प्रथमैक-रात्रे सप्तमो ऽध्यायः
संभाष्य लोमशं तस्माज् जगाम नारदो मुनिः।
पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम् ॥१,७.१॥
यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः।
नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः ॥१,७.२॥
हंसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः।
पुंस्-कोकिल-निनादैश् च सन्ततं सुमनोहरैः ॥१,७.३॥
शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः।
समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः ॥१,७.४॥
स मुनिर् नारदं दृष्ट्वा भक्त्या च प्रणनाम च।
पप्रच्छ कुशलं शान्तं शान्तः सत्त्व-गुणाश्रयः ॥१,७.५॥
मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकम्।
ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः ॥१,७.६॥
अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा।
क्व यासि कुत आयासि किं ते मनसि वर्तते ॥१,७.७॥
मानसं प्राणिनाम् एव सर्व-कर्मैक-कारणम्।
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥१,७.८॥
मुनेश् च वचनं श्रुत्वा वीणा-पाणि स्वम् ईप्सितम्।
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् ॥१,७.९॥
नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम्।
द्रष्टुं महा-देवं च प्रणामं कर्तुम् ईश्वरम् ॥१,७.१०॥
पूजां गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः।
मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः ॥१,७.११॥
हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया।
स्वर्ग-मन्दाकिनी-तीरं कैलासं प्रययौ मुनिः ॥१,७.१२॥
ददर्श वट-वृक्षं च योजनायतम् उच्छ्रितम्।
शोभितं शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः ॥१,७.१३॥
सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-संकुलैः।
सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् ॥१,७.१४॥
प्रणतांस् तांश् च संभाष्य पार्वती-काननं ययौ।
सुन्दरं वर्तुलाकारं चतुर्-योजनम् ईप्सितम् ॥१,७.१५॥
शोभितं सुन्दरै रम्यैः सप्तभिश् च सरोवरैः।
शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः ॥१,७.१६॥
नील-रक्तोत्पल-दल-पटलैः परिशोभितैः।
पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः ॥१,७.१७॥
मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता।
केतकी-चम्पकाशोक-मन्दारक-विराजिका ॥१,७.१८॥
नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका।
विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा ॥१,७.१९॥
एतेषां च समूहैश् च पुष्प-वल्ली-विराजितैः।
आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः ॥१,७.२०॥
खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा।
दाडिम्बैश् चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा ॥१,७.२१॥
करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः।
कदम्बानां कदम्बैश् च तिन्तिण्डीनां कदम्बकैः ॥१,७.२२॥
अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः।
वट-शाखोटकैः कुन्दैः शंगुभिः सप्त-पर्णकैः ॥१,७.२३॥
पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः।
हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः ॥१,७.२४॥
अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम्।
कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः ॥१,७.२५॥
सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः।
अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम् ॥१,७.२६॥
सिंहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः।
शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः ॥१,७.२७॥
शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः।
कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम् ॥१,७.|२८॥
पुंस्-कोकोल-कुलानां च गानैश् च विराजितम्।
मत्तानां पल्लव-स्थानां माधवेषु मनोहरम् ॥१,७.२९॥
शुकानां राज-हंसानां मयूराणां च पुत्रकैः।
क्षेम-करी-खञ्जनानां राजिभिश् च मनोहरम् ॥१,७.३०॥
हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः।
सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम् ॥१,७.३१॥
हिंसा-भयादि-रहितं सर्वेषां पशु-पक्षिणां।
परस्परं च सुप्रीतं हिंस्राणां क्षुद्र-जन्तुभिः ॥१,७.३२॥
तत्र क्रीडा-स्थलं रम्यं पार्वती-परमेशयोः।
मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम् ॥१,७.३३॥
क्रोशायतं परिमितं वर्तुलं चन्द्र-विम्बवत्।
अम्लान-रम्भा-स्तम्भानां लक्ष-लक्षैश् च वेष्टितम् ॥१,७.३४॥
चित्रितं सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम्।
नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम् ॥१,७.३५॥
रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः।
परितः परितः शश्वन् मालाजालैर् विभूषितम् ॥१,७.३६॥
शय्या-भूतं सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः।
पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम् ॥१,७.३७॥
कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः।
मार्जितं चित्रितं चित्रैः परितो रङ्ग-वस्तुभिः ॥१,७.३८॥
दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्-णदीं मुनिः।
शुद्ध-स्फटिक-संकासां सर्व-पाप-विनाशिनीम् ॥१,७.३९॥
भवाब्धिघोर-तरणे तरणीं नित्यनूतनाम्।
कृष्ण-पाद-प्रसूतां च जगत्-पूज्यां पति-व्रतां ॥१,७.४०॥
स्नाट्वा कृष्णं च संपूज्य परमात्मानम् ईश्वरम्।
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् ॥१,७.४१॥
साक्षिणं कर्मणाम् एव ब्रह्म ज्योतिः सनातनम्।
प्रययौ पुरतो रम्यं राज-मार्गं ददर्श सः ॥१,७.४२॥
मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः।
परिष्कृतं च सर्वत्र निर्मितं विश्व-कर्मणा ॥१,७.४३॥
सतां पुण्यवतां दृष्टम् अदृष्टं कृत-पापिनाम्।
धनुः शतं परिमितं चित्र-राजि-विराजितम् ॥१,७.४४॥
दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटि-गुणोत्तरम्।
रथं ददर्श पुरतो मनोयायि मनोहरम् ॥१,७.४५॥
अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम्।
धनुर् लक्षं परिमितं परितो वर्तुलाकृतम् ॥१,७.४६॥
ऊर्ध्व-स्थितम् ऊर्ध्व-गं च सहस्र-चक्र-संयुतम्।
धनुर् लक्षो ऽपि सूतं च वह्नि-शुद्धांशुकान्वितम् ॥१,७.४७॥
हीरासार-विनिर्माणं सुचारु-कलशोज्ज्वलम्।
रत्न-प्रदीप-दीप्ताढ्यं रत्न-दर्पण-भूषितम् ॥१,७.४८॥
मुक्ताशुक्ति-निबद्धैश् च शोभितं श्वेत-चामरैः।
माणिक्य-सार-हारेण मणि-राजैर् विराजितम् ॥१,७.४९॥
पारिजाट-प्रसूतानां मायाजालैः परिष्कृतम्।
ग्रीष्म-मध्याह्न-मार्तण्डं सहस्र-सदृशोज्ज्वलम् ॥१,७.५०॥
ईश्वरेच्छा-विनिर्माणं काम-पुरं च कामिनाम्।
सर्व-भोग-समाविष्टं कल्प-वृक्ष-परं वरम् ॥१,७.५१॥
ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः।
गोलोकाद् आगतं पूर्वं क्रीडार्थं शङ्करस्य च ॥१,७.५२॥
विवाहे परिनिष्पन्ने पार्वती-परमेशयोः।
रथं दृष्ट्वा च प्रययौ कियद् दूरं महा-मुनिः ॥१,७.५३॥
अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम्।
रत्नेन्द्र-सार-निर्माणं शिविरैः शत-कोटिभिः ॥१,७.५४॥
मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः।
युक्तं रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः ॥१,७.५५॥
परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम्।
ददर्श शिविरं शम्भोः परिखाभिस् त्रिभिर् युतम् ॥१,७.५६॥
दुर्लघ्याभिरा-मित्राणां सुगम्याभिः सताम् अहो।
प्रकारैश् च त्रिभिर् युक्तं धनुर् लक्षोच्छ्रितं सुत ॥१,७.५७॥
सम्मितं सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः।
धनुः-शत-सहस्रं च चतुरस्रं च सम्मितम् ॥१,७.५८॥
अमूल्य-रत्न-निर्माणं चतुः-शाला-शतैर् युतम्।
अतीव रम्यं पुरतो पुर-द्वारं ददर्श सः ॥१,७.५९॥
पुरतो रत्न-भित्तौ च कृत्रिमं च सुशोभितम्।
पुण्यं वृन्दावनं रम्यं तन्-मध्ये रास-मण्डलम् ॥१,७.६०॥
सर्वत्र राधा-कृष्णं च प्रत्येकं रति-मन्दिरे।
रम्यं कुञ्ज-कुटीराणां सहस्रं सुमनोहरम् ॥१,७.६१॥
सुगन्धि पुष्प-शय्यानां सहस्रं चन्दनोक्षितम्।
द्वार-पालं च तत्रैव मणि-भद्रं भयंकरम् ॥१,७.६२॥
त्रि-शूल-पट्टिश-धरं व्याघ्र-चर्माम्बरं परम्।
तं संभाष्य विलोक्यैवं द्वितीय-द्वारम् ईप्सितम् ॥१,७.६३॥
जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम्।
कदम्बानां समूहं च तन्-मूलं च मनोहरम् ॥१,७.६४॥
रत्न-भित्ति-समायुक्तं कालिन्दी-कूलम् उत्तमम्।
स्नातं गोपी-समूहं च नग्न-सर्वाङ्गम् अद्भुतम् ॥१,७.६५॥
कदम्बाग्रे च श्री-कृष्णं वस्त्र-पुञ्ज-करं परम्।
तत्रैव शूल-हस्तं च महा-कालं ददर्श च ॥१,७.६६॥
कृपालुं द्वार-पालं तं संभाष्य नारदो मुनिः।
प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम् ॥१,७.६७॥
ददर्श तत्र पुरतः कृत्रिमं वट-मूलकम्।
गोपानां च समूहं च पीतम्बर-धरं परम् ॥१,७.६८॥
बाल-क्रीडां च कुर्वन्तं तन्-मध्ये कृष्णम् उत्तमम्।
ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम् ॥१,७.६९॥
कुर्वन्तं च समाधानं मुनेः वाम-करेण च।
गृहीत्वा तद्-अनुज्ञां च चतुर्थं द्वारम् ईप्सितम् ॥१,७.७०॥
प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम्।
गोवर्धनं पर्वतं च तत्र कृष्ण-कर-स्थितम् ॥१,७.७१॥
गोकुलं गोकुल-स्थानां गोपीनां चैव रक्षणम्।
व्याकुलं गोकुलं भीतं शक्र-वृष्टि-भयेन च ॥१,७.७२॥
अभयं दत्तवन्तं च कृष्णं दक्ष-करेण च।
नन्दिनं द्वार-पालं च शूल-हस्तं च सस्मितम् ॥१,७.७३॥
विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअम् उत्तमम्।
नाना-कृतिम-चित्राढ्यं वीर-भद्रान्वितं परम् ॥१,७.७४॥
तत्रैव नीप-मूलं च यमुनाकुलम् एव च।
कालीय-दमनं तत्र कृतिमं च ददर्श ःअ ॥१,७.७५॥
तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-द्वाऋअं जगाम सः।
द्वारे नियुक्तं बालं च शूल-हस्तं चतुर्-भुजम् ॥१,७.७६॥
रत्न-सिंहासन-स्थं च सस्मितं स्व-गणाधिपम्।
ददर्श चित्रं तत्रैव मथुरा-गमनं हरेः ॥१,७.७७॥
गोपिकानां विलापं च यशोदा-नन्दयोस् तथा।
व्याकुलं गोकुलं चापि रथ-स्थं शरणं हरिम् ॥१,७.७८|॥
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम्।
तद् दृष्ट्वा सप्तम-द्वारं द्वार-पालं ददर्श सः ॥१,७.७९॥
चित्रं कौतुक-युक्तं च मथुरायाः प्रवेशनम्।
सबलं गोप-सहितं श्री-कृष्णं प्रकृतेः परम् ॥१,७.८०॥
मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः।
वीक्षन्तं सादरं सर्वैर् नगर-स्थैर् मनोहरम् ॥१,७.८१॥
धनुर् भङ्गं तथा शंभोः कंसादि-निधनादिकम्।
सभार्यं वसुदेवं च निगडान् मुक्तम् ईप्सितम् ॥१,७.८२॥
द्वारे नियुक्तं देवेशं गणेशं गण-संयुतम्।
ध्यान-स्थं च विभान्तं च शुद्ध-स्फटिक-मालया ॥१,७.८३॥
जपन्तं परमं शुद्धं ब्रह्म-ज्योतिः सनातनम्।
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् ॥१,७.८४॥
दृष्ट्वा तं च सुर-श्रेष्ठं मुनि-श्रेष्ठो ऽपि नारदः।
साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम्।
साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकंधरः ॥१,७.८५॥
अथ गणपति-स्तोत्रम्
भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर।
हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन ॥१,७.८६॥
मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत।
परमानन्द परम पार्वती-नन्दन स्वयम् ॥१,७.८७॥
सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते।
जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते॥ज्ञा. सा. सं_१,७.८८॥
यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः।
यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तं नमाम्य् अहम् ॥१,७.८९॥
परमाराधनेनैव कृष्णस्य परमात्मनः।
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥१,७.९०॥
तं नमामि सुर-श्रेष्ठं सर्व-श्रेष्ठं गरिष्ठकम्।
ज्ञानि-श्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् ॥१,७.९१॥
इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः।
नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरं मुदा ॥१,७.९२॥
इदं लम्बोदर-स्तोत्रं नारदेन कृतं पुरा।
पूजा-काले पठेन् नित्यं जयस् तस्य पदे पदे ॥१,७.९३॥
संकल्पितं पठेद् यो हि वर्षम् एकं सुसंयतः।
विशिष्ट-पुत्रं लभते परं कृष्ण-परायणम् ॥१,७.९४॥
यशस्विनं च विद्वांसं धनिनं चिर-जीविनम्।
विघ्न-नाशो भवेत् तस्य महैश्वर्यं यशो ऽमलम्।
इहैव च सुखं भक्त्यान्ते याति हरेः पदम् ॥१,७.९५॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे गणपति-स्तोत्रं नाम सप्तमो ऽध्यायः