०६

प्रथमैक-रात्रे षष्ठो ऽध्यायः

श्री-शुक उवाच सनत्-कुमारो वैकुण्ठं ब्रह्म-लोकं च ब्रह्मणि ?wहत्?| गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः ॥१,६.१॥

व्यासो उवाच मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे।
इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद ॥१,६.२॥
स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः।
ध्यायमानो हरि-पदं शिवं द्रष्टुं समुत्सुकः ॥१,६.३॥
प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा।
जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः ॥१,६.४॥
स्नात्वा च कृत-मालायां संपूज्य परमेश्वरम्।
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्ध-मादनम् ॥१,६.५॥
ददर्श ब्राह्मणं तत्र वट-मूले मनोहरे।
कटमस्तम् ध्यायमानं श्री-कृष्ण-चरणाम्बुजम् ॥१,६.६॥
दीर्गं नग्नं गौराङ्गं दीर्घ-लोमभिर् आवृतम्।
निमीलिताक्षं सानन्दं सानन्दाश्रु-समन्वितम् ॥१,६.७॥
पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते।
श्री-पाद-पद्मे शोभाढ्ये शश्वत्-संन्यस्त-मानसम् ॥१,६.८॥
बाह्य-ज्ञान-परित्यक्तं योग-ज्ञान-विशारदम्।
शिवस्य शिष्यं सद्-भक्तं योगीन्द्राणां गुरोर् गुरोः ॥१,६.९॥
हृत्-पद्मे पद्म-नाभं च परमात्मानम् ईश्वरम्।
प्रदीप-कलिकाकारं ब्रह्म-ज्योतिः-सनातनम् ॥१,६.१०॥
साक्षि-स्वरूपं परमं भगवन्तम् अधोक्षजम्।
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कित-विग्रहम् ॥१,६.११॥
सद्-भावोद्रिक्त-चित्तं च सद्-भावं पुरुषोत्तमे।
दृष्ट्वा महर्षि-प्रवरं देवर्षि-विस्मयम् ययौ ॥१,६.१२॥
इतस् ततश् च बभ्राम ददर्श स्वाश्रमं मुनेः।
अतीव सुरहः-स्थानं रम्यं रम्यं नवं नवम् ॥१,६.१३॥
सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम्।
श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम् ॥१,६.१४॥
गुञ्जदिन्दिन्द-वरैर् ?wहत्? मकरन्दोदरैस् तथा।
व्याकुलैः संकुलैः शश्वद्-राजितैश् च विराजितम् ॥१,६.१५॥
वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः।
करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा ॥१,६.१६॥
तिन्तिडीभिः कपित्थैश् च वट-शिंशपा-चन्दनैः।
मन्दारैः सिन्धु-वारैश् च ताडि-पत्रैः सुशोभनैः ॥१,६.१७॥
गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा।
तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि ॥१,६.१८॥
आम्रैर् आम्रातकैश् चैव जम्बीरैर् दाडिमैस् तथा।
श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः ॥१,६.१९॥
सुपक्व-फल-शोभाड्यैः सुस्निग्धैः सुमनोहरैः।
तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम् ॥१,६.२०॥
मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः।
माधवीनां लता-जालैश् चर्चितं चारु-चम्पकैः ॥१,६.२१॥
कदम्बानां कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः।
नागेश्वराणां वृन्दैश् च दीप्तं मन्दारकैर् वरैः ॥१,६.२२॥
हंस-कारण्ड-वकुलैः पुंस्-कोकिल-कुलैस् तथा।
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् ॥१,६.२३॥
शार्दूलैः शरभैः सिंहैर् गण्डकैर् महिषैः परम्।
मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम् ॥१,६.२४॥
महा-मुनि-प्रभावेन हिंसा-दोष-विवर्जितम्।
दस्यु-चौर-हिंस्र-जन्तु-भय-शोक-विवर्जितम् ॥१,६.२५॥
सुपुण्यदं तीर्थ-वरं भारते सुप्रशंसितम्।
सिद्ध-स्थलं सिद्धिदं तं मन्त्र-सिद्धि-करं परं ॥१,६.२६॥
दृष्ट्वाश्रमं मुनि-श्रेष्ठो जगाम मुनि-संसदि।
आसने च समासीनं ध्यान-हीनं ददर्श तम् ॥१,६.२७॥
समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम्।
दत्वामलं फलं मूलं संभाषां स चकार ह ॥१,६.२८॥
प्रश्नं चकार स मुनि-वीणा-पाणिं नारदम्।
सस्मितः सस्मितं शुद्धं शुद्ध-वंश-समुद्भवम् ॥१,६.२९॥
सद्-भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्म-तेजसा।
अतिथिं ब्राह्मण-वरं ब्रह्म-पुत्रं च पूजितं ॥१,६.३०॥

मुनिर् उवाच किं नाम भवतो विप्र क्व यासीति क्व चागतः।
क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥१,६.३१॥
मां वा ममाश्रमं वापि पूतं कर्तुम् इहागतः।
मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः ॥१,६.३२॥

अथ वैष्णव-दर्शन-फलम्

न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः।
ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च ॥१,६.३३॥
सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा।
स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा ॥१,६.३४॥
धन्यो ऽहं कृत-कृत्यो ऽहं सफलं मम जीवनम्।
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः ॥१,६.३५॥
पूजितो वैष्णवो येन विश्वं च तेन पूजितम्।
आश्रमं वस्तु-सहितं सर्वं तुभ्यं निवेदितम् ॥१,६.३६॥
फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम्।
सुवासितम् पिब स्वादु शीतलं निर्मलं जलम् ॥१,६.३७॥
दुग्धं च सुरभी-दत्तं रम्यं मधुरितं मधु।
परिपक्वं फल-रसं पिब स्वादु मुहुर् मुहुः ॥१,६.३८॥
सुख-बीज्ये सुतल्पे च शयनं कुरु सुन्दरे।
सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते ॥१,६.३९॥

अथातिथि-पूजन-फलम्

अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम्।
हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम् ॥१,६.४०॥
अधिष्ठातातिथिर् गेहे सन्ततं सर्व-देवताः।
तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च ॥१,६.४१॥
तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च।
अपूजितैर् अतिथिभिर् सार्धं सर्वे प्रयान्ति ते ॥१,६.४२॥

अथातिथि-विमुखे दोषाः अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते।
पितरस् तस्य देवाश् च पुण्यं धर्म-व्रताशनाः ॥१,६.४३॥
यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा।
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् ॥१,६.४४॥
स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः।
विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च ॥१,६.४५॥
सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा।
दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा ॥१,६.४६॥
सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः।
ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः ॥१,६.४७॥
वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः।
शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः ॥१,६.४८॥
श्री-कृष्ण-विमुखैर् विप्रैर् हिंस्रैर् नर-विघातिभिः।
गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः ॥१,६.४९॥
विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च।
अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः ॥१,६.५०॥
पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः।
ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः ॥१,६.५१॥
तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः।

इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम्।
मिष्टं च भोजयाम् आस शाययाम् आस भक्तितः ॥१,६.५२॥

श्री-नारद उवाच नारदो ऽहं मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः।
तपः-स्थलाद् आगतो ऽहं यामि कैलासम् ईप्सितम् ॥१,६.५३॥
आत्मानं पावनं कर्तुं त्वां च द्रष्टुम् इहागतः।
पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात् ॥१,६.५४॥
को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः।
किं ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुह् ॥१,६.५५॥

मुनिर् उवाच जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम्।
यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः ॥१,६.५६॥
पुत्रे यशसि तोये च कवित्वेन च विद्यया।
प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् ॥१,६.५७॥
विधाता जगतां ब्रह्मा ब्रह्मैकतान-मानसः।
तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान् ॥१,६.५८॥
लोमशो ऽ हं महा-भाग जगत्-पावन-पावन।
नग्नोऽल्पायुर् विवेकी च वाससा किं प्रयोजनम् ॥१,६.५९॥
वृक्ष-मूले निवासे मे छत्रेण किं गृहेण च।
रौद्र-वृष्टि-वारणार्थं सांप्रतं कट-मस्तकः ॥१,६.६०॥
जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यं कृत्रिमं द्विज।
ब्रह्मादि-तृण-पर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥१,६.६१॥
किं कलत्रेण पुत्रेण धनेन संपदा श्रिया।
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥१,६.६२॥
इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम।
मनोश् च पतनं तत्र मायया किं प्रयोजनम् ॥१,६.६३॥
सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च।
अल्पायुषो मम मुने मरणं निश्चितं भवेत् ॥१,६.६४॥
ध्याये श्री-पाद-पद्मं तत्-पाद्म-पद्मेश-वन्दितम्।
परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः ॥१,६.६५॥
तस्य मे ऽभीष्ट-देवस्य सर्वेषां कारणस्य च।
गुरुर् मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥१,६.६६॥
मत्-कण्ठे कवचं यस्य मद्-गुरुः कथयिष्यति।
गुरोर् निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि ॥१,६.६७॥
गुरोश् च वचनं यो हि पालनं न करोति च।
गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्यां लभेद् ध्रुवम् ॥१,६.६८॥
स्व-गुरुं शिव-रूपं च तद्-भिन्नं मन्यते हि यः।
ब्रह्म-हत्यां लभेत् सो ऽपि विघ्नस् तस्य पदे पदे ॥१,६.६९॥
अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर् वचः।
अपालने सर्व-विघ्नं लभते नात्र संशयः ॥१,६.७०॥
आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च।
मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः ॥१,६.७१॥
स्व-गुरुं शङ्करं पश्य गच्छ कैलासम् ईप्सितम्।
मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात् ॥१,६.७२॥

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे लोमश-नारद-संवादे षष्ठो ऽध्यायः