०५

प्रथमैक-रात्रे पञ्चमो ऽध्यायः

श्री-सनत्-कुमार उवाच तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम्।
यच् छृणोमि शुभं तच् च केन श्रेयसि तृप्यते ॥१,५.१॥

ब्रमोवाच ध्यानं साम-वेदोक्तं दत्तम् नारायणेन वै।
कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥१,५.२॥
नवीन-जलद-श्यामं पीत-कौशेय-वाससम्।
चन्दनोक्षित-सर्वाङ्गं सस्मितं श्यामसुन्दरम् ॥१,५.३॥
मालती-माल्य-भूषाढ्यं रत्न-भूषण-भूषितम्।
मुनीन्द्रेश-सुसिद्धेश-ब्रह्मेश-शेष-वन्दितम् ॥१,५.४॥
सर्व-स्वरूपं सर्वेशं सर्व-बीजं सनातनम्।
सर्वाद्यं सर्व-ज्ञं पुरुषं प्रकृतेः परम् ॥१,५.५॥
निर्गुणं च निरीहं च निर्लिप्तम् ईस्वरं भजे।
ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा ॥१,५.६॥
ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः।
जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि।
इति ते कथितं वत्स किं भूयः श्रोतुम् इच्छसि ॥१,५.७॥

श्री-सनत्कुमार उवाच ब्रूहि मे कवचं ब्रह्मन् जगन्-मङ्गल-मङ्गलम्।
पूज्यं पुण्य-स्वरूपं च कृष्णस्य परमात्मनः ॥१,५.८॥

अथ जगन्-मङ्गल-मङ्गल-कवचम्

ब्रह्मोवाच शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं।
श्री-कृष्णेनैव कथितं मह्यं च कृपया परा ॥१,५.९॥
मया दत्तं च धर्माय तेन नारायणर्षये।
ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने ॥१,५.१०॥
अति-गुह्यतमं शुद्धं परं स्नेहाद् वदाम्य् अहम्।
यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥१,५.११॥
एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् आप्नुयुः।
ऋषिश् छन्दश् च सावित्री देवो नारायणः स्वयम् ॥१,५.१२॥
धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः।
राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥१,५.१३॥
गोपीशश् चक्षुषी पातु तालु च भगवान् स्वयम्।
गण्ड-युग्मं च गोविन्दः कर्ण-युग्मं च केशवः ॥१,५.१४॥
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः।
वक्ष-स्थलं वासुदेवश् चोदरं चापि सो ऽच्युतः ॥१,५.१५॥
नभिं पातु पद्म-नाभः कङ्कालं कंस-सूदनः।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥१,५.१६॥
पुण्डरीकः पाद-युग्मं हस्त-युग्मं हरिः स्वयम्।
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥१,५.१७॥
सर्वेश्वरश् च सर्वाङ्गं सन्ततं मधु-सूदनः।
प्राच्यां पातु च रामश् च वह्नौ च वंशी-धरः स्वयम् ॥१,५.१८॥
पातु दामोदरो दक्षे नैरृते च नरोत्त्मः।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥१,५.१९॥
अनन्तश् चोत्तरे पातु ऐशान्याम् ईश्वरः स्वयम्।
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥१,५.२०॥
पातु वृन्दावनेशश् च मां भक्तं शरणागतम्।
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥१,५.२१॥
सुखदं मोक्षदं सारं सर्व-सिद्धि-प्रदं सताम्।
इदं कवचम् इष्टं च पूजा-काले च यः पठेत् ॥१,५.२२॥
हरि-दास्यम् अवाप्नोति गोलोके वासम् उत्तमम्।
इहैव हरि-भक्तिं च जीवन्-मुक्तो भवेन् नरः ॥१,५.२३॥

नारद उवाच नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम्।
सुभद्राय ब्राह्मणाय तन् मे वक्तुम् इहार्हसि ॥१,५.२४॥

ब्रह्मोवाच मद्-इष्ट-देव्याः कवचं कथं तत् कथयामि ते।
मत्-कण्ठे पश्य कवचं सद्-रत्न-गुटिकान्वितम् ॥१,५.२५॥
नारायणर्षिणा दत्तं कवचं गुटिकान्वितम्।
तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् ॥१,५.२६॥
तस्यर्षेश् चेष्ट-देव्याश् च नोक्तं तेनेदम् ईप्सितम्।
मह्यं न दत्ता गुटिका बान्धवैर् भर्त्सितेन च ॥१,५.२७॥
आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति।
प्राणा नष्टाश् च दानेन चेति वेद-विदो विदुः ॥१,५.२८॥
शङ्करं गच्छ भगवन् जन्मान्तर-गुरुं तव।
स एव तुभ्यं कवचं दास्यस्य् एव न संशयः ॥१,५.२९॥
त्वत्-प्राक्तनेन विप्रेन्द्र सत्-वरेण शुभेन च।
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम् ॥१,५.३०॥
कुमार गच्छ वैकुण्ठं स्व-गुरुं पश्य सत्-वरम्।
नारायणश् च कवचं तुभ्यं दास्यसि निश्चितम् ॥१,५.३१॥
सनत्-कुमारो भगवान् गत्वा वैकुण्ठम् ईप्सितम्।
संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम् ॥१,५.३२॥

आज्ञया ब्रह्मणश् चापि नारदो गन्तुम् उद्यतः।
ब्रह्मा ययौ ब्रह्म-लोकं जन्म-मृत्यु-जरापहम् ॥१,५.३३॥

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चमो ऽध्यायः