श्रुत्वा सर्वाणि पातकानि च।
दूराद् एव पलायन्ते वैनतेयम् इवोरगाः ॥१,१०.७०॥
तद् दिनं सफलं धन्यं यशस्यं सर्व-मङ्गलम्।
श्री-कृष्ण-कीर्तनं यत्र तत्रैव नायुषो व्ययः ॥१,१०.७१॥
संकीर्तन-ध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः।
तेषां पाद-रजः-स्पर्शात् सद्यः पूता वसुन्धरा ॥१,१०.७२॥
तत्-कीर्तनं भवेद् यत्र कृष्णस्य परमात्मनः।
स्थानं तच् च भवेत् तीर्थं मृतानां तत्र मुक्तिदम् ॥१,१०.७३॥
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च।
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् ॥१,१०.७४॥
वर्तते पापिनां देहे पापानि त्रि-विधानि च।
महा-पापोपपापातिपापान्य् एव स्मृतानि च ॥१,१०.७५॥
हन्ता यो विप्र-भिक्षूणां यतीनां ब्रह्म-चारिणां।
स्त्रीणां च वैष्णवानां च स महा-पातकी स्मृतः ॥१,१०.७६॥
भ्रूणा-घ्नश् चापि गो-घ्नश् च शूद्र-घ्नश् च कृत-घ्नकः।
विश्वास-घाती विड्-भोजी स एव ह्य् उपपातकी ॥१,१०.७७॥
अगम्यागमिनो ये च सुर-विप्र-स्वहारिणः।
अतिपातकिनश् चैते वेद-विद्भिः प्रकीर्तिताः ॥१,१०.७८॥
कृष्ण-संकीर्त्न-ध्यानात् तन्-मन्त्र-ग्रहणाद् अहो।
मुच्यन्ते पातकैस् तैस् तैः पापिनस् त्रि-विधाः स्मृताः ॥१,१०.७९॥
तपो-यज्ञ-कृती पूतस् तीर्थ-स्नात-व्रती तथा।
भिक्षुर् यतिर् ब्रह्म-चारी वान-प्रस्थश् च तापसः ॥१,१०.८०॥
पवित्रः परमो वह्निः सुपवित्रं जलं यथा।
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् ॥१,१०.८१॥
विष्णु-पादोदकोच्छिष्टं भुञ्जते ये च नित्यशः।
पश्यन्ति च शिला-चक्रं पूजां कुर्वन्ति नित्यशः ॥१,१०.८२॥
जीवन्-मुक्तास् च ते धन्या हरि-दासाश् च भारते।
पदे पदे ऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् ॥१,१०.८३॥
नहि तेषां पराभूताः पुण्यवन्तो जगत्-त्रये।
तेषां च पाद-रजसा तीर्थं पूतं तथा धरा ॥१,१०.८४|॥
तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः।
पुरुषाणां सहस्रं च पूतं तज्-जन्म-मात्रतः ॥१,१०.८५॥
इत्य् उक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः।
आश्चर्यं मेनिरे श्रुत्वा देवाश् च मुनयस् तथा ॥१,१०.८६॥
एतस्मिन्न् अन्तरे तत्र विद्या-धर्यः समागताः।
गन्धर्वाश् चापि विविधा ननृतुः किन्नरा जगुः ॥१,१०.८७॥
रम्भोर् वशी घृताची च मेनका च तिलोत्तमा।
सुधामुखी पूर्ण-चित्ती मोहिनी कलिका तथा ॥१,१०.८८॥
चम्पावती चन्द्र-मुखी पद्मा पद्म-मुखीति च।
एताश् चान्याश् च बह्व्यश् च श्वश्वत् सुस्थिर-यौवनाः ॥१,१०.८९॥
बृहन्-नितम्ब-श्रोणीकास्तनभारैः समानताः।
ईषद्धास्याः प्रसन्नास्याः कामार्ताश् च समाययुः ॥१,१०.९०॥
वेद-ज्ञा मूर्तिमन्तश् च वेदाश् चात्वार एव च।
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्म-चारिणः ॥१,१०.९१॥
समाययुस् तथा मन्दा दैव-ज्ञाः स्तुति-पाठकाः।
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥१,१०.९२॥
तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा।
वारुणी मनसेन्द्राणी ताः सर्वा देव-योषितः ॥१,१०.९३॥
मुनि-पत्न्यश् च गन्धर्व्यो हर्ष-युक्ताः समाययुः।
अहो महोत्सवं परमानन्द-मानसाः।
विचित्रां च ब्रह्म-सभां पुष्करं तीर्थम् आययुः ॥१,१०.९४॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे महोत्सवारम्भो नाम दशमो ऽध्यायः