०४५

विश्वास-प्रस्तुतिः

पञ्चचत्वारिंशोऽध्यायः - 45
श्रीः—
अहं नारायणी देवी पूर्वेषामपि पूर्वजा।
साक्षाद्भगवतो विष्णोर्लक्ष्मीः श्रीरनपायिनी ॥ 1 ॥

मूलम्

पञ्चचत्वारिंशोऽध्यायः - 45
श्रीः—
अहं नारायणी देवी पूर्वेषामपि पूर्वजा।
साक्षाद्भगवतो विष्णोर्लक्ष्मीः श्रीरनपायिनी ॥ 1 ॥

विश्वास-प्रस्तुतिः

विभजामि स्वया शक्त्या चतुर्धात्मानमात्मना।
लक्ष्मीः कीर्तिर्जया माया चतस्रो मूर्तयश्च ताः ॥ 2 ॥

मूलम्

विभजामि स्वया शक्त्या चतुर्धात्मानमात्मना।
लक्ष्मीः कीर्तिर्जया माया चतस्रो मूर्तयश्च ताः ॥ 2 ॥

विश्वास-प्रस्तुतिः

या सा 1शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः।
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते ॥ 3 ॥

मूलम्

या सा 1शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः।
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते ॥ 3 ॥

विश्वास-प्रस्तुतिः

अहमेव पराहंता भवामि प्रथमा तनुः।
लक्ष्मीर्नाम महाभागा सर्वैश्वर्यफलप्रदा ॥ 4 ॥

मूलम्

अहमेव पराहंता भवामि प्रथमा तनुः।
लक्ष्मीर्नाम महाभागा सर्वैश्वर्यफलप्रदा ॥ 4 ॥

विश्वास-प्रस्तुतिः

कीतिर्नाम द्वितीया मे तनुः सत्कीर्तिदायिनी।
जया नाम तृतीया मे तनुर्विजयदायिनी ॥ 5 ॥

मूलम्

कीतिर्नाम द्वितीया मे तनुः सत्कीर्तिदायिनी।
जया नाम तृतीया मे तनुर्विजयदायिनी ॥ 5 ॥

विश्वास-प्रस्तुतिः

माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः।
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः ॥ 6 ॥

मूलम्

माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः।
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः ॥ 6 ॥

विश्वास-प्रस्तुतिः

नारायणाश्रयाया मे मूर्तयः परमोज्ज्वलाः।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ॥ 7 ॥

मूलम्

नारायणाश्रयाया मे मूर्तयः परमोज्ज्वलाः।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ॥ 7 ॥

विश्वास-प्रस्तुतिः

सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव।
सर्वैश्वर्यप्रभावे तु लक्ष्मीर्लक्ष्मीपतेः स्थिता ॥ 8 ॥

मूलम्

सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव।
सर्वैश्वर्यप्रभावे तु लक्ष्मीर्लक्ष्मीपतेः स्थिता ॥ 8 ॥

टिप्पनी 8

लक्ष्मीपतेः सर्वैश्वर्यं प्रभाव इत्यादिकं लक्ष्म्यायत्तमित्यर्थः। न चैतावता भगवतः पारतन्त्र्यं न्यूनता वा। गुणाहितो ह्यतिशयो गुणिनि प्राशस्त्यं वर्धयति। आहुश्चाभियुक्ताः—“स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवांस्त्वदायत्तर्द्धित्वेऽप्यभवदपराधीनविभवः। स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम्॥” इति।

विश्वास-प्रस्तुतिः

नानाविशेषलक्ष्मीभिः कोटिसंख्याभिरावृता।
कीर्तिस्तथाविधा नैव विभिन्ना विग्रहे विभोः ॥ 9 ॥

मूलम्

नानाविशेषलक्ष्मीभिः कोटिसंख्याभिरावृता।
कीर्तिस्तथाविधा नैव विभिन्ना विग्रहे विभोः ॥ 9 ॥

विश्वास-प्रस्तुतिः

तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया।
यस्य यत्र च या कीर्तिः स्वसामर्थ्यात्प्रजायते ॥ 10 ॥

मूलम्

तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया।
यस्य यत्र च या कीर्तिः स्वसामर्थ्यात्प्रजायते ॥ 10 ॥

विश्वास-प्रस्तुतिः

सा सा रूपविशेषोऽस्याः सामान्यात्मन उत्थिता।
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता ॥ 11 ॥

मूलम्

सा सा रूपविशेषोऽस्याः सामान्यात्मन उत्थिता।
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता ॥ 11 ॥

विश्वास-प्रस्तुतिः

या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु।
भगवन्माययोद्भूतां तां मां विद्धि सुरेश्वर ॥ 12 ॥

मूलम्

या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु।
भगवन्माययोद्भूतां तां मां विद्धि सुरेश्वर ॥ 12 ॥

विश्वास-प्रस्तुतिः

तदीयं निष्कलं रूपं मदीयं च विहाय वै।
कोऽस्मिंस्तत्त्वोदधौ चास्ति2 चतुर्धा सुरसत्तम् ॥ 13 ॥

मूलम्

तदीयं निष्कलं रूपं मदीयं च विहाय वै।
कोऽस्मिंस्तत्त्वोदधौ चास्ति2 चतुर्धा सुरसत्तम् ॥ 13 ॥

टिप्पनी 13

चतुर्धा; वासुदेवसंकर्षणाद्यात्मना लक्ष्मीकीर्त्याद्यात्मना च।

विश्वास-प्रस्तुतिः

भगवच्छक्तिभिः सम्यगाभिर्योगविभाविताः।
स्वालोकज्ञानसामर्थ्यात् साकारत्वमुपागताः ॥ 14 ॥

मूलम्

भगवच्छक्तिभिः सम्यगाभिर्योगविभाविताः।
स्वालोकज्ञानसामर्थ्यात् साकारत्वमुपागताः ॥ 14 ॥

टिप्पनी 14

योगविभाविता लक्ष्मीकीर्त्यादयः ध्यातव्या इत्यन्वयः।

विश्वास-प्रस्तुतिः

ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये।
तासां ममादिभूताया लक्ष्म्या मूर्तिं3 निशामय ॥ 15 ॥

मूलम्

ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये।
तासां ममादिभूताया लक्ष्म्या मूर्तिं3 निशामय ॥ 15 ॥

टिप्पनी 15

प्रथमं लक्ष्मीरूपमाह—तासामित्यादिना।

विश्वास-प्रस्तुतिः

सौम्यवक्त्रा सौम्यनेत्रा द्विभुजा चारुकुण्डला।
पद्मगर्भोपमा कान्त्या मेखलादाममण्डिता ॥ 16 ॥

मूलम्

सौम्यवक्त्रा सौम्यनेत्रा द्विभुजा चारुकुण्डला।
पद्मगर्भोपमा कान्त्या मेखलादाममण्डिता ॥ 16 ॥

विश्वास-प्रस्तुतिः

श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता।
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी ॥ 17 ॥

मूलम्

श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता।
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी ॥ 17 ॥

प्रबुद्धोत्पलविस्तीर्णलोचना सुस्मितानना।
4चरद्विरेफपटलतुल्यैर्युक्ता तथालकैः ॥ 18 ॥

टिप्पनी 18

चरन्तीति चराः। भ्रमणशीला इत्यर्तः।

विश्वास-प्रस्तुतिः

ललाटे तिलकं चित्रं वहन्ती च मनोहरम्।
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा ॥ 19 ॥

मूलम्

ललाटे तिलकं चित्रं वहन्ती च मनोहरम्।
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा ॥ 19 ॥

विश्वास-प्रस्तुतिः

अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा।
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा ॥ 20 ॥

मूलम्

अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा।
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा ॥ 20 ॥

विश्वास-प्रस्तुतिः

बद्धपद्मासना चैव मकुटोत्तमशोभिता।
एवं ध्येयाहमीशाना लक्ष्मीव्यूहस्थिता सती ॥ 21 ॥

मूलम्

बद्धपद्मासना चैव मकुटोत्तमशोभिता।
एवं ध्येयाहमीशाना लक्ष्मीव्यूहस्थिता सती ॥ 21 ॥

विश्वास-प्रस्तुतिः

मन्त्रमस्याः प्रवक्ष्यामि तं मे निगदितं5 शृणु।
तारिका नाम यद्बीजं हृदयं तत्परं मम ॥ 22 ॥

मूलम्

मन्त्रमस्याः प्रवक्ष्यामि तं मे निगदितं5 शृणु।
तारिका नाम यद्बीजं हृदयं तत्परं मम ॥ 22 ॥

टिप्पनी 22

तारिका ह्रींमन्त्रः।

विश्वास-प्रस्तुतिः

पूर्वं प्रणवमादाय तदन्तो तां नियोजयेत्।
द्व्यक्षरं तु ततो लक्ष्मयै नमस्छान्ते नियोजयेत् ॥ 23 ॥

मूलम्

पूर्वं प्रणवमादाय तदन्तो तां नियोजयेत्।
द्व्यक्षरं तु ततो लक्ष्मयै नमस्छान्ते नियोजयेत् ॥ 23 ॥

विश्वास-प्रस्तुतिः

ततः परमशब्दं तु तदन्ते पुरुषेश्वरम्।
आनन्दिनं च गरुडं वरुणं च समुद्धरेत् ॥ 24 ॥

मूलम्

ततः परमशब्दं तु तदन्ते पुरुषेश्वरम्।
आनन्दिनं च गरुडं वरुणं च समुद्धरेत् ॥ 24 ॥

विश्वास-प्रस्तुतिः

स्थितायैपदमस्यान्ते भूयो मद्धृदयं पठेत्।
अनुबीजं तदन्ते च मद्बीजं पुनरुत्तमम् ॥ 25 ॥

मूलम्

स्थितायैपदमस्यान्ते भूयो मद्धृदयं पठेत्।
अनुबीजं तदन्ते च मद्बीजं पुनरुत्तमम् ॥ 25 ॥

विश्वास-प्रस्तुतिः

वह्निजायां तदन्ते च मूर्तिमन्त्रो ममेदृशः।
विंशत्यर्णः स्मृतः सोऽयं साक्षाल्लक्ष्मीसमाह्वयः ॥ 26 ॥

मूलम्

वह्निजायां तदन्ते च मूर्तिमन्त्रो ममेदृशः।
विंशत्यर्णः स्मृतः सोऽयं साक्षाल्लक्ष्मीसमाह्वयः ॥ 26 ॥

विश्वास-प्रस्तुतिः

23-26. ओं ह्रीं लक्ष्म्यै नमः परमलक्षावस्थितायै ह्रीं श्रीं ह्रीं स्वाहा इति विंशत्यक्षरो मूर्तिमन्त्रः।
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन।
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् ॥ 27 ॥

मूलम्

23-26. ओं ह्रीं लक्ष्म्यै नमः परमलक्षावस्थितायै ह्रीं श्रीं ह्रीं स्वाहा इति विंशत्यक्षरो मूर्तिमन्त्रः।
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन।
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् ॥ 27 ॥

अनलं तदधःस्थं च पिण्डमेतत्त्रयं स्मृतम्। [^6]अन्ते युगादिमायोज्य [^7]ह्याद्यन्तस्वरषट्‌कयोः ॥ 28 ॥
विश्वास-प्रस्तुतिः

चन्द्रिणं व्यापिनं चैव सर्वेषामुपरि न्यसेत्।
विद्धि षड्‌ हृदयादीनि तान्यस्रान्तानि वासव ॥ 29 ॥

मूलम्

चन्द्रिणं व्यापिनं चैव सर्वेषामुपरि न्यसेत्।
विद्धि षड्‌ हृदयादीनि तान्यस्रान्तानि वासव ॥ 29 ॥

27-29. अङ्गमन्त्र इति। हृदयाद्यङ्गमन्त्र इत्यर्थः। मन्त्रानुद्धरति---शान्तमित्यादिना। श्ल्रं, श्ल्रिं, श्ल्रुं, श्ल्ल्लं, श्ल्रें, श्ल्रों इत्येतैः प्रत्येकं टं इति संयोजनेन मन्त्रा उद्धृता भवन्ति।
विश्वास-प्रस्तुतिः

लक्ष्मीसखीनामधुना मन्त्रानेतान्निशामय।
सत्यं तत्स्थं वराहं च 6मायान्तममृतं तथा ॥ 30 ॥

मूलम्

लक्ष्मीसखीनामधुना मन्त्रानेतान्निशामय।
सत्यं तत्स्थं वराहं च 6मायान्तममृतं तथा ॥ 30 ॥

टिप्पनी 30

ऋद्धिः, वृद्धिः, समृद्धिः, विभूतिरिति चतस्रो लक्ष्मीसख्यः। तासां बीजमन्त्राः ऋं, वृं, सिं, विं इति प्रत्येकं टं इति सहिताः।

विश्वास-प्रस्तुतिः

वरुणं रामयुक्तं च चत्वारो बीजनायकाः।
चन्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्द्नि वै ततः ॥ 31 ॥

मूलम्

वरुणं रामयुक्तं च चत्वारो बीजनायकाः।
चन्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्द्नि वै ततः ॥ 31 ॥

विश्वास-प्रस्तुतिः

ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः।
तारं बीजंततः संज्ञा स्वाहा चासां मनुः स्मृतः ॥ 32 ॥

मूलम्

ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः।
तारं बीजंततः संज्ञा स्वाहा चासां मनुः स्मृतः ॥ 32 ॥

टिप्पनी 32

ओं ऋं टं ऋद्ध्यै स्वाहा इत्यादयो मन्त्राः।

विश्वास-प्रस्तुतिः

सख्यश्चतस्र एताः स्युर्द्विभुजाः सौम्यदर्शनाः।
पद्मकोशप्रतीकाशाः श्रीवृक्षचमरङ्किताः ॥ 33 ॥

मूलम्

सख्यश्चतस्र एताः स्युर्द्विभुजाः सौम्यदर्शनाः।
पद्मकोशप्रतीकाशाः श्रीवृक्षचमरङ्किताः ॥ 33 ॥

विश्वास-प्रस्तुतिः

पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम्।
एवं ध्येयास्तु सख्यस्तास्चतुरोऽनुचराञ्शृणु ॥ 34 ॥

मूलम्

पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम्।
एवं ध्येयास्तु सख्यस्तास्चतुरोऽनुचराञ्शृणु ॥ 34 ॥

विश्वास-प्रस्तुतिः

लावण्यः सुभगश्चैव सौभाग्यश्च तृतीयकः।
चतुर्थः सौमनस्यश्च चत्वारोऽनुचरा मम ॥ 35 ॥

मूलम्

लावण्यः सुभगश्चैव सौभाग्यश्च तृतीयकः।
चतुर्थः सौमनस्यश्च चत्वारोऽनुचरा मम ॥ 35 ॥

टिप्पनी 35

लक्ष्म्यनुचरा लावण्यादयः।

विश्वास-प्रस्तुतिः

चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः।
दधतः पद्मकुम्भौ च नलिनीद्वजमेव च ॥ 36 ॥

मूलम्

चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः।
दधतः पद्मकुम्भौ च नलिनीद्वजमेव च ॥ 36 ॥

विश्वास-प्रस्तुतिः

प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः।
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे ॥ 37 ॥

मूलम्

प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः।
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे ॥ 37 ॥

विश्वास-प्रस्तुतिः

विबुधस्त्वादिदेवाढ्यः सोमोऽथ भुवनस्थितिः7
द्विधामृतं समादाय भूधराभ्यां नियोजयेत् ॥ 38 ॥

मूलम्

विबुधस्त्वादिदेवाढ्यः सोमोऽथ भुवनस्थितिः7
द्विधामृतं समादाय भूधराभ्यां नियोजयेत् ॥ 38 ॥

टिप्पनी 38

अनुचरमन्त्रा उच्यन्ते—विबुध इत्यादिना। लां सुं, सौ, सौ, टं इति बीजमन्त्राः।

विश्वास-प्रस्तुतिः

चन्द्रिव्यापिसमेतानि स्मरेद्बीजानि तत्त्वतः।
तारं बीजं ततः संज्ञा नमस्चान्ते मनोः स्मृतः ॥ 39 ॥

मूलम्

चन्द्रिव्यापिसमेतानि स्मरेद्बीजानि तत्त्वतः।
तारं बीजं ततः संज्ञा नमस्चान्ते मनोः स्मृतः ॥ 39 ॥

टिप्पनी 39

ओं लां टं लावण्याय नमः इत्यादयो मन्त्राः।

विश्वास-प्रस्तुतिः

एतत् साङ्गपरीवारं लक्ष्मीरूपं निदर्शितम्।
कीर्त्याख्याया द्वितीयाया मूर्ते रूपादिकं शृणु8 ॥ 40 ॥

मूलम्

एतत् साङ्गपरीवारं लक्ष्मीरूपं निदर्शितम्।
कीर्त्याख्याया द्वितीयाया मूर्ते रूपादिकं शृणु8 ॥ 40 ॥

विश्वास-प्रस्तुतिः

रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा।
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे ॥ 41 ॥

मूलम्

रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा।
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे ॥ 41 ॥

विश्वास-प्रस्तुतिः

तारं मद्धृदयं पश्चात् करालो विष्णुसंयुतः।
स्रग्धरश्चानलारूढ ऐश्वर्यपरिभूषितः ॥ 42 ॥

मूलम्

तारं मद्धृदयं पश्चात् करालो विष्णुसंयुतः।
स्रग्धरश्चानलारूढ ऐश्वर्यपरिभूषितः ॥ 42 ॥

टिप्पनी 42

ओं ह्रीं क्रीं त्रैं नमः सदोदितानन्दविग्रहायै ह्रीं क्रीं स्वाहा इति विंशत्यर्णो मन्त्रः।

विश्वास-प्रस्तुतिः

नमः सदोदितानन्दविग्रहायैपदं ततः।
मद्बीजं कमलारूढमनलं विष्णुभूषितम् ॥ 43 ॥

मूलम्

नमः सदोदितानन्दविग्रहायैपदं ततः।
मद्बीजं कमलारूढमनलं विष्णुभूषितम् ॥ 43 ॥

विश्वास-प्रस्तुतिः

व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत्।
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः ॥ 44 ॥

मूलम्

व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत्।
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः ॥ 44 ॥

विश्वास-प्रस्तुतिः

अङ्गमन्त्रान्निबोधाद्य गदन्त्या मे निशामय।
करालमनलारूढं कृत्वा संयोज्य पूर्ववत् ॥ 45 ॥

मूलम्

अङ्गमन्त्रान्निबोधाद्य गदन्त्या मे निशामय।
करालमनलारूढं कृत्वा संयोज्य पूर्ववत् ॥ 45 ॥

टिप्पनी 45

अङ्गमन्त्राः क्रां क्रीं इत्यादिका लक्ष्म्या इव ज्ञेयाः।

विश्वास-प्रस्तुतिः

आनन्दाद्यैः स्वरैश्चन्द्रिव्यापियुक्तैः श्रियो यथा।
अङ्गमन्त्रा इमे कीर्तेः सखीरूपमनूञ्छृणु ॥ 46 ॥

मूलम्

आनन्दाद्यैः स्वरैश्चन्द्रिव्यापियुक्तैः श्रियो यथा।
अङ्गमन्त्रा इमे कीर्तेः सखीरूपमनूञ्छृणु ॥ 46 ॥

टिप्पनी 46

सखीत्यादि। सखीः तासां रूपाणि मनूंश्च शृण्वित्यर्थः।

विश्वास-प्रस्तुतिः

द्युतिः सरस्वती मेधा श्रुतिः सख्य इमाः स्मृताः।
द्विभुजा हेमवर्णाभाः कीर्तिरूपाः स्मिताननाः ॥ 47 ॥

मूलम्

द्युतिः सरस्वती मेधा श्रुतिः सख्य इमाः स्मृताः।
द्विभुजा हेमवर्णाभाः कीर्तिरूपाः स्मिताननाः ॥ 47 ॥

विश्वास-प्रस्तुतिः

सुपुस्तकं करे वामे दक्षिणे चामरं करे।
मन्त्रान् कीर्तिसखीनां तु गदन्त्या मे निशामय ॥ 48 ॥

मूलम्

सुपुस्तकं करे वामे दक्षिणे चामरं करे।
मन्त्रान् कीर्तिसखीनां तु गदन्त्या मे निशामय ॥ 48 ॥

विश्वास-प्रस्तुतिः

मदनं चामृतं चैव प्रधानं शंकरं तथा।
एतान् कृत्वानलारूढान् मायया परिभूषयेत् ॥ 49 ॥

मूलम्

मदनं चामृतं चैव प्रधानं शंकरं तथा।
एतान् कृत्वानलारूढान् मायया परिभूषयेत् ॥ 49 ॥

टिप्पनी 49

मदनमित्यादि। म्रीं, स्रीं, म्रीं, श्रीं, टं इति मन्त्राः।

विश्वास-प्रस्तुतिः

चन्द्रिणं व्यापिनं दद्यात् सखीमन्त्रानिमान् स्मरेत्।
कीर्तेरनुचराणां 9तु नामरूपादिकं शृणु ॥ 50 ॥

मूलम्

चन्द्रिणं व्यापिनं दद्यात् सखीमन्त्रानिमान् स्मरेत्।
कीर्तेरनुचराणां 9तु नामरूपादिकं शृणु ॥ 50 ॥

विश्वास-प्रस्तुतिः

वागीशो जयदश्चैव10 प्रसादस्राण एव च।
ध्येयाः किंशकवर्णाभाः 11कान्तरूपा मनोहराः ॥ 51 ॥

मूलम्

वागीशो जयदश्चैव10 प्रसादस्राण एव च।
ध्येयाः किंशकवर्णाभाः 11कान्तरूपा मनोहराः ॥ 51 ॥

टिप्पनी 51

कीर्तेरनुचराः—वागीशादयः।

विश्वास-प्रस्तुतिः

श्वेताम्बरास्चतुर्हस्ताः सर्वाभरणभूषिताः।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ 52 ॥

मूलम्

श्वेताम्बरास्चतुर्हस्ताः सर्वाभरणभूषिताः।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ 52 ॥

विश्वास-प्रस्तुतिः

शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ॥ 53 ॥

मूलम्

शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ॥ 53 ॥

विश्वास-प्रस्तुतिः

पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः ॥ 54 ॥

मूलम्

पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः ॥ 54 ॥

विश्वास-प्रस्तुतिः

वराहमादिदेवाढ्यमप्रमेयं च केवलम्।
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ॥ 55 ॥

मूलम्

वराहमादिदेवाढ्यमप्रमेयं च केवलम्।
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ॥ 55 ॥

टिप्पनी 55

वराहो वकारः। पवित्रं पकारः। स्रग्धरः तकारः।

विश्वास-प्रस्तुतिः

आदिदेवान्वितं कृत्वा तेषामूर्ध्वं सुयोजयेत्12
चन्द्रिणं व्यापिनं चान्ते मन्त्रा अनुचराश्रिताः ॥ 56 ॥

मूलम्

आदिदेवान्वितं कृत्वा तेषामूर्ध्वं सुयोजयेत्12
चन्द्रिणं व्यापिनं चान्ते मन्त्रा अनुचराश्रिताः ॥ 56 ॥

विश्वास-प्रस्तुतिः

कीर्तेर्द्वितीयमूर्तेर्वै क्रमोऽयं परिकीर्तितः।
रूपादिकं तृतीयाया जयाया मे निशामय ॥ 57 ॥

मूलम्

कीर्तेर्द्वितीयमूर्तेर्वै क्रमोऽयं परिकीर्तितः।
रूपादिकं तृतीयाया जयाया मे निशामय ॥ 57 ॥

विश्वास-प्रस्तुतिः

रूपेण सदृशी लक्ष्म्या जया परमशोभना।
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः ॥ 58 ॥

मूलम्

रूपेण सदृशी लक्ष्म्या जया परमशोभना।
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः ॥ 58 ॥

टिप्पनी 58

तारः प्रणवः। तारिका ह्रीं मन्त्रः। जन्महन्ता जकारः। चतुर्गतिः यकारः।

आदिदेवान्वितः पश्चात् स एवैश्वर्यसंयुतः।
13तारमादाय तस्यान्ते कालं सपरमेश्वरम् ॥ 59 ॥

टिप्पनी 59

कालः मकारः। परमेश्वरः विसर्गः।

विश्वास-प्रस्तुतिः

व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा।
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः ॥ 60 ॥

मूलम्

व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा।
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः ॥ 60 ॥

टिप्पनी 60

व्यापकः अकारः। रामः इकारः। धर्ता धकारः। प्रधानः मकारः।

विश्वास-प्रस्तुतिः

वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः।
वैराजश्चादिदेवाढ्यः शङ्ख ऐस्वर्यभूषितः ॥ 61 ॥

मूलम्

वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः।
वैराजश्चादिदेवाढ्यः शङ्ख ऐस्वर्यभूषितः ॥ 61 ॥

टिप्पनी 61

धन्वी थकारः। वैराजः तकारः। शङ्खः यकारः।

विश्वास-प्रस्तुतिः

तारिका शाश्वतोऽशेषभुवनाधारविष्णुमान्।
व्योमेशभूषितश्चाथ वह्निपत्नी ततः परम् ॥ 62 ॥

मूलम्

तारिका शाश्वतोऽशेषभुवनाधारविष्णुमान्।
व्योमेशभूषितश्चाथ वह्निपत्नी ततः परम् ॥ 62 ॥

टिप्पनी 62

शाश्वतः जकारः। विष्णुः इकारः। व्योमेशः अनुस्वारः। वह्निपत्नी स्वाहाकारः।

विश्वास-प्रस्तुतिः

जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे।
जन्महन्तारमादाय कालपावकभूषितम् ॥ 63 ॥

मूलम्

जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे।
जन्महन्तारमादाय कालपावकभूषितम् ॥ 63 ॥

टिप्पनी 63

कालपावकः रेफः।

विश्वास-प्रस्तुतिः

स्वरैर्विभूषयेत् प्राग्वच्चन्द्रिव्यापिसमन्वितैः।
अङ्गानि हृदयादीनि जयायास्तानि संस्मरेत् ॥ 64 ॥

मूलम्

स्वरैर्विभूषयेत् प्राग्वच्चन्द्रिव्यापिसमन्वितैः।
अङ्गानि हृदयादीनि जयायास्तानि संस्मरेत् ॥ 64 ॥

विश्वास-प्रस्तुतिः

जयन्ती विजया चैव तृतीया चापराजिता।
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः ॥ 65 ॥

मूलम्

जयन्ती विजया चैव तृतीया चापराजिता।
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः ॥ 65 ॥

विश्वास-प्रस्तुतिः

अजितं विष्णुसंयुक्तं वरुणं 14चेद्धसंयुतम्।
केवलव्यापकं चैव सोममिष्टविभूषितम् ॥ 66 ॥

मूलम्

अजितं विष्णुसंयुक्तं वरुणं 14चेद्धसंयुतम्।
केवलव्यापकं चैव सोममिष्टविभूषितम् ॥ 66 ॥

टिप्पनी 66

अजितः जकारः। वरुणः वकारः। इद्धः इकारः। सोमः सकारः। इष्टः इकारः।

विश्वास-प्रस्तुतिः

चन्द्रिव्यापिसमायुक्तं कृत्वा संयोज्य संज्ञया।
स्वाहामन्ते समायोज्य सखीमन्त्रानिमान् स्मरेत् ॥ 67 ॥

मूलम्

चन्द्रिव्यापिसमायुक्तं कृत्वा संयोज्य संज्ञया।
स्वाहामन्ते समायोज्य सखीमन्त्रानिमान् स्मरेत् ॥ 67 ॥

15नीलनीरदवर्णाभाः प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ॥ 68 ॥

टिप्पनी 68

जयासखीनां रूपमाह—नीलेत्यादिना।

16सितचामरहस्ताश्च चित्रवेत्रलताकराः।
निरीक्षमाणा वदनं जयाया अजितस्य च ॥ 69 ॥

विश्वास-प्रस्तुतिः

प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः ॥ 70 ॥

मूलम्

प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः ॥ 70 ॥

टिप्पनी 70

जयानुचरा उच्यन्ते—प्रतापीत्यादिना।

विश्वास-प्रस्तुतिः

रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा ॥ 71 ॥

मूलम्

रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा ॥ 71 ॥

टिप्पनी 71

जयानुचराणां रूपमाह—रक्तेत्यादि।

विश्वास-प्रस्तुतिः

इत्थं तेऽनुचरा ज्ञेयाः17 पुष्पाभरणभूषिताः।
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च ॥ 72 ॥

मूलम्

इत्थं तेऽनुचरा ज्ञेयाः17 पुष्पाभरणभूषिताः।
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च ॥ 72 ॥

टिप्पनी 72

पद्मनाभः पकारः। अजितः जकारः। कालः मकारः। उद्दामः उकारः।

विश्वास-प्रस्तुतिः

उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः।
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः ॥ 73 ॥

मूलम्

उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः।
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः ॥ 73 ॥

विश्वास-प्रस्तुतिः

जयानुचरमन्त्रास्ते विज्ञेया वृत्रसूदन।
अयं तृतीयमूर्तेर्मे जयाया विधिरद्भुतः ॥ 74 ॥

मूलम्

जयानुचरमन्त्रास्ते विज्ञेया वृत्रसूदन।
अयं तृतीयमूर्तेर्मे जयाया विधिरद्भुतः ॥ 74 ॥

विश्वास-प्रस्तुतिः

चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय।
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः ॥ 75 ॥

मूलम्

चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय।
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः ॥ 75 ॥

विश्वास-प्रस्तुतिः

माया नाम महाशक्तिस्तुरीया मे तनुः परा।
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय ॥ 76 ॥

मूलम्

माया नाम महाशक्तिस्तुरीया मे तनुः परा।
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय ॥ 76 ॥

विश्वास-प्रस्तुतिः

आदाय तारकं पूर्वं तारिकां तदनु स्मरेत्।
मायायै च नमः पश्चात् काल ओदनसंस्थितः ॥ 77 ॥

मूलम्

आदाय तारकं पूर्वं तारिकां तदनु स्मरेत्।
मायायै च नमः पश्चात् काल ओदनसंस्थितः ॥ 77 ॥

टिप्पनी 77

ओदनः ओकारः।

विश्वास-प्रस्तुतिः

वामभ्रूसंयुतः सूर्यः स्रघ्धरो विष्णुभूषितः।
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः ॥ 78 ॥

मूलम्

वामभ्रूसंयुतः सूर्यः स्रघ्धरो विष्णुभूषितः।
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः ॥ 78 ॥

टिप्पनी 78

नरः नकारः। मदनः मकारः। गोपनः आकारः।

विश्वास-प्रस्तुतिः

पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम्।
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः ॥ 79 ॥

मूलम्

पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम्।
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः ॥ 79 ॥

टिप्पनी 79

पुण्डरीकः शकारः। ताललक्ष्मा तकारः।

विश्वास-प्रस्तुतिः

ततः कालोऽनलारूढो मायाव्यापिसमन्वितः।
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् ॥ 80 ॥

मूलम्

ततः कालोऽनलारूढो मायाव्यापिसमन्वितः।
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् ॥ 80 ॥

विश्वास-प्रस्तुतिः

वह्निजाया तदन्ते स्याद्विंशत्यर्णो मनुः स्मृतः।
अङ्गान्यस्य प्रवक्ष्यामि तानि मे त्वं निशामय ॥ 81 ॥

मूलम्

वह्निजाया तदन्ते स्याद्विंशत्यर्णो मनुः स्मृतः।
अङ्गान्यस्य प्रवक्ष्यामि तानि मे त्वं निशामय ॥ 81 ॥

विश्वास-प्रस्तुतिः

मायाबीजं समादाय गोपनाद्यैः स्वरैः क्रमात्।
विभेद्य पूर्ववत् कार्या ह्यङ्गक्लृप्तिर्विपश्चिता ॥ 82 ॥

मूलम्

मायाबीजं समादाय गोपनाद्यैः स्वरैः क्रमात्।
विभेद्य पूर्ववत् कार्या ह्यङ्गक्लृप्तिर्विपश्चिता ॥ 82 ॥

विश्वास-प्रस्तुतिः

मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर।
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः ॥ 83 ॥

मूलम्

मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर।
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः ॥ 83 ॥

विश्वास-प्रस्तुतिः

लावण्येन च वीर्येण सौन्दर्येण च तेजसा।
मायातुल्या इमा देव्यः सितवस्रानुलेपनाः ॥ 84 ॥

मूलम्

लावण्येन च वीर्येण सौन्दर्येण च तेजसा।
मायातुल्या इमा देव्यः सितवस्रानुलेपनाः ॥ 84 ॥

विश्वास-प्रस्तुतिः

चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मन्त्रानासां प्रवक्ष्यामि शृणु त्वं बलसूदन ॥ 85 ॥

मूलम्

चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मन्त्रानासां प्रवक्ष्यामि शृणु त्वं बलसूदन ॥ 85 ॥

विश्वास-प्रस्तुतिः

प्रधान ओदनारूढो ध्रुवो रेफादिदेववान्।
मदनो भुवनारूढो योऽनलैश्वर्यसंयुतः ॥ 86 ॥

मूलम्

प्रधान ओदनारूढो ध्रुवो रेफादिदेववान्।
मदनो भुवनारूढो योऽनलैश्वर्यसंयुतः ॥ 86 ॥

टिप्पनी 86

ध्रुवः भकारः। भुवनम् उकारः।

विश्वास-प्रस्तुतिः

चन्द्रिव्यापियुता ह्येते सर्वे प्रणवपीठगाः।
संज्ञाश्वाहायुजो मायासखीमन्त्रा इमे स्मृताः ॥ 87 ॥

मूलम्

चन्द्रिव्यापियुता ह्येते सर्वे प्रणवपीठगाः।
संज्ञाश्वाहायुजो मायासखीमन्त्रा इमे स्मृताः ॥ 87 ॥

विश्वास-प्रस्तुतिः

मायामयो महामोहः शम्बरश्च कलीश्वरः।
चत्वारोऽनुचरा एते काकालीकज्जलोपमाः ॥ 88 ॥

मूलम्

मायामयो महामोहः शम्बरश्च कलीश्वरः।
चत्वारोऽनुचरा एते काकालीकज्जलोपमाः ॥ 88 ॥

विश्वास-प्रस्तुतिः

चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः।
केयूराभरणोपेताः पीतकौशेयवाससः ॥ 89 ॥

मूलम्

चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः।
केयूराभरणोपेताः पीतकौशेयवाससः ॥ 89 ॥

विश्वास-प्रस्तुतिः

हारनूपुरसंयुक्ता नानाकुसुमभूषिताः।
तुषारधूलिधवलाःखड्गपाशकरोद्यताः ॥ 90 ॥

मूलम्

हारनूपुरसंयुक्ता नानाकुसुमभूषिताः।
तुषारधूलिधवलाःखड्गपाशकरोद्यताः ॥ 90 ॥

विश्वास-प्रस्तुतिः

बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये।
प्रधानो गोपनोपेतः केवलस्तदननत्रम् ॥ 91 ॥

मूलम्

बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये।
प्रधानो गोपनोपेतः केवलस्तदननत्रम् ॥ 91 ॥

विश्वास-प्रस्तुतिः

शंकरः केवलश्चैव केवलः कमलस्तथा।
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् ॥ 92 ॥

मूलम्

शंकरः केवलश्चैव केवलः कमलस्तथा।
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् ॥ 92 ॥

विश्वास-प्रस्तुतिः

तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः।
मन्त्रा मायामयादीनां चतुर्णां बलसूदन ॥ 93 ॥

मूलम्

तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः।
मन्त्रा मायामयादीनां चतुर्णां बलसूदन ॥ 93 ॥

विश्वास-प्रस्तुतिः

सर्वेषामङ्गमन्त्राणां ध्यानं सामान्यमीरितम्।
मुद्राश्चाङ्गसमेतानां देवानामपि वासव ॥ 94 ॥

मूलम्

सर्वेषामङ्गमन्त्राणां ध्यानं सामान्यमीरितम्।
मुद्राश्चाङ्गसमेतानां देवानामपि वासव ॥ 94 ॥

विश्वास-प्रस्तुतिः

याः पुरस्तान्मया प्रोक्ता दर्शयेत्ता यथायथम्।
एकैकशः समस्ता वा देवीरेता भजन्नरः ॥ 95 ॥

मूलम्

याः पुरस्तान्मया प्रोक्ता दर्शयेत्ता यथायथम्।
एकैकशः समस्ता वा देवीरेता भजन्नरः ॥ 95 ॥

विश्वास-प्रस्तुतिः

यथामति यथोत्साहं युज्यते परया श्रिया।
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः ॥ 96 ॥

मूलम्

यथामति यथोत्साहं युज्यते परया श्रिया।
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः ॥ 96 ॥

विश्वास-प्रस्तुतिः

याभिः स भगवान् देवः पूर्णरूपोऽवतिष्ठते।
एकैकस्या असंख्याताः शक्तयस्तत्तदात्मिकाः ॥ 97 ॥

मूलम्

याभिः स भगवान् देवः पूर्णरूपोऽवतिष्ठते।
एकैकस्या असंख्याताः शक्तयस्तत्तदात्मिकाः ॥ 97 ॥

विश्वास-प्रस्तुतिः

अनन्तपरिवारास्ता इति शक्तिमयं जगत्।
आसां चतसृणामेकां शक्तीनां परमेश्वरीम् ॥ 98 ॥

मूलम्

अनन्तपरिवारास्ता इति शक्तिमयं जगत्।
आसां चतसृणामेकां शक्तीनां परमेश्वरीम् ॥ 98 ॥

विश्वास-प्रस्तुतिः

मूलभूतां पराहंतां विष्णोस्तद्धर्मधर्मिणीम्।
सर्वशक्तिमयीं तां मां शक्तिचक्रस्य नायिकाम् ॥ 99 ॥

मूलम्

मूलभूतां पराहंतां विष्णोस्तद्धर्मधर्मिणीम्।
सर्वशक्तिमयीं तां मां शक्तिचक्रस्य नायिकाम् ॥ 99 ॥

विश्वास-प्रस्तुतिः

प्रकाशानन्दयोरन्तरनुस्यूतामनुस्मरेत्।
अग्नीषोमद्वयान्तःस्थां मध्यमार्गानुवर्तिनीम् ॥ 100 ॥

मूलम्

प्रकाशानन्दयोरन्तरनुस्यूतामनुस्मरेत्।
अग्नीषोमद्वयान्तःस्थां मध्यमार्गानुवर्तिनीम् ॥ 100 ॥

विश्वास-प्रस्तुतिः

अपराच्या मनोवृत्त्या 18मन्वीत मतिमान्नरः।
अस्तमानाय्य सौषुम्ने मार्गे सूर्यनिशाकरौ ॥ 101 ॥

मूलम्

अपराच्या मनोवृत्त्या 18मन्वीत मतिमान्नरः।
अस्तमानाय्य सौषुम्ने मार्गे सूर्यनिशाकरौ ॥ 101 ॥

विश्वास-प्रस्तुतिः

अपराचीनया वृत्त्या कुर्वीत मयि संस्थितिम्।
शक्रः—
देवदेवमये देवि सरसीरुहसंस्थिते ॥ 102 ॥

मूलम्

अपराचीनया वृत्त्या कुर्वीत मयि संस्थितिम्।
शक्रः—
देवदेवमये देवि सरसीरुहसंस्थिते ॥ 102 ॥

विश्वास-प्रस्तुतिः

मुद्रा देवीसखीनां च किंकराणां च मे वद।
श्रीः—
देवीनां दर्शिता मुद्राः पुरैव बलसूदन ॥ 103 ॥

मूलम्

मुद्रा देवीसखीनां च किंकराणां च मे वद।
श्रीः—
देवीनां दर्शिता मुद्राः पुरैव बलसूदन ॥ 103 ॥

विश्वास-प्रस्तुतिः

तत्सखीनामिदानीं तु षोडशानां निबोध मे।
संमुखौ तु करौ कृत्वा सुस्पष्टौ सुप्रसारितौ ॥ 104 ॥

मूलम्

तत्सखीनामिदानीं तु षोडशानां निबोध मे।
संमुखौ तु करौ कृत्वा सुस्पष्टौ सुप्रसारितौ ॥ 104 ॥

विश्वास-प्रस्तुतिः

कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत्।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ॥ 105 ॥

मूलम्

कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत्।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ॥ 105 ॥

विश्वास-प्रस्तुतिः

अङ्गुलीभिश्चतसृभिः पाणिमध्ये निराश्रयम्।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ 106 ॥

मूलम्

अङ्गुलीभिश्चतसृभिः पाणिमध्ये निराश्रयम्।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ 106 ॥

विश्वास-प्रस्तुतिः

अङ्गुलीनां चतसृणां विश्रान्तौ चोदरावधेः।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ 107 ॥

मूलम्

अङ्गुलीनां चतसृणां विश्रान्तौ चोदरावधेः।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ 107 ॥

विश्वास-प्रस्तुतिः

प्रसार्य चाग्रतो लग्ने मध्यमे द्वे सुरेश्वर।
कनीयस्यौ ऋजूसूते समारभ्य करद्वयम् ॥ 108 ॥

मूलम्

प्रसार्य चाग्रतो लग्ने मध्यमे द्वे सुरेश्वर।
कनीयस्यौ ऋजूसूते समारभ्य करद्वयम् ॥ 108 ॥

विश्वास-प्रस्तुतिः

कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः।
ईषदङ्गुष्ठमूले तु मणिबन्धं करद्वयात् ॥ 109 ॥

मूलम्

कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः।
ईषदङ्गुष्ठमूले तु मणिबन्धं करद्वयात् ॥ 109 ॥

विश्वास-प्रस्तुतिः

कुर्याद्विकसितं चैव मुद्रैषा बलसूदन।
महायोन्यभिधाना च त्रिलोकजननी परा ॥ 110 ॥

मूलम्

कुर्याद्विकसितं चैव मुद्रैषा बलसूदन।
महायोन्यभिधाना च त्रिलोकजननी परा ॥ 110 ॥

विश्वास-प्रस्तुतिः

वशीकुर्याज्जगत् सर्वं कामतो यदि योजिता।
अत्रानुष्ठानयत्ता स्री बद्ध्वा दूरात् प्रदर्शयेत् ॥ 111 ॥

मूलम्

वशीकुर्याज्जगत् सर्वं कामतो यदि योजिता।
अत्रानुष्ठानयत्ता स्री बद्ध्वा दूरात् प्रदर्शयेत् ॥ 111 ॥

विश्वास-प्रस्तुतिः

मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ 112 ॥

मूलम्

मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ 112 ॥

विश्वास-प्रस्तुतिः

निवृत्तकामधर्मासु चाबलास्वथवा मुनेः।
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा ॥ 113 ॥

मूलम्

निवृत्तकामधर्मासु चाबलास्वथवा मुनेः।
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा ॥ 113 ॥

विश्वास-प्रस्तुतिः

एषा साधारणी मुद्रा सर्वासामपि वासव।
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ॥ 114 ॥

मूलम्

एषा साधारणी मुद्रा सर्वासामपि वासव।
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ॥ 114 ॥

विश्वास-प्रस्तुतिः

पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा ॥ 115 ॥

मूलम्

पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा ॥ 115 ॥

विश्वास-प्रस्तुतिः

अधोमुखं तु सुस्पष्टं ताभ्यां मध्यं19 महामते।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीयुगम् ॥ 116 ॥

मूलम्

अधोमुखं तु सुस्पष्टं ताभ्यां मध्यं19 महामते।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीयुगम् ॥ 116 ॥

विश्वास-प्रस्तुतिः

मध्यमानामिकायां तु युग्मं युग्मं तु धारयेत्।
एकलग्नं नखोद्देशाद्यावत्पर्व20 तु मध्यमम् ॥ 117 ॥

मूलम्

मध्यमानामिकायां तु युग्मं युग्मं तु धारयेत्।
एकलग्नं नखोद्देशाद्यावत्पर्व20 तु मध्यमम् ॥ 117 ॥

विश्वास-प्रस्तुतिः

ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ ॥ 118 ॥

मूलम्

ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ ॥ 118 ॥

विश्वास-प्रस्तुतिः

परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा।
स्वस्वमन्त्रयुता कार्या सर्वेषामियमेकिका ॥ 119 ॥

मूलम्

परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा।
स्वस्वमन्त्रयुता कार्या सर्वेषामियमेकिका ॥ 119 ॥

विश्वास-प्रस्तुतिः

साधारण्याविमे प्रोक्ते मुद्रे सख्यनुचारिणाम्।
इत्थं सपरिवाराभिस्तां मां चतसृभिर्युताम् ॥ 120 ॥

मूलम्

साधारण्याविमे प्रोक्ते मुद्रे सख्यनुचारिणाम्।
इत्थं सपरिवाराभिस्तां मां चतसृभिर्युताम् ॥ 120 ॥

टिप्पनी 120

चतसृभिरिति। लक्ष्मीकीर्तिजयामायाभिरित्यर्थः।

विश्वास-प्रस्तुतिः

विभूतिभिरुपास्यैवं मामेवान्ते समश्नुते।
विभूतयो ह्यनन्ता मे तत्त्वतात्त्विकसंश्रयाः ॥ 121 ॥

मूलम्

विभूतिभिरुपास्यैवं मामेवान्ते समश्नुते।
विभूतयो ह्यनन्ता मे तत्त्वतात्त्विकसंश्रयाः ॥ 121 ॥

विश्वास-प्रस्तुतिः

कोटिकोटिपरीवारा एकैकास्ताश्च वासव।
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः21 ॥ 122 ॥

मूलम्

कोटिकोटिपरीवारा एकैकास्ताश्च वासव।
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः21 ॥ 122 ॥

विश्वास-प्रस्तुतिः

इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह।
कथितस्ते समुद्देशः साधनादीनि मे शृणु ॥ 123 ॥

मूलम्

इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह।
कथितस्ते समुद्देशः साधनादीनि मे शृणु ॥ 123 ॥

इति 22श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे मूर्तिप्रकाशो नाम पञ्चचत्वारिंशोऽध्यायः

इति पञ्चचत्वारिंशोऽध्यायः


  1. लक्ष्मीः परा शक्तिः F. G. ↩︎ ↩︎

  2. तत्त्वोदधावस्ति F. I. ↩︎ ↩︎

  3. मूर्तीः F. ↩︎ ↩︎

  4. चल I. ↩︎

  5. निगदतः A. ↩︎ ↩︎

  6. मायाक्तं I. ↩︎ ↩︎

  7. स्थितः B. I. ↩︎ ↩︎

  8. रूपादि तच्छृणु A. G. ↩︎ ↩︎

  9. च B. C. F. ↩︎ ↩︎

  10. अभयदश्चैव B. C. F. ↩︎ ↩︎

  11. कान्ति B. F. ↩︎ ↩︎

  12. मूर्धसु योजयेत् A. G. ↩︎ ↩︎

  13. नरम् A. B. F. ↩︎

  14. सिद्धसंयुतम् A.; चेद्धसंज्ञितम् C.; चेन्द्रसंयुतम् F. ↩︎ ↩︎

  15. C. and G. omit three lines from here.
    कुन्दकुड्‌मलवर्णाभाः प्रसन्नवदनेक्षणाः। पीताम्बरधराः सर्वीः प्रसन्नमुखपङ्कजाः॥ A. ↩︎

  16. F. omits this line. ↩︎

  17. ध्येयाः A. B. ↩︎ ↩︎

  18. F. omits four quarters from here. ↩︎ ↩︎

  19. मध्यां C. F. ↩︎ ↩︎

  20. पद्मं A. ↩︎ ↩︎

  21. ते च कीर्तिताः B. C. ↩︎ ↩︎

  22. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎