०४९

विश्वास-प्रस्तुतिः

एकोनपञ्चाशोऽध्यायः - 49
श्रीः—
चतुर्थी या तनुर्मान्त्री मायाख्या मम वासव।
तस्या विधानमधुना शृणु मन्त्रक्रियान्वितम् ॥ 1 ॥

मूलम्

मूर्त्यङ्गसखिदासाख्यां मायीयां मन्त्रसंततिम्।
स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम् ॥ 2 ॥

हृदयान्तर्गतां चेष्ट्वा भोगैः सर्वैश्च पूर्ववत्।
बाह्ये तु मण्डलं कृत्वा मध्ये च कमलं शुभम् ॥ 3 ॥

तत्रोत्सङ्गगतां विष्णोर्हृदयादवतार्य च।
आराधयेत्ततो मायामङ्गसख्यादिसंयुताम् ॥ 4 ॥

भ्रामण्याद्यास्ततो ध्येयाः सख्यः कमललोचनाः।
1सिताम्बरधरा दिव्याश्चतस्रो रत्नभासुराः ॥ 5 ॥

विश्वास-प्रस्तुतिः

चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मायामयादयो ध्येयाश्चत्वारोऽनुचरास्तथा ॥ 6 ॥

टिप्पनी 6

चामराङ्कुशहस्ता इत्यनेन द्विभुजत्वं द्योत्यते। मायामयादयोऽनुचराः पञ्चचत्वारिंशाध्यायेऽत्रैव नाम्ना निर्दिष्टाः।

विश्वास-प्रस्तुतिः

संपूर्णसर्वावयवाः स्निग्धालिकुलसंनिभाः।
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः ॥ 7 ॥

केयूराभरणोपेताः पीताम्बरधरास्तथा।
हारनूपुरसंयुक्ता नानाकुसुममण्डिताः ॥ 8 ॥

तुषारधूलिधवलाः खड्‌गपाशकरोद्यताः।
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये ॥ 9 ॥

दर्शयित्वा तथा मुद्रा यस्य यस्य हि याः स्मृताः।
होमं तदनु कुर्वीत तिलैः सिद्धार्थकान्वितैः ॥ 10 ॥

ततो नियममाश्रित्य कृत्वा तदनु वासव।
देवीरूपं स्वमात्मानं भावेनाव्यभिचारिणा ॥ 11 ॥

प्रयायाद्विजनस्थानं2 प्रौढोत्तरसहायवान्।
जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ॥ 12 ॥

क्षीरमूलफलाहारो देशकालवशात्तु वै।
अयाचितैकभिक्षाशी यावकेनापि वर्तयन् ॥ 13 ॥

स्वशिष्यसाधितं वान्नं मन्त्रपूतमसैन्धवम्3
तैलमांसविनिर्मुक्तं संध्याकाले ह्युपस्थिते ॥ 14 ॥

4आतृप्तेरभिभुञ्जीत भावितं मधुसर्पिषा।
जपान्ते विधिवन्मन्त्री होमं कुर्यात् प्रयत्नतः ॥ 15 ॥

विश्वास-प्रस्तुतिः

बलां मोटां तथा मांसीं चक्राङ्गीं नागकेसरम्।
चन्दनं कुङ्कुमक्षोदं रजनीचूर्णमेव च ॥ 16 ॥

मेलयेत् सुघृतानां च तिलानां5 मधुना ततः।
भावयेत् सघृतेनैव6 त्रिलक्षं जुहुयात् ततः ॥ 17 ॥

मध्यमानामिकाभ्यां च साङ्गुष्ठाभ्यां पुरंदर।
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत ॥ 18 ॥

प्राग्राजार्कतरूत्थानां खादिराणां ततः परम्।
सुरदारुमयीनां च तृतीयमयुतं ततः ॥ 19 ॥

टिप्पनी 19

राजतरुः कर्णिकारः। सुरदारुः देवदारुः।

विश्वास-प्रस्तुतिः

दद्यात् पूर्णाहुतिं सम्यक् सुशुद्धेनान्तरात्मना।
पतितायां तु पूर्णायामायाति गगनान्तरात् ॥ 20 ॥

परिवारान्विता माया भाषते साधु साध्विति।
कुरु कार्यमभीष्टं च मन्मन्त्रेणाधुना व्रज ॥ 21 ॥

इदमुकत्वा व्रजेत् तूर्णं देवी 7विष्णुनिकेतनम्।
8ततस्तु साधकवरः कर्माणि विविधानि च ॥ 22 ॥

विश्वास-प्रस्तुतिः

प्रारभेताञ्जसा शक्र यान्यभीष्टानि चेतसा।
आत्मार्थे वा परार्थे वा लेशतस्तानि मे शृणु ॥ 23 ॥

प्रजप्यामलकं बिल्वं सकृन्नृपगृहं9 विशेत्।
कोशस्याग्रे विनिक्षिप्य यत्र यत्र स्थितः स तु ॥ 24 ॥

गगनात् प्रपतेत् तूर्णं यद्यद्वित्तं समीहते।
यद्यच्चाभरणं श्लाघ्यं यद्यद्वा वसनं शुभम् ॥ 25 ॥

एवं वै व्रीहिगुलिकां10 तथैव तिलतण्डुलम्।
क्षिपेद्धान्यकुले पूर्णए गोष्ठागारेऽथ खातके ॥ 26 ॥

राजकीये तथात्मीये यत्र यत्र स्थितस्ततः।
यद्यत् समीहते घान्यं सस्यं वा तण्डुलान्वितम् ॥ 27 ॥

तत्तदग्रेऽथ गगनात् पतत्येव यथेप्सितम्।
एवमेव तु सिद्धान्नगुलिकां परिजप्य च ॥ 28 ॥

क्षिप्त्वा महानसोद्देशे सिद्धान्नं कर्षयेत् क्षणात्।
गुलिकां गोमयेनैव कृत्वा तु बदरीसमाम् ॥ 29 ॥

निक्षिप्य गोव्रजस्यान्तः सप्तवाराभिमन्त्रिताम्।
ध्यानमात्रात् क्षणस्यान्ते दधिक्षीराज्यपूरितान् ॥ 30 ॥

भाण्डांस्च पृष्ठतः पश्येद्यत्र यत्र स्थितो व्रती।
प्रजप्य बदरं सम्यक् फलमन्यत्तु वा क्वचित् ॥ 31 ॥

क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च।
सुपुष्पवाटिकायां तु पुष्पमेकं विनिर्दिशेत् ॥ 32 ॥

जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत् क्षणात्।
यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ॥ 33 ॥

तत्र तत्र तु तत् तिष्ठेते संकल्पे तु कृते सति।
यथेच्छं11तु समाकृष्टं तत्र तत्र तु तद्‌ व्रजेत् ॥ 34 ॥

न चापि साधकवरः सऋणो12 जायते क्वचित्।
कृत्वाङ्गारकणं चैव शतं जप्तं समाहितः13 ॥ 35 ॥

क्षिपेत् सलिलमध्ये तु ज्वलत् तद् दृश्यते जलम्।
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् ॥ 36 ॥

कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत्।
भवेत् पानीयमिव च स वह्निर्दृश्यते क्षणात् ॥ 37 ॥

वालुकापरिपूर्णं चाप्यरण्यं तु तृणोज्झितम्।
दृष्ट्वा तत्र विनिक्षिप्य तृणं द्विशतमन्त्रितम् ॥ 38 ॥

पुष्पपत्रसमाकीर्णं पत्रपल्लवसंकुलम्।
कुर्यान्नन्दनतुल्यं तत् तोयराशिसमावृतम् ॥ 39 ॥

14नानाविहगसंपूर्णँ पत्तनोपवनान्वितम्।
पुरप्राकारसंपूर्णं देवतायतनान्वितम् ॥ 40 ॥

विश्वास-प्रस्तुतिः

गेयवेदध्वनियुतं ललनाभिश्च शोभितम्।
नृपाणामेतदाश्चर्यं15 दर्शनीयं सदैव हि ॥ 41 ॥

16तनूदकेष्वरण्येषु निरन्नेषु सदैव हि।
इच्छयापस्तथान्नानि भोगांश्च विविधानपि ॥ 42 ॥

विश्वास-प्रस्तुतिः

करोति मन्त्रितैर्लोष्टैर्गोमयेनाष्टसंख्यया।
अरिवर्गे गृहीतास्त्रे संमुखे सति तिष्ठति ॥ 43 ॥

क्रोधाच्चैव तथोद्युक्त एकाकी यदि तिष्ठति।
जपमानस्तु वै मन्त्रं संकल्प्य मनसा महत् ॥ 44 ॥

आत्मीयं च बलं पत्तिस्यन्दनाश्वगजाकुलम्।
तस्य संपद्यते क्षिप्रं चमूर्घोरपराक्रमा ॥ 45 ॥

दृष्ट्वा तां विमुखं याति हतौजस्कं रिपोर्बलम्।
करोति शक्र यत्किंचिन्मनसा मन्त्रमुच्चरन् ॥ 46 ॥

17व्यलीकं सत्यभूतं च तत्तथा परिदृश्यते।
दृष्ट्वा तु पादपं शुष्कं ताडयेच्चरणेन तु ॥ 47 ॥

विश्वास-प्रस्तुतिः

जपमानो महामन्त्रं 18स स्यात् पुष्पफलाकुलः।
पत्रपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् ॥ 48 ॥

पीढयेत् पादपं मन्त्री स शोषमधिगच्छति।
पर्वताग्रस्थितो मन्त्रं 19तन्नाशार्थं जपेद्यदि ॥ 49 ॥

पतेदधस्ताच्छैलस्तु यावदिच्छति साधकः।
तुष्टः प्रोत्थापयेत् पश्चात् पातालात् पर्वतोत्तमम् ॥ 50 ॥

चान्दनेन रसेनैव मन्त्रं पद्मोदरे न्यसेत्।
पत्रेष्वङ्गानि चालिख्य सुशुभे दिवसे ततः ॥ 51 ॥

पूजयित्वाथ पुष्पाद्यैर्वेष्टनैर्वेष्टयेत्तथा।
पूर्ववद् धारयेद्यन्त्रं तस्य सर्वा विभूतयः20 ॥ 52 ॥

21सम्यगाविर्भवन्त्यत्र लोके निष्कण्टकः स च।
सुभगश्चैव दीर्घायुः परत्र सुखमाप्नुयात् ॥ 53 ॥

विश्वास-प्रस्तुतिः

मूर्तेश्चतुर्थ्या वृत्रारे प्रबावोऽयं महाद्भुतः।
लेशतो दर्शितस्तस्याः साकल्य मम दुर्वचम् ॥ 54 ॥

देवीचतुष्टयस्यैष सिद्धिसंघः समासतः।
किंचित्तु लेशतः प्रोक्तः साधकानां हिताप्तये ॥ 55 ॥

तेब्यो दिव्यानि भौतानि प्रयच्छति शुभानि च
विमलां च मनःशुद्धिमन्ते च परमं पदम् ॥ 56 ॥

प्रकाशयति भक्तानां वैष्णवं चाविनाशितम्।
विस्तीर्णामिति मां लक्ष्मीमियतीभिर्विभूतिभिः ॥ 57 ॥

भजेत विविधैर्भावैः क्षेमं कृत्वा मनःस्थितम्।
शक्रः—
नमो देवादिदेव्यै ते नमो वैकुण्ठवल्लभे ॥ 58 ॥

कस्मिन् लक्षे मनः कृत्वा भजेयं त्वां सरोरुहे।
श्रीः—
एको नारायणो हंसः षाड्‌गुण्यामृतवारिधिः ॥ 59 ॥

तस्याहं परमा शक्तिर्विष्णोरनपगामिनी22
साहमङ्कस्थिता तस्य यथा ते पूर्वमीरिता ॥ 60 ॥

लक्षं तदेव ते शक्र मनसः स्थैर्यकारणम्।
सर्वलक्षणसंपन्नां सुवर्णरजतादिभि- ॥ 61 ॥

निर्माय मां विभोरङ्कस्थायिनीं शास्त्रदर्शनात्।
प्रतिष्ठाप्य विधानेन तैस्तैर्भावैर्भजस्व माम् ॥ 62 ॥

नमस्ते जगदावासे मनोनयननन्दिनि।
युवयोः स्थापनं कीदृग्बिम्बे षाड्‌गुण्यनिर्मिते ॥ 63 ॥

सर्वभूतो यथा विष्णुर्देवः षाड्‌गुण्यविग्रहः।
सर्वभूतात्मभूतस्था तादृश्येवाहमद्भुता23 ॥ 64 ॥

प्रतिष्ठितायाः सर्वत्र मम नारायणस्य च।
वस्तुतः का प्रतिष्ठा स्यात् सर्वं यद्वैष्णवं यशः ॥ 65 ॥

तमिमं वास्तवं भावमारूढं मानसं यतेः।
अर्चा प्रतिष्ठा चेत्येते विकल्पाः प्रविजृम्भिताः ॥ 66 ॥

शृणु तत्र प्रतिष्ठां मे यथावद्बलसूदन।
यया विहितया देही कृतार्थत्वं प्रपद्यते ॥ 67 ॥

निर्माप्य शास्त्रतः सम्यग्योगोक्तं रूपमावयोः।
सूक्ताभ्यां सपवित्राभ्यां स्नापयेत् तीर्थवारिणा ॥ 68 ॥

आच्छाद्य नववस्रेण विप्रैरध्यापयेत् सह।
विमलैर्धर्मतत्त्वज्ञैस्रयीसात्त्वतशास्त्रयोः ॥ 69 ॥

तारकं तारिकां चैव तथैवाप्यनुतारिकाम्।
सूक्तं च शाकुनं चैवाप्यधीयीरन् पवित्रवत् ॥ 70 ॥

टिप्पनी 70

शाकुनं सूक्तम् ऋग्वेदे (मo 2. सूo 42. ऋ. 1) द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

सूर्यस्यास्तमयं प्राप्य तद्बिम्बं वस्रवेष्टितम्।
ऋतं चेत्यादिसूक्तेन तथा सारस्वतेन च ॥ 71 ॥

ऋग्भिर्हिरण्यवर्णाभिः कुर्याद्वार्यधिवासनम्।
उद्गते विमले सूर्ये कुर्याद्दिक्स्थापनं ततः ॥ 72 ॥

उत्तिष्ठ ब्रह्मण इति प्रापयेयुश्च वेदिकाम्।
अपनीय ततो वस्त्रं स्नापयेच्छुद्धवारिणा ॥ 73 ॥

याम्ये च वेदिभागे तु मृद्वास्तरणशोभिते।
बिम्बं पूर्वशिरस्कं तु शाययेज्जपपूर्वकम्24 ॥ 74 ॥

ततः शलाकां सौवर्णीं गृहीत्वास्त्राभिमन्त्रिताम्।
25उल्लिखेन्नयने नेत्रमन्त्रजापी शलाकया ॥ 75 ॥

स्नातः शुद्धाम्बरः शिल्पी दिव्यदृष्ट्यावलोकितः।
26अस्रमन्त्रितशस्त्रेण नेत्रे प्रकटतां नयेत् ॥ 76 ॥

विश्वास-प्रस्तुतिः

पूरयेन्मधुसर्पिर्भ्यां तत्पात्रे च प्रदर्शयेत्।
सालंकारं धेनुयुग्मं तस्मिन् काले निवेदयेत् ॥ 77 ॥

नयनोन्मीलनीयं तत् सर्वं दद्यात्तु शिल्पिने।
ततः सितेन सूत्रेण बद्ध्वा राजीः सुवाससि27 ॥ 78 ॥

टिप्पनी 78

राजिः कृष्णसर्षपः।

विश्वास-प्रस्तुतिः

बध्नीयात्तारया तस्य कौतुकं दक्षिणे करे।
भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे ॥ 79 ॥

आधारादिक्रमोपेत् सम्यग्भावेन पूजिते।
ततो बिम्बं निरीक्षेत धिया28 षाड्‌गुण्यपूरितम् ॥ 80 ॥

ताडयित्वास्त्रमन्त्रेण कवचेनावकुण्ठ्य च।
सर्वौषध्युदकेनैव स्नापयेत् केवलेन च ॥ 81 ॥

संमृज्याहतवस्रेण कौतुकं मोचयेत्ततः।
मन्त्रविच्चक्रमन्त्रेण दद्यादर्घ्यं तु मूर्धनि ॥ 82 ॥

भावयित्वा ततो बिम्बं बिम्बं चारुरुचेरिव।
पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः ॥ 83 ॥

षोडशच्छदपद्मोत्थपत्रषोडशकस्थितैः।
प्रथमं पञ्चगव्येन गोमूत्रेण द्वितीयकम् ॥ 84 ॥

तृतीयं गोमयाम्भोभिस्तुर्यं त्रेताग्निभस्मना।
गजगोवृषशृङ्गाग्रवल्मीकोर्व्यम्बुना परम् ॥ 85 ॥

शालिक्षेत्रनदीपद्मवनाद्युर्व्यम्बुना परम्।
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ॥ 86 ॥

क्षीरेण नवमं दध्ना दशमं सर्पिषा परम्।
द्वादशं मधुना सर्वबीजाम्भोभिस्रयोदशम् ॥ 87 ॥

फलैः परं परं धान्यैः 29सुगन्धाद्भिस्तु षोडशम्।
अभिमन्त्र्य हृदा पूर्णमेकैकं कलशं पुरा ॥ 88 ॥

स्नापयेन्मूलमन्त्रेण तैः षोडशभिरादरात्।
उदकान्तरितैः सार्घ्यपुष्पधूपप्रदीपकैः ॥ 89 ॥

30मसूरमाषगोधूमचूर्णैरथ विघृष्य च।
प्रश्राल्य पयसा मूर्ध्नि तारिकां विन्यसेत् पराम् ॥ 90 ॥

विश्वास-प्रस्तुतिः

ततः सूक्ष्मां ततः स्थूलां स्थानेष्वेषु क्रमात् सुधीः।
मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ॥ 91 ॥

कटिमूले तथोर्वोश्च जानुगुल्फेऽथ पादयोः।
तारकं विन्यसेदेवं तथैवाप्यनुतारिकाम् ॥ 92 ॥

न्यस्यैवं पौरुषं सूक्तं न्यसेच्छ्रीसूक्तमप्यथ।
31शिरो मे श्रीर्यजुर्भिश्च न्यसेल्लिङ्गानुरूपकम् ॥ 93 ॥

टिप्पनी 93

शिरो मे श्रीरित्यादि। तैत्तिरीयब्राह्नणे (2-6-5-3) द्रष्टव्यम्।

विश्वास-प्रस्तुतिः

कुर्याच्च होतृविन्यासं यथा प्रोक्तं यजुर्मये।
एवं विन्यस्य पुरुषे मयि पश्चात् समाचरेत् ॥ 94 ॥

टिप्पनी 94

होतृविन्यासमिति। दशहोत्रादयो मन्त्राः तैत्तिरीयारण्यके पठिताः। तेषां विन्यासमित्यर्थः।

विश्वास-प्रस्तुतिः

विन्यस्य पूर्वं श्रीसूक्तं शिरो मे श्रीर्यजूंषि च।
ततश्च होतृविन्यासं विधायैवं तनुद्वये ॥ 95 ॥

कुण्‍डे पूर्वविधानान्ते जुहुयात् सर्वशान्तये।
उक्ताश्च वर्तमानाश्च यावन्त्यो मन्त्रजातयः ॥ 96 ॥

जुहुयात् तावतीभिस्तु सर्वदोषप्रशान्तये।
ऋचः पूर्वदिशाभागे दक्षिणस्यां यजूषि च ॥ 97 ॥

प्रतीच्यां चैव सामानि सौम्य आथर्वणानि च।
समीपे सात्त्वतान्मन्त्रानेवमध्यापयेद् द्विजान् ॥ 98 ॥

पूर्वं षोडशपत्राब्जकर्णिकास्थैश्चतुर्दिशम्।
कलशैः स्नापयेन्मन्त्रैस्तारतारानुतारवत् ॥ 99 ॥

वसवस्त्वेति मन्त्रेण पुष्पाम्भःकलशेन तु।
रुद्रास्त्वा गन्धतोयेन स्वर्णाम्भःकलशेन तु ॥ 100 ॥

टिप्पनी 100

वसवस्त्वेति। रुद्रास्त्वेति। (तैत्तिरीयब्राह्नणम् 2-7-15-5).

विश्वास-प्रस्तुतिः

अदित्यास्त्वेति विश्वेति रत्नोदकलशेन तु।
तारतारानुताराभिरभिषिञ्चेच्च मन्त्रवित् ॥ 101 ॥

टिप्पनी 101

आदित्यास्त्वेति। विश्वेति। (तैत्तिरीयब्राह्नणम् 2-7-15-5).

विश्वास-प्रस्तुतिः

ततः शुद्धोदमादाय परादित्रिविधात्मना।
तारया त्वभिषिच्याथ तथार्घ्यं मूर्ध्नि निक्षिपेत् ॥ 102 ॥

समालभ्य ततो बिम्बं चन्दनाद्यनुलेपनैः।
वासः प्रभृतिभिर्भोगैः प्रापणान्तैः समर्चयेत् ॥ 103 ॥

मुद्रां बद्ध्वार्चयेत् पश्चात् पीठं ब्रह्मशिलान्वितम्।
समस्ताद्वमयं पीठं ध्यायेद्वैष्णवमुज्ज्वलम् ॥ 104 ॥

आधारशक्तिभूतां च दिव्यां ब्रह्मशिलां स्मरेत्।
32पीठब्रह्मशिले त्वेवं सहभावेन निर्मिते ॥ 105 ॥

विश्वास-प्रस्तुतिः

पृथग्विनिर्मिते ते च कुर्यात्तु शयनोत्तरे।
शयनं स्थिरबिम्बस्य वक्ष्यमाणं विधीयते ॥ 106 ॥

प्रासादगमनं चैव पीठब्रह्मशिलास्थितिः।
तत्प्रतिष्ठापनं चैव बिम्बस्यावाहनं ततः ॥ 107 ॥

द्वादशाङ्गकलान्यासस्त्र्यहाद्युत्सवसाधनम्।
33तथावभृथकर्मादि सर्वमेतद्विधीयते ॥ 108 ॥

विश्वास-प्रस्तुतिः

चलबिम्बप्रतिष्ठां च चतुष्कलशसेचने।
आराध्यावाहनं कुर्याद्यथा तदवधारय ॥ 109 ॥

कार्यमावाहनात् पूर्वं भोगानां त्रितयं क्रमात्।
34स्वरूपेऽविकृते शुद्धे निस्तरङ्गे निरामये ॥ 110 ॥

विश्वास-प्रस्तुतिः

परातीते गुरुः स्थित्वा पुनः स्वहृदयाम्बुजे।
शक्तिं सत्तामयीं विष्णोरनुरूपामनुस्मरेत् ॥ 111 ॥

यद्बिम्बं संस्कृतं पूर्वं तन्मयं तदनुस्मरेत्।
अग्नीषोममयौ बावौ स्वदेहस्थावनुस्मरेत् ॥ 112 ॥

ऊर्ध्वाधोव्यापकत्वेन स्थितौ परमभास्वरौ।
यथात्मनि तथा बिम्बे यथा बिम्बे तथात्मनि ॥ 113 ॥

दक्षिणेन ततो यायादग्निमार्गेण देहतः।
प्रविशेद्वाममार्गेण बिम्बस्य हृदयं धिया ॥ 114 ॥

यथात्मनात्मा हृदये स्वानुभूतो ह्यनूपमः।
तथा तद्धृदयान्तः स्थमात्मानमनुसंस्मरेत् ॥ 115 ॥

दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महः।
तस्मिंस्तस्मिन् परब्रह्मण्यैकध्यं35 तस्य चिन्तयेत् ॥ 116 ॥

एवमेकार्णवीकृत्य वैष्णवं तत् परं महः।
तिष्ठेत् समादधानस्तदस्पन्दं स्वमनो दधत् ॥ 117 ॥

मनसि36 स्पन्दमानेऽथ स्मृत्वा तं स्वं धिया37 पुनः।
बिम्बाद् दक्षिणमार्गेण बहिर्निष्क्रम्य मेधया ॥ 118 ॥

संविशेद्वामभागेन स्वमेव हृदयाम्बुजम्।
योगोऽयं द्रव्यबिम्बस्य 38नाडीबृन्दप्रवर्तकः ॥ 119 ॥

टिप्पनी 119

नाडीबृन्देति। अत्रेदं पारमेस्वरवचनमनुसंधेयम्—“योगोऽयं मुनिशार्दूल बिम्बस्य द्रव्यजस्य च। आपादमूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकः॥ येन सर्वेशिता विप्र बिम्बस्यास्य प्रजायते। तं योगमधुना वच्मि एकाग्रमवधारय ॥” (15-447,448) इति।

विश्वास-प्रस्तुतिः

योगान्तरमथातिष्ठेत् तस्य सर्वेशिताप्तये।
ध्यायीतातो हृदम्भोजात् तारिकां तारिणीं गृणन् ॥ 120 ॥

यायादूर्ध्वप्रवाहेण परं पदमनामयम्।
ततः स्मरेत् परं39 तच्च 40भोगं प्राप्तं स्वयेच्छया ॥ 121 ॥

ततस्तत्स्पन्दमादाय विज्ञानैश्वर्यशक्तिमत्।
अनाकुलं पुनर्यायात् पथा तेन हृदम्बुजम् ॥ 122 ॥

टिप्पनी 122

स्पन्दं क्षोभम्। तथा च पारमेश्वरे—“अव्युच्छिन्नोऽप्यथोऽक्षुब्धः स्वेच्छया क्षोभमेति च।” (15-451) इति।

विश्वास-प्रस्तुतिः

दक्षिणेन विनिष्क्रम्य परस्परसहायवान्।
तद्बिम्बहृदयाम्भोजं वामेनैव तु संविशेत् ॥ 123 ॥

ध्यात्वा पूर्ववदेकत्वं विनिष्क्रम्योर्ध्वमार्गतः।
द्वाशान्तं समाविश्य पूर्ववत् स्पन्दमेत्य च ॥ 124 ॥

यथाबिम्बं हृदम्भोजं तेनैव प्रविशेत् सुधीः।
ततोऽग्निना विनिष्क्रम्य सव्येन हृदयं विशेत् ॥ 125 ॥

स्मरेत् स्पन्दमथैश्वर्यं स्वचक्षुर्द्वयगोलकम्।
परस्परं निरीक्ष्याथ तन्वानावेकतामिव ॥ 126 ॥

अन्योन्यालोकनाब्यां तावनुविद्धावनुस्मरेत्।
एतदीश्वरसंधानं नाम योगोऽनुवर्णितः ॥ 127 ॥

येन सर्वेषु बिम्बेषु सर्वेशित्वं सदा भवेत्।
अथ शब्दानुसंधानं मन्त्रबिम्बैकता हि या41 ॥ 128 ॥

सा 42स्मृता वैष्णवी सूक्ष्मा शक्तिर्विष्णोर्निरञ्जना।
तत्सामानय्मयो भूत्वा तस्मिन् स्वं लोपयेद् ध्वनिम् ॥ 129 ॥

सर्वसंकल्पहीनं तच्छब्दमात्रविवर्जितम्।
43शान्तं विद्धि परं सूक्ष्मं 44तत्परं बोधनिर्मितम् ॥ 130 ॥

विश्वास-प्रस्तुतिः

ततः शब्दार्थसंस्कारसार्धस्पन्दोद्यमो हि यः।
तत् स्मरेत् परमं सूक्ष्मं पश्यन्तीपदमुन्मिषत् ॥ 131 ॥

संकल्पपदवीरूढस्तत्तत्संस्काररञ्जितः।
स्वकं वाच्यं पृथक्कृत्य तदुद्दिश्योदयो हि यः ॥ 132 ॥

शाब्दं तन्मध्यमं रूपं स्मरेद्धृत्पद्ममध्यगम्।
नानास्थानप्रयत्नोत्थैः करणश्वसनेरितैः ॥ 133 ॥

तरङ्गैर्व्यक्तिमायाति स्फुटो वर्णपदादिकैः।
45यो वाचकस्वरूपेण तत्पदं वैखरीं विदुः ॥ 134 ॥

विश्वास-प्रस्तुतिः

बोधशब्दात्मकं तस्मात् परसूक्ष्मादिभेदवत्।
वपुरित्यनुसंधाय तद्बिम्बं भावयेत् ततः ॥ 135 ॥

शब्दसंहारयोगेन स्वं वपुस्तच्च बिम्बकम्।
निष्कम्पबोधशब्दात्म46 स्मृत्वा तद्‌द्वितयं तथा ॥ 136 ॥

पूर्वोक्तक्रमयोगेन शब्दब्रह्म ह्यनाहतम्।
पश्यन्त्यादिक्रमेणैव शब्दबिम्बमयं47 स्मरेत् ॥ 137 ॥

एवं शब्दानुसंधानं कृत्वा मन्त्रानुसंहितम्।
आरभेत सुधीः कर्म तस्य योगोऽयमुच्यते ॥ 138 ॥

अनाहतं परं नाभौ पश्यन्तीपदमागतम्।
नालसूत्रमिवान्तःस्थं मध्यमे हृदयाम्बुजे ॥ 139 ॥

स्थित्वा तद्वैखरीद्वारा बिम्बान्तः संविशत् स्मरेत्।
स्फुरन्नादस्वरूपं च मन्त्रैर्व्याप्तं तथाखिलैः ॥ 140 ॥

48मन्त्रात्मानं जगन्नाथं बिम्बहृन्मध्यगं स्मरेत्।
एवं संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम् ॥ 141 ॥

विश्वास-प्रस्तुतिः

आवाहनं ततः कुर्याद् बिम्बेऽस्मिन् हरिमेधसः।
पूर्वमावाहयामीति तथा सर्वाङ्गमन्त्रतः ॥ 142 ॥

प्रवेशनिर्गमौ लक्ष्म्याः स्मरेद्देवस्य देहतः।
ऋग्भिः पञ्चभिराद्याभिस्तस्या आवाहनं स्मृतम् ॥ 143 ॥

द्वादशाङ्गकलान्यासं देवन्यासवदाचरेत्।
भवतं नः सुमनसाविति द्वावनुसान्त्वयेत् ॥ 144 ॥

एतावती चले बिम्बे प्रतिष्ठान्यत्र तु स्थिरे।
कुर्यात् पूर्वोक्तमार्गेण सात्त्वतादिविधानवित् ॥ 145 ॥

यदेतदनुसंधानत्रितयं49 पूर्वमीरितम्।
एतदेव 50प्रतिष्ठानमुभयत्रेति मे मतिः ॥ 146 ॥

इत्थं संस्कारसंपन्ने तद्बिम्बद्वितये सुधीः।
लक्ष्मीं लक्ष्मीपतिं चैव धिया पश्यन्नुपस्थितौ ॥ 147 ॥

तन्मनाश्चैव तद्भक्तस्तद्याजी तज्जपोद्यतः।
तद्योगी सततं भूत्वा तावेवान्ते प्रपद्यते ॥ 148 ॥

प्रतिष्ठेयमिति प्रोक्ता साक्षाज्ज्ञानमयी परा।
ज्ञानं विना न चैवान्यन्नराणां तारकं 51स्मृतम् ॥ 149 ॥

इति 52श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 53प्रतिष्ठाविधानं नामैकोनपञ्चाशोऽध्यायः

इत्येकोनपञ्चाशोऽध्यायः

  1. पीताम्बर C. ↩︎

  2. विजयस्थानं I. ↩︎ ↩︎

  3. पूतं सुतण्डुलम् B. G. ↩︎ ↩︎

  4. आतृप्तिं I. ↩︎

  5. तिलान्नं C.; तिलांस्तान् I. ↩︎ ↩︎

  6. स्वधितान्नं च I. ↩︎ ↩︎

  7. विष्णोर्निकेतनम् F. ↩︎

  8. ततः स B. C. I. ↩︎

  9. भूपगृहं C. ↩︎ ↩︎

  10. गुलिकं A. I. ↩︎ ↩︎

  11. यथेष्टं C. ↩︎ ↩︎

  12. जीर्णो B. C. ↩︎ ↩︎

  13. समाहितम् C. ↩︎ ↩︎

  14. नानाविभव I. ↩︎

  15. आचर्यं B. ↩︎ ↩︎

  16. A. omits this line. ↩︎

  17. अलीकं I. ↩︎

  18. स्यात्स I. ↩︎ ↩︎

  19. नाशार्थाय I. ↩︎ ↩︎

  20. हि सिद्धयः G. ↩︎ ↩︎

  21. G. omits three lines from here. ↩︎

  22. श्रीरनपायिनी B. G. ↩︎ ↩︎

  23. महाद्भुता F. ↩︎ ↩︎

  24. पूर्ववत् B. ↩︎ ↩︎

  25. उल्लिखेच्च ततो नेत्रे I. ↩︎

  26. अस्रमन्त्रेण शस्त्रेण I. ↩︎

  27. वाससी I. ↩︎ ↩︎

  28. तावत् I. ↩︎ ↩︎

  29. सुसुगन्धैस्तु I. ↩︎ ↩︎

  30. मसूरमथ I. ↩︎

  31. I. omits four lines from here. ↩︎

  32. पीठं ब्रह्मसिला A.; पीठब्रह्मशिला B. ↩︎

  33. तथा प्रभृति A. B. ↩︎

  34. A. B. C. omit three lines from here. ↩︎

  35. एक्तवं I. ↩︎ ↩︎

  36. मनस्वी F. ↩︎ ↩︎

  37. द्विधा A. G. ↩︎ ↩︎

  38. नाडीबिम्ब A.; नानाबिम्ब I. ↩︎ ↩︎

  39. पदं I. ↩︎ ↩︎

  40. क्षोभं I. ↩︎ ↩︎

  41. अभिधा I. ↩︎ ↩︎

  42. सत्ता G. I. ↩︎ ↩︎

  43. I. omits this line. ↩︎

  44. तद्बेरं G. ↩︎

  45. येन वाचकरूपेण I. ↩︎

  46. शब्दार्थौ F. ↩︎ ↩︎

  47. ब्रह्ममयं G. ↩︎ ↩︎

  48. मन्त्रनाथं I. ↩︎

  49. तृतीयं B. ↩︎ ↩︎

  50. प्रतिष्ठायां I. ↩︎ ↩︎

  51. मतम् I. ↩︎ ↩︎

  52. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎

  53. मायासिद्धिप्रकाशः B. F. ↩︎