०९

प्रथमैक-रात्रे नवमो ऽध्यायः

श्री-व्यास उवाच वरं दत्वा महा-देवो भक्त्या तं ब्राह्मणातिथिम्।
पूजां चकार वेदोक्तां स्वयं वेद-विदां वरः ॥१,९.१॥
भुक्त्वा पीत्वा मुनि-श्रेष्ठो महा-देवस्य मन्दिरे।
तिष्ठन्न् उपासानां चक्रे पार्वती-परमेशयोः ॥१,९.२॥
एकदा चिर-कालान्ते तम् उवाच महा-मुनिम्।
महा-देवः सभा-मध्ये कृपया च कृपा-निधिः ॥१,९.३॥

श्री-महा-देव उवाच किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते।
वरो दत्तः किम् अपरं यत् ते मनसि वर्तते ॥१,९.४॥

महा-देव-वचः श्रुत्वा तम् उवाच महा-मुनिः।
कैलासे च सभा-मध्ये यत् तन्-मनसि वाञ्छितम् ॥१,९.५॥

श्री-नारद उवाच ज्ञानम् आध्यात्मिकं नाम वेद-सारं मनोहरम्।
हरि-भक्ति-प्रदं ज्ञानं मुक्तिदं ज्ञानम् ईप्सितम् ॥१,९.६॥
योग-युक्तं च यज् ज्ञानं ज्ञानं यत् सिद्धिदं तथा।
संसार-विषय-ज्ञानम् एव पञ्च-विधं स्मृतम् ॥१,९.७॥
आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम्।
विधवानां च भिक्षूणां यतीनां ब्रह्म-चारिणां ॥१,९.८॥
पूजा-विधानं कृष्णस्य तत्-स्तोत्रं कवचं मनुम्।
पुरश्चर्या-विधानं च सर्वाह्निकम् अभीप्सितम् ॥१,९.९॥
जीव-कर्म-विपाकं च कर्म-मूल-निकृन्तनम्।
संसार-वासनां कां वा लक्षणं प्रकृतीशयोः ॥१,९.१०॥
तयोः परं वा किं वस्तु तस्यावतार-वर्णमम्।
को वा तद्-अंशः कः पूर्णः परिपूर्णतमश् च कः ॥१,९.११॥
नारायणर्षि-कवचं सुभद्र-प्रवराय च।
यद् दत्तं किं तद् देवेश तद् आराध्यं प्रयत्नतः ॥१,९.१२॥
मया ज्ञानंम् अनापृष्ठं यद् यद् अस्ति सुरोत्तम।
तन् मे कथय तत्त्वेन माम् एवानुग्रहं कुरु ॥१,९.१३॥
गुरोश् च ज्ञानोद्गिरणाज् ज्ञानं स्यान् मन्त्र-तन्त्रयोः।
तत् तन्त्रं स च मन्त्रः स्याद् यतो भक्तिर् अधोक्षजे ॥१,९.१४॥
ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यान-चिन्तया।
स्वयं भवान् वेद-कर्ता ज्ञानाधिष्ठातृ-देवता ॥१,९.१५॥

नारदस्य वचः श्रुत्वा सस्मितः पार्वती-पतिः।
निरीक्ष्य पार्वती-वक्त्रं गज-वक्त्रम् उवाच सः ॥१,९.१६॥

अथ नारदोपदेश-ग्रहणम्

श्री-महा-देव उवाच अहो अनन्त-दासानां माहात्म्यं परमाद्भुतम्।
कुर्वन्त्य् अहैतुकीं भक्तिं ये च शश्वद् धरेः पदे ॥१,९.१७॥
पद्म-नाभ-पाद-पद्मं पद्मा-पद्मेश्वरार्चितम्।
दिवानिशं ये ध्यायन्ते शेषादि-सुर-वन्दितम् ॥१,९.१८॥
आलापं गात्र-संस्पर्शं पाद-रेणुम् अभीप्सितम्।
वाञ्छन्त्य् एव हि तीर्थानि वसुधा चात्म-शुद्धये ॥१,९.१९॥
कृष्ण-मन्त्रोपासकानां शुद्धं पादोदकं सुत।
पुनाति सर्व-तीर्थानि वसुधाम् अपि पार्वति ॥१,९.२०॥
कृष्ण-मन्त्रो द्विज-मुखाद् यस्य कर्णं प्रयाति च।
तं वैष्णवं जगत्-पूतं प्रवदन्ति पुरा-विदः ॥१,९.२१॥
मन्त्र-ग्रहण-मात्रेण नरो नारायनात्मकः।
पुनाति लीला-मात्रेण पुरुषाणां शतं शतम् ॥१,९.२२॥
यज् जन्म-मात्रात् पूतं च तत् पितृणां शतं शतम्।
प्रयाति सद्यो गोलोकं कर्म-भोगात् प्रमुच्यते ॥१,९.२३॥
माता-महादिकान् सप्त जन्म-मात्रात् समुद्धरेत्।
यत् कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ॥१,९.२४॥
मातरं तत्-प्रशूं भार्यां पुत्राच् च सप्त-पूरुषम्।
भ्रातरं भगिनीं कन्यां कृष्ण-भक्तः समुद्धरेत् ॥१,९.२४॥
स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः।
फलं स लेभे पूजानां व्रती सर्व-व्रतेषु च ॥१,९.२६॥
विष्णु-मन्त्रं यो लभेत् वैष्णवाच् च द्विजोत्तमात्।
कोटि-जन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥१,९.२७॥
कृष्ण-मन्त्रोपासकानां सद्यो दर्शन-मात्रतः।
शत-जन्मार्जितात् पापान् मुच्यते नात्र संशयः ॥१,९.२८॥
वैष्णवाद् दर्शनेनैव स्पर्शनेन च पार्वति।
सद्यः पूतं जलं वह्निर् जगत् पूतः समीरणः ॥१,९.२९॥
दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः।
न वैष्णवात् परः पूतो विश्वेषु निखिलेषु च ॥१,९.३०॥

इत्य् उक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः।
ययौ मन्दाकिनी-तीरं नीरं क्षीरोपमं परम् ॥१,९.३१॥
तत्र स्नातो महा-देवी नारदश् च महा-मुनिः।
समाचान्तः शुचिस् तत्र धृत्वा धौते च वासवी ॥१,९.३२॥
कृष्ण-मन्त्रं ददौ तस्मै नारदाय महेश्वरः।
परं कप्ल-तरु-वरं सर्व-सिद्धि-प्रदं शुक ॥१,९.३३॥
लक्ष्मीर् माया-काम-बीजं ङेन्तं कृष्ण-पदं ततः।
जगत्-पूत-प्रियान्तं च मन्त्र-राजं प्रकीर्तितम् ॥१,९.३४॥
मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम्।
सप्त वारान् नमस् कृत्य स्वात्मानं दक्षिणां ददौ ॥१,९.३५॥
तत्-पाद-पद्मे विक्रीतमाजन्म मस्तकं परम्।
मुनिना भक्ति-युक्तेन स्वर्ग-मन्दाकिनी-तटे ॥१,९.३६॥
एतस्मिन्न् अन्तरे वत्स पुष्प-वृष्टिर् बभूव ह।
नारदोपरि तत्रैव सुश्राव दुन्दुभिर् मुनिः ॥१,९.३७॥
ननर्त ब्रह्मणः पुत्रो ब्रह्म-लोके निरामये।
ब्रह्मा जगाम तत्रैव सुप्रसन्नश् च सस्मितः ॥१,९.३८॥
पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्र-शेखरम्।
शम्भुश् च पूजयाम् आस ब्राह्मणम् अतिथिं तथा।
शम्भुं शुभाशिषं कृत्वा ब्रह्म-लोकं ययौ विधिः ॥१,९.३९॥

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे नारदोपदेश-ग्रहणं नाम नवमो ऽध्यायः