विश्वास-प्रस्तुतिः
अष्टचत्वारिंशोऽध्यायः - 48
श्रीः—
विधिं तृतीयतन्वा मे जयाया वृत्रसूदन।
शृणु सिद्धिप्रकारं च सिद्धसंघैरभिष्टुतम् ॥ 1 ॥
मूलम्

कृत्वा तु पूर्ववन्न्यासमिष्ट्वा च हृदये जयाम्।
मण्डलं पूर्ववत् कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ 2 ॥

नीलोत्पलाभतुल्येन रजसा च सुपत्रकम्।
तत्रोत्सङ्गातां विष्णोर्हृदयाद्योजयेज्जयाम् ॥ 3 ॥

कर्णिकोपरि मन्त्रांश्च न्यसेत् पूर्वक्रमेण तु।
किंतु ध्यानानि सर्वेषां यथावदवधारय ॥ 4 ॥

नीलनीरदवर्णाश्च प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ॥ 5 ॥

सितचामरहस्ताश्च चित्रवेत्रलतोद्यताः।
निरीक्षमाणा वदनं जयाया अजितस्य च ॥ 6 ॥
मूलम्
सितचामरहस्ताश्च चित्रवेत्रलतोद्यताः।
निरीक्षमाणा वदनं जयाया अजितस्य च ॥ 6 ॥
विश्वास-प्रस्तुतिः
कुन्दकुड्मलवर्णाभाः प्रसन्नमुखपङ्कजाः।
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः ॥ 7 ॥

धनुर्बाणकराश्चैव गदाचक्रकरान्विताः।
चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः ॥ 8 ॥

सर्वाश्च दर्शयेन्मुद्राः प्रतिस्वं याः प्रकीर्तिताः।
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् ॥ 9 ॥

तिलैः सिद्धार्थकोपेतैर्हविषा 1गुल्गुलेन च।
होमावसाने मन्त्री स्वं कृत्वा रूपं जयात्मकम् ॥ 10 ॥

जयाहमिति वै बुद्ध्वा चेतसोपस्थितं महत्।
तीरस्थानं समासाद्य निःशङ्कं जनवर्जितम् ॥ 11 ॥

प्रणिपत्य हरिं भक्त्या प्राक् स्वमन्त्रेण वासव।
एकान्तशीलो लघ्वाशी मौनी ध्यानपरायणः ॥ 13 ॥

जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत्।
समित् प्रादेशमात्रा तु रक्तचन्दनसंभवा ॥ 14 ॥

तासामयुतमव्यग्रो घृताक्तानां तु होमयेत्।
सिद्धार्थैर्नियुते द्वे च मधुमिश्रैर्महामते ॥ 15 ॥

अयुतं नियुतं चाथ जुहुयादसितैस्तिलैः।
मधुत्रितयसंयुक्तैरन्ते पूर्णाहुतित्रयम् ॥ 16 ॥

मधुक्षीरघृतैः शक्र क्रमेण परिहोमयेत्।
ततो भगवती देवी समायाति जया स्वयम् ॥ 17 ॥

सिद्धास्मीति च ते पुत्र मन्मन्त्रेण समाचर।
यदभीष्टं तु वै कार्यं निःशङ्को विगतज्वरः ॥ 18 ॥

इत्युक्त्वादर्शनं याति शक्तिर्नारायणात्मिका।
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ 19 ॥

लोकेऽस्मिन् यान्यभीष्टानि स्वात्मनश्च परस्य वा।
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन वज्रधःत् ॥ 20 ॥

ज्वालावद्रसनां ध्यायेद्देवीमन्त्रेण साधकः।
उद्ग्राहयति वै यस्य यस्मिन् यस्मिन् हि वस्तुनि ॥ 21 ॥

विजित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः।
गजाश्वशस्त्रभृत्पूर्णमपि सैन्यं बलान्वितम् ॥ 22 ॥

दृष्ट्वान्यस्य 2समायुक्तं हन्तुमभ्युद्यतं3 रणे।
परिजप्य धनुः खड्गं खेटकं बाणपञ्चकम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
प्रेरयेद्यस्य वै दत्त्वा स गत्वा तु चमूमुखम्।
विदारयति चैकाकी जयमाप्नोति शाश्वतम् ॥ 24 ॥

द्यात्वा दक्षिणपाणिस्थं त्रिकोणं चाग्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ॥ 25 ॥

मत्तेबसिंहसर्पाणामशनीनां च दर्शने।
क्षिप्रं पराङ्मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ॥ 26 ॥

खादिरं मुसलं स्पृष्ट्वा चादाय शतमन्त्रितम्।
कृत्वा गत्वा बिलद्वारं चतुर्वर्णं जयान्वितम् ॥ 27 ॥

मुसलाहननान्यष्टौ दद्यात् तत्र शनैः शनैः।
देवीमन्त्रेण देवेश स्वास्त्रसंपुटितेन तु ॥ 28 ॥

फट्कारान्तेन तु ततो बिलयन्त्रं यजेदथ।
समस्तजनसंयुक्तो विशेत् साधकसत्तमः ॥ 29 ॥

भित्त्वा यन्त्राण्यनेकानि जित्वा दानवपुंगवान्।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ॥ 30 ॥

पीत्वा तु सात्त्विकं पानं स्वहस्तेन महाबलः।
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ॥ 31 ॥

करोति यदि देवेश मतिं मन्त्री जगत्त्रये।
जयं प्रत्यविचारेण गदाचक्रकरोद्यतः ॥ 32 ॥

पाशाङ्कुशधरो वाथ जयं प्राप्नोति नान्यथा।
लिखेद्रोचनया भूर्जे कुङ्कुमेन घनेन च ॥ 33 ॥

संपुटीकृत्य वै नाम निधाय जनमध्यगम्।
तदा सुजयमाप्नोति दिव्यैः सर्वैस्तु लीलया ॥ 34 ॥

विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च।
धारयेद्यो गले वक्त्रे4 करे वामेऽथ दक्षिणे ॥ 35 ॥

सर्वदा तु जयं शक्र संप्राप्नोत्यविचारतः5।
जयार्थं त्रिदशेशान मन्त्रं वै यत्र कुत्रचित् ॥ 36 ॥

मन्त्री प्रयोजयेच्छश्वत् तत्र तत्राप्नुयाज्जयम्।
जया नाम तृतीया मे या तनुः परिकीर्तिता।
तस्या विधानमित्येतत् तव शक्र प्रदर्शितम् ॥ 37 ॥

इति अष्टचत्वारिंशोऽध्यायः