०८

प्रथमैक-रात्रे अष्टमो ऽध्यायः

श्री-व्यास उवाच अथ चाभ्यन्तरं गत्वा नारदो हृष्ट-मानसः।
ददर्श स्वाश्रमं रम्यम् अतीव सुमनोहरम् ॥१,८.१॥
पयः फेन-निभ-शय्या-सहितं रत्न-मन्दिरम्।
साक्षाद् गोरोचनाभैश् च मणि-स्तम्भैर् विभूषितम् ॥१,८.२॥
मणीन्द्र-सारसोपानैः कपाटैश् च परिष्कृतम्।
मुक्तामाणिक्य-हीराणां माला-राजि-विराजितम् ॥१,८.३॥
शुद्ध-स्फटिक-संकाशं प्राङ्गणं मणि-संस्कृतम्।
सुन्दरं मन्दिर-चयं सद्-रत्न-कलशोज्ज्वलम् ॥१,८.४॥
रत्न-पत्र-पटाकीर्णं वह्नि-शुद्धांशुकान्वितम्।
सुधानां च मधूनाम् च पूर्ण-कुम्भकं शतं शतम् ॥१,८.५॥
दास-दासी-समूहैश् च रत्नालङ्कार-भूषितैः।
पार्वती-प्रिय-सङ्गैश् च स्व-कर्माकुल-सङ्कल्पम् ॥१,८.६॥
तद् दृष्ट्वा च मुनि-श्रेष्ठस् तत् पराभ्यन्तरं ययौ।
रत्न-सिंहासन-स्थं च शङ्करं च ददर्श सः ॥१,८.७॥
व्याघ्र-चर्माम्बर-धरं सस्मितं चन्द्र-शेखरम्।
प्रसन्न-वदनं स्वच्छं शान्तं श्रीमन्तम् ईश्वरम् ॥१,८.८॥
विभूति-भूषिताङ्गं च परं गङ्गा-जटा-धरम्।
भक्त-प्रियं च भक्तेशं ज्वलन्तं ब्रह्म-तेजसा ॥१,८.९॥
त्रि-नेत्रं पञ्च-वक्त्रं च कोटि-चन्द्र-सम-प्रभम्।
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् ॥१,८.१०॥
निर्लिप्तं च निरीहं च दातारं सर्व-सम्पदाम्।
स्वेच्छा-मयं सर्व-बीजं श्री-कृष्णं प्रकृतेः परं ॥१,८.११॥
सिद्धेन्द्रैश् च मुनीन्द्रैश् च देवेन्द्रैः परिसेवितम्।
पार्श्वद-प्रवर-श्रेष्ठ-सेवितं श्वेत-चामरैः ॥१,८.१२॥
दुर्गा-सेवित-पादाब्जं भद्र-काली-परिष्टुतम्।
पुरतो हि वसन्तं तं स्कन्दं गण-पतीम् तथा ॥१,८.१३॥
गले बद्ध्वा च वसनं भक्ति-नम्रात्मकंधरः।
योगीन्द्रं स्व-गुरुं शंभुं शिरसा प्रणनाम सः ॥१,८.१४॥
तुष्टाव परया भक्त्या देवर्षिर् जगतां पतिम्।
स्व-गुरुं च पशु-पतिं वेदोक्तेन स्तवेन च ॥१,८.१५॥

श्री-नारद उवाच नमस् तुभ्यं जगन्-नाथ मम नाथ मम प्रभो।
भव-रूप-तरोर् बीज फल-रूप फल-प्रद ॥१,८.१६॥
अबीजज प्रज प्राज सर्व-बीज नमो ऽस्तु ते।
सद्-भाव परमाभाव विभाव भावनाश्रय ॥१,८.१७॥
भवेश भव-बन्धेश भावाब्धिनाविनायक।
सर्वाधार निराधार साधार धरणी-धर ॥१,८.१८॥
वेद-विद्याधाराधार गङाधर नमो ऽस्तु ते।
जयेश विजयाधार जय-बीज जयात्मक ॥१,८.१९॥
जगद्-आदे जयानन्द सर्वानन्द नमो ऽस्तु ते|

इत्य् एवम् उक्त्वा देवर्षिः शम्भोश् च पुरतः स्थितः।
प्रसन्न-वदनः श्रीमान् भगवांस् तम् उवाच सः ॥१,८.२०॥

श्री-महा-देव उवाच वरं वृणु महा-भाग यत् ते मनसि वर्तते।
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्व-संपदाम् ॥१,८.२१॥
सुखं मुक्तिं हरेर् भक्तिं निश्चलाम् अविनाशिनीम्।
हरेः पादं तद्-दास्यं सालोक्यादि-चतुष्टयम् ॥१,८.२२॥
इन्द्रत्वम् अमरत्वं वा यमत्वम् अनिलेश्वरम्।
प्रजा-पतित्वं ब्रह्मत्वं सिद्धत्वं सिद्ध-साधनम् ॥१,८.२३॥
सिद्धैश्वर्यं सिद्धि-बीजं वेद-विद्याधिपं परम्।
अणिमादिक-सिद्धिं च मनो-यायित्वम् ईप्सितम् ॥१,८.२४॥
हरेः पदं च गमनं स-शरीरेण लीलया।
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ॥१,८.२५॥
तन् मे ब्रूहि मुनि-श्रेष्ठ सर्वं दातुम् अहं क्षमः।

शङ्करस्य वचः श्रुत्वा तम् उवाच महा-मुनिः ॥१,८.२६॥

श्री-नारद उवाच देहि मे हरि-भक्तिं च तन्-नाम-सेवने रुचिः।
अति-तृष्णा गुणाख्याने नित्यम् अस्तु ममेश्वर ॥१,८.२७॥

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम्।
पार्वती भद्र-काली च कार्त्तिकेयो गणेश्वरः ॥१,८.२८॥
सर्वं ददौ महा-देवो नारदाय च धीमते।
सर्व-प्रदस् तु सर्वेशः सर्व-कारण-कारणः ॥१,८.२९॥
नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः।
हरि-भक्तिर् भवेत् तस्य तन्-नाम्नि गुणतो रुचिः ॥१,८.३०॥
दश-वार-जपेनैव स्तोत्र-सिद्धिर् भवेन् नृणाम्।
सर्व-सिद्धिर् भवेत् तस्य सिद्ध-स्तोत्रो भवेद् यदि ॥१,८.३१॥
इह प्राप्नोति लक्ष्मीं च निश्चलां लक्ष-पौरुषीम्।
परि-पूर्णम् अहैश्वर्यम् अन्ते याति हरेः पदम् ॥१,८.३२॥
पुत्रं विशिष्टं लभते हरि-भक्तं जितेन्द्रियम्।
सुसाध्यां सुविनीतां सुव्रतां च पति-व्रताम् ॥१,८.३३॥
प्रजां भूमिं यशः कीर्तिं विद्यां स-कवितां लभेत्।
प्रसूयते महा-बन्ध्या वर्षम् एकं शृणोति चेत् ॥१,८.३४॥
गलत्-कुष्ठी महा-रोगी सद्यो रोगात् प्रमुच्यते।
धनी महा-दरिद्रश् च कृपणः सत्यवान् भवेत्।
विप्रद्-ग्रस्तो राज-बद्धो मुच्यते नात्र संशयः ॥१,८.३५॥

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे अष्टमो ऽध्यायः