प्रथमैक-रात्रे द्वितीयो ऽध्यायः
शुक उवाच
कुत्र वा पञ्च-रात्रं च नारदस्य च धीमते।
प्रदत्तं शम्भुना तात तन् मे व्याख्यातुम् अर्हसि ॥१,२.१॥
अथ नारदस्य तपो-वर्णनम्
व्यास उवाच
अधीत्य सर्वान् वेदांश् च वेदाङ्गाण् पितुर् अन्तिके।
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥१,२.२॥
हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे।
सिद्धे नारायण-क्षेत्रे सर्वेषां अभिवाञ्च्छिते ॥१,२.३॥
तपश् चकार स मुनिर् दिव्यं वर्ष-सहस्रकम्।
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥१,२.४॥
शुश्रावाकाश-वाणीं च तपसो ऽन्ते महा-मुनिः।
स्वल्पाक्षरां च बह्व्-अर्थां परिणाम-सुखावहाम् ॥१,२.५॥
अथ नारदं प्रति दैव-वाणी
अशरीरिष्य् उवाच
आधारितो यदि हरिस् तपसा ततः किम्।
नाधारितो यदि हरिस् तपसा ततः किम्।
अन्तर् बहिर् यदि हरिस् तपसा ततः किम्।
नान्तर् बहिर् यदि हरिस् तपसा ततः किम् ॥१,२.६॥
विरम विरम ब्रह्मन् किं तपस्यासु वत्स।
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञान-सिन्धुम्।
लभ लभ हरि-भक्तिं वैष्णवोक्तां सुपक्वां।
भव-निगड-निबन्ध-छेदिनीं कर्तनीं च ॥१,२.७॥
इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे।
चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः ॥१,२.८॥
रुरोद स्वर्-णदी-तीरे स्मारं स्मारं हरेः पदम्।
ददर्श पुरतस् तातं ब्रह्माणं सकुमारकम् ॥१,२.९॥
ननाम सहसा मूर्ध्ना पितरं तं सहोदरम्।
पाद्यम् अर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥१,२.१०॥
श्लोक-द्वयार्थं पप्रच्छ कुमारं जगतां विधिम्।
सुखासीनं सुस्थिरं च सस्मितं च गत-श्रमम् ॥१,२.११॥
स्वात्मारामं पूर्ण-कामं ज्ञानिनां च गुरोर् गुरुम्।
साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम् ॥१,२.१२॥
नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः।
पुत्रेण सार्द्धम् आलोच्य व्याख्यां कर्तुं समारेभे ॥१,२.१३॥
अथ दैव-वाण्यर्थः
ब्रह्मोवाच
हे वत्स पूर्व-श्लोकार्थं निगूढं श्रुति-सम्मतम्।
वेदार्थं द्वि-विधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥१,२.१४॥
आराधितो यदि हरिर् येन पुंसा स्व-भक्तितः।
किं तस्य तपसा व्यर्थं तीर्थ-पूतस्य नारद ॥१,२.१५॥
कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते।
तपश् चोपहास-बीजं तथा चर्वित-चर्वणम् ॥१,२.१६॥
मन्त्र-ग्रहण-मात्रेण पुरुषाणां शतं सुत।
पुनाति स्व-स्व-भक्तं च चान्धवंश् चावलीलया ॥१,२.१७॥
नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम्।
परिश्रमं च विफलं तपसा वैष्णवस्य च ॥१,२.१८॥
कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक।
तीर्थ-स्नानम् अनशनं वेदेषु च विडम्बनम् ॥१,२.१९॥
पूर्व-कर्मानुरोधेन यत् पापं वैष्णवस्य च।
मन्त्र-ग्रहण-मात्रेण नष्टं वह्नौ यथा तृणम् ॥१,२.२०॥
पवित्रः परमो वह्निः पवित्रं चामलं जलं।
पवित्रं भारतं वर्षं तीर्थं यत् तुलसी-दलम् ॥१,२.२१॥
पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः।
उपस्पर्श च भक्तस्याप्य् एते वाञ्च्छन्ति सादरम् ॥१,२.२२॥
भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा।
नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः ॥१,२.२३॥
शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम्।
तत्-पादोदक-नैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥१,२.२४॥
स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः।
पुनाति पुंसां शतकं जन्म-मात्रात् सबान्धवम् ॥१,२.२५॥
वत्स श्लोकस्यैक-पादं व्याख्यातं च यथागमम्।
व्याख्यातं करोम्य् अन्य-पादं यथाज्ञानं मिशामय ॥१,२.२६॥
नाराधितो यदि हरिर् येन पुंसाधमेन च।
किं तस्य तपसा व्यर्थं निष्फलं तत्-परिश्रमः ॥१,२.२७॥
व्रतान्य् एव हि दानानि तपांस्य् अनशनानि च।
वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च।
न निष्पुनात्य् अभक्तं च सुराकुम्भम् इवापगा ॥१,२.२८॥
अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च।
अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा ॥१,२.२९॥
श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम्।
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥१,२.३०॥
वेद-सारं कृष्ण-मतं ममापि नहि कल्पना।
अन्तर् बहिर् यदि हैर् येषां पुंसां महात्मनां ॥१,२.३१॥
स्वप्ने जागरणे शश्वत् तपस् तेषां च निष्फलम्।
स एव विष्णु-तुल्यो हि तद्-अंशो भारते मुने ॥१,२.३२॥
तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम्।
ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम् ॥१,२.३३॥
दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः।
स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च ॥१,२.३४॥
तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः।
नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः।
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुर् एव च ॥१,२.३५॥
भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः।
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश् च वैष्णवांस् तथा ॥१,२.३६॥
व्याख्यातम् च त्रि-पादं च हे मुनीन्द्र यथागमम्।
शेष-पादस्य व्याख्यानं करोमीति निशामय ॥१,२.३७॥
नान्तर् बहिर् यदि हरिर् येषां पुंसां च नारद।
तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसां ॥१,२.३८॥
किं तज्-ज्ञानेन तपसा व्रतेन नियमेन च।
तीर्थ-स्नानेन पुण्येनापि अभक्त-मूढ-चेतसां ॥१,२.३९॥
कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान्।
शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च ॥१,२.४०॥
स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च।
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥१,२.४१॥
ब्रह्मणानां स्व-धर्मश् च सन्ततं कृष्ण-सेवनम्।
नित्यं ते भुञ्जते सन्तस् तन्-नैवेद्यं पादोदकम् ॥१,२.४२॥
न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः।
अन्नं विष्ठा-समं मूत्र-समं तोयं विदुर् बुधाः ॥१,२.४३॥
भुङ्क्ते स्व-भक्ष्यं कोलश् च म्लेच्छश् च श्वपचाधमः।
विप्रो नित्यम् अभक्ष्यं च भुङ्क्ते च पतितस् ततः ॥१,२.४४॥
श्लोकम् एकं च व्याख्यातं यथा-ज्ञानं च नारद।
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ॥१,२.४५॥
तपसो विरम ब्रह्मन् व्यर्थं भक्त-तपो ध्रुवम्।
शङ्करश् च गुरुं कृत्वा हरि-भक्तिं लभाचिरम् ॥१,२.४६॥
सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे।
गुरुर् एव परं ब्रह्म कर्ण-धार-स्वरूपकः ॥१,२.४७॥
इत्य् एवम् उक्त्वा त्वां देवी प्रजगाम सरस्वती।
व्याख्यातस् तद्-अभिप्रायः किं भूयः कथयामि ते ॥१,२.४८॥
ब्रह्माणश् च वचः श्रुत्वा जहास योगिनां गुरुः।
सनत्-कुमारो भगवान् उवाच पितरं शुक ॥१,२.४९॥
सनत्-कुमार उवाच
पूर्व-श्लोकस्य व्याख्यानं न बुद्धं शिशुना मया।
पुत्रं शिष्यम् अबोधं च युक्तं बोधयितुम् पुनः ॥१,२.५०॥
आराधितो हरिर् येन तस्य व्यर्थं तपो यदि।
नाराधितो हैर् येन तस्य व्यर्तं तपो यदि ॥१,२.५१॥
तस्यारहितौ तौ द्वौ तपसश् च स्थलं कुतः।
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् ॥१,२.५२॥
पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः।
दध्यौ कृष्ण-पदाम्भोजं परं कल्प-तरुं शुक ॥१,२.५३॥
क्षणं संचित्य पादाब्जं प्राप राद्धान्तम् ईप्सितम्।
व्याख्यां कर्तुं समारेभे विधाता जगताम् अपि ॥१,२.५४॥
अथ नैवेद्य-प्रशंसा
ब्रह्मोवाच
धन्यो ऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर् गुरोः।
विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी ॥१,२.५५॥
धन्यो ऽसि पण्डितो ऽसि त्वं हरि-भक्तो ऽसि पुत्रक।
ममापि सफलं जन्म जीवनं च त्वया बुध ॥१,२.५६॥
निबोध पूर्व-श्लोकार्थं पुनर् व्याख्यां करोमि च।
तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति ॥१,२.५७॥
आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः।
संप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः ॥१,२.५८॥
येन सम्यक्-प्रकारेण संप्राप्तो हरिर् ईश्वरः।
स्वप्ने ज्ञाने च ज्ञातस् तेषां व्यर्थस् तपः-श्रमः ॥१,२.५९॥
श्री-कृष्ण-विमुखं मूढं द्विजम् एव नराधमम्।
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् ॥१,२.६०॥
यश् च मूढतमो लोके यश् च भक्तिं परां गतः।
ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः ॥१,२.६१॥
देवान् अन्यांश् च भजते हरिं जानाति तत्-परः।
तपः करोति तं प्राप्तुम् आकाङ्क्षन् मध्यमो जनः ॥१,२.६२॥
प्राक्तनाद् अनुरागी च गृही संसार-संवृतः।
तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम् ॥१,२.६३॥
परं श्री-कृष्ण-भजनं ध्यानं तन्-नाम-कीर्तनम्।
तत्-पादोदक-नैवेद्य-भक्षणं सर्व-वाञ्च्छितम् ॥१,२.६४॥
अतीव मूढो विप्रश् च प्राक्तनाद् गुरु-दोषतः।
तामसो हि न जानाति श्री-कृष्णं त्रि-गुणात् परम् ॥१,२.६५॥
अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात्।
भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः ॥१,२.६६॥
स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात्।
स याति दिव्य-यानेन गोलोकं लोकम् उत्तमम् ॥१,२.६७॥
शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम्।
अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् ॥१,२.६८॥
कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः।
देवलो वृष-वाहश् च महा-मूढश् च पातकी ॥१,२.६९॥
स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्ण-पूजनम्।
कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनं शुभं ॥१,२.७०॥
बभूव प्राक्तनात् तस्य क्षण-मात्रं सुदुर्लभम्।
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥१,२.७१॥
पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम्।
स्वयं भुक्तावशेषं च पतितं वैष्णवाज् जनात् ॥१,२.७२॥
सुस्निग्धाक्षत-जीर्णं च रजसा मिश्रितं परम्।
गच्छतस् तत्र विप्रस्य पतितं भक्ष्य-वस्तु च ॥१,२.७३॥
नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक।
तद्-वस्तु भुक्तं विप्रेण कृष्ण-नैवेद्य-मिश्रितम् ॥१,२.७४॥
सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम्।
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पति-व्रता ॥१,२.७५॥
परम्परानुसंबन्धात् पवित्रा सा बभूव ह।
जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः ॥१,२.७६॥
कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने।
सार्धं च व्याघ्र-पुत्राभ्यां गोलोकं प्रययौ द्विज।
पति-व्रता सह-मृता भर्ता सार्धं जगाम सा ॥१,२.७७॥
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे नैवेद्य-प्रशंसनं नाम द्वितीयो ऽध्यायः