०४४

विश्वास-प्रस्तुतिः

चतुश्चत्वारिंशोऽध्यायः - 44
शक्रः—
नमस्ते चिदचिद्वर्गसंरक्षणविचक्षणे।
जगद्विधानशिल्पिन्यै विष्णुपत्न्यै नमोऽस्तु ते ॥ 1 ॥

मूलम्

चतुश्चत्वारिंशोऽध्यायः - 44
शक्रः—
नमस्ते चिदचिद्वर्गसंरक्षणविचक्षणे।
जगद्विधानशिल्पिन्यै विष्णुपत्न्यै नमोऽस्तु ते ॥ 1 ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मपरात्मानो भेदाः पूर्वं प्रदर्शिताः1
ताराया बीजपिण्डादिभेदं दर्शय मेऽम्बुजे ॥ 2 ॥

मूलम्

स्थूलसूक्ष्मपरात्मानो भेदाः पूर्वं प्रदर्शिताः1
ताराया बीजपिण्डादिभेदं दर्शय मेऽम्बुजे ॥ 2 ॥

विश्वास-प्रस्तुतिः

श्रीः—
एको नारायणः श्रीमान् पूर्णषाड्‌गुण्यविग्रहः।
एकाहं परमा तस्य शक्तिः षाड्‌गुण्यविग्रहा ॥ 3 ॥

मूलम्

श्रीः—
एको नारायणः श्रीमान् पूर्णषाड्‌गुण्यविग्रहः।
एकाहं परमा तस्य शक्तिः षाड्‌गुण्यविग्रहा ॥ 3 ॥

विश्वास-प्रस्तुतिः

लोकाननुजिघृक्षन्ती शश्वज्ज्ञानक्रियात्मना।
साहं तारिकया तन्वा पोषयामि पुनामि च ॥ 4 ॥

मूलम्

लोकाननुजिघृक्षन्ती शश्वज्ज्ञानक्रियात्मना।
साहं तारिकया तन्वा पोषयामि पुनामि च ॥ 4 ॥

विश्वास-प्रस्तुतिः

तस्याः परादिभावस्ते शक्र पूर्वं निदर्शितः2
बीजपिण्डादिकान् भेदान् गदन्त्या मे निशामय ॥ 5 ॥

मूलम्

तस्याः परादिभावस्ते शक्र पूर्वं निदर्शितः2
बीजपिण्डादिकान् भेदान् गदन्त्या मे निशामय ॥ 5 ॥

विश्वास-प्रस्तुतिः

या परा दर्शिता पूर्वं यादृशी सा त्रिधात्मना।
साहंता तादृशी शक्र तारिकाबीजमुच्यते ॥ 6 ॥

मूलम्

या परा दर्शिता पूर्वं यादृशी सा त्रिधात्मना।
साहंता तादृशी शक्र तारिकाबीजमुच्यते ॥ 6 ॥

विश्वास-प्रस्तुतिः

सूर्यानलस्थिता विष्णुपिण्डव्योमेशशेखरा।
पौरश्चरणिको योगस्तस्याः सिद्धिश्च दर्शिता ॥ 7 ॥

मूलम्

सूर्यानलस्थिता विष्णुपिण्डव्योमेशशेखरा।
पौरश्चरणिको योगस्तस्याः सिद्धिश्च दर्शिता ॥ 7 ॥

टिप्पनी 7

ह्रीं इति बिजमन्त्रः।

विश्वास-प्रस्तुतिः

संज्ञाख्या तारिकाया हि योगिभिः शक्र सेव्यते।
तामद्यावदधानस्त्वं गदन्त्या मे निशामय ॥ 8 ॥

मूलम्

संज्ञाख्या तारिकाया हि योगिभिः शक्र सेव्यते।
तामद्यावदधानस्त्वं गदन्त्या मे निशामय ॥ 8 ॥

विश्वास-प्रस्तुतिः

शुद्धमेकमुपादाय स्वाहया शक्र योजयेत्।
अयं संज्ञामनुर्योगिदेवब्रह्मादिपूजितः3 ॥ 9 ॥

मूलम्

शुद्धमेकमुपादाय स्वाहया शक्र योजयेत्।
अयं संज्ञामनुर्योगिदेवब्रह्मादिपूजितः3 ॥ 9 ॥

टिप्पनी 9

शुद्धं; बीजमित्यर्थः।

विश्वास-प्रस्तुतिः

योगिभिर्यतमानैर्वा मया नारायणेन वा।
शक्यः प्रभाव आख्यातुं संज्ञायास्त्रिदशेश्वर ॥ 10 ॥

मूलम्

योगिभिर्यतमानैर्वा मया नारायणेन वा।
शक्यः प्रभाव आख्यातुं संज्ञायास्त्रिदशेश्वर ॥ 10 ॥

विश्वास-प्रस्तुतिः

शुभानुबन्धमात्रं तु संज्ञेष्टं परमक्षरम्।
पिण्डिताया इवास्याश्च सिद्धयः साधनानि च ॥ 11 ॥

मूलम्

शुभानुबन्धमात्रं तु संज्ञेष्टं परमक्षरम्।
पिण्डिताया इवास्याश्च सिद्धयः साधनानि च ॥ 11 ॥

टिप्पनी 11

शुभः शकारः। तत्संबन्ध एव विशेषः। श्रीं स्वाहा इति संज्ञामन्त्रः।

विश्वास-प्रस्तुतिः

स्मरन् सततमभ्यासात्तन्मयीकृतविग्रहः।
योगी मन्मयतां प्राप्य मद्भावं प्रतिपद्यते ॥ 12 ॥

मूलम्

स्मरन् सततमभ्यासात्तन्मयीकृतविग्रहः।
योगी मन्मयतां प्राप्य मद्भावं प्रतिपद्यते ॥ 12 ॥

विश्वास-प्रस्तुतिः

अहं वा बोधिता तेन साक्षात्कारमुपेयुषी।
विदधे सकलं कामं4 स योगी यं यमिच्छति ॥ 13 ॥

मूलम्

अहं वा बोधिता तेन साक्षात्कारमुपेयुषी।
विदधे सकलं कामं4 स योगी यं यमिच्छति ॥ 13 ॥

विश्वास-प्रस्तुतिः

इति संज्ञामनुः शक्र लेशतः संप्रदर्शितः।
पदमन्त्रमिदानीं मे शृणु त्वं सर्वसाधकम् ॥ 14 ॥

मूलम्

इति संज्ञामनुः शक्र लेशतः संप्रदर्शितः।
पदमन्त्रमिदानीं मे शृणु त्वं सर्वसाधकम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

विभज्य नायमुद्धार्यो न च लेख्यस्तथापि च।
अविप्लवाय रूपस्य स्वरूपमुपदिश्यते ॥ 15 ॥

मूलम्

विभज्य नायमुद्धार्यो न च लेख्यस्तथापि च।
अविप्लवाय रूपस्य स्वरूपमुपदिश्यते ॥ 15 ॥

ओं 3, ह्रीं 3, 5श्रीं 3, ओं, आं 3, हौं 3, हंसः 3, ओं ह्रीं श्रीं नमो विष्णवे। ओं6 ह्रीं श्रीं नमो नारायणाय। ओं ह्रीं श्रीं नमो भगवते वासुदेवाय। ओं ह्रींश्रीं,

7जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥

ओं ह्रीं श्रीं भगवन् विष्णो नारायण वासुदेव पुण्डरीकाक्ष लक्ष्मीपते पुरुषोत्तम जगदादे जगन्मध्य जगन्निधन श्रीनिवास भगवन्तमभिगच्छामि। भगवन्तं प्रपद्ये। भगवन्तं गतोऽस्मि। भगवन्तमभ्यर्थये। भगवदनुध्यातोऽहम्। भगवत्परिकरभूतोऽहम्। भगवदनुज्ञातोऽहम्। भगवति सृष्टोऽहम्। भगवत्प्रसादात् भगवन्मयीं भगवतीं तारिकामयीं लक्ष्मीं पदैरावर्तयिष्यामि। तद्यथा—ओं श्रीं ह्रीं परमगुरुभ्यः परमगुरुपत्नीभ्यः। ओं 8ह्रीं श्रीं परमेष्ठिने परमेष्ठिन्यै। ओं ह्रीं श्रीं पूर्वसिद्धेभ्यः पूर्वसिद्धाभ्यः। ओं ह्रीं श्रीं लक्ष्मीयोगिभ्यो लक्ष्मीयोगिनीभ्यो नमो नमः।

ओं ह्रीं श्रीं ईं नमः संसिद्धिसमृद्ध्यादिप्रदायै परमैकरस्यायै परमहंसि समस्तजनवाङ्मनसस्वात्मातिवर्तिन्यै निरारम्भस्तिमितनिरञ्जनपरमानन्दसंदोहमहार्णवस्वरूपे परपरायै विष्णुविष्णुपत्न्यै विविष्णु ईं स्वाहा।
ओं ह्रीं श्रीं ईँ9 नमो निरन्तरप्रथमानप्रथमसामरस्यायै स्वस्वातन्त्र्यसमुन्मिषितनिमिषोन्मेषपरंपरारम्भे स्वच्छन्दस्पन्दमानविज्ञानवारिधये परसूक्ष्मायै विष्णुपत्न्यै मायायै ईं स्वाहा।

ओं श्रीं ह्रीं श्रीं ईं नमः स्वसंकल्पबलसमुन्मीलितभगवद्व्याप्तिभावस्वभावे स्वेच्छावेशवि जृम्भमाणसत्ताविभूतिमूर्तिकारचतुरगुणग्रामयुगत्रिकमहोर्मिजालायै विष्णुपत्न्यै पञ्चबिन्दवे ईं10 स्वाहा।

ओं ह्रीं श्रीं हिं हिं हिं11 नमो नित्योदितमहानन्दपरमसुन्दरभगवद्विग्रहप्रकाशे विविधसिद्धाञ्जनास्पदे षाड्‌गुण्यप्रसरमयपरमसत्त्वरूपपरमव्योमप्रभावे12 विचित्रानन्दनिर्मलसुन्दरभोगजालप्रकारपरिणामप्रवीणस्वभावायै परमसूक्ष्मस्थूलरूपसूक्ष्मायै13 विष्णुपत्न्यै पञ्चबिन्दवे हिं हिं हिं स्वाहा।

ओं ह्रीं श्रीं आं ह्रीं ह्रीं ह्रीं नमः स्वसंकल्पसमीरणसमीर्यमाणबहुविधजीवकोशदृषत्पुञ्जायै कलितकालकाल्यविकल्पभेदफेनपिण्डनिवहायै 14विलासनिदर्शितभोक्तृभोग्यभोगोपकरणभोगसंपदेकमहासिन्धवे परमसूक्ष्मस्थूलरूपस्थूलायै विष्णुपत्न्यै पञ्चबिन्दवे ह्रीं ह्रीं ह्रीं स्वाहा।

विश्वास-प्रस्तुतिः

ओं ह्रीं श्रीं नमः समस्तजगदुपकारस्वीकृतबुद्धिमनोऽङ्गप्रत्यङ्गसुन्दरायै विधाचतुष्टयसमुन्मेषितसमस्तजनलक्ष्मीकीर्तिजयामायाप्रभावात्मसमस्तसंपदेकनिधये समस्तशक्तिचक्रसूत्रधारायै समस्तजनभोगसौभाग्यदायिनि विविधविषयोपप्लवप्रशमनि नारायणाङ्कस्थितायै ओं ह्रीं श्रीं नमो नारायणाय लक्ष्मीनारायणाभ्यां स्वाहा। श्रीं ह्रीं ओं।
इति ते दर्शितः सोऽयं पदमन्त्रो महाद्भुतः।
ग्राह्यो गुरुमुखादेव कृतदीक्षं मनीषिभिः ॥ 16 ॥

अस्यामधीयमानायामादर्श इव निर्मले।
विद्यायां संप्रकाशेऽहं यावती यास्मि यादृशी ॥ 17 ॥

मूलम्

अस्यामधीयमानायामादर्श इव निर्मले।
विद्यायां संप्रकाशेऽहं यावती यास्मि यादृशी ॥ 17 ॥

15संबोधितस्वतत्त्वार्था सर्वसिद्धाभिनन्दिता।
अङ्गसंततिमस्यास्तु तदन्त्या मे निशामय ॥ 18 ॥

विश्वास-प्रस्तुतिः

प्रकाशानन्दसाराहं तदन्ते सर्वदर्शिनि।
सत्सत्त्वव्यञ्जिके चाथ परब्रह्म तदन्तिके ॥ 19 ॥

मूलम्

प्रकाशानन्दसाराहं तदन्ते सर्वदर्शिनि।
सत्सत्त्वव्यञ्जिके चाथ परब्रह्म तदन्तिके ॥ 19 ॥

टिप्पनी 19

ओं प्रकाशानन्दसारे सर्वदर्शिनि सत्सत्त्वव्यञ्जिके परब्रह्मरूपे भगवति विष्णुपत्नि ज्ञानाय हृदयाय नमः। जातिः स्वाहाशब्दः।

विश्वास-प्रस्तुतिः

ततो भगवतीत्येव विष्णुपत्नि तदन्तिके।
ज्ञानं जातियुतं वाच्यं हृन्मन्त्रोऽयं महाद्भुतः ॥ 20 ॥

मूलम्

ततो भगवतीत्येव विष्णुपत्नि तदन्तिके।
ज्ञानं जातियुतं वाच्यं हृन्मन्त्रोऽयं महाद्भुतः ॥ 20 ॥

अव्याहतानन्दगते तदन्ते परमेश्वरि।
16सर्वोपरि स्थिते शेषं हृन्मन्त्र इव जातियुक् ॥ 21 ॥

टिप्पनी 21

ओं अव्याहतानन्दगते परमेश्वरि सर्वोपरि स्थिते ज्ञानाय शिरसे नमः।

विश्वास-प्रस्तुतिः

अहं 17च शक्तिसंपूर्णे जगत्प्रकृतिके तथा।
ज्ञानवैश्वानरशिखे शेषं पूर्ववदिष्यते ॥ 22 ॥

मूलम्

अहं 17च शक्तिसंपूर्णे जगत्प्रकृतिके तथा।
ज्ञानवैश्वानरशिखे शेषं पूर्ववदिष्यते ॥ 22 ॥

विश्वास-प्रस्तुतिः

प्राणाप्राणमयोन्मेषमहास्पन्दमयीति च।
सर्वाश्रमपदातीते कवचं पूर्वशेषवत् ॥ 23 ॥

मूलम्

प्राणाप्राणमयोन्मेषमहास्पन्दमयीति च।
सर्वाश्रमपदातीते कवचं पूर्वशेषवत् ॥ 23 ॥

विश्वास-प्रस्तुतिः

विकारविधुरे चाथ स्वस्वभावस्तथोच्यते।
महावीर्यमयीत्येवमस्रं पूर्वोक्तशेषवत् ॥ 24 ॥

मूलम्

विकारविधुरे चाथ स्वस्वभावस्तथोच्यते।
महावीर्यमयीत्येवमस्रं पूर्वोक्तशेषवत् ॥ 24 ॥

विश्वास-प्रस्तुतिः

परानपेक्षसामर्थ्ये सर्वप्रसविनीति च।
अन्ते बोधमयीत्येवं नेत्रं पूर्वोक्तशेषवत् ॥ 25 ॥

मूलम्

परानपेक्षसामर्थ्ये सर्वप्रसविनीति च।
अन्ते बोधमयीत्येवं नेत्रं पूर्वोक्तशेषवत् ॥ 25 ॥

विश्वास-प्रस्तुतिः

पञ्चके ब्रह्मणां कूटे शान्तानलविहारिणी।
ब्रह्मश्रीर्नाम मायेयं व्योमेशकृतशेखरा ॥ 26 ॥

मूलम्

पञ्चके ब्रह्मणां कूटे शान्तानलविहारिणी।
ब्रह्मश्रीर्नाम मायेयं व्योमेशकृतशेखरा ॥ 26 ॥

टिप्पनी 26

ओं 5 श्रीं इति ब्रह्मश्रीमन्त्रः।

चतुष्के धारणाकूटे सूक्ष्मानलविहारिणी।
18धारणाश्रीरियं मायाव्योमेशकृतशेखरा ॥ 27 ॥

टिप्पनी 27

अं 4 य्रीं इति धारणाश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

प्रधानानलपीठस्था व्योमेशकृतशेखरा।
पुरुषश्रीरियं ज्ञेया चेतनौघप्रसारिणी ॥ 28 ॥

मूलम्

प्रधानानलपीठस्था व्योमेशकृतशेखरा।
पुरुषश्रीरियं ज्ञेया चेतनौघप्रसारिणी ॥ 28 ॥

टिप्पनी 28

म्रीं इति पुरुषश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

ध्रुवानलस्थिता मायाव्योमेशकृतशेखरा।
प्रधानश्रीरियं ज्ञेया सर्वचेतनकारिणी ॥ 29 ॥

मूलम्

ध्रुवानलस्थिता मायाव्योमेशकृतशेखरा।
प्रधानश्रीरियं ज्ञेया सर्वचेतनकारिणी ॥ 29 ॥

टिप्पनी 29

भ्रीं इति प्रधानश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

वामनादिपवित्रान्ते पवित्रानलगामिनी।
अन्तःकरणश्रीर्मायाव्योमेशकृतशेखरा ॥ 30 ॥

मूलम्

वामनादिपवित्रान्ते पवित्रानलगामिनी।
अन्तःकरणश्रीर्मायाव्योमेशकृतशेखरा ॥ 30 ॥

टिप्पनी 30

बं फं पं प्रीं इति अन्तःकरणश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

वामनादिपवित्रान्ते स्रग्धरानलचारिणी।
ज्ञानश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 31 ॥

मूलम्

वामनादिपवित्रान्ते स्रग्धरानलचारिणी।
ज्ञानश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 31 ॥

टिप्पनी 31

नं धं दं थं तं त्रीं इति ज्ञानश्रीमन्त्रः।

19कूटे वैकुण्ठपूर्वे तु विश्वाप्यायानलस्थिता।
कर्मश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 32 ॥

टिप्पनी 32

णं ढं डं ठं टं ट्रीं इति कर्मश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

उत्तमादिकरालान्ते कपिलानलचारिणी।
भूतश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 33 ॥

मूलम्

उत्तमादिकरालान्ते कपिलानलचारिणी।
भूतश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 33 ॥

टिप्पनी 33

ञं झं जं छं चं ङं घं गं खं कं क्रीं इति भूतश्रीमन्त्रः।

विश्वास-प्रस्तुतिः

ब्रह्मश्रीपूर्विका एता अष्टौ पद्मदलाष्टगाः।
पदमूर्तेस्तारिकायाः परिवाराः प्रकीर्तिताः ॥ 34 ॥

मूलम्

ब्रह्मश्रीपूर्विका एता अष्टौ पद्मदलाष्टगाः।
पदमूर्तेस्तारिकायाः परिवाराः प्रकीर्तिताः ॥ 34 ॥

विश्वास-प्रस्तुतिः

सर्वास्ताः पद्मगर्भाभाः प्रसन्नाननपङ्कजाः।
बाहुद्वन्द्वे धारयन्त्यः प्रफुल्लं पङ्कजद्वयम् ॥ 35 ॥

मूलम्

सर्वास्ताः पद्मगर्भाभाः प्रसन्नाननपङ्कजाः।
बाहुद्वन्द्वे धारयन्त्यः प्रफुल्लं पङ्कजद्वयम् ॥ 35 ॥

विश्वास-प्रस्तुतिः

ब्रह्मश्रीः पूर्वहस्ताभ्यां ब्रह्माञ्जलिकरी शुभा।
पूर्वाभ्यां धारणालक्ष्मीः शुद्धाशुद्धविभाजिनी ॥ 36 ॥

मूलम्

ब्रह्मश्रीः पूर्वहस्ताभ्यां ब्रह्माञ्जलिकरी शुभा।
पूर्वाभ्यां धारणालक्ष्मीः शुद्धाशुद्धविभाजिनी ॥ 36 ॥

विश्वास-प्रस्तुतिः

पूर्वाभ्यां पुरुषश्रीस्तु प्रसादाञ्जलिकारिणी।
पूर्वाभ्यां प्रकृतिश्रीस्तु पाशाह्कुशविधारिणी ॥ 37 ॥

मूलम्

पूर्वाभ्यां पुरुषश्रीस्तु प्रसादाञ्जलिकारिणी।
पूर्वाभ्यां प्रकृतिश्रीस्तु पाशाह्कुशविधारिणी ॥ 37 ॥

विश्वास-प्रस्तुतिः

अन्तःकरणलक्ष्मीस्तु प्रसादाञ्जलिकारिणी।
अधोमुखे पाणितले कनिष्ठानामिकाद्वयम् ॥ 38 ॥

मूलम्

अन्तःकरणलक्ष्मीस्तु प्रसादाञ्जलिकारिणी।
अधोमुखे पाणितले कनिष्ठानामिकाद्वयम् ॥ 38 ॥

विश्वास-प्रस्तुतिः

कुञ्चयेद्धारयेदन्यदङ्गुल्योर्द्वितयं सह।
विश्लिष्य धारयेत्तद्वदङ्‌गुष्ठं प्रोन्नतं बलात् ॥ 39 ॥

मूलम्

कुञ्चयेद्धारयेदन्यदङ्गुल्योर्द्वितयं सह।
विश्लिष्य धारयेत्तद्वदङ्‌गुष्ठं प्रोन्नतं बलात् ॥ 39 ॥

विश्वास-प्रस्तुतिः

उन्नते दक्षिणतले बहिर्मुखमवस्थिते।
संनिवेशस्तथा कार्य एषा मुद्रा तु तार्किकी ॥ 40 ॥

मूलम्

उन्नते दक्षिणतले बहिर्मुखमवस्थिते।
संनिवेशस्तथा कार्य एषा मुद्रा तु तार्किकी ॥ 40 ॥

विश्वास-प्रस्तुतिः

तथाविधे करद्वन्द्वे व्याख्यामुद्रा तु या भवेत्।
ज्ञानश्रियस्तु सा मुद्रा कर्मलक्ष्म्या निबोध मे ॥ 41 ॥

मूलम्

तथाविधे करद्वन्द्वे व्याख्यामुद्रा तु या भवेत्।
ज्ञानश्रियस्तु सा मुद्रा कर्मलक्ष्म्या निबोध मे ॥ 41 ॥

विश्वास-प्रस्तुतिः

करणव्यापृतौ पाणी ससंरम्भोद्यमौ सदा।
एषा मुद्रा समुद्दिष्टा कर्मलक्ष्म्या महामते ॥ 42 ॥

मूलम्

करणव्यापृतौ पाणी ससंरम्भोद्यमौ सदा।
एषा मुद्रा समुद्दिष्टा कर्मलक्ष्म्या महामते ॥ 42 ॥

विश्वास-प्रस्तुतिः

भूतलक्ष्म्याः करौ पूर्वौ नानाभोगप्रदायिनौ।
महालक्ष्मीमयं कूटमेकं सर्वसुखावहम् ॥ 43 ॥

मूलम्

भूतलक्ष्म्याः करौ पूर्वौ नानाभोगप्रदायिनौ।
महालक्ष्मीमयं कूटमेकं सर्वसुखावहम् ॥ 43 ॥

विश्वास-प्रस्तुतिः

शृणु मे सावधानेन चेतसा बलसूदन।
गरुडादिकरालान्तं तं नरः प्रोद्धरेत्क्रमात् ॥ 44 ॥

मूलम्

शृणु मे सावधानेन चेतसा बलसूदन।
गरुडादिकरालान्तं तं नरः प्रोद्धरेत्क्रमात् ॥ 44 ॥

टिप्पनी 44

महालक्ष्मीमन्त्रः—क्षं इत्यारभ्य कं इति पर्यन्तं पठित्वा क्रीं इति पठेत्।

विश्वास-प्रस्तुतिः

करालानलगां मायां सव्योमेशामथोच्चरेत्।
महालक्ष्मीमयं कूटं महाश्रीरस्य देवता ॥ 45 ॥

मूलम्

करालानलगां मायां सव्योमेशामथोच्चरेत्।
महालक्ष्मीमयं कूटं महाश्रीरस्य देवता ॥ 45 ॥

विश्वास-प्रस्तुतिः

एकानेकस्वभावा सा साकारा च निराकृतिः।
अनन्तवक्त्रानन्तपदा तथानन्तकरा परा ॥ 46 ॥

मूलम्

एकानेकस्वभावा सा साकारा च निराकृतिः।
अनन्तवक्त्रानन्तपदा तथानन्तकरा परा ॥ 46 ॥

विश्वास-प्रस्तुतिः

आधाराधेयभावेन सर्वत्रावस्थिता सदा।
नानावर्णा तथा नानाशस्त्रग्रामौघसंकुला ॥ 47 ॥

मूलम्

आधाराधेयभावेन सर्वत्रावस्थिता सदा।
नानावर्णा तथा नानाशस्त्रग्रामौघसंकुला ॥ 47 ॥

विश्वास-प्रस्तुतिः

क्रूरा सौम्या समासीना नानासंपत्प्रकर्षिणी।
सर्वत्र 20सुलभा ध्येया कमलोदरभास्वरा ॥ 48 ॥

मूलम्

क्रूरा सौम्या समासीना नानासंपत्प्रकर्षिणी।
सर्वत्र 20सुलभा ध्येया कमलोदरभास्वरा ॥ 48 ॥

विश्वास-प्रस्तुतिः

इयमेव विपर्यस्ता गरुडान्ता महामते।
पूर्ववद्रूपतो ध्येया पूर्वोक्तफलदायिनी ॥ 49 ॥

मूलम्

इयमेव विपर्यस्ता गरुडान्ता महामते।
पूर्ववद्रूपतो ध्येया पूर्वोक्तफलदायिनी ॥ 49 ॥

विश्वास-प्रस्तुतिः

स्वरद्विसप्तकं देव्याः किरणत्वेन संस्थितम्।
बिन्दुराधारभावेन सृष्टिः स्वं रूपमूर्जितम् ॥ 50 ॥

मूलम्

स्वरद्विसप्तकं देव्याः किरणत्वेन संस्थितम्।
बिन्दुराधारभावेन सृष्टिः स्वं रूपमूर्जितम् ॥ 50 ॥

विश्वास-प्रस्तुतिः

इति ते तारिकामूर्तिः पदाख्या संप्रदर्शिता।
अवधानवदस्यां त्वं सदा चेतो निवेशय ॥ 51 ॥

मूलम्

इति ते तारिकामूर्तिः पदाख्या संप्रदर्शिता।
अवधानवदस्यां त्वं सदा चेतो निवेशय ॥ 51 ॥

विश्वास-प्रस्तुतिः

शतकोटिप्रविस्ताराल्लक्ष्मीतन्त्रमहार्णवात्।
अयं सारः समुद्धृत्य स्निग्धया दर्शितो मया ॥ 52 ॥

मूलम्

शतकोटिप्रविस्ताराल्लक्ष्मीतन्त्रमहार्णवात्।
अयं सारः समुद्धृत्य स्निग्धया दर्शितो मया ॥ 52 ॥

टिप्पनी 52

शतेत्यादि। अनेन मूलभूतं लक्ष्मीतन्त्रं शतकोटिग्रन्थपरिमितमित्युक्तं भवति।

विश्वास-प्रस्तुतिः

अङ्कस्थायां मयि पुरा देवदेवो जनार्दनः।
उज्जहारारविन्दाक्षो विद्यां मत्प्रीतये पराम् ॥ 53 ॥

मूलम्

अङ्कस्थायां मयि पुरा देवदेवो जनार्दनः।
उज्जहारारविन्दाक्षो विद्यां मत्प्रीतये पराम् ॥ 53 ॥

विश्वास-प्रस्तुतिः

यथा हि चन्द्रिकां दृष्ट्वा नृणां चेतः प्रसीदति।
विद्यामिमां तथा दृष्ट्वा योगिनां हृत्प्रसीदति ॥ 54 ॥

मूलम्

यथा हि चन्द्रिकां दृष्ट्वा नृणां चेतः प्रसीदति।
विद्यामिमां तथा दृष्ट्वा योगिनां हृत्प्रसीदति ॥ 54 ॥

विश्वास-प्रस्तुतिः

न यमादिपरिक्लेश आसनव्यसनं न च21
न प्राणायामतः क्लेशो नैव किंचिदिहेष्यते ॥ 55 ॥

मूलम्

न यमादिपरिक्लेश आसनव्यसनं न च21
न प्राणायामतः क्लेशो नैव किंचिदिहेष्यते ॥ 55 ॥

विश्वास-प्रस्तुतिः

सुखासीनः प्रसन्नात्मा यथेष्टासनविग्रहः।
अभ्यस्य मनसा विद्यामिमां सिद्धिं नियच्छति ॥ 56 ॥

मूलम्

सुखासीनः प्रसन्नात्मा यथेष्टासनविग्रहः।
अभ्यस्य मनसा विद्यामिमां सिद्धिं नियच्छति ॥ 56 ॥

विश्वास-प्रस्तुतिः

यथा नद्यो नदाश्चैव संप्लवन्ते महोदधौ।
एवं सर्वाः परा विद्याः संप्लवन्ते पदात्मनि22 ॥ 57 ॥

मूलम्

यथा नद्यो नदाश्चैव संप्लवन्ते महोदधौ।
एवं सर्वाः परा विद्याः संप्लवन्ते पदात्मनि22 ॥ 57 ॥

विश्वास-प्रस्तुतिः

असंख्येयानि र्तनानि यथा नदनदीपतौ।
असंख्येयानि तेजांसि पदमूर्तौ तथा विदुः ॥ 58 ॥

मूलम्

असंख्येयानि र्तनानि यथा नदनदीपतौ।
असंख्येयानि तेजांसि पदमूर्तौ तथा विदुः ॥ 58 ॥

विश्वास-प्रस्तुतिः

यथान्नं मधुसंसृष्टं मधु चान्नेन संयुतम्।
एवं बीजादयो भावास्तारायाः प्रीतिदायिनः ॥ 59 ॥

मूलम्

यथान्नं मधुसंसृष्टं मधु चान्नेन संयुतम्।
एवं बीजादयो भावास्तारायाः प्रीतिदायिनः ॥ 59 ॥

अहं नारायणाङ्कस्था सर्वलोकमहेश्वरी।
23सर्वसंपन्मयी ध्येया पदमूर्तिर्विवक्षिता ॥ 60 ॥

विश्वास-प्रस्तुतिः

अहमेव पुनः शक्र परा करुणयोद्यता24
साधकानां हितार्थाय मनसो भावनाय च ॥ 61 ॥

मूलम्

अहमेव पुनः शक्र परा करुणयोद्यता24
साधकानां हितार्थाय मनसो भावनाय च ॥ 61 ॥

विश्वास-प्रस्तुतिः

अखण्डा परिपूर्णा हि चतुर्धात्मानमात्मना।
इमां विद्यामयीं मूर्तिं विभजामि हितैषणी ॥ 62 ॥

मूलम्

अखण्डा परिपूर्णा हि चतुर्धात्मानमात्मना।
इमां विद्यामयीं मूर्तिं विभजामि हितैषणी ॥ 62 ॥

टिप्पनी 62

चतुर्धेति। लक्ष्मीकीर्तिजयामायाक्याश्चतस्रो विधा अनन्तराध्याये वक्ष्यन्ते।

विश्वास-प्रस्तुतिः

विभक्तानां तु मूर्तीनां मन्मयीनां पुरंदर।
विधिं चतसृणां त्वं मे यथावच्छ्रोतुमर्हसि25 ॥ 63 ॥

मूलम्

विभक्तानां तु मूर्तीनां मन्मयीनां पुरंदर।
विधिं चतसृणां त्वं मे यथावच्छ्रोतुमर्हसि25 ॥ 63 ॥

इति 26श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे27 रहस्यप्रकाशो नाम चतुश्चत्वारिंशोऽध्यायः

इति चतुश्चत्वारिंशोऽध्यायः

  1. निदर्शिताः B. C. F. ↩︎ ↩︎

  2. निशामितः C. F. ↩︎ ↩︎

  3. ब्रह्मर्षिपूजितः A. C. ↩︎ ↩︎

  4. सकलान् कामान् C. ↩︎ ↩︎

  5. हौं 3, हंसः 3, श्रीं नमो विष्णवे B.; I. omits श्रीं 3, ओं, आं 3. ↩︎

  6. श्रीं ह्रं F. ↩︎

  7. जितं ते पुण्डरीकाक्ष महापुरुषपूर्वज। नमस्तेऽस्तु हृषीकेश नमस्ते विश्वभावन॥ I. ↩︎

  8. श्रीं ह्नीं C. F. ↩︎

  9. ईश A. ↩︎

  10. ईश A. ↩︎

  11. I. omits हिं हिं. ↩︎

  12. प्रभावायै I. ↩︎

  13. रूपायै B. ↩︎

  14. सर्वेश्वरि विलास B. F. ↩︎

  15. सुबोधित B. ↩︎

  16. सर्वेश्वरि F. ↩︎

  17. हि B. C. ↩︎ ↩︎

  18. धारिणी A. ↩︎

  19. B. F. omit four lines from here. ↩︎

  20. सुभगा A. F. G. ↩︎ ↩︎

  21. तथा A. ↩︎ ↩︎

  22. पदाध्वनि A. G. ↩︎ ↩︎

  23. संपत्समृद्ध्यै या C. F. ↩︎

  24. पराकारा यथोद्यता A. G. ↩︎ ↩︎

  25. ज्ञातुमर्हसि C. ↩︎ ↩︎

  26. श्रीप़ञ्चरात्र A.; पाञ्चरात्रे B. ↩︎

  27. लक्ष्मीतन्त्रे सारे F. ↩︎