विश्वास-प्रस्तुतिः
द्विचत्वारिंशोऽध्यायः - 42
शक्रः—
संसारसागरोत्तारपोतपादाम्बुजद्वये।
हृषीकेशमहिष्यै ते भूयो भूयो नमो नमः ॥ 1 ॥
मूलम्

त्वत्प्रसादान्मया देवि श्रुतो दीक्षाविधिः क्रमात्[^1]।
तारिकाया वदाब्जस्थे पौरस्चरणिकीं क्रियाम् ॥ 2 ॥

टिप्पनी 2
पुरश्चरणं नाम गुरूपदेशात् गृहीतस्य मन्त्रस्य स्वाभीष्टफलप्रदत्वसंपादनार्थं क्रियमाणो व्रतहोमादिः।
विश्वास-प्रस्तुतिः
श्रीः—
अहं नारायणी नाम शक्तिर्नारायणाश्रिता।
तस्या मे परमा पूर्तिस्तारिका भुवनेश्वरी ॥ 3 ॥

तस्या मे पिण्डभूतायाः शृणु साधनसंपदम्।
कृष्णाष्टमीं समारब्य यावत्कृष्णचतुर्दशी ॥ 4 ॥

टिप्पनी 4
पिण्डभूताया इति। पिण्डमन्त्ररूपाया इत्यर्थः।
विश्वास-प्रस्तुतिः
स कालस्तारिकासिद्धौ तन्त्रज्ञैः संप्रदर्शितः।
महापापैरसंस्पृष्टः प्रख्यातैरतिपातकैः ॥ 5 ॥

नास्तिक्यात्प्रच्युतो भावान्निन्दिताभ्यासवर्जितः।
भूतेषु भावयन्मैत्रीं कृतपापानुतापवान् ॥ 6 ॥

उच्चापचानि पापानि प्रायश्चित्तैः शमं नयेत्।
ब्रह्मचारी हविष्याशी सत्यवादी दृढव्रतः ॥ 7 ॥

संनिधौ मनसा विष्णोरोंकारं नियुतं जपेत्।
महाव्याहृतिभिर्होमानयुतं सर्पिषाचरेत् ॥ 8 ॥

टिप्पनी 8
नियुतं दश लक्षाणि। अयुतं दश सहस्राणि।
विश्वास-प्रस्तुतिः
सावित्र्या च तिलैर्होमं तावत्संख्यं समाचरेत्।
महापापातिपाप्मानौ विहाय प्रथितौ कृतौ ॥ 9 ॥

टिप्पनी 9
प्रथितौ विहायेति। अप्रकाशकृतौ इत्यर्थः।
विश्वास-प्रस्तुतिः
एतादृशं विधिं कृत्वा प्रणवादित्रयेण तु।
महापापातिपापाद्यैरप्रकाशैर्विमुच्यते ॥ 10 ॥

उपवासादिभिस्तद्वत् प्रकाशैरपि चेतरैः।
तिस्रो वोपवसेद्रात्रीरघमर्षणतत्त्ववित् ॥ 11 ॥

टिप्पनी 11
उपवासादिभिरित्यनेन प्रकाशकृतानां प्रायश्चित्तमुच्यते।
विश्वास-प्रस्तुतिः
त्रिरह्नस्रिर्निशायाश्च सवासा जलमाविशेत्।
प्रतिसंद्ये निमज्जं स्रिस्रिर्जपन्नघमर्षण् ॥ 12 ॥

प्रतिमज्जनमेवं तु क्षपयेत्तत् त्रिरात्रकम्।
चतुर्थेऽहनि वै दद्याद् ब्राह्नणाय पयस्विनीम् ॥ 13 ॥

एवं पूतो भवेत् प्राग्वदशेषेणापि चांहसा।
आत्मानमभिषिञ्चेद्वा त्रिसंध्यं पञ्चगव्यतः ॥ 14 ॥

तिस्रो नीत्वा क्षपा एवं मुच्यते सर्वकिल्बिषैः।
तारादिपञ्चकं तेषामेकैकमथवा1 धिया ॥ 15 ॥

टिप्पनी 15
तारादिपञ्चकमिति। तारं व्याहृतीः सावित्रीं तारिकाम् अनुतारिकां चेत्यर्थः।
विश्वास-प्रस्तुतिः
जपन् पिबन् समीक्षेत वैष्णवं विमलोज्ज्वलम्।
अहोरात्रकृतैरेवं मुच्यते सर्वपातकैः ॥ 16 ॥

टिप्पनी 16
वैष्णवं समीक्षेतेति कृतस्य कर्मणः साद्गुण्यार्थमुक्तम्।
विश्वास-प्रस्तुतिः
भुवने यान्ति ये विष्मुमपापा धर्मतत्पराः।
तस्पङ्क्तिस्थोऽपि वा भुक्त्वा मुच्यते सर्वपातकै ॥ 17 ॥

टिप्पनी 17
वैष्णवमहिमानमाह—भुवन इत्यादिना। विष्णुं शरण्यत्वेन प्रपन्ना वैष्णवा इत्यर्थः।
विश्वास-प्रस्तुतिः
धर्मैः पापं क्षयं नीत्वा महर्षिगणसंमतैः2।
तारिकामाश्रयेत् पश्चाद्भवसागरतारिकाम् ॥ 18 ॥

उपोष्य विधिवन्मन्त्री कृष्णपक्षस्य सप्तमीम्।
स्थित्वा संध्यामथाष्टम्यां तारिकाजपमाचरेत् ॥ 19 ॥

अनुज्झन विहितं कर्म काम्यान्तरविवर्जितः।
दिव्ये सैद्धे तथैवार्षे विष्णोरायतनेऽमले ॥ 20 ॥

पर्वताग्रे नदीतीरे गोष्ठे बिल्ववनेऽपि वा।
पयोयावहविष्याणामशन्नन्यतमं सकृत् ॥ 21 ॥

जपं द्वादशसाहस्रं कुर्याद्वै सप्त वासरान्।
दशांशं तर्पणं कुर्यादाहुतीश्चापि सर्पिषा ॥ 22 ॥

अनेन वर्तमानस्य विधिना तारिकाविधौ।
चतुर्दशीनिशीथे चेच्छुभं पश्यति दर्शनम् ॥ 23 ॥

सुराकुम्भस्य लाभो वा सुरापानमथापि वा।
स्रिया कामाबिषेको वा दर्शनं सुदृशोऽथवा ॥ 24 ॥

तया वालिङ्गनं भावात् सह भोगोऽथवा तया।
मन्त्रसिद्धेस्तयोक्तिर्वा फललाभोऽथवा ततः ॥ 25 ॥

सौम्यस्य दर्शनं वापि मिथुनस्य सुरूपिणः।
राज्ञो वा दर्शनं राजमहिष्या वाथ दर्शनम् ॥ 26 ॥

नारायणस्य वा साक्षात् स्वप्ने दृष्टिर्ममापि वा।
पतिव्रातादर्शनं वा वैष्णवैर्वा समागमः ॥ 27 ॥

यच्चान्यत् स्वप्नशास्त्रेषु शब्द्यते शुभदर्शनम्।
लब्धाशस्तत उत्थाय त्यक्तनिद्रो जितक्लमः ॥ 28 ॥

आचम्य प्रयतो मन्त्री स्मरेन्मां संस्तरे निशाम्।
अथ प्रातः समुत्थाय कृतसंद्याविधिक्रमः ॥ 29 ॥

टिप्पनी 29
संस्तरे शय्यायाम्। निशामित्यत्यन्तसंयोगे द्वितीया।
विश्वास-प्रस्तुतिः
तुल्यशीलवयोरूपौ सुरूपौ धर्मतत्परौ।
अदीनाकृपणाकारौ रूपवन्तौ मनस्विनौ ॥ 30 ॥
मूलम्
तुल्यशीलवयोरूपौ सुरूपौ धर्मतत्परौ।
अदीनाकृपणाकारौ रूपवन्तौ मनस्विनौ ॥ 30 ॥
विश्वास-प्रस्तुतिः
दंपती यौवनावस्थौ प्रसन्नमृदुभाषिणौ।
आहूय स्नापयित्वा तौ लक्ष्मीनारायणात्मकौ ॥ 31 ॥

भूषयित्वा च वस्राद्यैरकुर्वन् वित्तवञ्चनाम्।
आशितौ लिप्तगन्धाङ्गौ दक्षिणापरितोषितौ ॥ 32 ॥

प्रार्थयेत्तारिकासिद्धिं लक्ष्मीनारायणात्मना।
अस्त्वेवमिति वाक्यान्ते [^4]तावावां शरणं व्रजेत् ॥ 33 ॥

टिप्पनी 33
तावावामिति। लक्ष्मीनारायणाख्यास्मद्रूपिणौ तौ दंपती इत्यर्थः।
विश्वास-प्रस्तुतिः
वाचयित्वा ततः स्वस्ति वैष्णवान् वेदवित्तमान्।
द्विजाग्र्यांस्तर्पयित्वाथ वर्तेताभीष्टसंपदे ॥ 34 ॥

चतुर्दशीनिशायां चेन्न पश्येत् स्वप्नदर्शनम्।
अमावास्यां समारब्य यावत्कृष्णस्य 3सप्तमी ॥ 35 ॥

तावन्तं व्रतवानेव वर्तयेत् कालमप्यथ।
त्रिसहस्रं जपं कुर्वन्नेकभुक्तेन वर्तयन् ॥ 36 ॥

टिप्पनी 36
एकभुक्तेन एकवारभोजनेन।
विश्वास-प्रस्तुतिः
मद्ये कौमारदाराणामृतुं प्राप्तमलङ्घयन्।
अनिन्दन् कामिनीवृत्तं दंपती नन्दयन् धिया ॥ 37 ॥

ऋते पापं प्रियं कुर्वन् कामिनीनामलोलुपः।
ततः कृष्णाष्टमीं प्राप्य पूर्ववज्जपमाचरेत् ॥ 38 ॥

कुर्वन् होमादिकं सर्वं स्वप्नदृष्टौ निवर्तयेत्।
यावच्चिह्नानि संपश्येत् तावदेवं समाचरेत् ॥ 39 ॥

सिद्धायां तारिकायां तु सर्वं च लभते नरः।
सम्यक्कर्ता च शास्त्राणामद्यात्मगतिकोविदः ॥ 40 ॥

सर्वतन्त्रविधानज्ञः सर्ववेदान्तपारगः।
सर्वसंदेहनिर्भेदी सर्वनिर्णयपारगः ॥ 41 ॥

यथार्थवागृजुर्वाग्मी धर्मसागरपारगः।
परस्य स्वस्य वायं हि विनियोगं चिकीर्षति ॥ 42 ॥

निग्रहेऽनुग्रहे वापि स स सिध्यति सर्वदा।
शक्रः—
नमः संपूर्णषाड्गुण्यविग्रहायै हरिप्रिये ॥ 43 ॥

अरविन्दगृहायै ते गोविन्दगृहमेधिनि।
त्वन्मुखाब्जाच्छ्रता सिद्धिस्तारिकाया विशेषिणी ॥ 44 ॥

स्थूलसूक्ष्मपराकारा यथावच्च प्रदर्शिताः4।
साधिताया विधानेन तारायास्त्रिविधात्मनः ॥ 45 ॥

विनियोगमिदानीं मे वक्तुमर्हसि पद्मजे।
श्रीः—
एकः षाड्गुण्यपूर्णात्मा हंसो नारायणो वशी ॥ 46 ॥

हंसी शक्तिरहं तस्य वशिनी सर्वकामदा।
हंसो हंसी च तावावामुदितौ तारिकात्मना ॥ 47 ॥

तस्या अस्मत्स्वरूपाया विनियोगं निबोध मे।
नानाविधेषु मन्त्रेषु बाह्यान्तरविभागतः ॥ 48 ॥

यावन्तो यादृशा ये च मन्त्राः सन्ति परावराः।
तदीया विनियोगा ये यावन्तः सन्ति यादृशाः ॥ 49 ॥

तावन्तस्तादृशास्तेऽस्या विनियोगा न संशयः।
तथापि विनियोगान्मे कांश्चिच्छक्र निशामय ॥ 50 ॥

धर्मार्थकाममोक्षेषु सद्यः प्रत्ययकारकान्।
कृष्णाजिनोत्तरासङ्गां कृष्णाजिननिवासिनीम् ॥ 51 ॥

कृष्णाजिनाम्बरां त्रस्तकृष्णशाबशुभेक्षणाम्।
पूर्णचन्द्रनिभां ध्यात्वा ब्रह्ममुद्राक्षसूत्रिणीम् ॥ 52 ॥

सरोरुहे दधानां चाप्यपरस्मिन् करद्वये।
इत्थं मामम्बुजाक्षं वा देवदेवं जनार्दनम् ॥ 53 ॥

ध्यात्वा लक्षं जपेत्तारां धर्मः प्रत्यक्षतामियात्।
विभुसंख्यामितान्प्रस्थाञ्शालीनां तण्डुलात्मनाम् ॥ 54 ॥

सर्पिषस्तावतः प्रस्थान् शर्करायाः पलानि च।
गुडस्य वापि तावन्ति पाचयेदेकपात्रगान् ॥ 55 ॥

पयसा तावता तुल्यं विधिना सुशृतं हविः।
शुक्लप्रतिपदः प्रातरुदितेऽर्धेन भास्करे ॥ 56 ॥

एकाहुत्यैव जुहुयान्महापात्रस्थितं हविः।
त्रिष्टुभा जातवेदस्या तारिकाद्यन्तरुद्धया ॥ 57 ॥

टिप्पनी 57
जातवेदस्येति। “जातवेदसे सुनवाम सोमम्” इत्यादिकया ऋचा।
विश्वास-प्रस्तुतिः
महाकुण्डे महावह्नौ यन्त्रयोगेन बुद्धिमान्।
अथ प्रातः समारभ्य यावदस्तमयं रवेः ॥ 58 ॥

अविच्छिन्नं 5च जुहुयात् स्रुवेणैव गतक्लमः।
सपिषा संस्कृतेनैव तादृस्या त्रिष्टुभा सुधीः ॥ 59 ॥

प्रातरारभ्य शाल्यन्नं पयोदध्याज्यसंस्कृतम्।
एकैकं भोजयेद्विप्रं प्रातरारभ्य संततम् ॥ 60 ॥

वाचयित्वा द्विजानन्ते तर्पयेद्वेदवित्तमान्।
दंपती वैष्णवौ चैवं लक्ष्मीलक्ष्मीशसंज्ञया ॥ 61 ॥

य एवमाचरेद्धीरो व्यवसायसहायवान्।
कोटिसंक्यमनौपम्यमक्षयं लभते निधिम् ॥ 62 ॥

इमं शृणु महाश्चर्यं प्रयोगं पाकशासन।
तारामादाय पूर्वं तु योजयेत् सुभगेपदम् ॥ 63 ॥

स्वाहां संयोजयेत् पश्चात्तारिकेयं षडक्षरा।
उपोष्यैव6 चतुर्दश्यां पौर्णमास्यामुपक्रमेत् ॥ 64 ॥

जपेद्दशसहस्रं तामारामे शोभनद्रुमे।
आसीनो मध्यतः सम्यक्पूर्णकुम्भप्रदीपयोः ॥ 65 ॥

ध्यायन्मां पद्मगर्भाभां पङ्कजद्वयधारिणीम्।
द्विभुजामसितापाङ्गीं नीलकुञ्चितमूर्धजाम् ॥ 66 ॥

स्मितपूर्णमुखीं रम्यां पीनोन्नतपयोधराम्।
सर्वाभरणसंपूर्णां दुकूलोत्तमवासिनीम् ॥ 67 ॥

सुशुभां सुभगामित्थं ध्यायञ्जपमथाचरेत्।
तर्पयेज्जुहुयाच्चैव दशांशं तारयानया ॥ 68 ॥

बलिं दद्याच्च शाल्यन्नं पयोघृतगुडान्वितम्।
स्रियं लक्षणसंपन्नां पूजितां भोजयेत्सुधीः ॥ 69 ॥