०५०

विश्वास-प्रस्तुतिः

पञ्चाशोऽध्यायः - 50
शक्रः—
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ॥ 1 ॥

मूलम्

पञ्चाशोऽध्यायः - 50
शक्रः—
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ॥ 1 ॥

टिप्पनी 1

विश्वारणे। विश्वोत्पत्तिस्थानभूते इत्यर्थः।

विश्वास-प्रस्तुतिः

आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ॥ 2 ॥

मूलम्

आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ॥ 2 ॥

टिप्पनी 2

आत्मभूतायै। प्राणवल्लभायै इत्यर्थः।

विश्वास-प्रस्तुतिः

त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ॥ 3 ॥

मूलम्

त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ॥ 3 ॥

विश्वास-प्रस्तुतिः

इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ॥ 4 ॥

मूलम्

इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ॥ 4 ॥

टिप्पनी 4

त्वत्सूक्तस्य; श्रीसूक्तस्य।

विश्वास-प्रस्तुतिः

श्रीः1
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्‌गुण्यानन्दविग्रहः ॥ 5 ॥

मूलम्

श्रीः1
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्‌गुण्यानन्दविग्रहः ॥ 5 ॥

टिप्पनी 5

जगत इत्यादि। जङ्गमस्थावराणां पतिरित्यर्थः।

सर्वप्रकृतिरीशानः सर्वज्ञः सर्वकार्यकृत्2
3निरनिष्टोऽनवद्यस्च सर्वकल्याणसंश्रयः ॥ 6 ॥

टिप्पनी 6

प्रकृतिः ; उपादानकारणम्।

विश्वास-प्रस्तुतिः

तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः4 ॥ 7 ॥

मूलम्

तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः4 ॥ 7 ॥

टिप्पनी 7

“तस्य भासा सर्वमिदं विभाति” इति श्रुत्यर्थोपबृंहणमत्र। भावाभावेति। भावाभावपदार्थरूपतया निर्धारित इत्यर्थः।

विश्वास-प्रस्तुतिः

शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ॥ 8 ॥

मूलम्

शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ॥ 8 ॥

विश्वास-प्रस्तुतिः

निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ॥ 9 ॥

मूलम्

निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ॥ 9 ॥

टिप्पनी 9

सर्वकामेति। मयैव सः अवाप्तसमस्तकाम इति भावः। आत्मभित्तीति। शुद्धाशुद्धरूपः प्रपञ्चः सर्वोऽपि मदेकावलम्बन इत्यर्थः।

विश्वास-प्रस्तुतिः

अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ॥ 10 ॥

मूलम्

अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ॥ 10 ॥

विश्वास-प्रस्तुतिः

अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥

मूलम्

अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥

सुखिनः स्युरिमे जीवाः प्राप्नुयुर्नौ कथं न्विति5
6उपायान्वेषणायत्तौ परमेण समाधिना ॥ 12 ॥

टिप्पनी 12

समाधिना; ध्यानेन।

विश्वास-प्रस्तुतिः

मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ॥ 13 ॥

मूलम्

मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ॥ 13 ॥

टिप्पनी 13

मथ्नीवः स्मेति। अमथ्नीवेत्यर्थः।

विश्वास-प्रस्तुतिः

तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ॥ 14 ॥

मूलम्

तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ॥ 14 ॥

टिप्पनी 14

सूक्तमिथुनम्; पुंसूक्तं श्रीसूक्तं च। अनाहतम्; अव्याहतम्। अनस्पष्टम्; अतिस्पष्टम्।

विश्वास-प्रस्तुतिः

सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्7
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ॥ 15 ॥

मूलम्

सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्7
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ॥ 15 ॥

8शक्तिशक्तिमदाविद्धं तत्तदक्षरमिश्रितम्।
तत्र पुंलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ॥ 16 ॥

विश्वास-प्रस्तुतिः

स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ॥ 17 ॥

मूलम्

स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ॥ 17 ॥

टिप्पनी 17

स्वीचकारेति। तन्मन्त्रद्रष्टृतया तदृषित्वेन तत्प्रतिपाद्यत्वेन तद्देवतात्वेन चात्मानमभावयदित्यर्थः। अरविन्दाक्ष इत्यनेन “तस्य यथा कप्यासं पुण्‍डरीकमेवमक्षिणी” इति श्रुत्युपवर्णित इति सूच्यते।

विश्वास-प्रस्तुतिः

स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ॥ 18 ॥

मूलम्

स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ॥ 18 ॥

9अधीते च विमृष्टे च नयेतां परमां गतिम्।
विहितानि विधानानि कल्पकृद्भिः पुरातनैः ॥ 19 ॥

टिप्पनी 19

अधीते; शब्दतः। विमृष्टे; अर्थतः। कल्पकृद्भिः; शौनकादिभिः।

विश्वास-प्रस्तुतिः

अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति 10मत्सूक्तविधानं विहितं शृणु ॥ 20 ॥

मूलम्

अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति 10मत्सूक्तविधानं विहितं शृणु ॥ 20 ॥

टिप्पनी 20

अघोराणि। फलदशायामिव साधनदशायामपि परमभोग्यानीत्यर्थः।

विश्वास-प्रस्तुतिः

मामेवास्य11 मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ॥ 21 ॥

मूलम्

मामेवास्य11 मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ॥ 21 ॥

विश्वास-प्रस्तुतिः

विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ॥ 22 ॥

मूलम्

विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ॥ 22 ॥

टिप्पनी 22

अङ्कस्थामिति। वामाङ्कस्थामित्यर्थः।

वामेनालिङ्गितां शश्वद्बाहुना परमात्मना12
13तदंसलग्नबाहुं च दिव्यपङ्कजधारिणीम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥

मूलम्

अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥

विश्वास-प्रस्तुतिः

कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ॥ 25 ॥

मूलम्

कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ॥ 25 ॥

विश्वास-प्रस्तुतिः

तृतीययार्घ्यमीशाने 14पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ॥ 26 ॥

मूलम्

तृतीययार्घ्यमीशाने 14पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥

मूलम्

षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥

विश्वास-प्रस्तुतिः

गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां 15धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥

मूलम्

गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां 15धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥

टिप्पनी 28

पराभ्यामिति। एकादशीद्वादशीभ्यामृग्भ्यामित्यर्थः।

विश्वास-प्रस्तुतिः

प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥

मूलम्

प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥

टिप्पनी 29

तारिकामित्यादि। ह्रीं श्रीं इति मन्त्रद्वयमित्यर्थः।

विश्वास-प्रस्तुतिः

प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ॥ 30 ॥

मूलम्

प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ॥ 30 ॥

विश्वास-प्रस्तुतिः

तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥

मूलम्

तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥

टिप्पनी 31

पक्षान्तरमाह—ऋग्भिरिति।

विश्वास-प्रस्तुतिः

पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ॥ 32 ॥

मूलम्

पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ॥ 32 ॥

टिप्पनी 32

आप इति। “आपः सृजन्तु” इत्यादिद्वादश्येत्यर्थः।

विश्वास-प्रस्तुतिः

आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति16 गन्धाः स्युरुपैतु स्यादलंकृतिः ॥ 33 ॥

मूलम्

आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति16 गन्धाः स्युरुपैतु स्यादलंकृतिः ॥ 33 ॥

टिप्पनी 33

आर्द्रामित्यादि। त्रयोदश्या चतुर्दश्या चेत्यर्थः। कर्दमेनेति। एकादश्येत्यर्थः। गन्धद्वारेति। नवम्येत्यर्थः। उपैत्विति। सप्तम्येत्यर्थः।

विश्वास-प्रस्तुतिः

कां सोस्मि 17धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ॥ 34 ॥

मूलम्

कां सोस्मि 17धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ॥ 34 ॥

टिप्पनी 34

कां सोस्मीति। चतुर्थ्येत्यर्थः। अस्या आचमनेऽप्युपयोगः पूर्वमुक्तः। षष्ठ्येति। “आदित्यवर्णे” इत्यनयेत्यर्थः। मनस इति। दशम्येत्यर्थः।

विश्वास-प्रस्तुतिः

क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ॥ 35 ॥

मूलम्

क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ॥ 35 ॥

टिप्पनी 35

क्षुदित्यादि। अष्टम्येत्यर्थः। अन्त्ययेति। “तां म आवह” इति पञ्चदश्येत्यर्थः।

विश्वास-प्रस्तुतिः

सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ॥ 36 ॥

मूलम्

सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ॥ 36 ॥

टिप्पनी 36

पञ्चाशत् त्रीणीति। त्रिपञ्चाशदित्यर्थः।

विश्वास-प्रस्तुतिः

निहिता सर्वभूतेषु रणे18 भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ॥ 37 ॥

मूलम्

निहिता सर्वभूतेषु रणे18 भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ॥ 37 ॥

टिप्पनी 37

निहितेत्यादिना हिरण्यवर्णेतिनामनिरुक्तिः। हिशब्दार्थो निहितेति। रणे; शब्दं करोमीत्यर्थः। तादात्विकनादस्य विवरणम्—भृङ्गवधूरिवेति। अच्युतम्; अविच्छिन्नमित्यर्थः।

विश्वास-प्रस्तुतिः

निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्‌कान्तमुपेयुषी ॥ 38 ॥

मूलम्

निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्‌कान्तमुपेयुषी ॥ 38 ॥

उदितानेकसाहस्रसूर्यवह्नीन्दुसंनिभा।
19चक्रकात् पवनाधाराच्छान्ता पश्याथ मध्यमा ॥ 39 ॥

टिप्पनी 39

वर्णशब्दं निर्विक्ति—चक्कादिति। आधारचक्रादित्यर्थः। शान्ता; परेत्यर्थः। पश्या; पस्यन्ती।

विश्वास-प्रस्तुतिः

वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ॥ 40 ॥

मूलम्

वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ॥ 40 ॥

टिप्पनी 40

वैखरीस्थानम्; कण्ठादीन्यष्टौ।

विश्वास-प्रस्तुतिः

हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु20 मत्प्रसादात् स योगानां धर्ममूचिवान् ॥ 41 ॥

मूलम्

हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु20 मत्प्रसादात् स योगानां धर्ममूचिवान् ॥ 41 ॥

विश्वास-प्रस्तुतिः

प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ॥ 42 ॥

मूलम्

प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ॥ 42 ॥

टिप्पनी 42

ओं हिरण्यवर्णायै नमः इति नवाक्षरो मन्त्रः।

विश्वास-प्रस्तुतिः

दूराद्‌ दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ॥ 43 ॥

मूलम्

दूराद्‌ दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ॥ 43 ॥

टिप्पनी 43

हरिणीति नाम निरुच्यतेऽत्र। हरिणीवत् दूरधावनादिति, हरन्ति बध्नन्ति योगिन एनामिति च निर्वचनद्वयम्।

विश्वास-प्रस्तुतिः

षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥

मूलम्

षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥

विश्वास-प्रस्तुतिः

हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ॥ 45 ॥

मूलम्

हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ॥ 45 ॥

टिप्पनी 45

निर्वचनान्तरमाह—हरिणेत्यादि। हरिणस्येवाश्लिष्टमसंसृष्टं मध्यं यस्याः, हरिणा विष्णुना आश्लिष्टं मध्यं यस्या इति वा निर्वचनम्।

हरिणीं मामनुस्मृत्य परां शान्तिमवाप्रुयात्।
21हरिं नयामि कार्येषु नीये च हरिणा स्वयम् ॥ 46 ॥

टिप्पनी 46

निर्वचनान्तरं हरिमिति। “यदिङ्गितपराधीनो विधत्तेऽखिलम्” इत्यभियुक्ताः।

विश्वास-प्रस्तुतिः

सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥

मूलम्

सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥

टिप्पनी 47

हरिणभासेति हारिणीति च निर्वचनद्वयम्। ओं हरिण्यै नमः।

विश्वास-प्रस्तुतिः

सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ॥ 48 ॥

मूलम्

सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ॥ 48 ॥

टिप्पनी 48

सुवर्णस्रक् रजतस्रगिति नामद्वयम्।

विश्वास-प्रस्तुतिः

सृजामि शोभनान् वर्णान् 22सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ॥ 49 ॥

मूलम्

सृजामि शोभनान् वर्णान् 22सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ॥ 49 ॥

टिप्पनी 49

सृजामीत्यादिना निर्वचनान्तरम्। सुष्ठु विश्वमित्यादिना तृतीयं निर्वचनम्। “विश्वं विष्णुः” इति नामपाठात् विष्णुं पतित्वेन वृणे इति वा, विश्वं लोकं वासस्थानतया वृणे इति वा निर्वचनं भाव्यम्। स्रक्‌शब्दनिर्वचनमाह—सृता इति।

विश्वास-प्रस्तुतिः

सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ॥ 50 ॥

मूलम्

सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ॥ 50 ॥

टिप्पनी 50

उपाख्यानमुच्यते—गुह्यकानामिति।

राजतैर्मे स्रजः पद्मै राजन्ते च स्रजोऽमलाः।
23राजिताश्च स्रजः सर्वे स्रष्टारो जगतां मया ॥ 51 ॥

टिप्पनी 51

रजतस्रगिति नाम निरुच्यते—राजतैरिति। निर्वचनान्तरं राजन्त इति। राजिता इति च निर्वचनान्तरम्।

रजतस्रजमित्येव रुद्राणां प्रवरः पुरा।
24कैलासे समुपस्थाय रजताधिपतां ययौ ॥ 52 ॥

टिप्पनी 52

उपाक्यानमुच्यते—रुद्राणामिति।

विश्वास-प्रस्तुतिः

अष्टाक्षराविमौ मन्त्रौ 25सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ॥ 53 ॥

मूलम्

अष्टाक्षराविमौ मन्त्रौ 25सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ॥ 53 ॥

टिप्पनी 53

ओं सुवर्णस्रजे नमः। ओं रजतस्रजे नमः।

विश्वास-प्रस्तुतिः

चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ॥ 54 ॥

मूलम्

चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ॥ 54 ॥

टिप्पनी 54

चन्द्रेति नाम निरुच्यते—चंक्रम्यमाणेति। क्रम्‌धातोर्यङि चंक्रम्येति रूपम्। तत्र चं इति पदमादाय द्रा इत्यनेन योगे चन्द्रेति भवति। द्रा इति पदं निर्वक्ति—द्रावयामीति। द्रा इत्यस्यैव निर्वचनान्तरं चन्द्रवदिति।

विश्वास-प्रस्तुतिः

उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ॥ 55 ॥

मूलम्

उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ॥ 55 ॥

टिप्पनी 55

निर्वचनान्तरमाह—उदेमीति। चतुर्थी दशा तुरीयावस्था।

विश्वास-प्रस्तुतिः

योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ॥ 56 ॥

मूलम्

योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ॥ 56 ॥

टिप्पनी 56

उपाख्यानमुखेन निर्वचनान्तरमाह—योगेत्यादिना।

26नाडीस्थां मामनुस्मृत्य 27पुनः स्वं योगमाप्तवान्।
आनन्दजनकः सद्यो मन्त्रोऽयं मे षडक्षरः ॥ 57 ॥

टिप्पनी 57

ओं चन्दारयै नमः।

विश्वास-प्रस्तुतिः

भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्‌कान्तं सूर्यभासा हिरण्मयी ॥ 58 ॥

मूलम्

भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्‌कान्तं सूर्यभासा हिरण्मयी ॥ 58 ॥

टिप्पनी 58

हिरण्मयीति नाम निरुच्यते—आधारेत्यादि। द्विषट्‌कान्तम्; द्वादशानत्म्। सूर्यस्येव भासा यस्या इति आकारान्तः शब्दः।

विश्वास-प्रस्तुतिः

उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥

मूलम्

उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥

टिप्पनी 59

शब्दसंकल्पाः पश्यन्त्यादयः। तदात्मनोदेमीति इत्थंभूतलक्षणे तृतीया। निरुक्त्यन्तरं प्रकृतेरित्यादि।

विश्वास-प्रस्तुतिः

हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥

मूलम्

हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥

विश्वास-प्रस्तुतिः

स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ॥ 61 ॥

मूलम्

स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ॥ 61 ॥

टिप्पनी 61

ओं हिरण्मय्यै नमः।

विश्वास-प्रस्तुतिः

साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ॥ 62 ॥

मूलम्

साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ॥ 62 ॥

टिप्पनी 62

इत आरभ्य सप्त श्लोकाः लक्ष्मीनामनिर्वचनपराः। दर्शनार्थात् लक्षधातोर्निर्वचनमाह—साक्षिणीति। लक्ष्मीश्चेति। हरेः लक्ष्मीः सर्वसंपदित्यर्थः। अत्र “श्रद्धया देवो देववमश्नुते” “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इत्यादिकं भाव्यम्। लक्ष्यमिति। सर्वप्रमितेः प्रमेयेत्यर्थः।

विश्वास-प्रस्तुतिः

ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ॥ 63 ॥

मूलम्

ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ॥ 63 ॥

टिप्पनी 63

क्षिप्‌धातोर्निर्वचनमाह—क्षेपणीति। तस्यैव विवरणं त्रिप्रेरणीति। कायवाङ्‌मनसानां प्रेरयित्रीत्यर्थः। अत्र “ला दाने” “क्षिप प्रेरणे” इति धातुद्वयान्निष्पत्तिरभिप्रेता। तथाहं ज्ञानस्वरूपा लक्षणीया।

विश्वास-प्रस्तुतिः

लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥

मूलम्

लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥

टिप्पनी 64

लये इति। सृष्टिस्थितिसंहारेषु प्रकृतिं प्रेरयामीति लक्ष्मीरहम्। लक्ष्यन्ते प्रमीयन्ते इति लक्षणानि सर्वे भावाः। तेषां क्षेपणी इति निरुक्तिः।

विश्वास-प्रस्तुतिः

अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ॥ 65 ॥

मूलम्

अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ॥ 65 ॥

टिप्पनी 65

लक्षमित्यादि निरुक्त्यन्तरम्। तथा लामीत्यपि। लीना भवामीत्यर्थः। क्षिपामि; प्रेरयामि। लीदातुं क्षिपधातुं चादाय निर्वचनम्।

विश्वास-प्रस्तुतिः

क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥

मूलम्

क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥

टिप्पनी 66

निर्वचनान्तरमाह—क्षिपामीति। क्षमधातोः व्युत्पत्तिमाह—क्षमे इति। मीशब्दव्युत्पत्तिमाह—मिमे इत्यादिना।

इत्येतान् मयि दृष्ट्वार्थान् परमर्षिरुदारधीः।
28लक्ष्मीर्लक्षय मेत्येव कपिलो मुनिरुक्तवान् ॥ 67 ॥

टिप्पनी 67

हे लक्ष्मीः मा मां लक्षय कटाक्षयेति कपिलो मुनिरुवाचेत्यर्थः।

विश्वास-प्रस्तुतिः

पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ॥ 68 ॥

मूलम्

पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ॥ 68 ॥

टिप्पनी 68

ओं लक्ष्म्यै नमः।

विश्वास-प्रस्तुतिः

तनुर्ज्ञानमयी सा मे 29विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं 30योगज्ञानमिदं परम् ॥ 69 ॥

मूलम्

तनुर्ज्ञानमयी सा मे 29विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं 30योगज्ञानमिदं परम् ॥ 69 ॥

टिप्पनी 69

अनपगामिनीति नाम निर्वक्ति—तनुरिति। विष्णोरनपायित्वात् अनपगामिनीति नाम।

31भानामिव गता कान्तिः शीतरश्मौ सदा तथा।
शक्तिः शक्तिमतो विष्णोः स्थिताहमनपायिनी ॥ 70 ॥

विश्वास-प्रस्तुतिः

अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥

मूलम्

अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥

टिप्पनी 71

निर्वचनान्तरमाह—अपश्चेति। अप्सु द्रवाख्यो गुणोऽहम्। तस्मात् ताभ्यो नापैमीत्यर्थः। निर्वचनान्तरमाह—अपावाहयमिति। अपोपसर्गात् वाहयतेर्लङ्।

विश्वास-प्रस्तुतिः

सारस्वते जले पूर्वं 32विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥

मूलम्

सारस्वते जले पूर्वं 32विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥

टिप्पनी 72

विश्वामित्रेणोक्ता सती तत्प्रतिद्वन्द्विनं वसिष्ठं जले सहमपोवाहेति लिट्।

विश्वास-प्रस्तुतिः

ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ॥ 73 ॥

मूलम्

ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ॥ 73 ॥

टिप्पनी 73

एवमपगामिनीशब्दं निष्पाद्याधुना तद्विपर्ययवाचितामाह—ऋषय इति। शात्रवात् पाहीति मां प्राहुरित्यन्वयः।

विश्वास-प्रस्तुतिः

साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ॥ 74 ॥

मूलम्

साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ॥ 74 ॥

टिप्पनी 74

अहं तं वसिष्ठं शात्रवादपोवाह अपावाहयम्; अपासारयमित्यर्थः।

विश्वास-प्रस्तुतिः

नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥

मूलम्

नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥

टिप्पनी 75

ओं अनपगामिन्यै नमः। अहं बुद्ध्यादिरूपे पुरे अश्वरूपा पूरूपा वाहनी चास्मि। तत्र वसामि च। बुद्धिं नानाविषयेष्वाकृष्य धावनात् अश्वा। प्राणावासस्थानभूता पूः। आत्मतया शरीरवहनात् वाहनी। अतः अश्वपूर्वेति नाम।

विश्वास-प्रस्तुतिः

बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां 33हेषवन्नादं योगारम्भे सरोमि च ॥ 76 ॥

मूलम्

बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां 33हेषवन्नादं योगारम्भे सरोमि च ॥ 76 ॥

टिप्पनी 76

पक्षान्तरमाह—अश्वानामिति। पूर्वं योगारम्भे अश्वेव नदामि। अश्वपूर्वायै नमः।

विश्वास-प्रस्तुतिः

नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ॥ 77 ॥

मूलम्

नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ॥ 77 ॥

टिप्पनी 77

रथमध्यानामनिर्वचनम्—नाङीति। हस्तिनादप्रबोधिनीति नाम निर्वक्ति—व्योमेत्यादि। ओं अश्वपूर्वायै नमः। ओं रथमध्यायै नमः। ओं हस्तिनादप्रबोधिन्यै नमः।

विश्वास-प्रस्तुतिः

योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥

मूलम्

योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥

विश्वास-प्रस्तुतिः

अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ॥ 79 ॥

मूलम्

अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ॥ 79 ॥

टिप्पनी 79

श्रीनामनिर्वचनमारबते—शृणोमीत्यादिना। “श्रु श्रवणे” “शॄ हिंसायाम्"“शॄ विस्तारे” इति धातवः।

विश्वास-प्रस्तुतिः

शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया 34चेप्सिता सुरैः ॥ 80 ॥

मूलम्

शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया 34चेप्सिता सुरैः ॥ 80 ॥

टिप्पनी 80

श्रद्धयेति। अस्मात् शकारं रेफं चादाय ईप्सितपदादीकारं संयोज्य श्रीशब्द इति भावः।

विश्वास-प्रस्तुतिः

शान्ताधारपदस्थास्मि 35पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥

मूलम्

शान्ताधारपदस्थास्मि 35पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥

टिप्पनी 81

शान्तेत्यादि। शान्तापदात् शकारं रन्तीपदात् रेफं प्रेरणीपदादीकारं चादाय श्रीशब्द इति भावः। अर्णसां वर्णानां सृष्टिरिति वैखरीरूपमुच्यते।

विश्वास-प्रस्तुतिः

चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी36 रेमि रामि च ॥ 82 ॥

मूलम्

चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी36 रेमि रामि च ॥ 82 ॥

टिप्पनी 82

श्रयामि विष्णुम्। श्रयणीया; शक्तिभिः जयादिभिः सेव्या। रेमि; आश्रितपापानि क्षिणोमि। रामि; सर्वान् कामान् ददामि।

विश्वास-प्रस्तुतिः

शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ॥ 83 ॥

मूलम्

शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ॥ 83 ॥

टिप्पनी 83

शक्तेः प्रकाशयित्री। शंतमा; मङ्गलतमा। रतिरूपा। ईप्सिता; प्रार्थनीया। अत्रापि पदत्रयात् शकाररेफेकारान् संयोज्य श्रीशब्दनिष्पत्तिरभिप्रेता।

37अपि नाथो विभूतिर्मे त्रैलोक्यं सेश्वरामरम्।
परां मदीयवर्णस्य कलां नार्हति षोडशीम् ॥ 84 ॥

आद्ये पदत्रये वर्णाः श्रींह्रीमोमिति मन्मयाः।
38एष वैभिश्चतुर्भिस्तैर्मदीयं धार्यते वपुः ॥ 85 ॥

टिप्पनी 85

एष वेति। ओं श्रियै नमः इति मन्त्रश्चेत्यर्थः। एभिश्चतुर्भिरिति। श्रीं, ह्रीं, ओं, ओं श्रियै नमः इत्येतैश्चतुर्भिरित्यर्थः।

विश्वास-प्रस्तुतिः

एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥

मूलम्

एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥

विश्वास-प्रस्तुतिः

प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ॥ 87 ॥

मूलम्

प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ॥ 87 ॥

39मिमे मीयेऽखिलैर्मानैर्मयि माति जगत् क्षये।
आत्मेश्वरवती चाहं व्याप्तायां मयि मेति धीः ॥ 88 ॥

टिप्पनी 88

मेति नामनिर्वचनम्—मिमे इत्यादिना। सर्वं प्रमिनोमि। मीये; प्रमीये। माति; परिमितं भवित। आत्मेत्यादि; अस्मच्छब्दान्निष्पन्नं मशब्दमादायार्थ उपवर्ण्यते। णेति धीरिति। आहमर्थधीरित्यर्थः।

विश्वास-प्रस्तुतिः

आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥

मूलम्

आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥

टिप्पनी 89

आत्मवदिति। म इव मेति व्युत्पत्तिरिति भावः। ओं मायै नमः।

विश्वास-प्रस्तुतिः

प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ॥ 90 ॥

मूलम्

प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ॥ 90 ॥

टिप्पनी 90

देवीशब्दं निर्वक्ति—प्रदात्रीति। दाधातुमवधातुं चादाय निरुच्यते। देवस्य दयितेति। पुंयोगे ङीषिति भावः। ओं देव्यै नमः।

विश्वास-प्रस्तुतिः

पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ॥ 91 ॥

मूलम्

पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ॥ 91 ॥

टिप्पनी 91

“कां सोस्मिताम्” इत्यत्र कामिति पृथक् पदम्। केति नाम निर्वक्ति—शब्दाये इति। शब्दं करोमीत्यर्थः।

विश्वास-प्रस्तुतिः

काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥

मूलम्

काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥

टिप्पनी 92

काये इति। प्रतिपाद्ये इत्यर्थः। किंशब्दमादायाह—अन्विष्ये इति। क इति ब्रह्मणो नामेति मत्वाह—ब्रह्मेत्यादि। ओं कायै नमः।

विश्वास-प्रस्तुतिः

सृजामि विविधान् 40भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ॥ 93 ॥

मूलम्

सृजामि विविधान् 40भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ॥ 93 ॥

विश्वास-प्रस्तुतिः

पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ॥ 94 ॥

मूलम्

पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ॥ 94 ॥

टिप्पनी 94

सोस्मितेति नाम निर्वक्ति—उदितीति। “तस्योदिति नाम” इति श्रुत्यर्थोऽत्राभिप्रेतः। तस्य ब्रह्मणो या विकस्तिर्विकासो बृहत्त्वमिति यावत्; सा विकस्तिरेव स्मितम्। उस्मितमिति रूपम्। तेन सहिता सोस्मिता। भगवतो नारायणस्य यत्‌ बृहत्त्वं, तत् एतदायत्तमित्युक्तं भवति। यदाहुः—“अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्” इति। ओं सोस्मितायै नमः।

विश्वास-प्रस्तुतिः

मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्41 ॥ 95 ॥

मूलम्

मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्41 ॥ 95 ॥

विश्वास-प्रस्तुतिः

हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ॥ 96 ॥

मूलम्

हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ॥ 96 ॥

टिप्पनी 96

हिरण्यप्राकारेति नाम निरुच्यते—हिता चेति। प्राकारशब्दः प्रकृतिपरः। ओं हिरण्यप्राकारायै नमः।

42अतो हिरण्यप्राकारामृषयो मामुपासते।
दशाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 97 ॥

विश्वास-प्रस्तुतिः

आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ॥ 98 ॥

मूलम्

आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ॥ 98 ॥

टिप्पनी 98

आर्द्रेति नाम निर्वक्ति—आरादिति। दूरे इत्यर्थः। निर्वचनान्तरम्—अधोमुखादिति।

विश्वास-प्रस्तुतिः

अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि 43सर्वभूतान्तर्गगने परमे सदा ॥ 99 ॥

मूलम्

अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि 43सर्वभूतान्तर्गगने परमे सदा ॥ 99 ॥

टिप्पनी 99

ज्वलन्तीति नाम निर्वक्ति—ज्वलामीति।

विश्वास-प्रस्तुतिः

शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥

मूलम्

शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥

टिप्पनी 100

शब्दब्रह्मस्वरूपत्वमाह—शुद्धेति। अशिखेति परारूपमुच्यते। पश्यन्तीमध्यमावैखरीभेदेन त्रिशिखा। स्पर्शात्मना पञ्चविंशतिशिखा।

विश्वास-प्रस्तुतिः

सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ॥ 101 ॥

मूलम्

सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ॥ 101 ॥

टिप्पनी 101

यादिसान्तधारणाव्यूहात्मना सप्तधा। हलक्षात्मना त्रिधा चेत्यर्थः। ओं आर्द्रायै नमः। ओं ज्वलन्त्यै नमः।

विश्वास-प्रस्तुतिः

हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥

मूलम्

हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥

टिप्पनी 102

तृप्तेते नाम्नो निर्वचनमाह—हराविति। प्राकृतैर्विनेति। अप्राकृतैरित्यर्थः। ओं तृप्तायै नमः।

विश्वास-प्रस्तुतिः

तां मां तृप्तामनुध्याय मुनयो 44वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ॥ 103 ॥

मूलम्

तां मां तृप्तामनुध्याय मुनयो 44वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ॥ 103 ॥

विश्वास-प्रस्तुतिः

षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्‌गुणैरपि ॥ 104 ॥

मूलम्

षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्‌गुणैरपि ॥ 104 ॥

टिप्पनी 104

तर्पयन्तीति नामाह—तर्पयामीति। तर्पणं च बहूनां बहुभिः साधनैर्वर्णयति—गुणैरित्यादिना।

विश्वास-प्रस्तुतिः

द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं 45प्राणानां प्रेरणावशात् ॥ 105 ॥

मूलम्

द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं 45प्राणानां प्रेरणावशात् ॥ 105 ॥

टिप्पनी 105

देहे द्वासप्ततिर्नाड्यः योगशास्त्रप्रसिद्धाः। अत्र देहस्य सागरत्वेन, नाडीनां नदीत्वेन, प्राणानां वायुत्वेन, रसानां जलत्वेन चाध्यवसायो विवक्षितः।

सौषुम्नेनाद्वना नित्यं परं भावमुपेयुषाम्।
46बिम्बभावमुपेताहं विमले योगदर्पणे ॥ 106 ॥

टिप्पनी 106

प्रकारान्तरमाह—सौषुम्नेनेति।

विश्वास-प्रस्तुतिः

आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ॥ 107 ॥

मूलम्

आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ॥ 107 ॥

विश्वास-प्रस्तुतिः

प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ॥ 108 ॥

मूलम्

प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ॥ 108 ॥

टिप्पनी 108

प्रकारान्तरमाह—प्रकृत्यादीति। सदा परिणामोन्मुखमित्यनेन प्रकृतेः नित्यपरिणामस्वभावत्वमुक्तं भवति।

विश्वास-प्रस्तुतिः

आपगाभिरिवाम्भोधिं प्राणाधानेन47 तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ॥ 109 ॥

मूलम्

आपगाभिरिवाम्भोधिं प्राणाधानेन47 तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ॥ 109 ॥

टिप्पनी 109

तात्पर्यान्तरमाह–स्नेहेनेति।

विश्वास-प्रस्तुतिः

निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ॥ 110 ॥

मूलम्

निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ॥ 110 ॥

विश्वास-प्रस्तुतिः

सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं48 जगत्।
पद्यमानं 49मिनोतीति कालं पद्मं प्रचक्षते ॥ 111 ॥

मूलम्

सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं48 जगत्।
पद्यमानं 49मिनोतीति कालं पद्मं प्रचक्षते ॥ 111 ॥

टिप्पनी 111

ओं तर्पयन्त्यै नमः। पद्मे स्थितेति नाम निर्वक्ति—पद्यमानमिति। सकलं प्रमेयमित्यर्थः। मिनोति; परिच्छिनत्ति। ओं पद्मे स्थितायै नमः।

विश्वास-प्रस्तुतिः

कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ॥ 112 ॥

मूलम्

कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ॥ 112 ॥

विश्वास-प्रस्तुतिः

पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ॥ 113 ॥

मूलम्

पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ॥ 113 ॥

टिप्पनी 113

पद्यमानत्वात् पुंप्रधानेश्वराः पद्मशब्दार्थाः। तात्पर्यान्तरं पद्माकारैरिति। ओं पद्मवर्णायै नमः।

विश्वास-प्रस्तुतिः

पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ॥ 114 ॥

मूलम्

पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ॥ 114 ॥

टिप्पनी 114

चन्द्रेति नाम निरुच्यते—उद्गत इति। ओं चन्द्रायै नमः।

विश्वास-प्रस्तुतिः

चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ॥ 115 ॥

मूलम्

चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ॥ 115 ॥

विश्वास-प्रस्तुतिः

यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ॥ 116 ॥

मूलम्

यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ॥ 116 ॥

विश्वास-प्रस्तुतिः

प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ॥ 117 ॥

मूलम्

प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ॥ 117 ॥

टिप्पनी 117

प्रकृष्यमाणा इत्यादि। प्रभासानामनिर्वचनमत्र। भासां प्रकर्षमेवाह–येनेति। सूर्यादिर्येन तेजसान्येषां तेजस्तिरयितुमिच्छति, तदपि मत्तेजसा तिरोधीयते।

विश्वास-प्रस्तुतिः

यथा हि स्वशिरश्छाया स्वपदा नैव लङ्‌घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ॥ 118 ॥

मूलम्

यथा हि स्वशिरश्छाया स्वपदा नैव लङ्‌घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ॥ 118 ॥

टिप्पनी 118

अप्रधृष्यत्वे लौकिकं निदर्शनमाह—यथेति।

विश्वास-प्रस्तुतिः

नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥

मूलम्

नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥

टिप्पनी 119

प्रकारान्तरमाह—नित्येत्यादि। श्रद्धामित्यादि। एतच्च छान्दोग्ये प्रसिद्धम्। द्वितीयान्तानां श्रद्धामित्यादीनाम् अस्यन्तीत्युत्तरेणान्वयः।

विश्वास-प्रस्तुतिः

भोग्यशक्तिप्रभा एता अस्यन्ती षट्‌सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ॥ 120 ॥

मूलम्

भोग्यशक्तिप्रभा एता अस्यन्ती षट्‌सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ॥ 120 ॥

टिप्पनी 120

षट्‌सु वह्निषु; स्वर्गादिष्वित्यर्थः। प्रभा अस्यतीति व्युत्पत्तिः। ओं प्रभासायै नमः।

विश्वास-प्रस्तुतिः

सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ॥ 121 ॥

मूलम्

सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ॥ 121 ॥

टिप्पनी 121

यशसेति नाम निरुच्यते—यश इति।

विश्वास-प्रस्तुतिः

मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥

मूलम्

मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥

टिप्पनी 122

तच्च यशश्च नानारूपं भवति। तदेवाह—यशस इत्यादिना।

विश्वास-प्रस्तुतिः

अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो 50यशोदो जपतो भवेत् ॥ 123 ॥

मूलम्

अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो 50यशोदो जपतो भवेत् ॥ 123 ॥

टिप्पनी 123

ओं यशसायै नमः। एतदनुसारेण “चन्द्रां प्रभासां यशसां ज्वलन्तीम्” इति सूक्तपाठः।

विश्वास-प्रस्तुतिः

स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ॥ 124 ॥

मूलम्

स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ॥ 124 ॥

टिप्पनी 124

ज्वलन्तीति नाम निर्वक्ति—स्वर्गेत्यादिना।

विश्वास-प्रस्तुतिः

षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ॥ 125 ॥

मूलम्

षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ॥ 125 ॥

टिप्पनी 125

भोक्तृशक्तीत्यनेन भोग्यशक्तितात्पर्यकप्रभासानामवैलक्षण्यं प्रतिपादितं भवति। ओं ज्वलन्त्यै नमः।

विश्वास-प्रस्तुतिः

अग्नीषोमविभागेन विश्वमेवं 51भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ॥ 126 ॥

मूलम्

अग्नीषोमविभागेन विश्वमेवं 51भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ॥ 126 ॥

विश्वास-प्रस्तुतिः

देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः52 ॥ 127 ॥

मूलम्

देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः52 ॥ 127 ॥

टिप्पनी 127

देवजुष्टानामनिर्वचनं देवेनेत्यादिना। देवशब्दस्येन्द्रियपरत्वमादायोच्यते—देवाश्चेति।

विश्वास-प्रस्तुतिः

परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ॥ 128 ॥

मूलम्

परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ॥ 128 ॥

विषयेषु प्रवर्तन्ते श्रोत्रवाङ्मनआदयः।
53वृत्त्यर्थ सेवितामक्षैर्देवजुष्टां तु मां विदुः ॥ 129 ॥

टिप्पनी 129

देवशब्दस्येन्द्रियपरत्वादाह—श्रोत्रेत्यादि। वृत्त्यर्थे; विषयव्यापृतिरूपार्थे। अक्षैः; इन्द्रियैः। ओं देवजुष्टायै नमः ।

विश्वास-प्रस्तुतिः

सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान्‌ विजयतेऽखिलान् ॥ 130 ॥

मूलम्

सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान्‌ विजयतेऽखिलान् ॥ 130 ॥

विश्वास-प्रस्तुतिः

मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥

मूलम्

मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥

टिप्पनी 131

उदारानामनिरुक्तिः मत्त एवेत्यादिना। ओं उदारायै नमः।

विश्वास-प्रस्तुतिः

विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ॥ 132 ॥

मूलम्

विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ॥ 132 ॥

तनोमि पञ्च कृत्यानि ताये च जगदात्मना।
54तां मां तामिति तत्त्वज्ञाः प्राहुर्वेदान्तपारगाः ॥ 133 ॥

टिप्पनी 133

“तां पद्मनेमीम्” इत्यत्र तामिति पृथक् नामाभिप्रेत्य निर्वचनमाह–तनोमीति। पञ्च कृत्यानि सर्गादीनि। ताये; विस्तृता भवामीत्यर्थः। “तायृ संतानपालनयोः” इति धातुः। ओं तायै नमः।

विश्वास-प्रस्तुतिः

पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ॥ 134 ॥

मूलम्

पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ॥ 134 ॥

टिप्पनी 134

पद्मनेमीनामनिर्वचनम्—प्रकृतिमित्यादिना। नयामीति पदधात्वर्थः। नेमिशब्दार्थः बहिरिति। ओं पद्मनेम्यै नमः।

विश्वास-प्रस्तुतिः

कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥

मूलम्

कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥

55आदित्यं वर्णयाम्येका तेजसा यशसा श्रिया।
आदित्यस्था च वर्णात्मा भूत्वा दिव्या त्रयीमयी ॥ 136 ॥

टिप्पनी 136

आदित्यवर्णेति नामाह—आदित्यमिति। वर्णयामि; वर्णवन्तं तेजस्विनं करोमि। वर्णशब्दस्याक्षरपरत्वमभिसंधायाह—वर्णात्मेति।

विश्वास-प्रस्तुतिः

प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ॥ 137 ॥

मूलम्

प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ॥ 137 ॥

टिप्पनी 137

चक्षुरिति। “चक्षुर्मित्रस्य वरुणस्याग्नेः” इति श्रुत्यर्थो ज्ञातव्यः।

विश्वास-प्रस्तुतिः

आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥

मूलम्

आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥

टिप्पनी 138

आदौ त्यः सिद्ध इत्यर्थं मत्वाह—आदिभूत इति।

विश्वास-प्रस्तुतिः

तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी56
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ॥ 139 ॥

मूलम्

तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी56
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ॥ 139 ॥

विश्वास-प्रस्तुतिः

तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥

मूलम्

तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥

टिप्पनी 140

तत्र ब्रह्मणीति। प्रणवशिखायामित्यर्थः। आदित्यवर्णजातं प्रणवाज्जातं सर्वमपि वाङ्‌मयमित्यर्थः। ओं आदित्यवर्णायै नमः।

विश्वास-प्रस्तुतिः

शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता57 ॥ 141 ॥

मूलम्

शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता57 ॥ 141 ॥

विश्वास-प्रस्तुतिः

एतानादित्यवर्णेति 58मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ॥ 142 ॥

मूलम्

एतानादित्यवर्णेति 58मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ॥ 142 ॥

विश्वास-प्रस्तुतिः

किरन्ती किरणान् लोके 59किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ॥ 143 ॥

मूलम्

किरन्ती किरणान् लोके 59किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ॥ 143 ॥

टिप्पनी 143

कीर्तिनामनिर्वचनम्–किरन्तीत्यादि। कॄ विक्षेपे। पिक्षेपः किरणानां शब्दानां च। तत्र शब्दानामाह—उत्तरोत्तरमिति। पश्यन्तीमध्यमावैखरीरूपेणेत्यर्थः। श्रुतौ “देवसखः” इति व्यत्ययेन तृतीयार्थे प्रथमा। मणिनेत्यस्य विवरणम्—आधारवह्निनेति।

विश्वास-प्रस्तुतिः

शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ॥ 144 ॥

मूलम्

शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ॥ 144 ॥

टिप्पनी 144

श्रुतौ “उपैतु” इत्यस्यार्थवर्णनम्—भजामीति। ओं कीर्त्यै नमः।

विश्वास-प्रस्तुतिः

कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥

मूलम्

कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥

60ऋद्धास्म्यहं गुणैविष्णोरर्धयामि च योगिनः।
पत्रेषु योगपद्मानामाधारान्तरचारिणाम् ॥ 146 ॥

टिप्पनी 146

ऋद्धिरिति नाम निर्वक्ति—ऋद्धेति। समृद्धेत्यर्थः। अर्धयामि; प्रीणयामि। वृद्धिमेवाह—पत्रेष्विति।

उत्तरोत्तरमृथ्यामि 61भजन्ती विस्तृतिं पराम्।
62ऋद्धिं वृद्धास्ततः प्राहुर्योगिनो योगदीपिनीम् ॥ 147 ॥

टिप्पनी 147

ऋध्यामि; वृद्धिं प्राप्नोमि। ओं ऋद्ध्यै नमः।

विश्वास-प्रस्तुतिः

गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ॥ 148 ॥

मूलम्

गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ॥ 148 ॥

टिप्पनी 148

गन्धशब्दो रूपरसादीनामप्युपलक्षकस्तदाश्रयपृथिव्यादीनि लक्षयति। “अन्नं ब्रह्मेति व्यजानात्” इत्यत्रान्नमयकोशो ब्रह्मज्ञानद्वारत्वेन श्रुतौ विहितः। “पृथिवी वा अन्नम्” इति श्रुतिरेवान्नशब्दं पृथीवीपरमाचष्टे। अतो देवीज्ञाने पृथिव्यादयो द्वारबूयमापद्यन्ते। ओं गन्धद्वारायै नमः।

विश्वास-प्रस्तुतिः

गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ॥ 149 ॥

मूलम्

गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ॥ 149 ॥

विश्वास-प्रस्तुतिः

शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥

मूलम्

शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥

विश्वास-प्रस्तुतिः

ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ॥ 151 ॥

मूलम्

ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ॥ 151 ॥

टिप्पनी 151

तत्; अपनयनम्।

विश्वास-प्रस्तुतिः

शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ॥ 152 ॥

मूलम्

शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ॥ 152 ॥

टिप्पनी 152

तदभावा; धर्षणाभावरूपेत्यर्थः। ओं दुराधर्षायै नमः।

विश्वास-प्रस्तुतिः

दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः63 ॥ 153 ॥

मूलम्

दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः63 ॥ 153 ॥

64नित्येन विष्णुना पुष्टा नित्यं पुष्टा च सद्गुणैः।
विषयैर्मे विना पुष्टा नित्यं संवित् परा तनुः ॥ 154 ॥

टिप्पनी 154

नित्यपुष्टानामनिर्वचनम्—नित्येनेत्यादिना। सद्गुणैः; ज्ञानशक्त्यादिगुणैः। विषयैर्विनापि मे संविद्रूपा परा तनुः पुष्टेत्यन्वयः। ओं नित्यपुष्टायै नमः।

विश्वास-प्रस्तुतिः

सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥

मूलम्

सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥

विश्वास-प्रस्तुतिः

अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥

मूलम्

अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥

टिप्पनी 156

करीषिणीति नाम निर्वक्ति—करिण इति। कर्तार इति। करिन्‌शब्दः कृधातोर्निष्पन्न इति भावः। त्रिशुद्धाः; कायवाङ्मनसशुद्धाः। त्रिक्रियाः; यजनदानाध्ययनरूपाः।

विश्वास-प्रस्तुतिः

तानिच्छामि सदा द्रष्टुं मनसा 65यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ॥ 157 ॥

मूलम्

तानिच्छामि सदा द्रष्टुं मनसा 65यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ॥ 157 ॥

टिप्पनी 157

इच्छार्थकमुधातुमादायार्थमाह—तानिच्छामीति। “इष गतौ” इत्येतदबिसन्धायाह–मनसा यामीति। करिशब्दस्य गजपरत्वप्रसिद्धिमभिप्रेत्याह–गजेन्द्रा इति। ओं करीषिण्यै नमः।

विश्वास-प्रस्तुतिः

तैरीश्वरा सदा यामि कर्त्री चान्तवती66 सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ॥ 158 ॥

मूलम्

तैरीश्वरा सदा यामि कर्त्री चान्तवती66 सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ॥ 158 ॥

विश्वास-प्रस्तुतिः

सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि 67प्रियेणेशेन सर्वदा ॥ 159 ॥

मूलम्

सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि 67प्रियेणेशेन सर्वदा ॥ 159 ॥

टिप्पनी 159

ईश्वरीति नाम निराह—भूतानामित्यादिना। ईश्वरेति; ईष्टे इत्यर्थे “स्थेशभास” इत्यादिना वरचि रूपम्। भूतशब्दो निखिलचेतनाचेतनपरः। प्रियेणेशेनेति सहयोगे तृतीया। वनिता; ध्यातेत्यर्थः। ओं ईश्वर्यै नमः।

विश्वास-प्रस्तुतिः

वरदा भुवनेशाना वनिता68 च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥

मूलम्

वरदा भुवनेशाना वनिता68 च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥

विश्वास-प्रस्तुतिः

ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ॥ 161 ॥

मूलम्

ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ॥ 161 ॥

विश्वास-प्रस्तुतिः

भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ॥ 162 ॥

मूलम्

भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ॥ 162 ॥

विश्वास-प्रस्तुतिः

मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥

मूलम्

मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥

टिप्पनी 163

मनसः काम इति नाम्नो निर्वचनान्तरमाह—मनोरथानामिति। ओं मनसः कामाय नमः।

विश्वास-प्रस्तुतिः

मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥

मूलम्

मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥

विश्वास-प्रस्तुतिः

लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥

मूलम्

लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥

टिप्पनी 165

वाच आकूतिरिति नाम निर्वक्ति—लौकिक्य इति।

विश्वास-प्रस्तुतिः

मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ॥ 166 ॥

मूलम्

मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ॥ 166 ॥

टिप्पनी 166

अभिप्रेत्येति। आकूतिशब्दोऽभिप्रायपर इति भावः। सर्ववचसां तात्पर्यभूमिरित्यर्थः। ओं वाच आकूत्यैनमः।

विश्वास-प्रस्तुतिः

तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ॥ 167 ॥

मूलम्

तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ॥ 167 ॥

विश्वास-प्रस्तुतिः

अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद्‌ द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥

मूलम्

अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद्‌ द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥

टिप्पनी 168

सत्यमिति नाम निराह—सच्चेति। “सच्च त्यच्चाभवत्” इति श्रुतिरत्राभिप्रेता। ओं सत्याय नमः।

विश्वास-प्रस्तुतिः

तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ॥ 169 ॥

मूलम्

तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ॥ 169 ॥

विश्वास-प्रस्तुतिः

पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥

मूलम्

पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥

टिप्पनी 170

पशूनां रूपमिति नाम निराह—पश्यन्तीति। पशुशब्दो जीवपरः। तिसृभिर्विधाभिरिति। देवतिर्यङ्भनुष्यरूपाभिः, बद्धमुक्तनित्यरूपाभिर्वेत्यर्थः।

विश्वास-प्रस्तुतिः

तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ॥ 171 ॥

मूलम्

तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ॥ 171 ॥

विश्वास-प्रस्तुतिः

आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥

मूलम्

आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥

टिप्पनी 172

आग्नेयी शक्तिः; भोक्तृशक्तिः। ओं पशूनां रूपाय नमः।

विश्वास-प्रस्तुतिः

नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं 69षड्‌गुणोत्थं च द्विधान्नं परिकीर्तितम् ॥ 173 ॥

मूलम्

नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं 69षड्‌गुणोत्थं च द्विधान्नं परिकीर्तितम् ॥ 173 ॥

टिप्पनी 173

अन्नस्य यश इति नाम निराह—त्रैगुण्यमिति। त्रैगुण्यमन्नं प्राकृतभोग्यजातम्। षाड्‌गुण्यमन्नम् अप्राकृतभोग्यजातम्; यदभिप्रेत्य “अहमन्नादोऽहमन्नादोऽहमन्नादः” इति मुक्तानां गानं श्रुतिराह।

विश्वास-प्रस्तुतिः

त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ॥ 174 ॥

मूलम्

त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ॥ 174 ॥

विश्वास-प्रस्तुतिः

तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ॥ 175 ॥

मूलम्

तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ॥ 175 ॥

विश्वास-प्रस्तुतिः

सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ॥ 176 ॥

मूलम्

सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ॥ 176 ॥

टिप्पनी 176

सोमशक्तिः; भोग्यशक्तिः। ओं अन्नस्य यशसे नमः।

विश्वास-प्रस्तुतिः

नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥

मूलम्

नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥

टिप्पनी 177

“मातरं पद्ममालिनीम्” इत्यत्रत्यं मातेति नाम निर्वक्ति—मिमे इति। भुवनपदमन्त्रतत्त्वकलावर्णाख्यान् षडध्वनः परिच्छिनद्मीत्यर्थः।

विश्वास-प्रस्तुतिः

मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं70 भवसागरम् ॥ 178 ॥

मूलम्

मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं70 भवसागरम् ॥ 178 ॥

टिप्पनी 178

मितिः; ज्ञानम्। माति; परिमितं वर्तते। एवं माशब्दार्थमुक्त्वा तृशब्दार्थमाह—तारयामीति। “तॄ प्लवनतरणयोः” इति धातुः।

विश्वास-प्रस्तुतिः

उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं71 पयसा मेघतां गता ॥ 179 ॥

मूलम्

उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं71 पयसा मेघतां गता ॥ 179 ॥

टिप्पनी 179

प्लवनार्थमाह–प्लावयामीति। ओं मात्रे नमः।

विश्वास-प्रस्तुतिः

प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥

मूलम्

प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥

विश्वास-प्रस्तुतिः

पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ॥ 181 ॥

मूलम्

पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ॥ 181 ॥

विश्वास-प्रस्तुतिः

मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥

मूलम्

मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥

टिप्पनी 182

सुषुम्नापर्यायनामान्याह—मुक्तियानमिति।

विश्वास-प्रस्तुतिः

संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं 72वपुर्गतिम् ॥ 183 ॥

मूलम्

संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं 72वपुर्गतिम् ॥ 183 ॥

विश्वास-प्रस्तुतिः

व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥

मूलम्

व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥

टिप्पनी 184

परममाकाशम्; ब्रह्मरन्ध्रम्।

विश्वास-प्रस्तुतिः

साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ॥ 185 ॥

मूलम्

साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ॥ 185 ॥

टिप्पनी 185

वस्तिः; नाभेरधोबागः।

विश्वास-प्रस्तुतिः

आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥

मूलम्

आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥

टिप्पनी 186

द्वात्रिंशदिति। योगशास्त्रप्रसिद्धानि आधारपद्मानि।

विश्वास-प्रस्तुतिः

प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥

मूलम्

प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥

टिप्पनी 187

द्वत्रिंशदिति। योगशास्त्रप्रसिद्धानि आधारपद्मानि।

विश्वास-प्रस्तुतिः

अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ॥ 188 ॥

मूलम्

अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ॥ 188 ॥

टिप्पनी 188

पुष्करिणीनाम निर्वक्ति—पोषमिति। पुष्‌धातुं कृधातुं चादाय निरुक्तिर्विवक्षिता।

विश्वास-प्रस्तुतिः

पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥

मूलम्

पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥

टिप्पनी 189

पद्मपर्यायात् पुष्करशब्दात् व्युत्पत्तिमाह–पुष्करमिति। ओं पुष्करिण्यै नमः।

विश्वास-प्रस्तुतिः

सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ॥ 190 ॥

मूलम्

सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ॥ 190 ॥

टिप्पनी 190

यष्टिरिति नामाह—इष्टास्मीति। सर्वदेवैः पूजितेत्यर्थः।

विश्वास-प्रस्तुतिः

दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥

मूलम्

दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥

टिप्पनी 191

यष्टिशब्दस्य दण्डार्थकत्वाभिप्रायेणाह—अवलम्बनमिति। ओं यष्टये नमः।

विश्वास-प्रस्तुतिः

यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ॥ 192 ॥

मूलम्

यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ॥ 192 ॥

विश्वास-प्रस्तुतिः

पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ॥ 193 ॥

मूलम्

पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ॥ 193 ॥

टिप्पनी 193

पिङ्गलानामाह—पिङ्गायेति। “ला दाने” इति धातुमभिसंधायाह—अदामिति। ओं पिह्गलायै नमः।

विश्वास-प्रस्तुतिः

यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ॥ 194 ॥

मूलम्

यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ॥ 194 ॥

विश्वास-प्रस्तुतिः

तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ॥ 195 ॥

मूलम्

तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ॥ 195 ॥

टिप्पनी 195

तुष्टिनामनिर्वचनम्—तोषयामीत्यादिना। ओं तुष्टये नमः।

विश्वास-प्रस्तुतिः

तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः73 ॥ 196 ॥

मूलम्

तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः73 ॥ 196 ॥

विश्वास-प्रस्तुतिः

सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥

मूलम्

सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥

टिप्पनी 197

सुवर्णेति नाम निराह—सुवर्णयामीति। सुवः नयामीति छेदः। आर्षं णत्वम्। अपरं सुवः स्वर्गः। परं सुवः परमपदम्। सु शोभनाः वर्णा वाचकाः यस्या इति व्युत्पत्तिमाह—अनिदमित्यादि।

विश्वास-प्रस्तुतिः

नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ॥ 198 ॥

मूलम्

नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ॥ 198 ॥

टिप्पनी 198

अर्थान्तरमाह—शोभनमित्यादि। ओं सुवर्णायै नमः।

सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः।
74हैमं च पर्वतं दिव्यं चन्द्रार्कग्रहपूरितम् ॥ 199 ॥

टिप्पनी 199

हेममालिनीति नाम निरुच्यते—हैममिति। महामेरुमित्यर्थः। ओं हेममालिन्यै नमः।

विश्वास-प्रस्तुतिः

धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥

मूलम्

धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥

विश्वास-प्रस्तुतिः

अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ॥ 201 ॥

मूलम्

अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ॥ 201 ॥

टिप्पनी 201

सूर्येति नाम निर्वक्ति—हितायेति। प्रसूये इति सूशब्दार्थः।

विश्वास-प्रस्तुतिः

रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ॥ 202 ॥

मूलम्

रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ॥ 202 ॥

टिप्पनी 202

रमयामीति रेफार्थः। यथार्हतः; अधिकारिभेदेनेत्यर्थः। नियच्छामीति यकारार्थः।

विश्वास-प्रस्तुतिः

सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ॥ 203 ॥

मूलम्

सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ॥ 203 ॥

टिप्पनी 203

अर्थान्तरमाह–सूरिभ्यश्चेति। हितेति; यत्प्रत्ययार्थ इति भावः। ओं सूर्यायै नमः।

विश्वास-प्रस्तुतिः

षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ॥ 204 ॥

मूलम्

षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ॥ 204 ॥

विश्वास-प्रस्तुतिः

कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥

मूलम्

कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥

न तावदेव माहात्म्यमेषां चिन्त्यं विपश्चिता।
75आ मोक्षान्निर्विचारेण सर्वा सर्वफलप्रदा ॥ 206 ॥

विश्वास-प्रस्तुतिः

नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ॥ 207 ॥

मूलम्

नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ॥ 207 ॥

विश्वास-प्रस्तुतिः

वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ॥ 208 ॥

मूलम्

वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ॥ 208 ॥

विश्वास-प्रस्तुतिः

यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥

मूलम्

यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥

विश्वास-प्रस्तुतिः

यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥

मूलम्

यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥

विश्वास-प्रस्तुतिः

सैषा वेदविदां निष्ठा सैषा 76तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ॥ 211 ॥

मूलम्

सैषा वेदविदां निष्ठा सैषा 76तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ॥ 211 ॥

टिप्पनी 211

शैषेत्यस्य प्रतिसंबन्धी यदिति शब्द अध्याहार्यः। मां प्रपद्येतेति यत् सैषेति निष्ठाशब्दानुगुणः स्रीलिङ्गनिर्देशः; “शैत्यं हि यत्‌ सा प्रकृतिर्जलस्य” इतिवत्।

विश्वास-प्रस्तुतिः

सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ॥ 212 ॥

मूलम्

सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ॥ 212 ॥

विश्वास-प्रस्तुतिः

प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ॥ 213 ॥

मूलम्

प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ॥ 213 ॥

टिप्पनी 213

इत्येवमिति। वक्ष्यमाणरीत्येत्यर्थः।

विश्वास-प्रस्तुतिः

प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ 214 ॥

मूलम्

प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ 214 ॥

टिप्पनी 214

प्रातिकूल्यमित्यादिना सप्तदशेऽध्याये प्रोक्तान्यङ्गान्यत्र स्मार्यन्ते।

विश्वास-प्रस्तुतिः

अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः 77सापि नश्यतु ॥ 215 ॥

मूलम्

अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः 77सापि नश्यतु ॥ 215 ॥

विश्वास-प्रस्तुतिः

अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकाश्रयः ॥ 216 ॥

मूलम्

अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकाश्रयः ॥ 216 ॥

टिप्पनी 216

त्रयः कर्मज्ञानभक्त्यादय उपाया इत्यर्थः।

विश्वास-प्रस्तुतिः

तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु78 तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ॥ 217 ॥

मूलम्

तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु78 तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ॥ 217 ॥

टिप्पनी 217

तथापीति। चोदितानामनुपायत्वेऽपीत्यर्थः। अत्र; उपायेषु। आज्ञापरिपालनमिति। “ब्राह्नणा विविदिषन्ति यज्ञेन दानेन तपसानाश केन” “ओमित्येवं ध्यायथ” “ओमित्यात्मानं युञ्जीत” “मुमुक्षुर्वै शरणमहं प्रपद्ये” “नियतं कुरु कर्म त्वम्” “मामेकं शरणं व्रज” “प्रपद्येन्नियतः श्रियम्” इत्यादिविधिरूपाज्ञापरिपालनमित्यर्थः।

विश्वास-प्रस्तुतिः

छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ॥ 218 ॥

मूलम्

छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ॥ 218 ॥

टिप्पनी 218

छायामिति; त्वत्कृपामिति यावत्।

विश्वास-प्रस्तुतिः

त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ॥ 219 ॥

मूलम्

त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ॥ 219 ॥

79तत् सर्वं तव विन्यस्तं शुभयोः पादपद्मयोः.
उपेयायास्तव प्राप्त्यै त्वामुपायं तथा वृणे ॥ 220 ॥

टिप्पनी 220

सर्वं विन्यस्तमित्यनेनात्मात्मीयनिक्षेप उच्यते।

विश्वास-प्रस्तुतिः

उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ॥ 221 ॥

मूलम्

उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ॥ 221 ॥

टिप्पनी 221

पुष्य धियमित्यनेन फलभक्तिः प्रार्थ्यते।

विश्वास-प्रस्तुतिः

इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥ 222 ॥

मूलम्

इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥ 222 ॥

विश्वास-प्रस्तुतिः

परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ॥ 223 ॥

मूलम्

परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ॥ 223 ॥

विश्वास-प्रस्तुतिः

समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥

मूलम्

समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥

टिप्पनी 224

समर्थयति; फलप्रदानसमर्थानि करोति। मायाम्; प्रकृतिसंबन्धम्। अलक्ष्मीं च मलैः सहेत्यनेन “क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्” इति श्रीसूक्तार्थः स्मार्यते।

विश्वास-प्रस्तुतिः

एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥

मूलम्

एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥

टिप्पनी 225

त्रायत इत्यादिना अनिष्टनिवृत्तिरिष्टप्राप्तिश्चोच्यते।

विश्वास-प्रस्तुतिः

इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ॥ 226 ॥

मूलम्

इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ॥ 226 ॥

विश्वास-प्रस्तुतिः

मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥

मूलम्

मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥

विश्वास-प्रस्तुतिः

लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥

मूलम्

लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥

80इन्द्रियाणां मनः श्रेष्ठं चलतां च मरुद्यथा।
मेरुः श्रेष्ठो गिरीणां च त्रिस्रोताः सरितां यथा ॥ 229 ॥

विश्वास-प्रस्तुतिः

आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥

मूलम्

आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥

टिप्पनी 230

आश्रमाणामिति। आश्रमिणामित्यर्थः।

विश्वास-प्रस्तुतिः

श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया॥

तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ॥ 231 ॥

मूलम्

तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ॥ 231 ॥

विश्वास-प्रस्तुतिः

अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ॥ 232 ॥

मूलम्

अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ॥ 232 ॥

विश्वास-प्रस्तुतिः

एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां 81परमं तन्त्रं मुद्रितं मत्समाख्यया ॥ 233 ॥

मूलम्

एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां 81परमं तन्त्रं मुद्रितं मत्समाख्यया ॥ 233 ॥

विश्वास-प्रस्तुतिः

नाव्रतस्नायिने देयं न 82कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ॥ 234 ॥

मूलम्

नाव्रतस्नायिने देयं न 82कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ॥ 234 ॥

विश्वास-प्रस्तुतिः

नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ॥ 235 ॥

मूलम्

नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ॥ 235 ॥

निर्णीतवेदतन्त्राय मद्भक्ताय विशेषतः।
83भूयसीं वहते भक्तिं वासुदेवे जनार्दने ॥ 236 ॥

विश्वास-प्रस्तुतिः

शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया॥

मूलम्

शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया॥

प्रीताहं त्वयि देवेश किं भूयः श्रोतुमिच्छसि ॥ 237 ॥

इति 84श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे श्रीसूक्तप्रभावप्रकाशो नाम पञ्चाशोऽध्यायः85

इति पञ्चाशोऽध्यायः

  1. श्रीरुवाच B. F. I. ↩︎ ↩︎

  2. वित् I. ↩︎

  3. निरधिष्ठः I. ↩︎

  4. विभावनः A. B. C. ↩︎ ↩︎

  5. त्विति A. B. G. ↩︎

  6. उपायान्वेषणे ण. ↩︎

  7. अनाकुलमनातुरम् I. ↩︎ ↩︎

  8. I. omits this line. ↩︎

  9. C. omits four lines from here. ↩︎

  10. मत्सूक्ते B. ↩︎ ↩︎

  11. आद्यं I. ↩︎ ↩︎

  12. परमात्मनः A. ↩︎

  13. तदङ्गलग्नां मां चैव I. ↩︎

  14. पश्चात्पाद्यं I. ↩︎ ↩︎

  15. दीपधूपौ B. ↩︎ ↩︎

  16. द्वारेण C. F. I. ↩︎ ↩︎

  17. दीपधूपौ B. ↩︎ ↩︎

  18. व्रणे C. ↩︎ ↩︎

  19. I. omits three lines from here. ↩︎

  20. अथ I. ↩︎ ↩︎

  21. I. omits nine lines from here. ↩︎

  22. स्रष्टुं A. G. ↩︎ ↩︎

  23. राजतास्च I. ↩︎

  24. कैलासं I. ↩︎

  25. सतार A. B. ↩︎ ↩︎

  26. नाभिस्थां I. ↩︎

  27. पुनस्तं A. G. ↩︎

  28. लक्ष्मीलक्षणलक्ष्मीं मां I. ↩︎

  29. विष्णोरिव विवर्तते I. ↩︎ ↩︎

  30. योगरूपसमन्वितम् I. ↩︎ ↩︎

  31. I. omits this line. ↩︎

  32. विश्वामित्रे सितात्मनि I. ↩︎ ↩︎

  33. हेषणानादं I. ↩︎ ↩︎

  34. सेविता F. I. ↩︎ ↩︎

  35. विश्वतन्त्री I. ↩︎ ↩︎

  36. शक्नोमि A. ↩︎ ↩︎

  37. अहं नाथो विभूतिश्च त्रैलोवयं च सुरेश्वर I. ↩︎

  38. एषु A. G. ↩︎

  39. शुष्मिणो मेऽखिलैर्मायैर्महिमा हि जगत्क्षये I. ↩︎

  40. सर्वान् A. B. C. ↩︎ ↩︎

  41. सहेत् A. B. C. ↩︎ ↩︎

  42. I. omits this line. ↩︎

  43. भूतगगने पराच्च I. ↩︎ ↩︎

  44. योग F. G. I. ↩︎ ↩︎

  45. प्राणायामवशात् सदा I. ↩︎ ↩︎

  46. विश्व I. ↩︎

  47. प्राणदानेन B. C. F. I. ↩︎ ↩︎

  48. अनिशं A. B. I. ↩︎ ↩︎

  49. मनोतीति A. B. ↩︎ ↩︎

  50. यशस्तेजःप्रदो C. ↩︎ ↩︎

  51. भवाम्यहम् A. B. G. ↩︎ ↩︎

  52. प्रत्यवस्थितान् A. B. ↩︎ ↩︎

  53. प्रत्यक्षे I. ↩︎

  54. तां तु मामिति I. ↩︎

  55. आदित्यवर्णं B. C. ↩︎

  56. विनादिनी F. ↩︎ ↩︎

  57. दुघास्मि सा A. B. ↩︎ ↩︎

  58. I. omits six quarters from here. ↩︎ ↩︎

  59. किरती A. B. ↩︎ ↩︎

  60. ऋध्याम्यहं I. ↩︎

  61. भजेऽहं I. ↩︎

  62. I. omits five lines from here. ↩︎

  63. भीतिविमोचनः I. ↩︎ ↩︎

  64. नित्या च I. ↩︎

  65. धारितान् B. ↩︎ ↩︎

  66. अन्नवती I. ↩︎ ↩︎

  67. प्रिया चेशेन I. ↩︎ ↩︎

  68. भुवनेशानामीडिता I. ↩︎ ↩︎

  69. षाड्‌गुणोत्थं B. F. ↩︎ ↩︎

  70. सर्वं परमं I. ↩︎ ↩︎

  71. सर्वं I. ↩︎ ↩︎

  72. पुनर्गतिम् B. F. ↩︎ ↩︎

  73. कारकः I. ↩︎ ↩︎

  74. हेमनं B. C. ↩︎

  75. आमोक्षं I. ↩︎

  76. मन्त्र I. ↩︎ ↩︎

  77. साधु I. ↩︎ ↩︎

  78. हि I. ↩︎ ↩︎

  79. F. omits six lines from here. ↩︎

  80. I. omits three lines from here. ↩︎

  81. मे परं तन्त्रं मन्त्रितं I. ↩︎ ↩︎

  82. व्रत I. ↩︎ ↩︎

  83. भूय उद्वहते I. ↩︎

  84. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎

  85. B. adds the following after the colophon: लक्ष्मीतन्त्रं समाप्तम्। श्लोकसंख्या 3500 ↩︎