प्रथमैक-रात्रे चतुर्थो ऽध्यायः
ब्रह्मोवाच
ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः।
कृपां चकार भगवान् भक्तेशो भक्त-वत्सलः ॥१,४.१॥
एतस्मिन्न् अन्तरे तत्र भगवान् नन्द-नन्दनः।
नारायणर्षिः कृपया चाजगाम सरोवरम् ॥१,४.२॥
ददर्श ब्राह्मण-वटुं तम् एव मुनि-पुङ्गवम्।
तेजसा सुख-दृश्येन सुन्दरं सुमनोहरम् ॥१,४.३॥
पीत-वस्त्र-परीधानं नवीन-जलद-प्रभम्।
चन्दनोक्षित-सर्वाङ्गं वन-माला-विभूषितम् ॥१,४.४॥
प्रसन्न-वदनं शुद्धं सस्मितं सर्व-पूजितम्।
विभान्तं च जपन्तं शुद्ध-स्फटिक-मालया ॥१,४.५॥
दृष्ट्वा ननाम सहसा शिरसा विप्र-पुङ्गवः।
शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् ॥१,४.६॥
तम् उवाच मुनि-श्रेष्ठः कृपया दीन-वत्सलः।
हितं तथ्यं नीति-सारं परिणाम-सुखावहम् ॥१,४.७॥
श्री-नारायणर्षिर् उवाच
अये विप्र महा-भाग सफलं जीवनं तव।
यस्मिन् कुले च जातो ऽसि तद्-धन्यं सुप्रशंसितम् ॥१,४.८॥
भज त्वं परमानन्दं सानन्दं नन्द-नन्दनम्।
ध्रुवं यास्यसि गोलोकं परमानन्दम् ईप्सितम् ॥१,४.९॥
तत् कुलं पावनं धन्यं यशस्यं च निरापदम्।
यस्मिन् स्वयं भवान् जातः पुण्यः कृष्ण-परायणः ॥१,४.१०॥
नैवेद्यं पतितं मार्गे जीर्नं श्वापद-भक्षितम्।
भुक्त्वा तवैषा बुद्धिश् च कृष्ण-भक्तिर् बभूव च ॥१,४.११॥
कृष्ण-नैवेद्य-माहात्म्यं को वत्स कथितुं क्षमः।
यद् वक्तुं न हि शक्ताश् च वेदाश् चत्वार एव च ॥१,४.१२॥
वरं वृणुष्व भद्रं ते सुभद्र द्विज-पुङ्गव।
सर्वं दातुम् अहं शक्तो यत् ते मनसि वाञ्च्छितम् ॥१,४.१३॥
नारायण-वचः श्रुत्वा तम् उवाच शिषुः स्वयम्।
पुनः कम्पित-सर्वाङ्गः साश्रु-नेत्रः पुटाञ्जलिः ॥१,४.१४॥
सुभद्र उवाच
देहि मे कृष्ण-पादाब्जे दृढं भक्तिं सुदुर्लभम्।
तद्-दास्यं तत्-पदे वासं जरा-मृत्यु-हरं परम् ॥१,४.१५॥
अन्यं वरं न गृह्णामि न मे किंचित् प्रयोजनम्।
नाहं वरार्थी कामी च रागी वेतन-भुग् यथा ॥१,४.१६॥
नारायणर्षिर् उवाच
श्री-कृष्णो यस्य भक्तिश् च तस्यात्र किं सुदुर्लभम्।
अणिमादिक-द्व-त्रिंशत्-सिद्धिः कर-तले परा ॥१,४.१७॥
निर्विकल्पो ददात्य् अस्य नैव गृह्णाति वैष्णवः।
अनिमित्तां हरेर् भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् ॥१,४.१८॥
गृहाण मन्त्रं कृष्णस्य परं कल्प-तरुं वरम्।
भक्तिदं दास्यदं शुद्धं कर्म-मूल-निकृन्तनम् ॥१,४.१९॥
लक्ष्मीर् माया-काम-बीजं ङे ऽन्तं कृष्ण-पदं तथा।
वह्नि-जायान्त-मन्त्रं च मन्त्र-राजं मनोहरम् ॥१,४.२०॥
इत्य् एवम् उक्त्वा तत्-कर्णे कथयाम् आस दक्षिणे।
वार-त्रयं मुनि-श्रेष्ठः शुद्ध-भावेन पुत्रक ॥१,४.२१॥
येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम्।
आज्ञां चकार स ऋषिस् तद् एव पठितुं मुदा ॥१,४.२२॥
कवचं च ददौ तस्मै जगन्-मङ्गल-मङ्गलम्।
ध्यानं च साम-वेदोक्तं सर्व-पूजा-विधि-क्रमम् ॥१,४.२३॥
हरेर् दास्यं च तद्-भक्तिर् गोलोक-वासम् ईप्सितम्।
जन्म-द्वयान्तरे चैव कर्म-भोग-क्षये सति ॥१,४.२४॥
सुभद्र उवाच
सत्यं कुरु महा-भाग वरं मे यदि दास्यसि।
वरं वृणोमि तत् पश्चात् यन् मे मनसि वाञ्च्छितम् ॥१,४.२५॥
नारायणर्षिर् उवाच
ॐ सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम्।
ममाशक्यं नास्ति किंचित् दाताहं सर्व-सम्पदाम् ॥१,४.२६॥
सुभद्र उवाच
कण्ठे ते किं च कवचं कस्य वा सर्व-पूजितम्।
अमूल्य-रत्न-गुटिका-युक्तं च सुमनोहरम् ॥१,४.२७॥
कवचं देहि मे देव स्व-सत्य-रक्षणं कुरु।
विप्रस्य वचनं श्रुत्वा शुष्क-कण्ठौष्ठातालुकः ॥१,४.२८॥
वक्तुं न शक्तस् तद् वाक्यं दध्यौ कृष्ण-पदाम्बुजम्।
प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥१,४.२९॥
तम् उवाच महर्षिश् च वितुष्टश् चोन्मनाः सुत।
वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् ॥१,४.३०॥
नारायणर्षिर् उवाच
त्रिंषत्-सहस्र-वर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम्।
लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥१,४.३१॥
मद्-इष्ट-देव-कवचं गृहीतं येन हेतुना।
सप्त-कल्पान्त-जीवस्य परत्र च भविष्यति ॥१,४.३२॥
सुचिरेणैव कालेन गोलोकं च प्रायस्यसि।
परे मृकण्डु-पुत्रस् त्वं मार्कण्डेयो भविष्यसि ॥१,४.३३॥
मया दत्तं च कवचं त्वां च रक्षति पुत्रक।
तव कण्ठे स्थितिश् चाश्य प्रति जन्मनि जन्मनि ॥१,४.३४॥
पुनश् च गुटिका-युक्तं कृत्वा च कवचं मुनिः।
गले दधार भक्त्या च तद्-भक्तो धर्म-नन्दनः ॥१,४.३५॥
वरं दत्वा च स मुनिर् ययौ गेहं स उन्मनाः।
विप्राय कवचं दत्वा नष्ट-वत्सा गौर् यथा ॥१,४.३६॥
भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना।
मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥१,४.३७॥
विप्रः सम्प्राप्य कवचं मन्त्रं कल्प-तरुं परम्।
सरोवरात् समुत्थाय प्रज्वलन् ब्रह्म-तेजसा ॥१,४.३८॥
क्षणं तस्थौ सरस्-तीरे वट-मूले मनोहरे।
जजाप परमं मन्त्रं सम्पूज्य जगद्-ईश्वरम् ॥१,४.३९॥
अथ तत्-तात-विप्रो हि समन्विष्य सुतं चिरम्।
गत्वा च स्व-गृहं दुःखी शोकार्तः स रुरोद च ॥१,४.४०॥
समुद्यता तनुं त्यक्तुं तन्-माता पुत्र-वार्तया।
न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नम् उत्तमम् ॥१,४.४१॥
विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषण-पूर्वकम्।
प्रययौ काननं घोरं सर्वैश् च बान्धवैः सहः ॥१,४.४२॥
सर्वं वनं समन्विष्य प्रययुस् ते सरोवरम्।
ददृशुस् ते शिशुं गृह्यं सूर्याभं वट-मूलके ॥१,४.४३॥
चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम्।
आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥१,४.४४॥
पुत्रश् च सर्व-वृत्तान्तं कथयाम् आस सादरम्।
श्रुत्वा पुत्रस्य विप्रश् च विप्रा बान्धवस् तथा ॥१,४. ४५॥
ययुः सर्वे स्व-देशं च परमाह्लाद-मानसाः।
चन्द्र-भागां समुत्तीर्य विवेश नगरं परम् ॥१,४.४६॥
नगर-स्थो नृपेन्द्रश् च दृष्ट्वा तेजस्विनं शिशुम्।
ददौ तस्मै स्व-कन्यां च रत्नालङ्कार-भूषितम् ॥१,४.४७॥
युवतीं सुन्दरीं श्यामां तप्त-कञ्चन-संनिभाम्।
पति-व्रतां महा-भागां सुन्दरीं कमलाकलां ॥१,४.४८॥
गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा।
अश्वानां दश-लक्षं च रत्नानां च सहस्रकम् ॥१,४.४९॥
दासीनां निष्क-कण्ठीनां सौन्दरीणां सहस्रकम्।
वस्त्र-रत्न-सहस्रं च बहु-मूल्यं सुदुर्लभम् ॥१,४.५०॥
दासानां च सहस्रं च पदातीनां त्रि-लक्षकम्।
दश-लक्षं सुवर्णं च रत्न-मालां सुदुर्लभाम् ॥१,४.५१॥
दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः।
राजा च कन्यया सार्धं प्रययौ विप्र-मन्दिरम् ॥१,४.५२॥
गत्वा चापि कियद् दूरं ददर्श नगरं नृपः।
अतीव सुन्दरं रम्यं विजित्य चामरावतीम् ॥१,४.५३॥
शुद्ध-स्फटिक-संकाशं रत्न-सार-विनिर्मितम्।
त्रि-कोटि-चट्टालिका-गेहं नव-कोटि-सुमन्दिरम् ॥१,४.५४॥
सप्त-प्राकार-युक्तं च परिखा-त्रय-सम्युक्तम्।
दुर्लङ्घ्यम् अति-दुर्गम्यं रिपूणाम् अपि पुत्रक ॥१,४.५५॥
शिशोश् च स्वाश्रमं रम्यं सद्-रत्न-सार-निर्मितम्।
स्फुरत् वज्र-कपाटं च रत्नेन्द्र-कलशान्वितम् ॥१,४.५६॥
सद्-रत्न-दर्पणाइर् दीपं रत्न-कुम्भैर् विराजितम्।
प्राङ्गणं रत्न-साराढ्यं रत्न-सोपान-शोभितम् ॥१,४.५७॥
मनोहरं राज-मार्गं सिन्दूरादि-परिष्कृतम्।
प्राकारं मणि-भूषाढ्यम् उच्चैर् आकाश-स्पर्शि च ॥१,४.५८॥
जगाम विस्मयं राजा दृष्ट्वा नगरम् उत्तमम्।
पित्रा मात्रा सह शिशुर् विस्मयं च ययौ मुदा ॥१,४.५९॥
गजेन्द्राणां त्रि-लक्षं च श्वानां शत-लक्षकम्।
चतुर्-गुणं पदातीनाम् आययुस् ते ऽप्य् अनुव्रजम् ॥१,४.६०॥
वारणेन्द्रं पुरस् कृत्य वेश्यां च नर्तकं तथा।
द्विजांश् च पूर्ण-कुम्भांश् च पति-पुत्रवतीं सतीं ॥१,४.६१॥
महा-पात्रः शिशुं दृष्ट्वा गजेन्द्रोपरि-संस्थितम्।
मूर्ध्ना ननाम वेगेनाप्य् अवरुह्य गजाद् अपि ॥१,४.६२॥
शिशुं प्रवेशयां आस रत्न-निर्माण-मन्दिरम्।
रत्न-सिंहासनं तस्मै प्रददौ सादरं मुदा ॥१,४.६३॥
कन्या-दात्रे च पित्रे च मात्रे च सादरं मुदा।
रत्न-सिंःआसनं रम्यं प्रददौ पात्र एव च ॥१,४.६४॥
शिशुम् सिषेव पात्रश् च स्वयं च श्वेत-चामरैः।
दधार रत्न-छत्रं च हीराहार-परिष्कृतम् ॥१,४.६५॥
उवास स स-भार्यां च सुधर्म्यां महेन्द्रवत्।
श्वसुरश् च ययौ गेहं शिशुना च पुरस्कृतः ॥१,४.६६॥
त्रिंशत्-सहस्र-वर्षं च राजा राज्यं चकार सः।
कालान्तरे तत्-पिता च वने व्याघ्रेण भक्षितः ॥१,४.६७॥
पति-व्रता महा-भागा माता सह-मृता सुत।
रत्न-यानेन रम्येण स-स्त्रीकः कृष्ण-मन्दिरम् ॥१,४.६८॥
प्रययौ सादरं विप्रः कृष्ण-नैवेद्य-भक्षणात्।
तद्-अस्थि भुक्त्वा व्याघ्रश् च पूतः सद्यश् च सांप्रतम् ॥१,४.६९॥
ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम्।
शिशुर् देहं परित्यज्य हिमाद्रौ स्वर्-णदी-तटे ॥१,४.७०॥
दत्वा पुत्राय राज्यं च स्वर्गाद् अपि सुदुर्लभम्।
मृकण्डु-पत्नी-गर्भे च लेभे जन्म स्व-कर्मणा ॥१,४.७१॥
मार्कण्डेयो मुनि-श्रेष्ठो बभूव पर-जन्मनि।
सप्त-कल्पान्त-जीवी च नारायण-वरेण सः ॥१,४.७२॥
बभूव सांप्रतं विप्रः कृष्ण-नैवेद्य-भक्षणात्।
श्व-भक्षितं च नैवेद्यं भुक्त्वा चेद् ईदृशी गतिः।
अकामतश् चाप्य् अज्ञातो जीर्ण-मार्ग-स्थितं सुत ॥१,४.७३॥
यो भक्षेत् कामतो ज्ञातो नित्यं नैवेद्यम् ईप्सितम्।
न जानन्ति गतिस् तस्य वेदाश् चत्वार एव च ॥१,४.७४॥
इति ते कथितं ब्रह्मन्न् इतिहासं पुरातनम्।
आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुम् इच्छसि ॥१,४.७५॥
श्री-नारद उवाच
श्रुतं नैवेद्य-माहात्म्यम् अतीव सुमनोहरम्।
ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥१,४.७६॥
अधुना श्रोतुम् इच्छामि स्वात्म-सन्देह-भञ्जनम्।
नारायणर्षेर् कण्ठे च कवचं तस्य तद् वद ॥१,४.७७॥
अथ कवच-प्रश्नः
सनत्-कुमार उवाच
ममाप्य् अस्तीति सन्देहो वचने प्रपितामह।
कस्य तत् कवचं ब्रह्मन्न् इदं वक्तुं त्वम् अर्हसि ॥१,४.७८॥
स पिता स गुरुः स्वच्छः करोति भ्रम-भञ्जनम्।
शीघ्रं ब्रूहि महा-भाग नारदं मां सुत-प्रिय ॥१,४.७९॥
पुत्रयोश् च वचः श्रुत्वा शुष्क-कण्ठौष्ठतालुकः।
उवाच वचनं ब्रह्मा स्मरन् कृष्ण-पदाम्बुजम् ॥१,४.८०॥
ब्रह्मोवाच
नारायणेन मुनिना जगन्-मङ्गल-मङ्गलम्।
विप्राय कवचं दत्तम् ध्यानं च पर्मात्मनः ॥१,४.८१॥
तद् ब्रवीमि महा-भाग त्वाम् एव नारदं प्रति।
कण्ठ-स्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् ॥१,४.८२॥
मत्-कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम्।
नारायणर्षि-कण्ठे च तद् एव परमाद्भुतम् ॥१,४.८३॥
तद् एव धर्म-कण्ठे च नरस्य च महात्मनः।
अगस्त्यस्य च कण्ठे च लोमशस्य महा-मुनेः ॥१,४.८४॥
तुलस्याश् चापि संज्ञायाः सावित्र्याश् चापि पुत्रक।
अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥१,४.८५॥
नारद उवाच
पश्चात् श्रोष्यामि कवचं जगन्-मङ्गल-मङ्गलम्।
ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥१,४.८६॥
आदौ कथय भद्रं ते परं परम-भद्रकम्।
सुभद्र-प्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् ॥१,४.८७॥
ब्रह्मोवाच
सुभद्र-प्राप्तं कवचं पश्चात् श्रोष्यसि पुत्रक।
शङ्करस्य मुखाद् विप्र स्व-गुरोर् ज्ञानिनस् तथा ॥१,४.८८॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-संवादे प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थो ऽध्यायः