०१

प्रथमैक-रात्रे प्रथमो ऽध्यायः

ॐ नमो भगवते वासुदेवाय

अथ मङ्गलाचरणम्

नारायणं नमस् कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत्॥

गणेश-शेष-ब्रह्मेश-दिनेश-प्रमुखाः सुराः।
कुमाराद्याश् च मुनयः सिद्धाश् च कपिलादयः ॥१,१.१॥
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा।
भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परं ॥१,१.२॥
ध्यायन्ते सततं सन्तो योगिनो वैष्णवास् तथा।
ज्योतिर्-अभ्यन्तरे रूपम् अतुलं श्याम-सुन्दरम् ॥१,१.३॥
ध्यायेत् तं परमं ब्रह्म परमात्मानम् ईश्वरम्।
निरीहम् अति-निर्लिप्तम् निर्गुणं प्रकृतेः परं ॥१,१.४॥
सर्वेशं सर्व-रूपं च सर्व-कारण-कारणम्।
सत्यं नित्यं च पुरुषं पुराणं परम् अव्ययम् ॥१,१.५॥
मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम्।
स्वेच्छा-मयं परं धाम भगवन्तं सनातनम् ॥१,१.६॥
स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते।
तं स्तौमि परमानन्दं सानन्दं नन्द-नन्दनम् ॥१,१.७॥
भक्त-प्रियं च भक्तेशं भक्तानुग्रह-विग्रहं।
श्रीदं श्रीशं श्री-निवासं श्री-कृष्णं राधिकेश्वरम् ॥१,१.८॥
ज्ञानामृतं ज्ञान-सिन्धोः संप्राप्य शङ्कराद् गुरोः।
परावराच् च परमाद् योगीन्द्राणां गुरोर् गुरोः ॥१,१.९॥
वेदेभ्यो दधि-सिन्धुभ्यश् चतुर्भ्यः सुमनोहरम्।
तज् ज्ञान-मन्थ-दण्डेन संनिर्मथ्य नवं नवम् ॥१,१.१०॥
नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम्।
विधि-पुत्रो नारदो ऽहं पञ्च-रात्रं समारभे ॥१,१.११॥

ॐ नारायणाश्रमे पुण्ये पुण्य-क्षेत्रे च भारत।
सिद्धे नारायण-क्षेत्रे वट-मूले सुपुण्यदे ॥१,१.१२॥
कृष्णांशं कृष्ण-भक्तं च पलं कृष्ण-परायणम्।
श्री-कृष्ण-चरणाम्भोज-ध्यानैकतान-मानसम् ॥१,१.१३॥
जपन्तं परमं ब्रह्म कृष्ण इत्य् अक्षर-द्वयम्।
सुखासने सुखासीनं कृष्ण-द्वैपायनं मुनिम् ॥१,१.१४॥
पप्रच्छ शुकदेवश् च सर्व-ज्ञं पितरं मुनिः।
कारणण् च पुराणानां पुराणं परम् अव्ययम् ॥१,१.१५॥

श्री-शुक उवाच भगवन् सर्व-तत्त्व-ज्ञ वेद-वेदाङ्ग-पारग।
यद् यत् प्रकारं ज्ञानं च निगूढं श्रुति-सम्मतम् ॥१,१.१६॥
तेषु यत् सार-भूतं चाप्य् अज्ञानान्ध-प्रदीपकम्।
तत् तत् सर्वं समालोच्य मां बोधयितुम् अर्हसि ॥१,१.१७॥

अथ श्री-कृष्ण-भक्ति-प्रशंशा

स पिता ज्ञान-दाता यो ज्ञानं तत् कृष्ण-भक्तिदम्।
सा भक्तिः परमा शुद्धा कृष्ण-दास्य-प्रदा च या ॥१,१.१८॥
तद् एव दास्यं शस्तं यत् साक्षाच् चरण-सेवनं।
नित्यं गोलोक-वासं च पुरतः स्तवनं हरेः ॥१,१.१९॥
शश्वन् निमेष-रहितं तत्-पाद-पद्म-दर्शनम्।
शश्वत् तत्-सार्धम् आलाप-सेवा-कर्म-नियोजनम् ॥१,१.२०॥
तेन सार्धम् अविच्छेद-स्थानं परं शोभनम्।
भक्तानां वाञ्च्छितं वस्तु सार-भूतं श्रुतौ श्रुतम् ॥१,१.२१॥

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादम् आप ह ॥१,१.२२॥
पुत्रं शुभाशिषं कृत्वा सर्व-ज्ञः सर्व-भावनः।
यथाप्राप्तं गुरु-मुखात् प्रवक्तुम् उपचक्रमे ॥१,१.२३॥

श्री-व्यास उवाच शुक धन्यो ऽसि मान्यो ऽसि पुण्य-रूपो ऽसि भारते।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् ॥१,१.२४॥
स पुत्रः कृष्ण-भक्तो यो भारते सुयशस्-करः।
पुनाति पुंसां शतकं जन्म-मात्रेण लीलया ॥१,१.२५॥
माता-महानां शतकं मातरं मातृ-मातरम्।
सोदरान् बान्धवांश् चैव भृत्यान् पत्नीं सहात्मजाम् ॥१,१.२६॥
यत्-कन्यां प्रतिगृह्णाति तद्-आदि-पुरुष-त्रयम्।
कन्या-प्रदाता श्वशुरो जीवन्-मुक्तः सभार्यकः ॥१,१.२७॥
स्वयं विधाता भगवान् परं कृष्ण-परायणः।
कृष्ण-भक्तो वसिष्टस् तु तत् सुतो वैष्णवः स्वयम् ॥१,१.२८॥
वैष्णवस् तत् सुतः शक्तिः कृष्ण-ध्यानैक-मानसः।
पराशरश् च तत्-पुत्रः कृष्ण-पादाब्ज-सेवया ॥१,१.२९॥
जीवन्-मुक्तो महा-ज्ञानी योगीन्द्राणां गुरोर् गुरुः।
अहं वेद-विभक्ता च श्री-कृष्ण-पाद-सेवया ॥१,१.३०॥
गुरुर् मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः।
गुरोर् गुरुर् मे शम्भुश् च योगीन्द्राणां गुरोर् गुरुः ॥१,१.३१॥
तेषां पुण्येन पुत्रस् त्वं पुण्य-राशिश् च मूर्तिमान्।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् ॥१,१.३२॥
श्री-कृष्ण-चरणाम्भोजं पादाब्जं नारदेशयोः।
सरस्वतीं नमस् कृत्य ज्ञानं वक्ष्ये सनातनम् ॥१,१.३३॥
श्रूयताम् पञ्च-रात्रं च वेद-सारम् अभीप्सितम्।
पञ्च-संवादम् इष्टं च भक्तानाम् अभिवाञ्च्छितम् ॥१,१.३४॥
प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं।
अथ षट्-संवादाः ?wहत्? हि गोलोके शत-शृङ्गे च पर्वते ॥१,१.३५॥
सुपुण्ये विरजा-तीरे वट-मूले मनोहरे।
पुरतो राधिकायाश् च ब्रह्माणं कमलोद्भवम् ॥१,१.३६॥
तम् उवाच महा-भक्तं स्तुवन्तं प्रणतं सुतम्।
पञ्च-रात्रम् इदं पुण्यं श्रुत्वा च जगतां विधिः ॥१,१.३७॥
प्रणम्य राधिकां कृष्णं प्रययौ शिव-मन्दिरम्।
भक्त्या तम् पूजयाम् आस शङ्करः परमादरम् ॥१,१.३८॥
सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम्।
पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् ॥१,१.३९॥
सर्वं तं कथयाम् आस पञ्च-रात्रादिकं शुभम्।
वसन्तं वट-मूले च स्वर्गे मन्दाकिनी-तटे ॥१,१.४०॥
योगीन्द्रैर् अपि सिद्धेन्द्रैर् मुनीन्द्रैश् च स्तुतं प्रभुं।
ज्ञानामृतं तम् उक्त्वा स ब्रह्म-लोकं जगाम ह ॥१,१.४१॥
शम्भुश् च कथयाम् आस स्व-शिष्यं नारदं मुनिम्।
नारदः कथयाम् आस पुष्करे सूर्य-पर्वणि ॥१,१.४२॥
मां भक्तम् अनुरक्तं च पुण्याहे मुनि-संसदि।
पञ्च-रात्रम् इदं शुद्धं भ्रमान्ध-ध्वंस-दीपकम् ॥१,१.४३॥

अथ पञ्च-रात्र-पद-व्याख्या

रात्रं च ज्ञान-वचनं ज्ञानं पञ्च-विधं स्मृतम्।
तेनेदं पञ्च-रात्रं च प्रवदन्ति मनीषिणः ॥१,१.४४॥
ज्ञानं परम-तत्त्वं च जन्म-मृत्यु-जरापहम्।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्ण-वक्त्रतः ॥१,१.४५॥
ज्ञानम् द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम्।
परं मुक्ति-प्रदं शुद्धं यतो लीनं हरेः पदे ॥१,१.४६॥
ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्ण-भक्तिदम्।
तद्-दास्यम् अधीष्टं च यतो दास्यं लभेद् धरेः ॥१,१.४७॥
चतुर्थं यौगिकं ज्ञानं सर्व-सिद्धि-प्रदं परम्।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुख-प्रदम् ॥१,१.४८॥
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा।
ईशित्वं च वशित्वं च तथाकामावसायिता ॥१,१.४९॥
सावज्ञं दूर-श्रवणं पर-काय-प्रवेशनम्।
काय-व्यूहं जीव-दानं पर-जीव-हरं परम् ॥१,१.५०॥
सर्ग-कर्तृत्व-शिल्पं च सर्ग-संहार-कारणम्।
सिद्धं च षोडश-विधं ज्ञानिनां च यतो भवेत् ॥१,१.५१॥
ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणां।
यद् इष्ट-देवी माया सा परं संमोह-कारणं ॥१,१.५२॥
विषये बद्ध-चितं च सर्वम् इन्द्रिय-सेवनम्।
पोषनं स्व-कुटुम्बानां स्वात्मनश् च निरन्रतम् ॥१,१.५३॥
प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् ॥१,१.५४॥
चतुर्थम् च राजसिकं भक्तस् तन् नाभिवाञ्च्छति।
पञ्चमं तामसं ज्ञानं विद्वांस् तन् नाभिवाञ्च्छति ॥१,१.५५॥
ज्ञानं पञ्च-विधं प्रोक्तं पञ्च-रात्रं विदुर् बुधाः।
पञ्च-रात्रं सप्त-विधं ज्ञानिनां ज्ञानदं परम् ॥१,१.५६॥
ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम्।
गौतमीयं नारदीयम् इदं सप्त-विधं स्मृतम् ॥१,१.५७॥

अथ ग्रन्थ-प्रशंसा

षट् पञ्च-रात्रं वेदाश् च पुराणानि च सर्वशः।
इतिहासं धर्म-शास्त्रं शात्रं च सिद्धि-योग-जम् ॥१,१.५८॥
दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात्।
ज्ञानामृतं पञ्च-रात्रं चकार नारदो मुनिः ॥१,१.५९॥
पुण्यं च पाप-विघ्नं भक्ति-दास्य-प्रदं हरेः।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥१,१.६०॥
सार-भूतं च सर्वेषां वेदानां परमाद्भुतम्।
नारदीयं पञ्च-रात्रं पुराणेषु सुदुर्लभम् ॥१,१.६१॥
सर्वान्तरात्मा भगवान् ब्रह्म-ज्योतिः सनातनम्।
परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च ॥१,१.६२॥
यथा देवीषु पूज्या सा मूल-प्रकृतिर् ईश्वरी।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥१,१.६३॥
विश्वस्तानां इन्द्रियानाम् मनश् च शीघ्र-गामिनाम्।
ब्रह्मा च वेद-विदुषां पूज्यानां च गणेश्वरः ॥१,१.६४॥
सनत्-कुमारो भगवान् मुनीनां प्रवरो यथा।
बृहस्पतिर् बुद्धिमतां सिद्धानां कपिलो यथा ॥१,१.६५॥
योगीन्द्रानां सतां शुद्ध ऋषिर् नारायणो यथा।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥१,१.६६॥
सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः।
वृन्दावनं वनानां च वर्षानां भारतं यथा ॥१,१.६७॥
पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥१,१.६८॥
वृक्षाणां कल्प-वृक्षश् च सुरभी काम-धेनुषु।
पुष्पाणां पारिजातश् च पत्राणां तुलसी यथा ॥१,१.६९॥
मन्त्राणां कृष्ण-मन्त्रश् च यथा विद्या धनेष्व् अपि।
यथा तेजस्विनां सूर्यो मिष्टानाम् अमृतं यथा ॥१,१.७०॥
आधाराणां च स्थूलानां महा-विष्णुर् यथा सुत।
सूक्ष्माणां परमाणुश् च गुरुणां मन्त्र-तन्त्र-दः ॥१,१.७१॥
पुत्रश् च स्नेह-पात्राणां नक्षत्राणां यथा शशी।
यथा घृतं च गव्यानां शस्यानां धान्यम् ईप्सितम् ॥१,१.७२॥
शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् ॥१,१.७३॥
यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्व् अपि।
पति-व्रतासु लक्स्मीश् च क्षमाशीलासु मेदिनी ॥१,१.७४॥
सौभाग्यासु सुन्दरीषु राधा कृष्ण-प्रियासु च।
हनुमान् वानराणां च पक्षिणां गरुडो यथा ॥१,१.७५॥
वाहनानां बलवतां शङ्करस्य यथा वृषः।
शालग्रामश् च यन्त्राणां पूजासु कृष्ण-पूजनम् ॥१,१.७६॥
एकादशी व्रतानां च तपःस्व् अनशनं यथा।
यज्ञानां जप-यज्ञश् च सत्यं धर्मेषु पुत्रक ॥१,१.७७॥
सुशीलं च गुणानां च पुण्येषु कृष्ण-कीर्तनम्।
शोभाशु सुख-दृश्येषु प्रभा तेजःसु सर्वतः ॥१,१.७८॥
पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा।
लोकानाम् अपि लोकेशः शेषो नागेषु पूजितः ॥१,१.७९॥
सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम्।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥१,१.८०॥
विष्णु-भक्तेषु विज्ञेषु यथैव नारदो मुनिः।
एवं च सर्व-शास्त्रेषु पञ्च-रात्रं च पूजितम् ॥१,१.८१॥
यथा निपीय पीयूषं न स्पृहा चान्य-वस्तुषु।
पञ्च-रात्रम् अभिज्ञाय नान्येषु च स्पृहा सताम् ॥१,१.८२॥
सर्वार्थ-ज्ञान-बीजं चाप्य् अज्ञानान्ध-प्रदीपम्।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् ॥१,१.८३॥

इति श्री-नारद-पञ्च-रात्रे ग्रन्थ-प्रशंसनं नाम प्रथमो ऽध्यायः