विश्वास-प्रस्तुतिः
सप्तचत्वारिंशोऽध्यायः - 47
श्रीः—
व्यूहानां प्रथमा लक्ष्मी र्मत्संज्ञैवोदिता हि या।
तस्याः सिद्धिरियं प्रोक्ता द्वितीयाया निशामय ॥ 1 ॥
मूलम्

न्यासोपायं पद्मयागं सर्वं विद्धि पुरोदितम्।
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ॥ 2 ॥

किंतु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम्।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ॥ 3 ॥

क्रमाद्ध्यानं सखीनां च यथा तदवधारय।
द्विभुजा हेमवर्णा च 1कीर्तिरूपा स्मितानना ॥ 4 ॥

सुपुस्तकं करे वामे दक्षिणे चामरं करे।
ध्यायेत् किंशुकवर्णाभं कान्तरूपं मनोरमम्2 ॥ 5 ॥

तत्रानुगचतुष्कं तु चतुर्हस्तं सिताम्बरम्।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ 6 ॥

शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्पदोपेतमपराभ्यां निबोध मे ॥ 7 ॥

पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं ध्यात्वैवं दर्शयेत्ततः ॥ 8 ॥

मुद्राः सर्वाः प्रतिस्वं याः साधकः पूजयेत्ततः।
अर्घ्यपुष्पादिना सम्यग्जप्त्वा शक्त्याथ होमयते ॥ 9 ॥

तिलानि चाज्यसिक्तानि गन्धशाल्यन्वितानि च।
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः ॥ 10 ॥

एकान्ते विजने स्थित्वा मौनी मूलफलाशनः।
जपेल्लक्षत्रयं 3मन्त्रं जपान्ते होममाचरेत् ॥ 11 ॥

लक्षैकसंख्यं देवेन्द्र तण्डुलैस्तिलमिश्रितैः।
कापिलेन घृतेनैव तादृक्क्षीरयुतेन च ॥ 12 ॥

एकैकं च हृदादीनां सहस्रं चाथ होमयेत्।
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च ॥ 13 ॥

पतितायां तु पूर्णायामायाति परमेश्वरी।
साधु साध्विति वै ब्रूते स्थित्वाग्रे साधकस्य तु ॥ 14 ॥

एह्येहि परमं धाम त्यजेदं भौतिकं पुरम्।
उपभुङ्क्ष्वामरान् भोगान् मर्त्यमध्यगतोऽपि च ॥ 15 ॥

मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक।
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः ॥ 16 ॥

साधकः कीर्तिमन्त्रेण कुर्यात् कर्म यथेप्सितम्।
ददाति यस्य यत्किंचित्तत्तस्याप्यक्षयं भवेत् ॥ 17 ॥

वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः।
अभिभूय जनान् सर्वानुत्कृष्टत्वं प्रपद्यते ॥ 19 ॥

जप्त्वा सिद्धान्नभाण्डं तु स्वल्पकालेऽन्नसंकटे।
यदेच्छति जनानां तु यथेच्छमशनं भवेत् ॥ 20 ॥

ददाति चाक्षयं तस्य सप्ताहमनिशं यदि।
प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम् ॥ 21 ॥

सुभिक्षे लवमात्रं तु आदाय कनकस्य च।
परिजप्य सहस्रं तु विधिना परितः स्थितम् ॥ 22 ॥

प्रयाति तत् प्रभूतत्वं दीयतेऽर्थिजनस्य च।
अव्युच्छिन्नं द्विसप्ताहं संशयं नाधिगच्छति ॥ 23 ॥

तेनासौ महतीं कीर्तिं प्राप्नुयाल्लोकसत्कृताम्4।
आदाय तोयकलशं नागेन्द्रभवनह्रदात् ॥ 24 ॥

प्रयायान्मरूभूमिं वै तत्र निम्ने तु भूतले।
निक्षिपेत् पर्वताग्रे वा सहस्रपरिमन्त्रितम् ॥ 25 ॥

स पन्नगेश्वरस्तत्र परिवारसमन्वितः।
रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ॥ 26 ॥

तेनासौ महतीं लोके कीर्तिमाप्नोति वासव।
काले तु बीजरोही च यदि देवो न वर्षति ॥ 27 ॥

आदाय मृत्कणं हस्ते तटाकजलमर्दितम्।
तन्मध्यस्थं च वा 5क्लिन्नं परिजप्य शतत्रयम् ॥ 28 ॥

मुखवातैस्तु संतप्तं कृत्वा कीर्तिमनुं स्मरेत्6।
प्रक्षिपेद्गगने तद्वै मघत्वं प्रतिपद्यते ॥ 29 ॥

7पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः।
तदाज्ञया वसेत्तावत्तस्मिन् देशे स मेघराट् ॥ 30 ॥
विश्वास-प्रस्तुतिः
वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम्8।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् ॥ 31 ॥

संपादयति तत्तस्य यस्य यन्मनसेप्सितम्।
प्रभावं मन्त्रराजस्य कीर्त्याख्यस्य सुरोत्तम ॥ 32 ॥

लिखितं पूर्ववद्बद्ध्वा हस्ते वा दक्षिणे करे।
प्राप्नुयान्महतीं कीर्तिं 9पूजामृद्धिं सरस्वतीम् ॥ 33 ॥

एतत् संक्षेपतः प्रोक्तं कीर्तेर्मन्त्रस्य वासव।
द्वितीयाया विधानं मे तन्वास्तनुभृतां वर ॥ 34 ॥

एतद्विधानमातिष्ठन् कीर्तिमन्त्रस्य शोभनम्।
प्राप्नुयाद्विमलां कीर्तिं संततेरपि भूतिदाम् ॥ 35 ॥

इति सप्तचत्वारिंशोऽध्यायः