विश्वास-प्रस्तुतिः
सप्तत्रिंशोऽध्यायः - 37
श्रीः—
बहिर्वेद्यादिदेशस्थद्रव्यैर्मद्भावनेक्षितैः।
भोगभूतैर्यदिज्येऽहं बहिर्यागस्तु स स्मृतः ॥ 1 ॥
मूलम्

टिप्पनी 1
मद्भावनेक्षितैरिति। मदात्मना भावितैरित्यर्थः। भोगभूतैरिति। भोगभूतैरिति। भोगोपकरणैरित्यर्थः।
विश्वास-प्रस्तुतिः
वासना द्विविधा प्रोक्ता बाह्याभ्यन्तरहेतुजा।
निर्णुदत्यान्तराः सर्वा मानसो याग उत्तमः ॥ 2 ॥

बाह्याशयविशुद्ध्यर्थं बाह्ययागो विधीयते।
शास्त्रीयां क्षितिमास्थाय मण्डपे तत्र मण्डिते ॥ 3 ॥

टिप्पनी 3
आशयः; वासना। ब्रह्मस्थाने; ब्रब्रभावनाभाविते इत्यर्थः।
विश्वास-प्रस्तुतिः
ब्रह्मस्थाने विधायाथ वेदिं सर्वगुणान्विताम्।
अष्टहस्तं तदर्धं वा तदर्धं वापि साधितम् ॥ 4 ॥

प्रागन्तं सुसितं सूत्रं वेदिमध्ये प्रसारयेत्।
तस्मिन्रुभयतः पार्श्वे1 मध्यतश्चार्धमध्ययोः ॥ 5 ॥

विधाय त्रीणि चिह्नानि पञ्च शङ्कून् निखानयेत्।
अन्त्ययोस्रिषु मध्येषु शङ्क्वोस्तत्र ह्युपान्त्ययोः ॥ 6 ॥

सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत्।
2पाशौ द्वौ प्रतिमुच्याथ मध्यचिह्नं समानयेत् ॥ 7 ॥
विश्वास-प्रस्तुतिः
सव्ये चाप्यपसव्ये च तत्र चिह्ने विधाय च।
मध्यमे प्रतिमुच्य द्वे सूत्रमध्यं समानयेत् ॥ 8 ॥

चिह्नस्योपरि देशे च3 क्रमात् सव्यापसव्ययोः।
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत् ॥ 9 ॥

पूर्वस्मिन् प्रतिमुच्यैकं पाशं दक्षिणतोऽपरम्।
कुर्यात् प्रदक्षिणं कोणं मध्यचिह्नेऽनयोस्ततः ॥ 10 ॥

4ऐशकोणं तथा5 कुर्यात् प्रतिमुच्योत्तरत्र तु।
प्रतीच्ययाम्ययोरेवं प्रतीच्योदीच्ययोरपि ॥ 11 ॥
विश्वास-प्रस्तुतिः
प्रतिमुच्य क्रमात् पाशौ कुर्यात् कौणौ तथा परौ।
तत्क्षेत्रस्फुटतायै तु सूत्रयेत्तु चतुर्दिशम् ॥ 12 ॥

भक्ते षोडशधा क्षेत्रे चतुर्भिर्मध्यमैः पदैः।
प्रागादिकैः प्रदेशैश्च विदधीत नवाम्बुजम् ॥ 13 ॥

टिप्पनी 13
भक्ते; विभाजित इत्यर्थः।
विश्वास-प्रस्तुतिः
मद्यमं कमलं कार्यमष्टपत्रं यथा शृणु।
चतुर्धा भ्रामयेत् क्षेत्रं वर्जयित्वाष्टमं6 बहिः ॥ 14 ॥

कर्णिका केसरं पत्रसंधिः पर्वेति च क्रमात्।
चत्वार्यंशप्रमाणानि त्यक्तोंऽशो व्योम तद्बहिः ॥ 15 ॥

तस्मिन् सूत्राष्टकं पद्मे दिग्विदिक्संस्थितं क्षिपेत्।
सूत्राणामन्तरे भूयः क्षिपेत् सूत्राष्टकं तथा ॥ 16 ॥

पद्मसंधिस्थसूत्रेण दिक्क्रमेण दलाष्टकम्।
सहजाः7 सुचिता रेखा व्योमरेखागणाः स्मृताः ॥ 17 ॥

पद्मान्तराणामष्टानामेवमेव विधा भवेत्।
एवं पुरवरं रम्यं 8नवपद्मसुलक्षणम् ॥ 18 ॥

बहिर्द्वारयुतं कार्यं कोणशोभादिसंयुतम्।
चतुर्वर्णयुतं कार्यं कर्णिकादिविभक्तये ॥ 19 ॥

टिप्पनी 19
कर्णिकादीत्यादिपदेन केसरपत्रसन्धिपर्वाणि गृह्यन्ते।
विश्वास-प्रस्तुतिः
पौष्पे वा प्रस्तरे वास्त्रे सुसिते वाथ धूपिते।
अहते गन्धयुक्तेऽथ स्थण्डिले वोपलेपिते ॥ 20 ॥

टिप्पनी 20
मण्डलमिव पुष्पप्रस्तरादिकमपि पूजास्थानतया ग्राह्यम्।
9यजन् कार्यवशान्मन्त्री नवपद्मं विचिन्तयेत्।
कुर्याच्चाध्यानमार्गस्थां प्रतिमां शास्त्रदर्शनात् ॥ 21 ॥
सौवर्णए 10राजताद्ये वा दृढे कालादिवर्जिते।
11आराधयेद् घटे पूर्णे दध्ना क्षीरेण वारिणआ ॥ 22 ॥
विश्वास-प्रस्तुतिः
प्रशस्तपल्लवाक्रान्ते वस्रपट्टादिसंयुते।
विभाव्य नवपद्मं तु पूजयेन्मन्त्रवित्तमः ॥ 23 ॥

घटे पुरे तथार्चायां यद्वा मन्त्री क्रमाद्यजेत्।
सर्वलोकमयं सर्वगीर्वाणाश्रयमुत्तमम् ॥ 24 ॥

सर्वाधारमयं ध्यायेन्नवपद्मं पुरोत्तमम्।
12तारिकाख्यानमःशब्दैरर्च्यमर्घ्यादिना ततः ॥ 25 ॥
विश्वास-प्रस्तुतिः
ततः पात्रचतुष्कं तु हेमादिद्रव्यनिर्मितम्।
पूताम्बु पूर्णं गन्धस्रग्रत्नौषधिकुशोदकैः ॥ 26 ॥

टिप्पनी 26
पूर्वमर्घ्यादिनेत्युक्तं विशदयति—तत इति।
वेद्यामर्चापुरःस्थायां न्यसेत् कोणचतुष्कके।
13यातवीयादिवह्न्यन्ते क्रमादेव प्रकल्पयेत् ॥ 27 ॥
टिप्पनी 27
न्यसेदिति। अर्ध्यादिपात्रत्वेनेति शेषः। यातवीयादीति। नैर्ऋत्याद्याग्नेयान्तकोणेष्वित्यर्थः।
विश्वास-प्रस्तुतिः
अर्घ्यमाचमनीयं च पाद्यं स्नानीयमेव च।
कल्पयेत् क्रमशो मन्त्री मन्त्रानेतानुदीरयन् ॥ 28 ॥

तारं च कल्पयामीति मध्ये संज्ञाः स्युरञ्जसा।
14अनेकार्थं च तत्रार्घ्यं कल्प्यं पात्रेऽथ मध्यतः ॥ 29 ॥
टिप्पनी 29
ओं अर्घ्यं परिकल्पयामीत्यादिक्रमेणेति भावः। अनेकार्थमिति। सर्वार्थतोयमिति तस्य सांप्रदायिकी प्रसिद्धिः।
विश्वास-प्रस्तुतिः
सिद्धार्थकास्तिला दूर्वाः सयवाः सिततण्डुलाः।
तोयक्षीरफलोपेता अर्घ्यद्रव्यमुदाहृतम् ॥ 30 ॥

पात्रं तारिकयापूर्य सुधासंदोहदेहया।
तस्मिन्निष्कलसंस्थाने मन्त्रचक्रं विचिन्तयेत् ॥ 31 ॥

निष्कलं मध्यमार्घ्यं तु पूज्य पुष्पादिना पुरा।
भावनीयं च तत् सम्यगग्नीषोममयात्मना ॥ 32 ॥

टिप्पनी 32
पूज्य ; पूजयित्वा। भावनीयम्; ध्येयम्।
विश्वास-प्रस्तुतिः
एष प्रथमसंस्कारो द्वितीयमवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्तु तत् ॥ 33 ॥

टिप्पनी 33
द्वितीयमिति। दाहनप्लावनादिरूपं वक्ष्यमाणमित्यर्थः। दहेदिति। शोषणपूर्वकं दहेदिति संप्रदायः।
विश्वास-प्रस्तुतिः
निर्वापयेत्ततो दग्धं शीतपूर्णेन्दुरश्मिभिः।
ब्रह्मानन्दामृताम्भोधिकल्लोलैः पूरयेत्तु तत् ॥ 34 ॥

अभिमन्त्र्य तु मुख्यैस्तन्मनुबिस्तारिकादिभिः।
ततो जलमुपादाय न्यसेत् पात्रान्तरेषु तु ॥ 35 ॥

टिप्पनी 35
तत इति। संस्कृततोयपूर्णात् पात्रादित्यर्थः।
विश्वास-प्रस्तुतिः
प्रतिस्वमपि वा कुर्यादीदृशं संस्कृतिक्रमम्।
आप्यायनं च पात्राणां प्रीतिं चास्मात् समाचरेत् ॥ 36 ॥

टिप्पनी 36
प्रतिस्वमिति। प्रत्येकमर्घ्यादिपात्रमित्यर्थः।
विश्वास-प्रस्तुतिः
मुद्रा कामदुघा कार्या सौरभेयी स्वमन्त्रतः।
सुरभिं हिमशैलाभां निराधारपदे स्थिताम् ॥ 37 ॥

ध्यात्वा तत्स्तनसंकाशां मुद्रां तां परिदर्शयेत्।
कराभ्यां गन्धदिग्धाभ्यां सावधानेन चेतसा ॥ 38 ॥

अर्ग्यपात्राम्भसा प्रोक्ष्य मण्डलं मण्डपं तथा।
यागद्रव्याण्यशेषाणि ताडयेदस्रमन्त्रतः ॥ 39 ॥

टिप्पनी 39
अस्रेति। ओं वीर्यायास्त्राय फडिति मन्त्रेणेत्यर्थः।
विश्वास-प्रस्तुतिः
मूलेनाप्लावयेत् पश्चात्तत् सर्वं भोगतां व्रजेत्।
ततो विष्णुं नमस्कृत्य तदङ्कस्थां च पङ्कजाम् ॥ 40 ॥

टिप्पनी 40
मूलेन; मूलमन्त्रेणेत्यर्थः।
विश्वास-प्रस्तुतिः
अर्चयेन्मूलमन्त्रेण 15ह्यामुक्तकुसुमादिभिः।
अर्घ्यपात्रमथादाय पुष्पं धूपं विलेपनम् ॥ 41 ॥

टिप्पनी 41
आमुक्तेति। अग्रथितैः विरलैरित्यर्थः।
विश्वास-प्रस्तुतिः
दीपं नैवेद्यमप्येवं द्वारयागं ततश्चरेत्।
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ 42 ॥

टिप्पनी 42
उदुम्बरशब्दो द्वारस्योर्ध्वाधः प्रदेशनिक्षिप्तदार्वोर्वर्तते।
विश्वास-प्रस्तुतिः
भूमिष्ठं क्षेत्रपालं तु यजेद्ध्यानादिसंयुतम्।
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् ॥ 43 ॥

टिप्पनी 43
क्षेत्रपालरूपमाह–नीलेति।
विश्वास-प्रस्तुतिः
मुष्टिकृद्वामहस्तेन ध्येयः क्षेत्रेश्वरः सदा।
मुद्रा च दर्शनीयात्र परेष्वेवं विधिः क्रमात् ॥ 44 ॥

द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे।
पङ्केरुहकरां लक्ष्मीं पद्मोपरिगतां यजेत् ॥ 45 ॥

दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ 46 ॥

टिप्पनी 46
शाखा द्वारस्य पार्श्वदारुखण्डः।
विश्वास-प्रस्तुतिः
चण्डाद्या विजयान्ताश्च16 सर्वे ज्ञेयाश्चतुर्भुजाः।
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः ॥ 47 ॥

तर्जयन्तो ह्यभक्तांश्च दोषाणां ध्वंसनोद्यताः।
इत्थं ध्येयाः समभ्यर्च्य दर्शनीयाश्च मुद्रिकाः ॥ 48 ॥

टिप्पनी 48
अभक्तान्। देवाभक्तानित्यर्थः।
विश्वास-प्रस्तुतिः
शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात्।
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ॥ 49 ॥

टिप्पनी 49
शाखाद्वयस्य; द्वारपार्श्वदारुखण्डद्वयस्य।
विश्वास-प्रस्तुतिः
हस्ताभ्यां दधती कुम्भं 17तीर्थेन परिपूरितम्।
नवयौवनलावण्या श्वेतरूपा स्मितानना ॥ 50 ॥

टिप्पनी 50
गङ्गायमुनयोः रूपमुच्यते—हस्ताब्यामित्यादिना।
विश्वास-प्रस्तुतिः
गङ्गा ध्येया प्रसन्ना च पूर्णचन्द्रनिभानना।
तादृशी नीलजीमूतसंनिभा यमुना नदी ॥ 51 ॥

तेनैव क्रमयोगेन द्वारस्याभ्यन्तरे18 स्थितौ।
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् ॥ 52 ॥

निधीशौ भावनीयौ तौ निधिभाण्डोपरिस्थितौ।
स्थूलोदरौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ॥ 53 ॥

कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम्।
अङ्गुष्ठतर्जनीमध्यात्रितयेनास्त्रमन्त्रतः ॥ 54 ॥

आदाय चाभिमन्त्र्याथ चक्रं तदुपरि स्मरेत्।
निशितारं ज्वलद्रूपं प्रवर्षदनलाशनि ॥ 55 ॥

क्षयकृद्विघ्नजालानां न्यसेद्यागगृहान्तरे।
दक्षिणां तर्जनीं कुर्यात् सम्यगूर्ध्वमुखीं ततः ॥ 56 ॥

शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम्।
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् ॥ 57 ॥

अर्घ्यपात्राम्भसास्त्रेण प्रोक्षयेत् स्वकमासनम्।
तस्मिन्नाधारशक्त्यादि मान्त्रमासनमर्चयेत् ॥ 58 ॥

तां तां प्रदर्शयेन्मुद्रां यत्र यत्र च या च या।
तत्रोपविश्य देवेशमर्चयेद्धृदये स्थितम् ॥ 59 ॥

लक्ष्मीनारायणाख्यं तद्धृद्गतं परमं महः।
दांपत्यमनपायं तद्यापयेन्नेत्रयोर्द्वयोः ॥ 60 ॥

टिप्पनी 60
यापयेत्। गमयेदित्यर्थः।
विश्वास-प्रस्तुतिः
सर्वं तद्भावमापाद्य पश्येन्निस्चललोचनः।
मण्डपे वेदिकायां वा यत्र वा यष्टुमिच्छति ॥ 61 ॥

अर्घ्यपुष्पादिभिः पूज्यमाधारादिकमासनम्।
धर्मादिकान् यजेत् पश्चात्तत्तद्दिग्भागगोचरान् ॥ 62 ॥

पद्मार्कमण्डलांश्चैव ततो भावासनावधि।
उपर्युपरि योगेन ध्यात्वा पुष्पादिनार्चयेत् ॥ 63 ॥

19मण्डलस्थस्य देवस्य दक्षिणे मण्डलोपरि।
कृतादियुगपर्यन्ते वायोरीशावधि क्रमात् ॥ 64 ॥
विश्वास-प्रस्तुतिः
विभज्य सप्तधा क्षेत्रमादौ गणपतिं यजेत्।
पद्मासनोपविष्टं तत्केसरे तु दलेऽम्बुजे20 ॥ 65 ॥

दधानं चोर्ध्वबाहुभ्यामक्षसूत्रपरश्वथौ।
वरदाभयमुद्रे च पूर्वहस्तद्वयेन तु ॥ 66 ॥

किंतु 21मुद्रा विचिन्त्यैवं वरदाभयहस्तयोः।
तर्जन्यङ्गुष्ठसंसर्गाद् व्याख्यामुद्रासमाकृतिः ॥ 67 ॥

पीनं लम्बोदरं स्थूलमेकदंष्ट्रं गजाननम्।
केसरेष्वङ्गषट्कं च षट्सु पद्मस्य विन्यसेत् ॥ 68 ॥

स्वमन्त्रेणार्चयेन्मुद्रां बद्ध्वा पुष्पादिना सुधीः।
ततो वागीश्वरीं देवीं स्वमन्त्रेणार्चयेत्सुधीः ॥ 69 ॥

सूर्येन्दुवह्निबिम्बस्थसितपङ्केरुहासनाम्।
सर्वोपाधिविनिर्मुक्तामपि साकारतां गताम् ॥ 70 ॥

शक्तिं शब्दात्मिकां साक्षान्मदीयां प्रथमोद्गताम्22।
द्विनेत्रां द्विभुजां श्वेतां शङ्खपङ्कजधारिणीम् ॥ 71 ॥

स्फुरत्पीयूषकल्लोलसदृशाभरणाम्बराम्।
ततो गुरुं तद्गुरुं च लोकसिद्धाकृती च तौ ॥ 72 ॥

लोकसिद्धाकृतिं पश्चात् तद्गुरुं परमेष्ठिनम्।
ततः पितृगणः पूज्यो ह्यमूर्तः पिण्डसंनिभः ॥ 73 ॥

आदिसिद्धान् यजेत् पस्चाद्भगवद्ध्यानतत्परान्।
शान्तान् निमीलिताक्षांश्च शुभाङ्गांस्तेजसाधिकान् ॥ 74 ॥

अनुज्ञां प्राप्य तेभ्यश्च लब्धानुज्ञो यथाक्रमम्।
आवाह्य मां यजेत् पश्चाद्देवदेवाङ्कसंस्थिताम्॥

टिप्पनी 75
अनुज्ञां प्राप्येति। गुरुपरमगुर्वादीनामनुज्ञां प्राप्तामनुसंधायेत्यर्थः।
इति 23श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे बाह्ययागप्रकाशो नाम सप्तत्रिंशोऽध्यायः
इति सप्तत्रिंशोऽध्यायः