विश्वास-प्रस्तुतिः
त्रिचत्वारिंशोऽध्यायः - 43
श्रीः—
शृणु वक्ष्ये परां सिद्धिं नानायोगसमुत्थिताम्।
विद्यायाः पिण्डभूतायास्तारिकायाः सुरेश्वर ॥ 1 ॥
मूलम्

युञ्चीत विधिवद्योकी तारिकां देहगोचरे।
नासिकाग्रे च जिह्वाग्रे जिह्वाया मध्यमूलयोः ॥ 2 ॥

कण्ठोरसोरुरोऽन्ते च धारयेत्तत्त्वपद्धतिम्।
1क्षित्याद्यां बुद्धिपर्यन्तां स्वस्वकार्यस्वभाववत् ॥ 3 ॥
टिप्पनी 3
बुद्धिर्महत्तत्त्वम्।
विश्वास-प्रस्तुतिः
तत्त्वात्तत्त्वान्तरं यास्यन् संख्यया संख्यया जपेत्।
द्विश्चतुः षट् तथाष्टौ च दशषोडशवारकम् ॥ 4 ॥

टिप्पनी 4
तत्त्वादित्यादि। पृथिवीतत्त्वात् अप्तत्त्वगमने इत्यादिरीत्येत्यर्थः।
विश्वास-प्रस्तुतिः
चतुर्विंशतिवारं2 च बुद्ध्यन्ते प्रकृतिं स्मरेत्।
अशीतिं संसंमरेत्तारां तत्र जीवं विचिन्तयेत् ॥ 5 ॥

यावान् यादृक् च यश्चायं शतं तत्राचरेज्जपम्।
अव्यक्तचेतनाधारं पुष्करं तदधः स्मरेत् ॥ 6 ॥

तत्त्वाद्यवयवाधारमनन्तं तत्त्ववाहकम्।
पद्माकारं विचिन्त्यैतज्जपेत्सार्धं शतं सुधीः ॥ 7 ॥

ततस्तन्नालम्यक्तकालजीवाक्षरात्मकम्।
खं यत्तु3 तत्र कालस्तत्तमोऽन्तःसुषिरूपकम् ॥ 8 ॥

यस्त्वन्तश्चेतनःसोऽयमिति तत्त्रितयात्मकम्।
चिन्तयित्वा यथावत्तदाचरेद् द्विशतं जपम् ॥ 9 ॥

नालादधोऽनिरुद्धाख्यशक्तिं4 मां भगवन्मयीम्।
संस्मरन् रूपकालाद्यैराचरेत्तु शतं जपम् ॥ 10 ॥

प्रद्युम्नशक्तिं तदधो जपसंख्या च तादृशी।
अधः सांकर्षिणीं शक्तिं जपसंख्या च तादृशी ॥ 11 ॥

सर्वोधो वासुदेवाख्यं5 दांपत्यं स्थूलरूपकम्।
ततः सूक्ष्मं परं तस्मात् परातीतं तु सर्वतः ॥ 12 ॥

लक्ष्मीनारायणाभासमनिर्देश्यमनौपमम्।
सर्वतः शक्तिशक्तीशस्पन्दमानमनाविलम् ॥ 13 ॥

प्राप्य योगमयीं निद्रां निद्रामेवं समाविशेत्।
उत्थायापररात्रे तु द्वादशैतास्तु धारयेत् ॥ 14 ॥

टिप्पनी 14
द्वादशेति। वासुदेवादिचतुष्कजीवप्रकृतिबुद्धिभूतानीति द्वादश धारणाः।
विश्वास-प्रस्तुतिः
वासुदेवादिभूम्यन्तं तत्संख्यानविधिक्रमात्।
हृदि वा धारयेदेताः समस्ता अपि धारणाः ॥ 15 ॥

धारणा द्वादशैवैतास्तारिकायामथापि वा।
एष सर्वहितो योगो यत्तत्त्वैस्तत्र भूयते ॥ 16 ॥

प्रतिसंहृत्य वा सर्वं व्यक्ताव्यक्तमयं पदम्।
निरालम्बं मनः कृत्वा शून्यभावं समाविशेत् ॥ 17 ॥

टिप्पनी 17
कल्पान्तरमाह—प्रतिसंहृत्येति। सर्वाण्यपि तत्त्वानि स्वस्वकारणेषु प्रविलाप्य मनो निर्विषयं कुर्यात्। निर्विषये मनसि यः परमानन्दानुभवः स एव परमो योग इति।
विश्वास-प्रस्तुतिः
शून्याकारसमाकारं संपूर्णमिव वारिधिम्।
आविशामि महायोगं शून्यभावनिवेशितम् ॥ 18 ॥

यदा स्तिमितनिःशब्दनीरदानन्दसंनिभम्।
योगी भवति युञ्जानः स योगी मत्प्रियः सदा ॥ 19 ॥

यत्र ध्येयमवच्छिन्नं 6नैव किंचन विद्यते।
अज्ञेयमनवच्छिन्नं तद्रूपं मद्वपुः स्फुटम् ॥ 20 ॥

टिप्पनी 20
अवच्छिन्नं परिमितम्।
विश्वास-प्रस्तुतिः
आत्मसात्कुरुते योगी ज्ञेयं सकलमक्रमम्।
वितता सा महाज्वाला निस्तरङ्गा तनुर्मम् ॥ 21 ॥

हूयन्ते मनसा यत्र भूतानि भुवनानि च।
सर्वभावस्तदा शश्वद्भावो मे प्रविजृम्भते ॥ 22 ॥

टिप्पनी 22
सर्वभावः विश्वात्मना वर्तमानता। भावः सत्ता।
विश्वास-प्रस्तुतिः
स्रुचा च मनसा हुत्वा भूताक्षभुवनादिकम्।
तां च स्रुचं प्रहृत्याथ योगिना भूयते मया ॥ 23 ॥

टिप्पनी 23
मया भूयते; मदात्मना भूयत इति भावे प्रयोगः।
विश्वास-प्रस्तुतिः
यदवच्छिद्यते येन तत्तु तस्मान्महत्तरम्।
धियावच्छिद्यते सर्वं यद्यदस्ति च नास्ति च ॥ 24 ॥

टिप्पनी 24
देव्या ज्ञानस्वरूपत्वमुच्यते—यदवच्छिद्यत इत्यादिना।
विश्वास-प्रस्तुतिः
सा नावच्छिद्यतेऽन्येन तनुः सा मे निरञ्जना।
धियो नैतौ बहिर्भूतावभावो भाव एव वा ॥ 25 ॥

अनालीढौ धिया न स्तः सा मे तनुरनञ्जना।
यदातिक्रम्य मर्यादां जलधिः प्लावयेज्जगत् ॥ 26 ॥

टिप्पनी 26
योगपरिपाकदशायां सर्वमपि जगत् धीरूपमेवावभासत इत्यत्र लौकिकं निदर्शनमाह—यदातिक्रम्येति।
विश्वास-प्रस्तुतिः
तदा न स्थलनिम्ने स्तस्तथा मय्यखिलं जगत्।
नेदमल्पात्मना शक्यमास्थातुं परमं पदम् ॥ 27 ॥

कुर्याद्विच्छिद्य विच्छिद्य योगमेतदवाप्तये।
भावे भावे शुभेऽन्यत्र भूते भवति भाविनि ॥ 28 ॥

स्मरेत् सारतरं रूपं परमं पारमेश्वरम्।
संभरन्ति प्रसूनेषु मधु सर्वेषु षट्पदाः ॥ 29 ॥

टिप्पनी 29
सर्वभावानां स्वात्मना भाव्यत्वे निदर्शनमाह—संभरन्तीति।
विश्वास-प्रस्तुतिः
संभरन्ति तथैकां मां सर्वभावेषु योगिनः।
यत्र यत्र मनो याति लक्ष्मीं तत्रैव चिन्तयेत् ॥ 30 ॥

चलित्वा तत् कुतो याति सर्वं तन्मन्मयं हि यत्।
तत्त्वानां पद्धतिं मालां मत्सूत्रग्रथितां स्मरेत् ॥ 31 ॥

मयि वा भित्तिभूतायां चित्रवत् संस्मरेज्जगत्।
स्तिमितापारगम्भीरे फेनपिण्डं यथाम्बुधौ ॥ 32 ॥

स्मरेत् क्रमोत्क्रमाभ्यां वा प्रमात्रादिचतुष्टयम्।
प्रभवन्तीं मदाकारादपि7 यान्तीं च तां पुनः ॥ 33 ॥

टिप्पनी 33
चतुष्टयमिति। प्रमाता, प्रमाकरणम्, प्रमेयम्, प्रमितिरिति चतुष्टयमित्यर्थः। प्रभवन्तीमिति तत्त्वानां पद्धतिमित्यनेनान्वेति।
विश्वास-प्रस्तुतिः
पुमानाद्यो मदुन्मेषः स मत्संकल्पकल्पितः।
अन्तःकरणसंज्ञोऽन्यो मदुन्मेषोऽधरावनौ ॥ 34 ॥

बहिष्करणरूपोऽन्यस्तृतीयस्तदधः क्षितौ।
भावरूपः प्रमेयात्मा तुर्योऽयमधराधरः ॥ 35 ॥

मत्संकल्पवशेनैव सदानन्दचिदात्मिकाम्।
भावयन्ननिसं शश्वत् क्रमव्युत्क्रमतो धिया ॥ 36 ॥

इमां चतुष्टयीं हित्वा मद्भावं प्रतिपद्यते।
विज्ञानाधारभूतेषु द्वात्रिंशत्यम्बुजेषु वा ॥ 37 ॥

ध्यायेद्दीपशिखाबां मामथवा रूपसुन्दरीम्।
आधारपद्मादारभ्य नाबिपद्मादधो भुवि ॥ 38 ॥

षट् पद्मा योगिनां चिन्त्यास्तेषां नामानि मे शृणु।
व्युच्छन्ती व्युषिता व्युष्टा व्युषुषी व्योषुषी रमा ॥ 39 ॥

नाभिपद्माद्धृदम्भोजात् पञ्च पद्मान् प्रचक्षते।
पश्यन्ती नाभिपद्माख्या पश्या पश्येतरात्मिका ॥ 40 ॥

दृश्या च दृश्यमाना च हृदयं पङ्कजाह्वयाः।
हृत्कण्ठान्तरमद्याच्च पञ्चपद्माह्वयाञ्शृणु ॥ 41 ॥

बोधयन्ती च बोद्ध्री च बुध्यमाना तथेतरा।
घोषोन्मेषा च संज्ञाः स्युः कण्ठहृन्मध्यपद्मगाः ॥ 42 ॥

कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु।
घोषयन्ती च घुष्यन्ती घुष्टा8 घोषा तथेतरा ॥ 43 ॥

तालुभ्रूमध्यदेशस्था पञ्चपद्माह्वया इमे।
ग्राहयन्ती च गृह्णाना जिघृक्षा च गृहीतिका ॥ 44 ॥

निर्णीतिरिति तालुभ्रूमध्याम्भोजगणाभिधाः।
भ्रूमूर्धमध्यपद्मानां षण्णामाक्या इमाः शृणु ॥ 45 ॥

प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी।
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः ॥ 46 ॥

रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात्।
गृणन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् ॥ 47 ॥

इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ॥ 48 ॥

लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ॥ 49 ॥

मूर्ध्नोऽधस्रीणि पद्मानि नवपद्मविधिक्रमः।
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके ॥ 50 ॥

षट्सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि।
भ्रूमध्ये चिन्तयेद्वापि तारिका तारनादिनीम् ॥ 51 ॥

तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु 9ततश्चित्रमनाकृतिम् ॥ 52 ॥

यो यो वा गृह्यते भावो घटकुड्यादिरूपवान्।
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्त्रतः ॥ 53 ॥

मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ॥ 54 ॥

आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा।
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च ॥ 55 ॥

प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा।
आधाराधेयभूतानि शक्तितद्वन्मयानि वा ॥ 56 ॥

भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा।
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा ॥ 57 ॥

स्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा।
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् ॥ 58 ॥

तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना।
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर ॥ 59 ॥

योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे।
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ ॥ 60 ॥

आत्तं सीमन्तिनीरूपं मया साभिनिवेशया।
चिकीर्षुर्मत्प्रियं10 योगी लक्ष्मीतन्त्रविचक्षणः ॥ 61 ॥

न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा।
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः ॥ 62 ॥

यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः।
वनितायामहं तस्मान्नारी सर्वजगन्मयी ॥ 63 ॥

योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति।
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति ॥ 64 ॥

यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम्।
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् ॥ 65 ॥

ज्योत्स्नामिव स्रियं दृष्ट्वा यस्य चित्तं प्रसीदति।
नापध्यायति यत्किंचित् स मे प्रियतमो मतः ॥ 66 ॥

यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ॥ 67 ॥

वनितायां तथा शक्र दुरितं नैव विद्यते।
11अकल्मषा यथा गङ्गा यथा पुण्या सरस्वती ॥ 68 ॥
विश्वास-प्रस्तुतिः
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा।
यदस्मि जननी नाम त्रयाणां जगतामहम् ॥ 69 ॥

तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम्।
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी ॥ 70 ॥

मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत्।
न कुर्याद् वृजिननं नार्याः कुवृत्तं न स्मरेत् स्रियाः ॥ 71 ॥

ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता।
जननीमिव तां पश्येद्देवतामिव मामिव ॥ 72 ॥

यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ॥ 73 ॥

श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ॥ 74 ॥

तस्यां मां भावयेद्योगी तारिकां मनसा गृणन्।
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् ॥ 75 ॥

प्राणं सूर्यं परात्मानं नारीहृदयपूरुषम्।
संस्मरेदनलं तत्र रूपलावण्यसंपदम् ॥ 76 ॥

अशेषसंपदोपेतां तां नारीं मामनुस्मरेत्।
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया ॥ 77 ॥

ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम्।
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् ॥ 78 ॥

अलोलुपेन चित्तेन मां समाराध्य यत्नतः।
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् ॥ 79 ॥

एतत्तु परदारेषु नैव कार्यं विजानता।
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् ॥ 80 ॥

स्वस्रियामेव कुर्वीत साधारण्यामधापि वा।
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना ॥ 81 ॥

संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ॥ 82 ॥

प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात्।
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् ॥ 83 ॥

चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ॥ 84 ॥

यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु।
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः ॥ 85 ॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ॥ 86 ॥

निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना।
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् ॥ 87 ॥

आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः।
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः ॥ 88 ॥

अनुबध्नन्ति यद् दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ॥ 89 ॥

किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम्।
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः ॥ 90 ॥

स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान्।
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् ॥ 91 ॥

तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी।
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ ॥ 92 ॥

रजस्तमोगुणौ क्षिण्वन् मत्प्रियाचारकर्मणा।
योगी समाधये शश्वद्यत्नेन दमयेन्मनः ॥ 93 ॥

जिते मनसि वै शश्वद्विश्वं तेन विजीयते।
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् ॥ 94 ॥

शक्रः—
समस्तचिदचिद्भेदतन्त्रयन्त्रविधायिनि।
विधात्रि सर्वभोगानां नमस्ते पङ्कजासने ॥ 95 ॥

विषयप्रवणं शश्वच्चपलं बलवद् दृढम्।
आशु दूरगमव्यक्तं दम्यते केन तन्मनः ॥ 96 ॥

दुर्दमं दुर्धरं शस्वदणु दुर्बोधमुत्क्रमम्।
वैराग्याभ्यासनिग्राह्यं तन्मनः शक्र चञ्चलम् ॥ 97 ॥

रागस्तु विषये रक्तिः स्वभावाभ्यासयोगजा।
तदभावश्च वैराग्यं तत्त्वज्ञानेन जन्यते ॥ 98 ॥

दौरात्म्यं विषयाणां यत्तत्त्वज्ञानं तु तन्मतिः।
चतुर्धा लक्षयेत्तच्च दौरात्म्यं प्रज्ञया सुधीः ॥ 99 ॥

यो यादृशो यतो यस्मै भावोऽयमिति चिन्तयेत्।
विषया बन्धनात्मानो विषिण्वन्ति स्वसेविनः12 ॥ 100 ॥

टिप्पनी 100
विषिण्वन्ति; बध्नन्तीत्यर्थः। “षिञ् बन्धने” इति धातुः।
विश्वास-प्रस्तुतिः
अव्यक्ताद्व्यक्तिमापन्नाः सर्वे ते सुखदुःखयोः।
ते च नैव स्वसंसिद्धा विषया विषयैषिणाम् ॥ 101 ॥

अनेकान्तव्ययायासदुःखसाधनजा हि ते।
सुखमेव न ते कुर्युर्दुःखं च सुवते हि ते ॥ 102 ॥

सुखं च तत्क्षणध्वंसि स्वदशादुःखसंमितम्।
चित्ररूपमिदं चिन्त्यं भावे भावे विपश्चिता ॥ 103 ॥

तत्त्वज्ञानमिदं प्रोक्तं संगृह्य च विगृह्य च।
विषयेषु च रागस्तु सुखहेतुत्वनिश्चयात् ॥ 104 ॥

स मिथ्याज्ञानरूपत्वात्तत्त्वज्ञानैरपोह्यते।
तद्विनिश्चयबाधे च हेतुत्वं नैव सिध्यति ॥ 105 ॥

अहेतून् विषयान् कश्चिन्नाददीत स्वसिद्धये।
यदिदं तत्त्वविज्ञानं तस्य 13यच्छीलनं मुहुः ॥ 106 ॥

सोऽभ्यास इति तत्त्वज्ञैस्तत्त्वशास्त्रेषु शब्द्यते।
सूक्ष्मे महत्यणौ स्थूले स्थिरे च चलवस्तुनि ॥ 107 ॥

यत्र तिष्ठति यच्चित्तं धार्यतेऽभ्यास एषु वै14।
वैराग्याभ्यासयोगेन यतमानेन योगिना ॥ 108 ॥

दम्यते मन उद्दामं ततः शाम्यति तद् ध्रुवम्।
शक्रः—
तत्त्वारविन्दसंदोहविहारचतुरक्रमे ॥ 109 ॥

मधुजिन्मानसावासे नमस्ते पङ्कजासने15।
अभ्यासेन यथा चित्तं दम्यते बलवद् दृढम् ॥ 110 ॥

तं प्रदर्शय पन्थानं नमस्ते पद्मसंभवे।
श्रीः—
वियत्यूर्ध्वं तनूभूते जवात् पतति पत्रिणि ॥ 111 ॥

अरुन्धत्यां तथा सूक्ष्मे शनैश्चित्तं निरोधयेत्।
शैले महति वा चित्तमनन्ते वा विभावयेत् ॥ 112 ॥

111-112. प्रथमं वस्तूनि यथा प्रतीयन्ते तथैव तेषु चित्तं निवेश्य, क्रमेण ततो वैराग्यमापाद्य, पश्चात् तत्त्वानुसंधाने तन्निवेशनीयमितीममर्थं सदृष्टान्तमाह—वियतीत्यादिना। तनूभूत इति। दूरदेशोत्प्लवनेनाल्पपरिमाणतया दृश्य इत्यर्थः।
परिभ्रमति वा चक्रे यत् सूक्ष्ममणु विद्यते।
मनस्तत्रैव संयोज्य भ्रामयेद्भ्रमता समम् ॥ 113 ॥

टिप्पनी 113
एवं चक्रादि दृष्टान्तेऽपि।
विश्वास-प्रस्तुतिः
तथाश्वत्थदलाग्रेण चलता चालयेन्मनः।
तिष्ठति स्थापयेच्चित्तं गच्छता गमयेन्मनः ॥ 114 ॥

प्रदर्शनार्थमुक्तस्ते प्रकारोऽयं पुरंदर।
अनेन दमयंश्चित्तं परं योगमवाप्स्यति ॥ 115 ॥

ईशेशितव्यसंभेदं यत्पुंरूपं परावरम्।
सूर्यस्थं संस्मरेत्तत्तु स्रीरूपं पञ्चबिन्दुकम् ॥ 116 ॥

इति ते तारिकारूपं सर्वतः सौम्य दर्शितम्।
इत्थं विज्ञाततत्त्वस्य ज्ञेयं नैवान्यदिष्यते ॥ 117 ॥

इतीयं पिण्डसिद्धस्ते लेशतः शक्र दर्शिता।
संज्ञामूर्तिविधानं च साधनं चाथ मे शृणु ॥ 118 ॥

इति 16श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नानायोगप्रकाशो नाम त्रिचत्वारिंशोऽध्यायः
इति त्रिचत्वारिंशोऽध्यायः