०४६

विश्वास-प्रस्तुतिः

षट्‌चत्वारिंशोऽध्यायः - 46
श्रीः—
अनुक्रमेण देवेश लक्ष्म्यादीनां च साधनम्।
विविधानि च कर्माणि तन्मन्त्रेभ्योऽवधारय ॥ 1 ॥

मूलम्

टिप्पनी 1

आदिशब्देन कीर्तिजयामाया गृह्यन्ते।

विश्वास-प्रस्तुतिः

चतुरश्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम्।
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् ॥ 2 ॥

टिप्पनी 2

पुरनिर्माणमाह—चतुरश्रमित्यादिना।

विश्वास-प्रस्तुतिः

सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च।
व्यापकत्वेन तु पुरा मणिबन्धमुखादितः ॥ 3 ॥

विन्यस्य मूलमन्त्रं च हस्ते देहे च केवलम्।
पश्चादादौ च1 हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् ॥ 4 ॥

तदङ्गानि च विन्यस्य हस्ते देहे यथा पुरा।
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ॥ 5 ॥

टिप्पनी 5

अनुगेति। ऋद्ध्यादिचतुष्कमन्त्रमित्यर्थः।

विश्वास-प्रस्तुतिः

प्रदेशिन्यादितो हस्तद्वये तदनु विग्रहे।
उत्तमाङ्गे तु 2हृन्मध्य ऊर्वोर्जानुद्वये तथा ॥ 6 ॥

लावण्याद्यांश्च चतुरो ह्यनामादि3 करद्वये।
अङ्गुष्ठान्तं च विन्यस्य हस्ते देहे च वासव ॥ 7 ॥

टिप्पनी 7

अनुचरमन्त्राणां न्यासमाह—लावण्याद्यानिति।

विश्वास-प्रस्तुतिः

दक्षिणे च तथा वामे स्कन्धे पक्षद्वये ततः।
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि ॥ 8 ॥

लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम्।
कृत्वावलोकनाद्यं तु तो बाह्ये तु विन्यसेत् ॥ 9 ॥

मूतिमन्त्रयुतं मूलं कर्णिकोपरि वासव।
सकलाकलदेहं च सर्वमन्त्रान्वितं विभुम् ॥ 10 ॥

टिप्पनी 10

कर्णिकोपरीति। अष्टदलपद्मकर्णिकोपरीत्यर्थः। अकलो निष्कलः।

विश्वास-प्रस्तुतिः

तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च।
पूर्वोक्तध्यानसंयुक्तो भोगमोक्षप्रसिद्धये ॥ 11 ॥

तदाग्नेये तदीशाने यातवीयेऽथ वायवे।
चत्वारि हृदयादीनि नेत्रं केसरसंततौ ॥ 12 ॥

तदग्रे दक्षिणे पृष्ठे वामपार्श्वे क्रमान्न्यसेत्।
चतुष्टयं तु ऋद्ध्याद्यं द्विभुजं तु तथाकृति4 ॥ 13 ॥

5पद्मगौरप्रतीकाशं श्रीवृक्षचमराङ्कितम्।
पद्मासनेनोपविष्टं प्रेक्षमाणं तदाननम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

स्वस्तिकानां तदीशादिकोणस्थाने निवेश्य तु।
लावण्याद्यचतुष्कं तु सौम्यवक्त्रं चतुर्भुजम् ॥ 15 ॥

नीलकौशेयवसनं पद्मकुम्भकरान्वितम्।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ 16 ॥

मूलम्

नीलकौशेयवसनं पद्मकुम्भकरान्वितम्।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ 16 ॥

विश्वास-प्रस्तुतिः

द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा।
मूलमन्त्रयुतां देवीं लक्ष्मीं त्रिदशनन्दन ॥ 17 ॥

मुद्रास्च दर्शयेत् सर्वा यत्र यत्र हि याः स्मृताः।
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः ॥ 18 ॥

सामलैः श्रीफलैश्चैव 6सति लाभे तु पङ्कजैः।
7यथाशक्ति ह्यसंक्यैस्तु होमान्ते वृत्रसूदन ॥ 19 ॥

विश्वास-प्रस्तुतिः

लक्ष्मीरूपस्ततो बूत्वा साधकः कृतनिश्चयः।
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः ॥ 20 ॥

होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वामलाम्बुजैः।
यथाशक्ति ह्यसंख्यैस्तु अयुतायुतसंख्यया ॥ 21 ॥

ददाति दर्शनं 8शक्र होमान्ते परमेश्वरी।
पुत्र सिद्धास्मि ते ब्रूहि यत्ते मनसि चेप्सितम्9 ॥ 22 ॥

कुरु कार्याण्यभीष्टानि मन्मन्त्रेणाखिलानि च।
अद्य प्रभृति निःशङ्को द्वन्द्वोपद्रववर्जितः ॥ 23 ॥

एवमुक्त्वा तु सा देवी याति यत्रागताशु वै।
ततः कर्माणि वै कुर्याल्लक्ष्म्या अनुमते मम ॥ 24 ॥

स एष तुष्टोऽभीष्टं तु श्रियं दद्याद्यथार्थिनाम्।
संक्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धनेश्वरम् ॥ 25 ॥

शुल्बं कुर्यात् सकृद्ध्यायन् मन्त्रजापाच्च हाटकम्।
पूरयित्वाम्भसा कुम्भं क्षीरेण मधुनाथवा ॥ 26 ॥

निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत्।
शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम् ॥ 27 ॥

रसेन्द्राभिनिवेशस्थो ह्येकचित्तः समाहितः।
रसेन्द्रत्वं समायाति तत्कुम्भे त्वाहृतं जलम् ॥ 28 ॥

सरसो लक्षवेधी स्याच्छस्रादीनां पुरंदर।
करोति कायममरं जरारोगविवर्जितम् ॥ 29 ॥

मूलम्

सरसो लक्षवेधी स्याच्छस्रादीनां पुरंदर।
करोति कायममरं जरारोगविवर्जितम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

अङ्गुष्ठाकारमात्रं तु पुरा पाषाणमाहरेत्।
दक्षिणोदरहस्तेन वामेन बदरीसमम् ॥ 30 ॥

अभिमन्त्र्य तु तौ मुष्टी द्वे शते षोढशाधिके।
दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च ॥ 31 ॥

वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे।
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा ॥ 32 ॥

10तथा मुक्ताफलं तत्तत् प्रतिभाति करोति च।
गोगजाश्वसमुद्धूतमस्थि चादाय पाणिना ॥ 33 ॥

विश्वास-प्रस्तुतिः

शतार्धं मन्त्रितं कृत्वा 11प्रवालत्वं प्रयाति तत्।
शताभिमन्त्रितं कृत्वा त्रपु सीसं तथायसम् ॥ 34 ॥

टिप्पनी 34

कृत्वेति। धारयति चेदिति शेषः।

विश्वास-प्रस्तुतिः

जायते कलधौतं तु रजतं वातिनिर्मलम्।
यद्यद् गृहीत्वा देवेन्द्र यं यं धातुं समीहते ॥ 35 ॥

क्रुद्धो वा परितुष्टस्च तत्तत् कुर्यात्तु सोऽन्यथा।
एवमश्ममयानां तु अन्यत्वमुपपद्यते ॥ 36 ॥

या या मनसि वै यस्य विभूतिः प्रतिभाति च।
तां तां ददाति तस्याशु धनधान्यगवादिकाम् ॥ 37 ॥

लिखित्वा भूर्जपत्रे तु 12यागन्यासक्रमेण तु।
रोचनाकुङ्कुमाभ्यां तु संधारयति यः सदा ॥ 38 ॥

टिप्पनी 38

रोचनाकुङ्कुमाभ्यामिति। लिखित्वेति पूर्वेणान्वयः।

विश्वास-प्रस्तुतिः

सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं शतक्रतो।
तस्यायुषो भवेद् वृद्धिः सर्वत्र विजयी महान् ॥ 39 ॥

प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत्।
इदमाराधनं प्रोक्तं श्रीकामानां विशेषतः।
लक्ष्म्यास्त्रिदशशार्दूल मम या प्रथमा तनुः ॥ 40 ॥

इति 13श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 14लक्ष्मीमन्त्रसिद्धिप्रकाशो नाम षट्‌चत्वारिंशोऽघ्यायः

इति षट्‌चत्वारिंशोऽध्यायः

  1. तु B. C. ↩︎ ↩︎

  2. भ्रूमध्ये B. ↩︎ ↩︎

  3. अनामादौ C. G. ↩︎ ↩︎

  4. यथाकृति C. ↩︎ ↩︎

  5. पिञ्छ C. ↩︎

  6. सतिलैश्चैव A. C. ↩︎

  7. B. C. omit three lines from here. ↩︎

  8. तत्र B. G. ↩︎ ↩︎

  9. चेष्टितम् A. B. C. ↩︎ ↩︎

  10. यथा B. C. F. ↩︎

  11. प्राणयुक्तं भवेद्धि तत् A. G. ↩︎ ↩︎

  12. G. omits this and the next quarter. ↩︎ ↩︎

  13. श्रीपञ्चरात्र A.; पाञ्चरात्रे B. ↩︎

  14. A. g. omit लक्ष्मीमन्त्र. ↩︎