विश्वास-प्रस्तुतिः
अष्टत्रिंशोऽध्यायः - 38
श्रीः—
एको नारायणो देवः पूर्णषाड्गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥
मूलम्
अष्टत्रिंशोऽध्यायः - 38
श्रीः—
एको नारायणो देवः पूर्णषाड्गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥
विश्वास-प्रस्तुतिः
साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये1 तथा शृणु ॥ 2 ॥

प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्2 ॥ 3 ॥

पूर्णस्तिमितषाड्गुण्यं मया 3शक्त्याभिपूरितम्।
तारकं 4तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत् ॥ 4 ॥

आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन्।
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम् ॥ 5 ॥

टिप्पनी 5
पुंलिङ्गं मन्त्रमिति। प्रणवमित्यर्थः।
5उच्चरन् परमं मन्त्रं रेचकेन शनैः शनैः।
अग्नीषोमद्वयान्तः स्थवर्त्मना नासिकोदरात् ॥ 6 ॥
विश्वास-प्रस्तुतिः
दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत्।
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम् ॥ 7 ॥

टिप्पनी 7
अनाहतं हृदयस्थं द्वादशदलं पद्मम्।
विश्वास-प्रस्तुतिः
निर्गतं तु स्मरेद्देवं विद्युत्पुञ्चमिवाम्बुदात्।
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत् ॥ 8 ॥

संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् ॥ 9 ॥

टिप्पनी 9
संनिध्यादीनां मुद्रा अनन्तरमेव वक्ष्यन्ते।
विश्वास-प्रस्तुतिः
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत् ॥ 10 ॥

अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा6।
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा ॥ 11 ॥

कृत्वा चतसृभिर्मुष्टिमङ्गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि ॥ 12 ॥

अङ्गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत्।
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन् ॥ 13 ॥

कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा ॥ 14 ॥

टिप्पनी 14
कालमिति। काले इत्यर्थः। अत्यन्तसंयोगे द्वितीया।
विश्वास-प्रस्तुतिः
अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः।
स्मरेच्छास्त्रीयसंस्थानं सानुकम्पं सुसंमुखम् ॥ 15 ॥

टिप्पनी 15
सानुकम्पं सुसंमुखमिति च हरिविशेषणम्।
विश्वास-प्रस्तुतिः
क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ 16 ॥

तत्रस्थां तां स्मरेत् साक्षादाददानो हरिर्यथा।
7आहूतस्य ततः सार्घ्यं पुष्पाणां पूर्णमञ्जलिम् ॥ 17 ॥
टिप्पनी 17
आहूतस्येति। सांनिध्यं प्रापितस्येत्यर्थः।
विश्वास-प्रस्तुतिः
विक्षिप्याधोमुखैनैव पाणियुग्मेन मूर्धनि।
तारेण तारया द्वाभ्यां 8नमसा चार्चयेत् क्रमात् ॥ 18 ॥

पुष्पार्घ्यधूपलेपैस्तु9 मूलमन्त्रादिभिः क्रमात्।
संक्षेपं विस्तरं चापि यथाकालं समाचरेत् ॥ 19 ॥

टिप्पनी 19
लेपः चन्दनाद्यनुलेपः।
विश्वास-प्रस्तुतिः
शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम्।
तारया पूजयेत् पस्चात्तत्तदङ्गेषु देवताः ॥ 20 ॥

टिप्पनी 20
अनूपमाम्; अनुपमामित्यर्थः।
विश्वास-प्रस्तुतिः
अस्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत्।
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः ॥ 21 ॥

ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात्।
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम् ॥ 22 ॥

षाड्गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम्।
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम् ॥ 23 ॥

कृपया साधकार्थाय स्वयं साकारतां गताम्।
अविहायैव10 तं देवमाकारं पृथगेयुषीम् ॥ 24 ॥

उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् ॥ 25 ॥

वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् ॥ 26 ॥

11तस्यां लयप्रकारेण मयि सर्वं यजेत् क्रमात्।
ततो विनिःसृतं मत्तः स्मरेच्छक्त्यादिकं क्रमात् ॥ 27 ॥
विश्वास-प्रस्तुतिः
ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु ॥ 28 ॥

मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत्।
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम् ॥ 29 ॥

प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम्।
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम् ॥ 30 ॥

श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम्।
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम् ॥ 31 ॥

प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम्।
चलद्विरेफपटलरमणीयालकावलिम्12 ॥ 32 ॥

लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् ॥ 33 ॥

पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् ॥ 34 ॥

स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम्।
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा ॥ 35 ॥

कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम्।
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम् ॥ 36 ॥

मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम्।
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम् ॥ 37 ॥

मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे ॥ 38 ॥

शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे।
मध्यपद्मपुरःपत्रे नेत्रमस्रं तु कोणके ॥ 39 ॥

नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत्।
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रबुम् ॥ 40 ॥

स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले।
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये ॥ 41 ॥

अस्रस्य पृष्ठतो नागान् स्मरेत् पीयूषवर्ष्मणः13।
14गुल्गुलुं च गुरुण्यं च मदनं 15शललं तथा ॥ 42 ॥
टिप्पनी 42
गुल्गुल्वादयः नागानां संज्ञाः।
16सुधाकुम्भकरान् शङ्खकुन्दगौरांश्चतूरदान्।
लक्ष्मीकमलपत्रेषु सर्वतः सौस्तुभं न्यसेत् ॥ 43 ॥
विश्वास-प्रस्तुतिः
हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् ॥ 44 ॥

जयापङ्कजपत्रेषु 17वर्म पद्मदलेषु च।
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये ॥ 45 ॥

शिरःपङ्कजपत्रेषु 18न्यसेदङ्कुशमुत्तमम्।
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम् ॥ 46 ॥

नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत्।
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम् ॥ 47 ॥

श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम्।
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम् ॥ 48 ॥

पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम्।
उदीच्यद्वारमद्ये तु शंकरीं मधुदीधितिम् ॥ 49 ॥

प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः19।
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान् ॥ 50 ॥

अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत् ॥ 51 ॥

सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रबुम्।
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात् ॥ 52 ॥

अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर।
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम् ॥ 53 ॥

शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् ॥ 54 ॥

तुषारनिचयाकारं नीलवस्त्रं चतुर्भुजम्।
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम् ॥ 55 ॥

टिप्पनी 55
सौनन्दकः कामपालस्य गदा।
विश्वास-प्रस्तुतिः
वरदाभयहस्तं च निमग्नोद्धरणक्षमम्।
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम् ॥ 56 ॥

शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम् ॥ 57 ॥

खड्गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः ॥ 58 ॥

पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम्।
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः ॥ 59 ॥

सितशोणितवर्णाङ्गं शुक्लवस्त्रं चतुर्भुजम्।
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम् ॥ 60 ॥

हृन्मुद्रालंकृतकरं वामेनाभयदं सदा।
सिताभरणवस्राढ्यं कर्पूरालिप्तविग्रहम् ॥ 61 ॥

आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः।
वन्धुजीवोपमं रक्तं पद्मचक्रधरं परम् ॥ 62 ॥

काकालिकज्जलश्यामं पद्मकौमोदकीधरम्।
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम् ॥ 63 ॥

टिप्पनी 63
काक इव, अलिरिव, कज्जलमिव च श्यामः ; तमित्यर्थः। अथवा काकालिः अत्यन्तकृष्णवर्णः काकविशेषः।
विश्वास-प्रस्तुतिः
लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम्।
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम् ॥ 64 ॥

हरिद्रारुणसंकाशं गदापद्मधरं क्रमात्।
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम् ॥ 65 ॥

20सौवर्णाम्बरभूषाढ्यं प्रलयानलविक्रमम्।
आवयोः संमुखासीनं स्मरेदस्रं महोद्यमम् ॥ 66 ॥
विश्वास-प्रस्तुतिः
नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः।
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः ॥ 67 ॥

इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम्।
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम् ॥ 68 ॥

प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि।
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम् ॥ 69 ॥

टिप्पनी 69
वनमालामिति। ध्यायेदिति शेषः।
विश्वास-प्रस्तुतिः
प्रौढस्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः।
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम् ॥ 70 ॥

द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत्।
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम्21 ॥ 71 ॥

द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्22 ॥ 72 ॥

टिप्पनी 72
याम्यहस्तेन। दक्षिणहस्तेनेत्यर्थः।
विश्वास-प्रस्तुतिः
संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम्।
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम् ॥ 73 ॥

प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि ॥ 74 ॥

टिप्पनी 74
द्वारपालिकाः बलाकिकादयः पूर्वं 47,48,49 श्लोकेषूक्ताः।
विश्वास-प्रस्तुतिः
शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये ॥ 75 ॥

द्वाराग्रस्थं ततो ध्यायेद्गरुडं बीमलोचनम्।
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम् ॥ 76 ॥

पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम्।
इति ते परिवाराणां ध्यानमुक्तं समासतः ॥ 77 ॥

आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम्।
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम् ॥ 78 ॥

तदूर्ध्वे तु परां तारां पूर्णषाड्गुण्यचिन्मयीम्।
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम् ॥ 79 ॥

सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता ॥ 80 ॥

प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् ॥ 81 ॥

भावेन तत्त्वतो बुद्ध्वा यथान्यासं 23समर्चयेत्।
आदितः सकलावासावर्चयेन्नौ धियानघौ ॥ 82 ॥

अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित्।
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत् ॥ 83 ॥

सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः।
भोगयागक्रमेणायं24 न्यासस्ते शक्र दर्शितः।
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे ॥ 84 ॥

इति 25श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बहिर्यागप्रकाशो नामाष्टत्रिंशोऽध्यायः
इत्यष्टत्रिंशोऽध्यायः