विश्वास-प्रस्तुतिः
चत्वारिंशोऽध्यायः - 40
शक्रः—
नमस्ते वारिसंभूते नमस्ते पद्मसंभवे।
प्रकारमक्षमालायाः प्रतिष्ठाया वदाम्बुजे ॥ 1 ॥
मूलम्
चत्वारिंशोऽध्यायः - 40
शक्रः—
नमस्ते वारिसंभूते नमस्ते पद्मसंभवे।
प्रकारमक्षमालायाः प्रतिष्ठाया वदाम्बुजे ॥ 1 ॥
विश्वास-प्रस्तुतिः
श्रीः—
साधितामक्षमालां तु स्थापयेद्भाजने शुभे।
पूजयित्वार्घ्यपुष्पाद्यैस्तस्याः शुद्धिं समाचरेत् ॥ 2 ॥
मूलम्
श्रीः—
साधितामक्षमालां तु स्थापयेद्भाजने शुभे।
पूजयित्वार्घ्यपुष्पाद्यैस्तस्याः शुद्धिं समाचरेत् ॥ 2 ॥
टिप्पनी 2
साधिताम्; निर्मिताम्।
विश्वास-प्रस्तुतिः
अस्त्रेण दग्ध्वा निर्वाप्य वर्मणाप्याययेच्छ्रिया।
परमामृतरूपिण्या तां मालां भावयेत्ततः ॥ 3 ॥
मूलम्
अस्त्रेण दग्ध्वा निर्वाप्य वर्मणाप्याययेच्छ्रिया।
परमामृतरूपिण्या तां मालां भावयेत्ततः ॥ 3 ॥
टिप्पनी 3
निर्वाप्य; विशोष्य। श्रिया; श्रीमन्त्रेण। भावयेत्; वक्ष्यमाणरूपेण ध्यायेत्।
विश्वास-प्रस्तुतिः
चतुर्भुजामनौपम्यां मन्मयीं मामिवापराम्।
वरदाभयहस्तां च बद्धाञ्जलिकरद्वयाम् ॥ 4 ॥
मूलम्
चतुर्भुजामनौपम्यां मन्मयीं मामिवापराम्।
वरदाभयहस्तां च बद्धाञ्जलिकरद्वयाम् ॥ 4 ॥
विश्वास-प्रस्तुतिः
ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम्।
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम् ॥ 5 ॥
मूलम्
ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम्।
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम् ॥ 5 ॥
टिप्पनी 5
ब्रह्मद्वारं ब्रह्मरन्ध्राख्यनाडी। शिखा वह्निशिखा।
विश्वास-प्रस्तुतिः
द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे।
हृत्पद्मादुत्थितां बूयो ब्रह्मरन्ध्राद्विनिर्गताम् ॥ 6 ॥
मूलम्
द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे।
हृत्पद्मादुत्थितां बूयो ब्रह्मरन्ध्राद्विनिर्गताम् ॥ 6 ॥
टिप्पनी 6
द्वादशान्ते; मूर्ध्न उपरि द्वादशाङ्गुलपरिमितस्थाने।
विश्वास-प्रस्तुतिः
शनैः शनैरुल्लसन्तीं मालास्थां तां विचिन्तयेत्।
अङ्गोपाङ्गक्रमोपेतां1 स्थूलसूक्ष्मपरात्मिकाम् ॥ 7 ॥
मूलम्
शनैः शनैरुल्लसन्तीं मालास्थां तां विचिन्तयेत्।
अङ्गोपाङ्गक्रमोपेतां1 स्थूलसूक्ष्मपरात्मिकाम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
मां ध्यायेत् तारिकाकारां तत्र शक्तौ सुरेश्वर।
मणीन् सूत्रं तथा मालां मालास्थां वैष्णवीमपि ॥ 8 ॥
मूलम्
मां ध्यायेत् तारिकाकारां तत्र शक्तौ सुरेश्वर।
मणीन् सूत्रं तथा मालां मालास्थां वैष्णवीमपि ॥ 8 ॥
विश्वास-प्रस्तुतिः
एकार्णवीकृतं सर्वं2 मायां ध्यायेत् सुरेश्वर।
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम् ॥ 9 ॥
मूलम्
एकार्णवीकृतं सर्वं2 मायां ध्यायेत् सुरेश्वर।
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम् ॥ 9 ॥
विश्वास-प्रस्तुतिः
जपं समाचरेत् पश्चात् पूर्वोक्तेन विधानतः।
अनुन्मिषत् परं सूक्ष्मं स्थूलमात्मानमेव च ॥ 10 ॥
मूलम्
जपं समाचरेत् पश्चात् पूर्वोक्तेन विधानतः।
अनुन्मिषत् परं सूक्ष्मं स्थूलमात्मानमेव च ॥ 10 ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणाकारं पञ्चकं भावयेदिदम्।
तुर्यातीतं तथा तुर्यं सुषुप्तिस्वप्नजागराः ॥ 11 ॥
मूलम्
लक्ष्मीनारायणाकारं पञ्चकं भावयेदिदम्।
तुर्यातीतं तथा तुर्यं सुषुप्तिस्वप्नजागराः ॥ 11 ॥
विश्वास-प्रस्तुतिः
अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम्।
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा ॥ 12 ॥
मूलम्
अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम्।
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा ॥ 12 ॥
विश्वास-प्रस्तुतिः
मन्त्राक्षरं तथा स्थूलं सर्वं तत्तन्मयं स्मरेत्।
हृत्पुण्डरीकमध्यस्थां मन्मुखाम्भोजनिःसृताम् ॥ 13 ॥
मूलम्
मन्त्राक्षरं तथा स्थूलं सर्वं तत्तन्मयं स्मरेत्।
हृत्पुण्डरीकमध्यस्थां मन्मुखाम्भोजनिःसृताम् ॥ 13 ॥
विश्वास-प्रस्तुतिः
स्मरेच्छब्दमयीं शक्तिं वैष्णवीं मदभेदिनीम्।
तस्या विनिर्गतां ध्यायेन्मातृकां मन्त्रमातरम् ॥ 14 ॥
मूलम्
स्मरेच्छब्दमयीं शक्तिं वैष्णवीं मदभेदिनीम्।
तस्या विनिर्गतां ध्यायेन्मातृकां मन्त्रमातरम् ॥ 14 ॥
विश्वास-प्रस्तुतिः
मन्मयीं संस्मरेन्मालां जप्यमन्त्रमयीं ततः।
लतायामिव पुष्पाणि3 मन्त्रान् वै तत्र संस्मरेत् ॥ 15 ॥
मूलम्
मन्मयीं संस्मरेन्मालां जप्यमन्त्रमयीं ततः।
लतायामिव पुष्पाणि3 मन्त्रान् वै तत्र संस्मरेत् ॥ 15 ॥
विश्वास-प्रस्तुतिः
स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये।
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः ॥ 16 ॥
मूलम्
स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये।
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः ॥ 16 ॥
4हृद्भास्वरूपसंसूतिबहिरन्तःक्रमोत्क्रमात्।
इति स्मरन् जपेदेकवारं तत्कोटिसंमितम् ॥ 17 ॥
विश्वास-प्रस्तुतिः
जपं समाप्य विधिवन्न्यस्येन्मयि जपं कृतम्।
शक्तिं तां मन्मुखान्तःस्थां जपरूपां विचिन्तयेत् ॥ 18 ॥
मूलम्
जपं समाप्य विधिवन्न्यस्येन्मयि जपं कृतम्।
शक्तिं तां मन्मुखान्तःस्थां जपरूपां विचिन्तयेत् ॥ 18 ॥
विश्वास-प्रस्तुतिः
दीपे धूपे तथार्घ्ये च घण्टानादं समाचरेत्।
आवाहने तथार्घ्ये च नैवेद्ये मधुपर्कके ॥ 19 ॥
मूलम्
दीपे धूपे तथार्घ्ये च घण्टानादं समाचरेत्।
आवाहने तथार्घ्ये च नैवेद्ये मधुपर्कके ॥ 19 ॥
विश्वास-प्रस्तुतिः
प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः।
न विना पूजया चाल्या तां विना पूजयेन्न च ॥ 20 ॥
मूलम्
प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः।
न विना पूजया चाल्या तां विना पूजयेन्न च ॥ 20 ॥
विश्वास-प्रस्तुतिः
कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः।
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 21 ॥
मूलम्
कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः।
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 21 ॥
विश्वास-प्रस्तुतिः
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रेषु चाखिलम्।
एतस्यां चाल्यमानायां मन्त्रा वत्सा इव द्रुतम् ॥ 22 ॥
मूलम्
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रेषु चाखिलम्।
एतस्यां चाल्यमानायां मन्त्रा वत्सा इव द्रुतम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम्।
अधोमुखं तु ब्रह्माण्डं द्यायेल्लोककुलाकुलम् ॥ 23 ॥
मूलम्
काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम्।
अधोमुखं तु ब्रह्माण्डं द्यायेल्लोककुलाकुलम् ॥ 23 ॥
विश्वास-प्रस्तुतिः
नालं तस्यास्तदूर्ध्वे तु वृत्तं पद्मं स्मरेद्बुधः।
अष्टपत्रं शुभं श्वेतं कर्णिकाकेसरान्वितम् ॥ 24 ॥
मूलम्
नालं तस्यास्तदूर्ध्वे तु वृत्तं पद्मं स्मरेद्बुधः।
अष्टपत्रं शुभं श्वेतं कर्णिकाकेसरान्वितम् ॥ 24 ॥
विश्वास-प्रस्तुतिः
तन्मध्ये चिन्तयेद्देवीं घण्टामष्टभुजान्विताम्।
मुख्यहस्तचतुष्केण पाशशङ्खाम्बुजाङ्कुशान् ॥ 25 ॥
मूलम्
तन्मध्ये चिन्तयेद्देवीं घण्टामष्टभुजान्विताम्।
मुख्यहस्तचतुष्केण पाशशङ्खाम्बुजाङ्कुशान् ॥ 25 ॥
विश्वास-प्रस्तुतिः
परबाहुचतुष्केण दधतीमक्षसूत्रकम्।
विज्ञानपुस्तकं सम्यगभयं च वरं तथा ॥ 26 ॥
मूलम्
परबाहुचतुष्केण दधतीमक्षसूत्रकम्।
विज्ञानपुस्तकं सम्यगभयं च वरं तथा ॥ 26 ॥
विश्वास-प्रस्तुतिः
पद्मासनामम्बुजाक्षीं पद्मगर्भसमत्विषम्।
बद्ममालाधरां पीतसितवस्रानुलेपनाम् ॥ 27 ॥
मूलम्
पद्मासनामम्बुजाक्षीं पद्मगर्भसमत्विषम्।
बद्ममालाधरां पीतसितवस्रानुलेपनाम् ॥ 27 ॥
विश्वास-प्रस्तुतिः
मन्त्रौघमुद्गिरन्तीं च ब्रह्मादिपरिसंस्तुताम्।
तारिकामुच्चरन् दीर्घं5 युग्मां संचालयेदिमाम् ॥ 28 ॥
मूलम्
मन्त्रौघमुद्गिरन्तीं च ब्रह्मादिपरिसंस्तुताम्।
तारिकामुच्चरन् दीर्घं5 युग्मां संचालयेदिमाम् ॥ 28 ॥
विश्वास-प्रस्तुतिः
अनया पूजयन् मन्त्री मन्त्रसिद्धिं निगच्छति।
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् ॥ 29 ॥
मूलम्
अनया पूजयन् मन्त्री मन्त्रसिद्धिं निगच्छति।
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् ॥ 29 ॥
विश्वास-प्रस्तुतिः
प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन्।
अथ वह्निगतां सम्यगग्नीषोममयीं पराम् ॥ 30 ॥
मूलम्
प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन्।
अथ वह्निगतां सम्यगग्नीषोममयीं पराम् ॥ 30 ॥
टिप्पनी 30
वह्निसंतर्पणमुच्यते—अथेत्यादिना।
विश्वास-प्रस्तुतिः
तर्पयेन्मां सुरेशान यथावदवधारय।
तत उत्तरदिग्भागे देवागाराद्बहिस्तु वा ॥ 31 ॥
मूलम्
तर्पयेन्मां सुरेशान यथावदवधारय।
तत उत्तरदिग्भागे देवागाराद्बहिस्तु वा ॥ 31 ॥
विश्वास-प्रस्तुतिः
भूभागे लक्षणोपेते कुण्डं कुर्यात् सलक्षणम्।
चतुरश्रं समं यद्वा पद्माकारं मनोहरम्6 ॥ 32 ॥
मूलम्
भूभागे लक्षणोपेते कुण्डं कुर्यात् सलक्षणम्।
चतुरश्रं समं यद्वा पद्माकारं मनोहरम्6 ॥ 32 ॥
विश्वास-प्रस्तुतिः
शतार्धहोमसंख्यायां कुण्डं स्याद् द्वादशाङ्गुलम्।
अष्टोत्तरशतेऽरत्निसमं हस्तं सहस्रके ॥ 33 ॥
मूलम्
शतार्धहोमसंख्यायां कुण्डं स्याद् द्वादशाङ्गुलम्।
अष्टोत्तरशतेऽरत्निसमं हस्तं सहस्रके ॥ 33 ॥
टिप्पनी 33
होमसंक्यानुगुण्येन कुण्डविस्तृतिरुच्यते—शतार्धेत्यादिना।
विश्वास-प्रस्तुतिः
अयुताख्ये द्विहस्तं च लक्षहोमे चतुष्करम्।
कोटिहोमेऽष्टहस्तं स्याच्छास्त्रतः कारयेच्च तत् ॥ 34 ॥
मूलम्
अयुताख्ये द्विहस्तं च लक्षहोमे चतुष्करम्।
कोटिहोमेऽष्टहस्तं स्याच्छास्त्रतः कारयेच्च तत् ॥ 34 ॥
विश्वास-प्रस्तुतिः
त्रिकोणमपि वा कुर्याद्धोमकुण्डं त्रिमेखलम्।
उद्धृत्य तारया पूर्वं त्रिस्तया प्रोक्षयेद्भुवम् ॥ 35 ॥
मूलम्
त्रिकोणमपि वा कुर्याद्धोमकुण्डं त्रिमेखलम्।
उद्धृत्य तारया पूर्वं त्रिस्तया प्रोक्षयेद्भुवम् ॥ 35 ॥
टिप्पनी 35
तया; तारया।
विश्वास-प्रस्तुतिः
शोषणं दाहनं प्लावं तारया सम्यगाचरेत्।
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि ॥ 36 ॥
मूलम्
शोषणं दाहनं प्लावं तारया सम्यगाचरेत्।
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि ॥ 36 ॥
टिप्पनी 36
भावासनं पूर्वमाधारशक्तिप्रकरणोक्तम्।
विश्वास-प्रस्तुतिः
तत्र नारायणाख्यां वै शक्तिं तेजोमयीं पराम्।
मन्मयीममृताकारां सर्वातिशयरूपिणीम् ॥ 37 ॥
मूलम्
तत्र नारायणाख्यां वै शक्तिं तेजोमयीं पराम्।
मन्मयीममृताकारां सर्वातिशयरूपिणीम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
सर्वशक्तिसमूहस्थां सर्ववस्त्वन्तरस्थिताम्।
अवतार्य हृदम्भोजात् सृष्टिमार्गेण शाश्वतीम् ॥ 38 ॥
मूलम्
सर्वशक्तिसमूहस्थां सर्ववस्त्वन्तरस्थिताम्।
अवतार्य हृदम्भोजात् सृष्टिमार्गेण शाश्वतीम् ॥ 38 ॥
विश्वास-प्रस्तुतिः
तारिकास्फुरणाकारामवतीर्य हृदम्बुजात्।
रेचकेन विनिक्षिप्य कुण्डमध्याम्बुजान्तरे ॥ 39 ॥
मूलम्
तारिकास्फुरणाकारामवतीर्य हृदम्बुजात्।
रेचकेन विनिक्षिप्य कुण्डमध्याम्बुजान्तरे ॥ 39 ॥
विश्वास-प्रस्तुतिः
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च।
ध्यायेदृतमतीं शक्तिं सुस्नातामहताम्बराम् ॥ 40 ॥
मूलम्
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च।
ध्यायेदृतमतीं शक्तिं सुस्नातामहताम्बराम् ॥ 40 ॥
टिप्पनी 40
ध्यायेदित्यादिना अग्नेर्वैष्णवीकरणमुच्यते।
विश्वास-प्रस्तुतिः
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम्।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ 41 ॥
मूलम्
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम्।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ 41 ॥
विश्वास-प्रस्तुतिः
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया।
उत्पन्नं तारयादाय7 कृशानुं शक्तिसंभवम् ॥ 42 ॥
मूलम्
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया।
उत्पन्नं तारयादाय7 कृशानुं शक्तिसंभवम् ॥ 42 ॥
8अभिगूह्याङ्गुलीभिस्तु संस्कुर्याद्वैष्णवाक्यया।
चूडां च तारया कुर्यादन्नप्राशनपूर्वकम् ॥ 43 ॥
टिप्पनी 43
अभिगूह्य; संवृत्य। अन्नप्राशनेति जातकर्मनामकरणयोरप्युपलक्षणम्।
विश्वास-प्रस्तुतिः
उपनीय ततो वह्निं तारया चानुतारया।
ततः स्वाहास्वधाभ्यां तु देवीभ्यां जातवेदसः ॥ 44 ॥
मूलम्
उपनीय ततो वह्निं तारया चानुतारया।
ततः स्वाहास्वधाभ्यां तु देवीभ्यां जातवेदसः ॥ 44 ॥
विश्वास-प्रस्तुतिः
पाणिग्रहणकं कुर्यात् तारया त्वनुतारया।
सर्वं ध्यानमयं कार्यं जातनामादिकर्म तत् ॥ 45 ॥
मूलम्
पाणिग्रहणकं कुर्यात् तारया त्वनुतारया।
सर्वं ध्यानमयं कार्यं जातनामादिकर्म तत् ॥ 45 ॥
विश्वास-प्रस्तुतिः
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ 46 ॥
मूलम्
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ 46 ॥
9आधाय तैजसे पात्रे मृन्मयेऽभिनवे तु वा।
देवीसहायं स्वाहेशं तारयैवार्चयेत् सुधीः ॥ 47 ॥
विश्वास-प्रस्तुतिः
पूरणेनोपसंहृत्य स्वात्मन्युपशमं नयेत्।
क्रमादानन्दशक्त्या तं संहारेण तु योजयेत् ॥ 48 ॥
मूलम्
पूरणेनोपसंहृत्य स्वात्मन्युपशमं नयेत्।
क्रमादानन्दशक्त्या तं संहारेण तु योजयेत् ॥ 48 ॥
विश्वास-प्रस्तुतिः
सृष्टिमार्गेण तं भूयोऽप्यवतार्य पदात् पदम्।
कुण्डमध्याम्बुजान्तःस्थां तारया भुवमानयेत् ॥ 49 ॥
मूलम्
सृष्टिमार्गेण तं भूयोऽप्यवतार्य पदात् पदम्।
कुण्डमध्याम्बुजान्तःस्थां तारया भुवमानयेत् ॥ 49 ॥
विश्वास-प्रस्तुतिः
वह्निं स्वाहास्वधेशानमग्नीषोममयं यजेत्।
समिद्भिस्तिसृभिस्तारामुच्चरन्नेकयैकया ॥ 50 ॥
मूलम्
वह्निं स्वाहास्वधेशानमग्नीषोममयं यजेत्।
समिद्भिस्तिसृभिस्तारामुच्चरन्नेकयैकया ॥ 50 ॥
विश्वास-प्रस्तुतिः
शालीतिलाक्षतैः पश्चात् तत आज्याहुतित्रयम्।
उच्चार्य तारिकां पूर्वं बोधयेति द्विरुच्चरेत् ॥ 51 ॥
मूलम्
शालीतिलाक्षतैः पश्चात् तत आज्याहुतित्रयम्।
उच्चार्य तारिकां पूर्वं बोधयेति द्विरुच्चरेत् ॥ 51 ॥
विश्वास-प्रस्तुतिः
तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः10 स्वयम्।
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना ॥ 52 ॥
मूलम्
तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः10 स्वयम्।
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना ॥ 52 ॥
विश्वास-प्रस्तुतिः
स्तृणीयात् तारया दर्भैस्रेधा त्रेधा चतुर्धिशम्।
उदग्भागेऽग्निकुण्डस्य स्तृणीयाद्दर्भसंचयम् ॥ 53 ॥
मूलम्
स्तृणीयात् तारया दर्भैस्रेधा त्रेधा चतुर्धिशम्।
उदग्भागेऽग्निकुण्डस्य स्तृणीयाद्दर्भसंचयम् ॥ 53 ॥
विश्वास-प्रस्तुतिः
प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा।
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत् ॥ 54 ॥
मूलम्
प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा।
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत् ॥ 54 ॥
विश्वास-प्रस्तुतिः
प्रणीतां तारयापूर्य गन्धयुक्तेन वारिणा।
पवित्राब्यां त्रिरुत्पूय मां ध्यायेत् तारया श्रियम् ॥ 55 ॥
मूलम्
प्रणीतां तारयापूर्य गन्धयुक्तेन वारिणा।
पवित्राब्यां त्रिरुत्पूय मां ध्यायेत् तारया श्रियम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
वह्नेरुदक् प्रतिष्ठाप्य प्रोक्षणीं पूरयेच्छ्रिया।
तामुत्पूय ततः प्रोक्ष्य यागोपकरणं समम् ॥ 56 ॥
मूलम्
वह्नेरुदक् प्रतिष्ठाप्य प्रोक्षणीं पूरयेच्छ्रिया।
तामुत्पूय ततः प्रोक्ष्य यागोपकरणं समम् ॥ 56 ॥
विश्वास-प्रस्तुतिः
आज्यपात्रं समादाय तस्मिन्नाज्यं निधाय च।
ब्रह्म सर्पिःसमुद्रोत्थं तद्ध्यात्वाग्नेरुदग्गतम् ॥ 57 ॥
मूलम्
आज्यपात्रं समादाय तस्मिन्नाज्यं निधाय च।
ब्रह्म सर्पिःसमुद्रोत्थं तद्ध्यात्वाग्नेरुदग्गतम् ॥ 57 ॥
विश्वास-प्रस्तुतिः
तारया समभिज्वाल्य दर्भाग्रे विनिधाय च।
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत् ॥ 58 ॥
मूलम्
तारया समभिज्वाल्य दर्भाग्रे विनिधाय च।
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत् ॥ 58 ॥
विश्वास-प्रस्तुतिः
वह्नेः पश्चात् प्रतिष्ठाप्य पवित्रद्वितयेन तत्।
उत्पूय तारयाग्नौ तत् पवित्रद्वितयं क्षिपेत् ॥ 59 ॥
मूलम्
वह्नेः पश्चात् प्रतिष्ठाप्य पवित्रद्वितयेन तत्।
उत्पूय तारयाग्नौ तत् पवित्रद्वितयं क्षिपेत् ॥ 59 ॥
विश्वास-प्रस्तुतिः
परिदध्यात् परिधिभिर्यज्ञयोग्यैश्चतुर्दिशम्।
अग्निशर्वदिशोः स्थाप्य कुण्डमध्ये समिद्द्वयम् ॥ 60 ॥
मूलम्
परिदध्यात् परिधिभिर्यज्ञयोग्यैश्चतुर्दिशम्।
अग्निशर्वदिशोः स्थाप्य कुण्डमध्ये समिद्द्वयम् ॥ 60 ॥
विश्वास-प्रस्तुतिः
तत इध्मं समाधाय शुष्कं पञ्चदशात्मकम्।
तारया परिषिच्याग्निं स्रुक्स्रुवौ11 परितापयेत् ॥ 61 ॥
मूलम्
तत इध्मं समाधाय शुष्कं पञ्चदशात्मकम्।
तारया परिषिच्याग्निं स्रुक्स्रुवौ11 परितापयेत् ॥ 61 ॥
विश्वास-प्रस्तुतिः
निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया।
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि ॥ 62 ॥
मूलम्
निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया।
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि ॥ 62 ॥
12धारया स्रावयेद्वह्नौ मध्ये दद्यात् स्रुवाहुतिम्।
अष्टोत्तरशतं वापि तदर्धं वा तदर्थकम् ॥ 63 ॥
विश्वास-प्रस्तुतिः
स्रुवेणाज्याहुतीर्दद्यात् स्वाहान्तां तारिकां गृणन्।
अयं योग्यो भवेद्वह्निर्भगवद्धव्यवाहने ॥ 64 ॥
मूलम्
स्रुवेणाज्याहुतीर्दद्यात् स्वाहान्तां तारिकां गृणन्।
अयं योग्यो भवेद्वह्निर्भगवद्धव्यवाहने ॥ 64 ॥
13आदध्यात् समिधः सप्त ततस्तारिकया सुधीः।
यज्ञकाष्ठमयीरादौ ब्रह्मक्षत्रतरूद्भवाः ॥ 65 ॥
टिप्पनी 65
ब्रह्मतरुः पलाशः। क्षत्रतरुः मुचुकुन्दनामा तरुः। दशापरा इति। अवशिष्टा दश समिध दश समिध इत्यर्थः।
विश्वास-प्रस्तुतिः
तारया समिधो दद्यात् काष्ठरूपा दशापराः।
मामेव भावयेन्मध्ये विष्णोरङ्कस्थितां पराम् ॥ 66 ॥
मूलम्
तारया समिधो दद्यात् काष्ठरूपा दशापराः।
मामेव भावयेन्मध्ये विष्णोरङ्कस्थितां पराम् ॥ 66 ॥
विश्वास-प्रस्तुतिः
ब्रह्मानन्दमयाम्भोजकर्णिकास्थस्य वै विभोः।
अङ्कस्थां भावयल्लँक्ष्मीं ता दद्यात्समिधोऽखिलः ॥ 67 ॥
मूलम्
ब्रह्मानन्दमयाम्भोजकर्णिकास्थस्य वै विभोः।
अङ्कस्थां भावयल्लँक्ष्मीं ता दद्यात्समिधोऽखिलः ॥ 67 ॥
विश्वास-प्रस्तुतिः
ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा।
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा ॥ 68 ॥
मूलम्
ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा।
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा ॥ 68 ॥
विश्वास-प्रस्तुतिः
मधुपर्कमयीं पश्चात् स्रुवेण जुहुयात् सुधीः।
स्रुच्यन्नं चतुरादाय सर्पिषापूर्यं पूर्ववत् ॥ 69 ॥
मूलम्
मधुपर्कमयीं पश्चात् स्रुवेण जुहुयात् सुधीः।
स्रुच्यन्नं चतुरादाय सर्पिषापूर्यं पूर्ववत् ॥ 69 ॥
विश्वास-प्रस्तुतिः
तयैवान्नाहुतिं दद्यात् स्वाहान्तां तारिकां गृणन्।
स्रुवेणाज्याहुतीः पूर्वसमित्संख्याः समाचरेत् ॥ 70 ॥
मूलम्
तयैवान्नाहुतिं दद्यात् स्वाहान्तां तारिकां गृणन्।
स्रुवेणाज्याहुतीः पूर्वसमित्संख्याः समाचरेत् ॥ 70 ॥
विश्वास-प्रस्तुतिः
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया।
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत् ॥ 72 ॥
मूलम्
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया।
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत् ॥ 72 ॥
विश्वास-प्रस्तुतिः
दशवारं तारयैव क्षमस्वेति वदन् धिया।
प्रणीतामुपसंहृत्य शुचिस्थाने 14निनीय च ॥ 73 ॥
मूलम्
दशवारं तारयैव क्षमस्वेति वदन् धिया।
प्रणीतामुपसंहृत्य शुचिस्थाने 14निनीय च ॥ 73 ॥
विश्वास-प्रस्तुतिः
प्रहृत्य परिधीन् सर्वान् 15सँस्रावं समाचरेत्।
स्तरं प्रहृत्य वह्नौ च घृतेनापूर्य च स्रुवम् ॥ 74 ॥
मूलम्
प्रहृत्य परिधीन् सर्वान् 15सँस्रावं समाचरेत्।
स्तरं प्रहृत्य वह्नौ च घृतेनापूर्य च स्रुवम् ॥ 74 ॥
विश्वास-प्रस्तुतिः
दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन्।
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम् ॥ 75 ॥
मूलम्
दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन्।
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम् ॥ 75 ॥
विश्वास-प्रस्तुतिः
मां चाप्यङ्कस्थितां 16विष्णोर्नासिकासंधिमार्गतः।
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च ॥ 76 ॥
मूलम्
मां चाप्यङ्कस्थितां 16विष्णोर्नासिकासंधिमार्गतः।
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च ॥ 76 ॥
विश्वास-प्रस्तुतिः
यागभूमिं समेत्याथ नवपद्मस्थया मया।
एकीकृत्य मयि न्यस्येदर्छास्थायां कृतिं तु ताम् ॥ 77 ॥
मूलम्
यागभूमिं समेत्याथ नवपद्मस्थया मया।
एकीकृत्य मयि न्यस्येदर्छास्थायां कृतिं तु ताम् ॥ 77 ॥
विश्वास-प्रस्तुतिः
प्राग् एव विभजेद् अन्नं
प्रापणात् संप्रदानतः।
तेनान्नेन यजेत् सम्यग्
विष्वक्सेनं चतुर्भुजम् ॥ 78 ॥
मानसतरङ्गिणीकृत्
The ritualist should partition a portion of cooked rice from the storage vessel (we render prāpaṇa as such based on the parallel version in the Jayākhya; see below) before offering it [to Viṣṇu]. With that rice, he should sacrifice to the four-armed Viṣvaksena.
मूलम्
प्रागेव विभजेदन्नं प्रापणात् संप्रदानतः।
तेनान्नेन यजेत् सम्यग्विष्वक्सेनं चतुर्भुजम् ॥ 78 ॥
विश्वास-प्रस्तुतिः
मण्डलान्तम् उपानीय
समाहूय+अम्बरान्तरात्।
नवाम्र-पत्र-सदृशं
पिङ्ग-भ्रू-श्मश्रु-लोचनम् ॥ 79 ॥
मानसतरङ्गिणीकृत्
Having brought him close from the sky, the intelligent ritualist should invoke and worship with the due procedure [Viṣvaksena] in the maṇḍala as having the complexion of a young mango leaf with tawny brows, mustache and eyes;
मूलम्
मण्डलान्तमुपानीय समाहूयाम्बरान्तरात्।
नवाम्रपत्रसदृशं पिङ्गभ्रूश्मश्रुलोचनम् ॥ 79 ॥
विश्वास-प्रस्तुतिः
पीत-वस्त्रं चतुर्-दंष्ट्रं
स्व-मुद्रा-द्वितयान्वितम्।
गदा-खड्ग-धरं देवम्
अभ्यर्च्य क्रमशः सुधीः ॥ 80 ॥
मानसतरङ्गिणीकृत्
wearing a yellow garment, with four fangs, displaying his own mudra; holding a mace and a sword.
मूलम्
पीतवस्त्रं चतुर्दंष्ट्रं स्वमुद्राद्वितयान्वितम्।
गदाखड्गधरं देवमभ्यर्च्य क्रमशः सुधीः ॥ 80 ॥
विश्वास-प्रस्तुतिः
साङ्ग-मुद्राम् अथादर्श्य
गत्वा कुण्ड-समीपतः।
विष्वक्सेनस् ततो भकत्या
तर्पणीयस् तिलाक्षतैः ॥ 81 ॥
मानसतरङ्गिणीकृत्
Having then displayed the mudra-s of the aṅga-s and having gone close to the fire altar, he should thereafter, with devotion, make quenching offerings of sesame seeds and parched rice.
मूलम्
साङ्गमुद्रामथादर्श्य गत्वा कुण्डसमीपतः।
विष्वक्सेनस्ततो भकत्या तर्पणीयस्तिलाक्षतैः ॥ 81 ॥
टिप्पनी 81
इत आरभ्य पञ्चार्धानि जयाख्या-वचनम् अनुकुर्वन्ति।
विश्वास-प्रस्तुतिः
वौषड्-अन्तेन मन्त्रेण
दद्यात् पूर्णाहुतिं ततः।
मण्डले पूजयित्वा ऽथ
कुर्यात् तस्य विसर्जनम् ॥ 82 ॥
मानसतरङ्गिणीकृत्
Then, with the [Viṣvaksena]-mantra ending with a vauṣaṭ, he should offer the final oblation. Having worshiped him in the maṇḍala, he should then perform his sendoff,
मूलम्
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं ततः।
मण्डले पूजयित्वाथ कुर्यात्तस्य विसर्जनम् ॥ 82 ॥
विश्वास-प्रस्तुतिः
स्वमन्त्रेण सुर-श्रेष्ठ17
क्षमस्वेति पदं वदन्।
मुद्रां च दर्शयेत् तं च
नभस्य् उत्पतितं स्मरेत् ॥ 83 ॥
मानसतरङ्गिणीकृत्
o lord of the gods (Indra, to whom Lakṣṃī is revealing the tantra), with his own mantra (Viṣvaksena) ending in the phrase “pardon me”. He should then display the mudra-s and visualize him as flying away into the sky.
मूलम्
स्वमन्त्रेण सुरश्रेष्ठ17 क्षमस्वेति पदं वदन्।
मुद्रां च दर्शयेत्तं च नभस्युत्पतितं स्मरेत् ॥ 83 ॥
विश्वास-प्रस्तुतिः
विष्वक्सेनार्चनं (पात्रादि) सर्वम्
अगाधेऽम्बुनि निक्षिपेत्।
तोयेनास्त्र-प्रजप्तेन
प्लावयेन् मण्डलं च तत् ॥ 84 ॥(5)
मानसतरङ्गिणीकृत्
He should then discard the items used in the worship of Viṣvaksena in deep water. He then immerses the maṇḍala in water by muttering the astra incantation.
मूलम्
विष्वक्सेनार्चनं सर्वमगाधेऽम्बुनि निक्षिपेत्।
तोयेनास्त्रप्रजप्तेन प्लावयेन्मण्डलं च तत् ॥ 84 ॥
विश्वास-प्रस्तुतिः
ततः संपूजयेत् सर्वान् लोकपालानशेषतः।
पुष्पार्घ्यैरन्नदानान्तैरेकाहुत्या च वह्नितः ॥ 85 ॥
मूलम्
ततः संपूजयेत् सर्वान् लोकपालानशेषतः।
पुष्पार्घ्यैरन्नदानान्तैरेकाहुत्या च वह्नितः ॥ 85 ॥
18बह्विभिर्वा यथाशक्ति स्वैः स्वैर्मन्त्रैर्यथाविधि।
पूजयित्वा 19विसृज्यैतांस्तदस्राण्यपि पूजयतेत् ॥ 86 ॥
विश्वास-प्रस्तुतिः
सर्वांश्च परिवारांस्तान् स्वस्वस्थानक्रमेण तु।
अर्चयेत् क्षेत्रपालादीन् वह्निमध्ये च तर्पयेत् ॥ 87 ॥
मूलम्
सर्वांश्च परिवारांस्तान् स्वस्वस्थानक्रमेण तु।
अर्चयेत् क्षेत्रपालादीन् वह्निमध्ये च तर्पयेत् ॥ 87 ॥
विश्वास-प्रस्तुतिः
आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः।
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः ॥ 88 ॥
मूलम्
आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः।
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः ॥ 88 ॥
विश्वास-प्रस्तुतिः
सकृत्कृत्या त्रिवृत्या वा पूर्णाः सर्वेष्वथ क्षिपेत्।
लक्ष्म्यादीन्पूजयेत्सर्वान् विष्वक्सेनार्चनात्पुरा ॥ 89 ॥
मूलम्
सकृत्कृत्या त्रिवृत्या वा पूर्णाः सर्वेष्वथ क्षिपेत्।
लक्ष्म्यादीन्पूजयेत्सर्वान् विष्वक्सेनार्चनात्पुरा ॥ 89 ॥
विश्वास-प्रस्तुतिः
विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात्।
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान् ॥ 90 ॥
मूलम्
विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात्।
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान् ॥ 90 ॥
विश्वास-प्रस्तुतिः
पितॄन् यजेत् क्रमेणैव प्रापणार्थावशेषतः।
कृत्वा पिण्डत्रयं तेन पितृभ्यो निर्वपेत् स्तरे ॥ 91 ॥
मूलम्
पितॄन् यजेत् क्रमेणैव प्रापणार्थावशेषतः।
कृत्वा पिण्डत्रयं तेन पितृभ्यो निर्वपेत् स्तरे ॥ 91 ॥
20अर्घ्याज्जलं तथा दद्यादेकैकस्यैकमञ्जलिम्।
वैष्णवायाथवा दद्याद्ब्राह्नणाय विशेषिणे21 ॥ 92 ॥
टिप्पनी 92
ब्राह्नणाय विशेषिणे इति। विशिष्टब्राह्नणायेत्यर्थः। एतच्च धनिकेतरविषयम्। धनिकविषये तु चतुरो ब्राह्नणान्, तदलाभे एकं वा श्राद्धविधिना भोजयेदिति सात्त्वते उक्तम् (6, 167-179)।
विश्वास-प्रस्तुतिः
पितॄनुद्दिश्य वै भक्तं तत्तन्नामानुदेशवत्।
संन्यस्य मयि तत् सर्वमन्तर्धानमवेक्ष्य च ॥ 93 ॥
मूलम्
पितॄनुद्दिश्य वै भक्तं तत्तन्नामानुदेशवत्।
संन्यस्य मयि तत् सर्वमन्तर्धानमवेक्ष्य च ॥ 93 ॥
विश्वास-प्रस्तुतिः
अर्घ्याद्यमुपसंहृत्य वर्मास्त्रे प्रतिहृत्य च।
उपसंहृत्य च न्यासमनुयागं समाचरेत् ॥ 94 ॥
मूलम्
अर्घ्याद्यमुपसंहृत्य वर्मास्त्रे प्रतिहृत्य च।
उपसंहृत्य च न्यासमनुयागं समाचरेत् ॥ 94 ॥
टिप्पनी 94
अनुयागः प्रापणावशेषोपयोगो भोजनादिः।
विश्वास-प्रस्तुतिः
अस्रेण तारया प्रोक्ष्य तारया परिषिच्य च।
उपस्तीर्य तया चापो दद्यात् प्राणाहुतीस्तया22 ॥ 95 ॥
मूलम्
अस्रेण तारया प्रोक्ष्य तारया परिषिच्य च।
उपस्तीर्य तया चापो दद्यात् प्राणाहुतीस्तया22 ॥ 95 ॥
टिप्पनी 95
तयोपस्तीर्य; तारया निपीयेत्यर्थः।
विश्वास-प्रस्तुतिः
अदीक्षितस्त्वनुयजंस्तत्तन्मन्त्रानुसंहिताम्।
तारिकामुच्चरन् कुर्यान्मां चान्तःस्थां विभावयेत् ॥ 96 ॥
मूलम्
अदीक्षितस्त्वनुयजंस्तत्तन्मन्त्रानुसंहिताम्।
तारिकामुच्चरन् कुर्यान्मां चान्तःस्थां विभावयेत् ॥ 96 ॥
टिप्पनी 96
पूर्वोक्तं तारया प्रोक्षणपरिषेचनापोशनप्राणाहुत्यादिकं दीक्षितविषयम्। अदीक्षितानां तु तत्तत्सूत्रकृदुक्तमन्त्रैरेव कर्तव्यम्।
विश्वास-प्रस्तुतिः
सोमानन्दमयीं दिव्यां क्रमादन्नात्मतां गताम्।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥ 97 ॥
मूलम्
सोमानन्दमयीं दिव्यां क्रमादन्नात्मतां गताम्।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥ 97 ॥
विश्वास-प्रस्तुतिः
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम्।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥ 98 ॥
मूलम्
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम्।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥ 98 ॥
विश्वास-प्रस्तुतिः
तारिकामुच्चरन् पश्चादपिधायान्नमम्भसा।
आचम्य द्विस्ततो न्यस्येदनुयागं ततो मयि ॥ 99 ॥
मूलम्
तारिकामुच्चरन् पश्चादपिधायान्नमम्भसा।
आचम्य द्विस्ततो न्यस्येदनुयागं ततो मयि ॥ 99 ॥
टिप्पनी 99
अपिधायाम्भसेति। उत्तरापोशनं पीत्वेत्यर्थः।
विश्वास-प्रस्तुतिः
अथ स्वाध्यायमभ्यस्येद् दिनशेषं विचक्षणः।
चतुर्विधानि शास्त्राणि तदुत्थं तारिकादिकम् ॥ 100 ॥
मूलम्
अथ स्वाध्यायमभ्यस्येद् दिनशेषं विचक्षणः।
चतुर्विधानि शास्त्राणि तदुत्थं तारिकादिकम् ॥ 100 ॥
टिप्पनी 100
स्वाध्यायम्; वेददिव्यशास्त्रादिपरिचयम्। चतुर्विधानि—आगमसिद्धान्तमन्त्रसिद्धान्ततन्त्रसिद्धान्ततन्त्रान्तरसिद्धान्तप्रतिपादकानि शास्त्राणि।
विश्वास-प्रस्तुतिः
सिद्धान्तानपि चाशेषानसंलग्नेन चेतसा।
स्वाशयप्रविशुद्ध्यर्थं समीक्षेत धिया स्वया ॥ 101 ॥
मूलम्
सिद्धान्तानपि चाशेषानसंलग्नेन चेतसा।
स्वाशयप्रविशुद्ध्यर्थं समीक्षेत धिया स्वया ॥ 101 ॥
विश्वास-प्रस्तुतिः
संध्यामुपास्य विधिवदभिगम्य च मां धिया।
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा ॥ 102 ॥
मूलम्
संध्यामुपास्य विधिवदभिगम्य च मां धिया।
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा ॥ 102 ॥
विश्वास-प्रस्तुतिः
पूर्वपश्चिमयोर्नक्तं यामयोर्धातुसाम्यवान्।
इति यागविधिः शक्र विस्तरेण प्रदर्शितः ॥ 103 ॥
मूलम्
पूर्वपश्चिमयोर्नक्तं यामयोर्धातुसाम्यवान्।
इति यागविधिः शक्र विस्तरेण प्रदर्शितः ॥ 103 ॥
टिप्पनी 103
नक्तं प्रथमयामः चरमयामश्च योगकालः। मध्ये जायमाना निद्रापि भगवति स्वात्मसमर्पणेन योगरूपा भावनीया।
विश्वास-प्रस्तुतिः
विधानस्य तु संक्षेपं पुनरस्य 23निबोध मे।
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ 104 ॥
मूलम्
विधानस्य तु संक्षेपं पुनरस्य 23निबोध मे।
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ 104 ॥
विश्वास-प्रस्तुतिः
नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम्।
यजेतोभौ सहैवावां सूक्तेन पुरुषेण तु ॥ 105 ॥
मूलम्
नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम्।
यजेतोभौ सहैवावां सूक्तेन पुरुषेण तु ॥ 105 ॥
टिप्पनी 105
अपच्छेदः; विच्छेदः।
विश्वास-प्रस्तुतिः
तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक्।
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत् ॥ 106 ॥
मूलम्
तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक्।
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत् ॥ 106 ॥
विश्वास-प्रस्तुतिः
कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक्।
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः ॥ 107 ॥
मूलम्
कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक्।
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः ॥ 107 ॥
विश्वास-प्रस्तुतिः
तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा।
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम् ॥ 108 ॥
मूलम्
तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा।
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम् ॥ 108 ॥
टिप्पनी 108
शक्नुयादिति। मदाराधनस्य नित्यत्वात् नित्यस्य च यथाशक्त्यनुष्ठानविधानात् यथाशक्ति मामाराधयेदित्यर्थः।
विश्वास-प्रस्तुतिः
तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः।
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत् ॥ 109 ॥
मूलम्
तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः।
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत् ॥ 109 ॥
विश्वास-प्रस्तुतिः
निरामिषस्य शुद्धस्य लब्धलक्ष्यस्य वै पदे।
विक्षोभाय क्रियाः सर्वाः या याः शास्त्रेण दर्शिताः ॥ 110 ॥
मूलम्
निरामिषस्य शुद्धस्य लब्धलक्ष्यस्य वै पदे।
विक्षोभाय क्रियाः सर्वाः या याः शास्त्रेण दर्शिताः ॥ 110 ॥
विश्वास-प्रस्तुतिः
आततस्य च सर्वत्र समतामभ्युपेयुषः।
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम् ॥ 111 ॥
मूलम्
आततस्य च सर्वत्र समतामभ्युपेयुषः।
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम् ॥ 111 ॥
विश्वास-प्रस्तुतिः
अग्नीषोममयौ हित्वा पन्थानौ सार्वलौकिकौ।
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत् ॥ 112 ॥
मूलम्
अग्नीषोममयौ हित्वा पन्थानौ सार्वलौकिकौ।
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत् ॥ 112 ॥
विश्वास-प्रस्तुतिः
लयाग्निदग्धदुर्मार्गः शीतीभूतो निरामयः।
स्थूलसूक्ष्मपरातीतपदाक्रान्तिविचक्षणः ॥ 113 ॥
मूलम्
लयाग्निदग्धदुर्मार्गः शीतीभूतो निरामयः।
स्थूलसूक्ष्मपरातीतपदाक्रान्तिविचक्षणः ॥ 113 ॥
विश्वास-प्रस्तुतिः
पश्यञ्च्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ 114 ॥
मूलम्
पश्यञ्च्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ 114 ॥
विश्वास-प्रस्तुतिः
अकुर्वन्नेव तत् सर्वं मद्भूतो ह्यनिदंमयः।
अवस्थादेशकालाद्यैरनवस्यूतयाखिलैः ॥ 115 ॥
मूलम्
अकुर्वन्नेव तत् सर्वं मद्भूतो ह्यनिदंमयः।
अवस्थादेशकालाद्यैरनवस्यूतयाखिलैः ॥ 115 ॥
टिप्पनी 115
अनवस्यूतयेति। अपरिच्छिन्नयेत्यर्थः।
विश्वास-प्रस्तुतिः
अहंतया समाक्रान्तो धूमपीताग्निपीतवत्।
अनत्रा वर्तमानो हि सूर्याचन्द्रमसोर्द्वयोः ॥ 116 ॥
मूलम्
अहंतया समाक्रान्तो धूमपीताग्निपीतवत्।
अनत्रा वर्तमानो हि सूर्याचन्द्रमसोर्द्वयोः ॥ 116 ॥
टिप्पनी 116
धूमपीतेत्यादि। यथा धूमाग्न्योर्मध्ये वर्तमानो धूमेनाग्निना च संबद्धो भवति, तथा सूर्याचन्द्रमसोरन्तरा वर्तमान इत्यर्थः।
24व्यक्तमुद्दाल्य वै तालु ध्रुवस्थाने निवेशयन्।
मनः शून्यमयं भावमातिष्ठन् लयसंमितम् ॥ 117 ॥
25एवं यो वर्तते योगी 26तारिकामननोद्यतः।
स कर्मठः स वै सांख्यः स योगी स च सात्त्वतः ॥ 118 ॥
विश्वास-प्रस्तुतिः
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः।
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः।
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम् ॥ 119 ॥
मूलम्
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः।
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः।
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम् ॥ 119 ॥
इति 27श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे नित्यविधिप्रकाशो नाम चत्वारिंशोऽध्यायः
इति चत्वारिंशोऽध्यायः
-
सुहृत् A. B.; हृद्भास्वरूपसंस्यूति F. ↩︎
-
अभिगृह्य C. ↩︎
-
आदाय C. ↩︎
-
धारा आस्रावयेत् C. ↩︎
-
F. omits verses 65 to 112. ↩︎
-
व्रीहिभिर्वा A. G. ↩︎
-
विसृज्यैनान् B. ↩︎
-
अर्घ्याञ्जर्लि A. B. G. ↩︎
-
विशेषतः B. G. ↩︎
-
रत्नमुद्दाल्य वा तालं B. C. ↩︎
-
य एवं B. C. F. ↩︎
-
तारिकामनुना A. ↩︎
-
श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎