प्रथमैक-रात्रे तृतीयो ऽध्यायः
सनत्-कुमार उवाच
अहो तात किम् आश्चर्यं कृष्णस्य परमात्मनः।
परं नैवेद्य-माहात्म्यं विस्तराद् वद साम्प्रतम् ॥१,३.१॥
अथ श्री-कृष्ण-महिम-वर्णनम्
ब्रह्मोवाच
एकदा ब्राह्मणो हृष्टः प्रफुल्ल-वदनेक्षणः।
पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥१,३.२॥
निमन्त्रितो विवाहेन महा-संभार-संभृतः।
भुक्त्वा पीत्वा च तद्-गृहे स्व-गृहं प्रययौ मुदा ॥१,३.३॥
सपुत्रो ब्राह्मणो मार्गे क्षुत्-पिपासार्दितः सुतः।
ददर्श चन्द्र-भागां तां नदीम् अति-मनोहराम् ॥१,३.४॥
उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः।
क्षुत्-पिपासा बलवती वर्धते तात वर्त्मनि ॥१,३.५॥
पुत्रस्य वचनं श्रुत्वा तम् उवाच द्विजः स्वयम्।
भयंकरं वनम् इदं समीपे सरितः सुतः ॥१,३.६॥
सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्य-सरोवरम्।
तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥१,३.७॥
तातस्य वचनं श्रुत्वा जहास च चुकोप ह।
पितरं वक्तुम् आरेभे रक्त-पण्ग्कज-लोचनः ॥१,३.८॥
शिशुर् उवाच
बालो ऽहं दश-वर्षीयस् त्वं च वृद्धश् च ज्ञानदः।
पिता ददाति पुत्राय ज्ञानं सर्वत्र भू-तले ॥१,३.९॥
अहो दुरत्ययः कालो वृध्हो वदति बालवत्।
कथं प्राक्तनम् उल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥१,३.१०॥
प्राक्तनात् सुख-दुःखं च रोगं शोकं भयं पितः।
सुमृत्युर् अपमृत्युर् वा चिरायुर् अल्प-जीवनः ॥१,३.११॥
यत्र काले च यन्-मृत्युर् भवनं शुभ-कर्म च।
न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥१,३.१२॥
यस्य हस्ते च यन्-मृत्युर् विधात्रा लिखितः पुरा।
न च तं खण्डितुं शक्तः स्वयं विष्णुश् च शङ्करः ॥१,३.१३॥
तात व्यर्थम् अधीतं ते दुर्बुद्धेर् जन्म निष्फलम्।
सुबुद्धेः सफलं जन्म तत्-क्षणम् जीवनं सुखम् ॥१,३.१४॥
येन शुक्ली-कृता हंसाः शुकाश् च हरिती-कृताः।
मयूराश् चित्रिता येन स मे रक्षां करिष्यति ॥१,३.१५॥
येन कृष्णेन विश्वानि चासंख्यानि कृतानि च।
चराचरं च यो रक्षेत् स मे रक्षां करिष्यति ॥१,३.१६॥
घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः।
निर्बन्धो ऽपि यस्य मरणं तस्य मन्दिरे ॥१,३.१७॥
यः शेते नाग-शय्यासु प्राक्तनान् मङ्गलाहितः।
यो नाग-भक्षितो भोगात् स भृतो गरुडान्तिके ॥१,३.१८॥
न समुद्रे च म्रियते नाग्नि-राशौ विषानले।
न शस्त्रेण न चास्त्रेणायुर्-मर्माणि रक्षति ॥१,३.१९॥
नाप्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि।
तृणाग्रेणापि संस्पृष्टः प्राप्त-कालो न जीवति ॥१,३.२०॥
कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्ट-मात्रतः।
कश्चिद् यौवन-काले च कश्चिद् एव हि वार्द्धके ॥१,३.२१॥
कश्चिद् चिरायु रोगी चाप्य् अरोगी चापि कश्चन।
कश्चिद् धनी दरिद्रश् च कश्चिद् एव हि कर्मणा ॥१,३.२२॥
कश्चित् कल्पान्त-जीवी च चिर-जीवी च कश्चन।
प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः ॥१,३.२३॥
कश्चिद् याति च राजेन्द्रो दिव्य-यानेन कर्मणा।
कश्चित् कीट-पतङ्गेषु कश्चित् पश्वादि-योनिषु ॥१,३.२४॥
कश्चिद् एव हि सन्न्यासी कश्चिच् च नर-घातकः।
कश्चिद् गजेन्द्र-गामी च पशु-यायी च कश्चन ॥१,३.२५॥
कश्चिद् सूक्ष्मांशुका-धारी कश्चिज् जीर्ण-पटी जनः ॥१,३.२६॥
कश्चिन् नग्नो ऽअप्य् अनाहारी सुधा-भोजी च च कश्चन।
कश्चिच् च सुन्दरः श्रीमान् गलत्-कुष्टी च कश्चन ॥१,३.२७॥
कश्चित् कुब्जश् चाङ्ग-हीनो बधिरः काण एव च।
कश्चिद् दीर्घो मध्यमश् च कश्चित् खञ्जश् च वामनः ॥१,३.२८॥
कश्चित् कृष्णश् च गौरश् च श्यामलश् च स्व-कर्मणा।
कश्चिद् भक्त्या च प्राप्नोति कृष्ण-दास्यं सुदुर्लभम् ॥१,३.२९॥
ब्रह्मणः परमं स्थानं जन्म-मृत्यु-जरा-हरम्।
कश्चित् प्राप्नोति परमं ब्रह्म-लोकं निरामयम् ॥१,३.३०॥
कश्चित् स्वर्गम् इन्द्र-पदं शिव-लोकं स्वकर्मणा।
कश्चित् वर्गम् इन्द्र-लोकं यम-लोकं च कश्चन ॥१,३.३१॥
कश्चिच् च नरके घोरे प्राप्नोति क्लेशम् उल्वणम्।
तादितो यम-दूतेन क्षुधितस् तृषितः सदा ॥१,३.३२॥
भुङ्क्ते विण्-मूत्र-कीटं तन्-मलं श्लेष्मं गरं वसाम्।
क्षुर-धारे तप्त-तैले वह्नौ शिते जले स्थले ॥१,३.३३॥
प्राप्नोति दारुणं दुःखम् आकल्पं पातकी पितः।
तथा भोगावशेषे च लब्धा जन्म स्व-कर्मणा ॥१,३.३४॥
व्याधि-युक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया।
यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् ॥१,३.३५॥
वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति जन्तुषु।
यस्याज्ञया सृष्टि-विधौ मूर्मो ऽनन्तं दधाति च ॥१,३.३६॥
स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया।
यस्याज्ञया महा-भीता सर्वाधारा वसुन्धरा ॥१,३.३७॥
धरा सा सर्वस्याद्या रत्नवांश् च हिमालयः।
स्वयं विधाता भगवान् ध्यायते यम् अहर्-निशम् ॥१,३.३८॥
यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः।
सहस्र-वक्त्रो ऽयं स्तौति ध्यायते भजते सदा ॥१,३.३९॥
स्वय्ं सरस्वती स्तौति यम् ईश्वरम् अभीप्सितम्।
सेवते पाद-पद्मं च स्वयं पद्मालया पितः ॥१,३.४०॥
माया भीता च यं स्तौति दुर्गा दुर्गति-नाशिनी।
स्तुवन्ति वेदाः सततं सावित्री वेद-मातृका ॥१,३.४१॥
सिद्धेन्द्राश् च मुनीन्द्राश् च योगीन्द्राः सनकादयः।
राजेन्द्राश् चासुरेन्द्राश् च सुरेन्द्रा मनवस् तथा ॥१,३.४२॥
ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम्।
केचिद् विदन्ति यं ब्रह्मां भगवन्तं सनातनम् ॥१,३.४३॥
केचित् प्रधानं सर्वाद्यं केचिच् च ज्योतिर् ईश्वरम्।
केचिच् च सर्व-रूपं च सर्व-कारण-कारणम् ॥१,३.४४॥
केचित् स्वेच्छाभयं रूपं भक्तानुग्रह-विग्रहम्।
केचित् सुरुचिरं श्याम-सुन्दरं मनोहरम् ॥१,३.४५॥
सानन्दं परमानन्दं गोविन्दं नन्द-नन्दनम्।
भज तात परं ब्रह्म स्मर शश्वत् सुरेश्वरम् ॥१,३.४६॥
इत्य् एवम् उक्त्वा पितरं चन्द्र-भागा-नदी-जले।
स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्ट-मोदकम् ॥१,३.४७॥
पिता तद्-वचनं श्रुत्वा सानन्दाश्रु मुमोच सः।
चुचुम्ब गण्डं पुत्रस्य समाश्लेषण-पूर्वकम् ॥१,३.४८॥
पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम्।
सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् ॥१,३.४९॥
पत्रं भोजन-पात्रार्थम् अर्हतुं चञ्चलः शिशुः।
चकार चयनं तूर्णं प्रशस्तं पत्र-पञ्चकम् ॥१,३.५०॥
सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस् तथा।
ददर्श पुरतो बालः सुपक्वं वदरी-फलम् ॥१,३.५१॥
चकार चयनं तानि फलानि शोभनानि च।
धात्री-फलं सुपक्वं च पक्वम् आम्रातकं तथा ॥१,३.५२॥
सुपक्वं च कदम्बं च चकार चयनं पुनः।
सुपक्वं सुन्दरं रम्यं दाडिमं श्री-फलं तथा ॥१,३.५३॥
रम्यं जम्बु-फलं चैव खर्जूरं सुमनोहरम्।
करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥१,३.५४॥
तत् सर्वं चयनं कृत्वा ददर्श पुरतः सरः।
सुनिर्मलं जलं स्वच्छं श्वेत-पद्मं मनोहरम् ॥१,३.५५॥
रुचिरं रक्त-कह्लारं प्रस्फुटं च जलान्तिके।
विहाय तानि सर्वाणि सरः-शिरसि सुस्थले ॥१,३.५६॥
पपौ सरः-स्वच्छ-तोयं जहार पद्मम् उल्वणम्।
किंचित् सुरक्त-कह्लारं पक्वं पद्म-फलं तथा ॥१,३.५७॥
सर्वम् आहरणं कृत्वा पितरं गन्तुम् उद्यतः।
प्रफुल्ल-वदनः श्रीमान् सस्मितो द्विज-बालकः ॥१,३.५८॥
प्रफुल्ल-चम्पक-तरुं ददर्श पुरतः शिशुः।
मल्लिका-मालती-कुन्दयूथिका-माधवी-लताः ॥१,३.५९॥
चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च।
पुष्पेण फल-पत्रेण तस्य भारो बभूव ह ॥१,३.६०॥
बालो वोढुम् अशक्यन्तश् च ययौ गमन-मन्थरः।
न फलं बुभुजे सो ऽपि धर्माधर्म-भयेन च ॥१,३.६१॥
पुरो ददर्श स शिशुर् घोरं व्याघ्रालयं भिया।
तात तातेति शब्दं च चकार ह पुनः पुनः ॥१,३.६२॥
न ददर्श च तातं च शार्दुलं च ददर्श सः।
भिया सस्मार गोविन्द-पादारवैन्दम् ईप्सितम् ॥१,३.६३॥
हरिं नर-हरिं रामं कृष्णं विष्णुं च माध्वम्।
दामोदरं हृषीकेशं मुकुन्दं मधु-सूदनम् ॥१,३.६४॥
एतानि दश नामानि जपन् विप्र-शिशुर् भिया।
प्रययौ पुरतः शीघ्रं पुनर् एव सरोवरम् ॥१,३.६५॥
सरसो निर्मले तीरे पुष्पाणि च फलानि च।
ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥१,३.६६॥
श्री-कृष्ण-पूजां कुर्वन्तं ध्यानमानां पदाम्बुजम्।
निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥१,३.६७॥
व्याघ्रं ददर्श बालश् च प्रकटास्यं भयानकम्।
विकृताकार-दशनं विकटाक्षं महोदरम् ॥१,३.६८॥
दृष्ट्वा च दुरतो व्याघ्रम् उवास सरसस् तटे।
दध्यौ कृष्ण-पदाम्भोजं जन्म-मृत्यु-जरा-हरम् ॥१,३.६९॥
मूलाधारं स्वाधिष्ठानं मणिपूरम् अनाहतम्।
विशुद्धं च तथाज्ञाख्यं षट्-चक्रं च विभाव्य च ॥१,३.७०॥
कुण्डलिन्या स्व-शक्त्या च सहितं परमेश्वरम्।
सहस्र-दल-पद्म-स्थं हृदये स्वात्मनः प्रभुम् ॥१,३.७१॥
ददर्श द्विभुजं कृष्णं पीत-कौशेय-वाससम्।
सस्मितं सुन्दरं शुद्धं नवीन-जलद-प्रभम् ॥१,३.७२॥
कोटि-कन्दर्प-सौन्दर्य-लीला-धाम-मनोहरम्।
कोटि-पार्वण-पूर्णेन्दु-प्रभा-जुष्टं च सुन्दरम् ॥१,३.७३॥
सुख-दृश्यं सुरूपं च भक्तानुग्रह-कारकम्।
चन्दनोक्षित-सर्वाङ्गं रत्न-भूषण-भूषितम् ॥१,३.७४॥
प्रफुल्ल-पद्म-नयनं राधा-वक्षः-स्थल-स्थितम्।
मालती-माल्य-सम्बद्ध-चूडा-चारु-सुशोभनम् ॥१,३.७५॥
धृत-रत्नं रत्न-पद्मं दक्षिणेन करेण च।
वामेन मणि-निर्माण-दीप्त-दर्पणम् उज्ज्वलम् ॥१,३.७६॥
रत्न-कुण्डाल-युग्मेन गण्ड-स्थल-विराजितम्।
कौस्थुभेन मणीन्द्रेण चारु-वक्षः-स्थलोज्ज्वलम् ॥१,३.७७|
मुक्ताराजि-विनिन्दैक-दन्त-राजि-विराजितम्।
आजानु-मालती-माला-वन-माला-विभूषितम् ॥१,३.७८॥
वेदानन-सरस्वत्या स्तुतं ब्रह्मेश-वन्दितम्।
पद्मापद्मालया-माया-संसेवित-पदाम्बुजम् ॥१,३.७९॥
परि-पूर्णतमम् ब्रह्म परमात्मानम् ईश्वरम्।
निर्लिप्तं साक्षि-भूतं च भगवन्तं सनातनम् ॥१,३.८०॥
सर्वेशां सर्व-रूपं च सर्व-कारण-कारणम्।
पुरुषं परमात्मैकं परेशं प्रकृतेः परं ॥१,३.८१॥
एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम्।
तुष्टाव परया भक्त्या तम् ईशं सम्पुटाञ्जलिः ॥१,३.८२॥
श्री-सुभद्र उवाच
हे नाथ दर्श्नं देहि मां भक्तं शरणागतम्।
श्रीद श्रीश श्री-निवास श्री-निधे श्री-निकेतन ॥१,३.८३॥
श्रिया सेवित-पादाब्ज श्री-समुत्पत्ति-कारण।
वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥१,३.८४॥
सर्वाद्य सर्व-निलय सर्व-बीज सनातन।
शान्त सरस्वती-कान्त नितान्त सर्व-कर्मसु ॥१,३.८५॥
सर्वाधार निराधार काम-पूर परात् पर।
दुष्पारासार-संसार-कर्ण-धार नमो ऽस्तु ते ॥१,३.८६॥
इत्य् एवम् उक्त्वा स शिशु रुरोद च पुनः पुनः।
ध्यायेन तत्-पदाम्भोजं शरणं च चकार सः ॥१,३.८७॥
इति विप्रकृतं स्तोत्रं त्रि-सन्ध्यं यः पठेन् नरः।
मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥१,३.८८॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे श्री-कृष्ण-महिमोपालम्भनं नाम तृतीयो ऽध्यायः