०३९

विश्वास-प्रस्तुतिः

एकोनचत्वारिंशोऽध्यायः - 39
श्रीः—
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम्।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते ॥ 1 ॥

मूलम्

एकोनचत्वारिंशोऽध्यायः - 39
श्रीः—
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम्।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते ॥ 1 ॥

टिप्पनी 1

तिष्ठते; स्वाशयं प्रकाशयन्ती तिष्ठतीत्यर्थः। प्रकाशनार्थे तङ्।

विश्वास-प्रस्तुतिः

यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः ॥ 2 ॥

मूलम्

यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः ॥ 2 ॥

विश्वास-प्रस्तुतिः

संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ॥ 3 ॥

मूलम्

संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ॥ 3 ॥

टिप्पनी 3

भोगविशेषा उच्यन्ते—मृद्वित्यादिना। भगवदाराधने षडासनानि; यथा—मन्त्रासनम्, स्नानासनम्, अलंकारासनम्, भोज्यासनम्, पुनर्मन्त्रासनम्, पर्यह्कासनं चेति। तत्र प्रथमं मन्त्रासनमत्रोच्यते।

विश्वास-प्रस्तुतिः

अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम्।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् ॥ 4 ॥

मूलम्

अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम्।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् ॥ 4 ॥

टिप्पनी 4

तस्मिन्नासने समर्पणीयानाह—अर्घ्यमित्यादिना। आत्मात्मीयनिवेदनप्रकारमाह पाद्मे (4-3-140)—“दासोऽहं ते जगन्नाथ सपुत्रादिपरिग्रहः। प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्‌क्ष्व हिते सदा॥” इति।

विश्वास-प्रस्तुतिः

अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम्।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः ॥ 5 ॥

मूलम्

अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम्।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः ॥ 5 ॥

टिप्पनी 5

द्वितीयं स्नानासनमत्र। अत्र मन्त्रः सात्त्वते (6-26)—“स्फुटीकृतं मया देव त्विदं स्नानपरे त्वयि। सपादपीठं परमं शुभं स्नानासनं महत्। आसादयाशु स्नानार्थं मदनुग्रहकाम्यया॥” इति।

विश्वास-प्रस्तुतिः

पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ 6 ॥

मूलम्

पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ 6 ॥

टिप्पनी 6

मात्रा च शालिकेति। अक्षताग्रशुभ्रवर्णशालितण्डुलपूर्णपात्रमत्र मात्रापदार्थः। तथा च पाद्मे (4-6-36)—“शालितण्डुलमात्रया” इति। एतच्च मात्रादानमाराधनमध्यापतितवैकल्यपरिहाराय।

विश्वास-प्रस्तुतिः

दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ 7 ॥

मूलम्

दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ 7 ॥

विश्वास-प्रस्तुतिः

हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम्।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ 8 ॥

मूलम्

हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम्।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ 8 ॥

टिप्पनी 8

खलिः मृगमदादिवासनावासितं घनीभूतगन्धतैलकिट्टकम्।

विश्वास-प्रस्तुतिः

उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम्।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा ॥ 9 ॥

मूलम्

उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम्।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा ॥ 9 ॥

टिप्पनी 9

चन्द्रः घनसारः।

विश्वास-प्रस्तुतिः

सुगन्धामलकाभिश्च लोध्रतोयं ततः परम्।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् ॥ 10 ॥

मूलम्

सुगन्धामलकाभिश्च लोध्रतोयं ततः परम्।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् ॥ 10 ॥

विश्वास-प्रस्तुतिः

ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ॥ 11 ॥

मूलम्

ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् ॥ 12 ॥

मूलम्

पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् ॥ 12 ॥

विश्वास-प्रस्तुतिः

स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ॥ 13 ॥

मूलम्

स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ॥ 13 ॥

विश्वास-प्रस्तुतिः

दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा।
स्नानशिष्टाम्बुसंपूर्णं 1हरिद्राशालिसंभृतम् ॥ 14 ॥

मूलम्

दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा।
स्नानशिष्टाम्बुसंपूर्णं 1हरिद्राशालिसंभृतम् ॥ 14 ॥

टिप्पनी 14

स्नपनानन्तरं नीराजनमुच्यते—स्नानशिष्टेति।

विश्वास-प्रस्तुतिः

स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि ॥ 15 ॥

मूलम्

स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि ॥ 15 ॥

टिप्पनी 15

हस्ते; वामहस्ते। अपरत्र; दक्षिणहस्ते।

विश्वास-प्रस्तुतिः

बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ॥ 16 ॥

मूलम्

बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ॥ 16 ॥

विश्वास-प्रस्तुतिः

अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः ॥ 17 ॥

मूलम्

अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः ॥ 17 ॥

टिप्पनी 17

भद्रासनम्; स्नानासनम्।

विश्वास-प्रस्तुतिः

शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ॥ 18 ॥

मूलम्

शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ॥ 18 ॥

टिप्पनी 18

खप्लुतम्; द्वादसान्तस्थितम्। तृतीयमलंकारासनमाह–अलंकारेति।

तत्र सर्वं प्रदातव्यमर्घ्यपाद्यादि पूर्ववत्।
2विवेचनं च केशानां कङ्कतेन प्रशोधनम् ॥ 19 ॥

टिप्पनी 19

कङ्कतं केशप्रसाधनी।

शीर्षण्यास्ताः सुमनसस्ततश्चूडोपकल्पनम्।
3चन्दनाद्याः सुगन्धाश्च व्यजनं शोषणार्थकम् ॥ 20 ॥

विश्वास-प्रस्तुतिः

मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ॥ 21 ॥

मूलम्

मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ॥ 21 ॥

विश्वास-प्रस्तुतिः

पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः ॥ 22 ॥

मूलम्

पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः ॥ 22 ॥

विश्वास-प्रस्तुतिः

तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ॥ 23 ॥

मूलम्

तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ॥ 23 ॥

विश्वास-प्रस्तुतिः

प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् ॥ 24 ॥

मूलम्

प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् ॥ 24 ॥

टिप्पनी 24

चेतनेतरत् वाहनमिति। सुवर्णादिनिर्मितं हस्त्यश्वादि।

विश्वास-प्रस्तुतिः

मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः ॥ 25 ॥

मूलम्

मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः ॥ 25 ॥

विश्वास-प्रस्तुतिः

अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा ॥ 26 ॥

मूलम्

अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा ॥ 26 ॥

टिप्पनी 26

मन्मया इत्यनेनाध्यायादावुक्तो विषयः स्मार्यते। तुरीयं भोज्यासनमुपवर्ण्यते—अथेति।

विश्वास-प्रस्तुतिः

यजेत मधुपर्केण 4यथा तदवधारय।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः ॥ 27 ॥

मूलम्

यजेत मधुपर्केण 4यथा तदवधारय।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः ॥ 27 ॥

टिप्पनी 27

मधुपर्कमाह–पयस इति।

विश्वास-प्रस्तुतिः

पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ॥ 28 ॥

मूलम्

पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ॥ 28 ॥

5अर्हणेनार्चनं पूर्वं ततश्च मधुपर्ककम्।
तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं करे ॥ 29 ॥

टिप्पनी 29

अर्हणमापोशनम्। तर्पणम्; पानीयतीर्थम्। निष्पुंसनम्; हस्तोद्वर्तनम्।

विश्वास-प्रस्तुतिः

देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् ॥ 30 ॥

मूलम्

देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् ॥ 30 ॥

टिप्पनी 30

पुनः मधुपर्कदानसंभावितवैकल्यपरिहाराय गवा मात्रादानमत्रोच्यते।

6प्रदेया अन्नयज्ञार्था मात्राः शाल्यन्ननिर्मिताः।
सकर्पूरं च ताम्बूलं प्रदेयमनुवासनम् ॥ 31 ॥

टिप्पनी 31

पञ्चमे मन्त्रासने समर्पणीयानि ताम्बूलादीनि।

विश्वास-प्रस्तुतिः

ततश्च विश्रमार्थाय विमानं परमाद्भुतम्।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् ॥ 32 ॥

मूलम्

ततश्च विश्रमार्थाय विमानं परमाद्भुतम्।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् ॥ 32 ॥

टिप्पनी 32

षष्ठं पर्यह्कासनमुच्यते—ततश्चेति।

विश्वास-प्रस्तुतिः

जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया ॥ 33 ॥

मूलम्

जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया ॥ 33 ॥

टिप्पनी 33

जपसंख्यागणनोपकरणेष्वक्षमाला प्रशस्ता।

विश्वास-प्रस्तुतिः

प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया ॥ 34 ॥

मूलम्

प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया ॥ 34 ॥

विश्वास-प्रस्तुतिः

वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ॥ 35 ॥

मूलम्

वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ॥ 35 ॥

टिप्पनी 35

जपविशेषो वाचिकादिः।

विश्वास-प्रस्तुतिः

अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः ॥ 36 ॥

मूलम्

अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः ॥ 36 ॥

धात्रीफलास्थिसदृशा मध्यमाः परिकीर्तिताः।
7अधमा बदरास्थ्याभाः श्रेष्ठमष्टशतात्मकम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम्।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि ॥ 38 ॥

मूलम्

तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम्।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि ॥ 38 ॥

टिप्पनी 38

अक्षमालामणिविशेषानाह—सौवर्णमित्यादिना।

विश्वास-प्रस्तुतिः

राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः ॥ 39 ॥

मूलम्

राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः ॥ 39 ॥

विश्वास-प्रस्तुतिः

वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत्।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने ॥ 40 ॥

मूलम्

वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत्।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने ॥ 40 ॥

टिप्पनी 40

रीतिः पित्तललोहविशेषः।

विश्वास-प्रस्तुतिः

आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः8 सर्वो मणिमयो मणिः ॥ 41 ॥

मूलम्

आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः8 सर्वो मणिमयो मणिः ॥ 41 ॥

विश्वास-प्रस्तुतिः

मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये ॥ 42 ॥

मूलम्

मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये ॥ 42 ॥

टिप्पनी 42

सैत्रः; तन्तुनिर्मितः।

विश्वास-प्रस्तुतिः

शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ॥ 43 ॥

मूलम्

शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ॥ 43 ॥

विश्वास-प्रस्तुतिः

आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ॥ 44 ॥

मूलम्

आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ॥ 44 ॥

अस्रेण गन्धतोयेन क्षालयेत्तदनन्तरम्।
9शाणकार्पासजोर्णानां कृत्वा सूत्रं नवं दृढम् ॥ 45 ॥

विश्वास-प्रस्तुतिः

त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम्।
क्षालयित्वास्त्रतोयेन तेनैव ग्रथयेन्मणीन् ॥ 46 ॥

मूलम्

त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम्।
क्षालयित्वास्त्रतोयेन तेनैव ग्रथयेन्मणीन् ॥ 46 ॥

विश्वास-प्रस्तुतिः

अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान्।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम्॥

मूलम्

अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान्।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम्॥

मणिं प्रकल्पयेन्मेरुमक्षमालाविधिस्त्वयम् ॥ 47 ॥
टिप्पनी 47

मेरुः जपसूत्रप्रधानग्रन्थिस्थो बृहन्मणिविशेषः।

इति 10श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो11 नामैकोनचत्वारिंशोऽध्यायः

इत्येकोनचत्वारिंशोऽध्यायः


  1. हरिद्राग्रन्थि B. ↩︎ ↩︎

  2. निवेशनं A. ↩︎

  3. चन्दनाद्यास्तु A. B. ↩︎

  4. यथावत् B. F. ↩︎ ↩︎

  5. अर्हणं चार्चनं B. ↩︎

  6. B. C. F. omit four lines from here. ↩︎

  7. अथवा A. ↩︎

  8. वृद्ध्यर्थः C. ↩︎ ↩︎

  9. B. omits four lines from here. ↩︎

  10. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎

  11. बहिर्यागो A. ↩︎