विश्वास-प्रस्तुतिः
षट्त्रिंशोऽध्यायः - 36
श्रीः—
ब्रह्मानन्दमयी शक्र भोगैर्यत् पारमार्थिकैः।
इज्येयं हृदयान्तःस्था सोऽन्तर्याग इति स्मृतः ॥ 1 ॥
मूलम्
षट्त्रिंशोऽध्यायः - 36
श्रीः—
ब्रह्मानन्दमयी शक्र भोगैर्यत् पारमार्थिकैः।
इज्येयं हृदयान्तःस्था सोऽन्तर्याग इति स्मृतः ॥ 1 ॥
विश्वास-प्रस्तुतिः
पद्मं वा स्वस्तिकं वापि बद्ध्वा योन्यासनं तु वा।
नाभिमेढ्रान्तरे ध्यायेच्छक्तिमाधाररूपिणीम् ॥ 2 ॥
मूलम्
पद्मं वा स्वस्तिकं वापि बद्ध्वा योन्यासनं तु वा।
नाभिमेढ्रान्तरे ध्यायेच्छक्तिमाधाररूपिणीम् ॥ 2 ॥
टिप्पनी 2
आधारशक्तिस्थानमुच्यते—नाभीत्यादिना।
विश्वास-प्रस्तुतिः
देवीं केनाप्यनादेयां नीरूपां ज्योतिरात्मिकाम्।
तदूर्ध्वे कालकूर्मं तु विमलं दीप्तविग्रहम् ॥ 3 ॥
मूलम्
देवीं केनाप्यनादेयां नीरूपां ज्योतिरात्मिकाम्।
तदूर्ध्वे कालकूर्मं तु विमलं दीप्तविग्रहम् ॥ 3 ॥
टिप्पनी 3
तदूर्ध्वे इति। आधारशक्तेरूर्ध्वभाग इत्यर्थः।
विश्वास-प्रस्तुतिः
कूर्माकारं परं देवं शङ्खचक्रगदाधरम्।
तस्य चोपरि नागेन्द्रं पूर्णचन्द्रनिभाननम् ॥ 4 ॥
मूलम्
कूर्माकारं परं देवं शङ्खचक्रगदाधरम्।
तस्य चोपरि नागेन्द्रं पूर्णचन्द्रनिभाननम् ॥ 4 ॥
टिप्पनी 4
तस्येति। कूर्मस्योपरीत्यर्थः।
विश्वास-प्रस्तुतिः
फणासहस्रसंपूर्णं मदाघूर्णितलोचनम्।
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् ॥ 5 ॥
मूलम्
फणासहस्रसंपूर्णं मदाघूर्णितलोचनम्।
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् ॥ 5 ॥
विश्वास-प्रस्तुतिः
तदूर्ध्वं 1वसुधां देवीं कुङ्कुमक्षोदसंनिभाम्।
हेमरत्नविचित्राङ्गीं प्रसन्नवदनेक्षणाम् ॥ 6 ॥
मूलम्
तदूर्ध्वं 1वसुधां देवीं कुङ्कुमक्षोदसंनिभाम्।
हेमरत्नविचित्राङ्गीं प्रसन्नवदनेक्षणाम् ॥ 6 ॥
टिप्पनी 6
तदूर्ध्वमिति। नागेन्द्रासनादूर्ध्वमित्यर्थः।
विश्वास-प्रस्तुतिः
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत्।
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते ॥ 7 ॥
मूलम्
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत्।
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते ॥ 7 ॥
टिप्पनी 7
संस्मरन्तीमिति। ध्यायन्तीमित्यर्थः।
विश्वास-प्रस्तुतिः
एवमाधारशक्त्यादिदेवताः संस्मरेदिमाः2।
नाभौ क्षीरार्णवं ध्यायेत् कुन्देन्दुधवलाकृतिम् ॥ 8 ॥
मूलम्
एवमाधारशक्त्यादिदेवताः संस्मरेदिमाः2।
नाभौ क्षीरार्णवं ध्यायेत् कुन्देन्दुधवलाकृतिम् ॥ 8 ॥
विश्वास-प्रस्तुतिः
स्रोतोरश्मिभिराकीर्णं पूर्णचन्द्रनिभाननम्।
गम्भीरविग्रहं ध्यायेद्रूपवन्तमरूपिणम् ॥ 9 ॥
मूलम्
स्रोतोरश्मिभिराकीर्णं पूर्णचन्द्रनिभाननम्।
गम्भीरविग्रहं ध्यायेद्रूपवन्तमरूपिणम् ॥ 9 ॥
विश्वास-प्रस्तुतिः
ततः समुत्थितं पद्मं ध्यायेत् क्षीरार्णवोदरात्।
प्रशान्तपावकाकारमुदयादित्यवर्चसम् ॥ 10 ॥
मूलम्
ततः समुत्थितं पद्मं ध्यायेत् क्षीरार्णवोदरात्।
प्रशान्तपावकाकारमुदयादित्यवर्चसम् ॥ 10 ॥
विश्वास-प्रस्तुतिः
लम्बोदरं हसन्तं च सितदन्तं शुभाननम्।
द्विभुजं वेष्टितं शश्वच्छुभैर्विविधषट्पदैः ॥ 11 ॥
मूलम्
लम्बोदरं हसन्तं च सितदन्तं शुभाननम्।
द्विभुजं वेष्टितं शश्वच्छुभैर्विविधषट्पदैः ॥ 11 ॥
विश्वास-प्रस्तुतिः
सहस्रदलसंपन्नं3 सहस्रकिरणावृतम्।
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ॥ 12 ॥
मूलम्
सहस्रदलसंपन्नं3 सहस्रकिरणावृतम्।
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ॥ 12 ॥
टिप्पनी 12
तत्पृष्ठ इति। पद्मपृष्ठ इत्यर्तः। न्यसेत्; न्यस्तं ध्यायेदित्यर्थः।
विश्वास-प्रस्तुतिः
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमादिमान्।
आसनस्य स्मरेत् पादानाग्नेयादिविदिग्गतान्4 ॥ 13 ॥
मूलम्
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमादिमान्।
आसनस्य स्मरेत् पादानाग्नेयादिविदिग्गतान्4 ॥ 13 ॥
टिप्पनी 13
आसनस्य पादाः धर्मज्ञानादयः आग्नेयादिविदिक्षु ज्ञेयाः।
5पुरुषाकृतयः सर्वे सिताः सिंहानना इमे।
महोत्साहा महावीर्या मद्धारणकृतोद्यमाः ॥ 14 ॥
विश्वास-प्रस्तुतिः
पूर्वादिदिग्गता ज्ञेया धर्मादीनां विपर्ययाः।
अधर्मं च तथाज्ञानमवैराग्यमनैस्वरम् ॥ 15 ॥
मूलम्
पूर्वादिदिग्गता ज्ञेया धर्मादीनां विपर्ययाः।
अधर्मं च तथाज्ञानमवैराग्यमनैस्वरम् ॥ 15 ॥
टिप्पनी 15
विपर्ययाः अधर्माज्ञानादयः प्रागादिदिक्षु।
विश्वास-प्रस्तुतिः
पुरुषाकृतयश्चेमे बन्धूककुसुमोपमाः।
प्रागीशानदिशोर्मध्ये प्रागाग्नेयदिगन्तरे ॥ 16 ॥
मूलम्
पुरुषाकृतयश्चेमे बन्धूककुसुमोपमाः।
प्रागीशानदिशोर्मध्ये प्रागाग्नेयदिगन्तरे ॥ 16 ॥
यातवीवारुणीमध्ये पाशिवायुदिगन्तरे।
6ऋग्वेदाद्यं चतुष्कं च पीतं हयनराकृति ॥ 17 ॥
टिप्पनी 17
यातवी निर्ऋतिदिक्। पाशी वरुणः।
विश्वास-प्रस्तुतिः
ईशानसोमदिङ्मध्ये वह्न्यन्तकदिगन्तरे।
राक्षसान्तकदिङ्मध्ये वायुसोमदिगन्तरे ॥ 18 ॥
मूलम्
ईशानसोमदिङ्मध्ये वह्न्यन्तकदिगन्तरे।
राक्षसान्तकदिङ्मध्ये वायुसोमदिगन्तरे ॥ 18 ॥
विश्वास-प्रस्तुतिः
कृताद्यं युगबृन्दं तु कृष्णं वृषनराकृति।
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा ॥ 19 ॥
मूलम्
कृताद्यं युगबृन्दं तु कृष्णं वृषनराकृति।
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा ॥ 19 ॥
विश्वास-प्रस्तुतिः
द्वाभ्यामञ्जलिबद्धाभ्यां प्रणमन्त्यासनस्थिताम्।
तेषामुपरि संचिन्त्यं पीठं बुद्धिमयं परम् ॥ 20 ॥
मूलम्
द्वाभ्यामञ्जलिबद्धाभ्यां प्रणमन्त्यासनस्थिताम्।
तेषामुपरि संचिन्त्यं पीठं बुद्धिमयं परम् ॥ 20 ॥
टिप्पनी 20
द्वाभ्यामिति। भुजाभ्यामिति शेषः। अञ्जलिबद्धाभ्यामिति। बद्धाञ्जलिभ्यामित्यर्थः।
विश्वास-प्रस्तुतिः
अव्यक्तमम्बुजं श्वेतं तदूर्ध्वेऽष्टदलं स्मरेत्।
तदूर्ध्वे सूर्यबिम्बं तु 7सूर्यकोटिसमप्रभम् ॥ 21 ॥
मूलम्
अव्यक्तमम्बुजं श्वेतं तदूर्ध्वेऽष्टदलं स्मरेत्।
तदूर्ध्वे सूर्यबिम्बं तु 7सूर्यकोटिसमप्रभम् ॥ 21 ॥
विश्वास-प्रस्तुतिः
तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम्।
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् ॥ 22 ॥
मूलम्
तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम्।
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् ॥ 22 ॥
विश्वास-प्रस्तुतिः
तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत्।
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः ॥ 23 ॥
मूलम्
तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत्।
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः ॥ 23 ॥
टिप्पनी 23
सूर्येन्दुवह्निबिम्बानि क्रमात् तमोरजःसत्त्वमयानि जानीयात्। ओं सूर्यबिम्बाय नमः इत्यादयो मन्त्राः।
विश्वास-प्रस्तुतिः
बुद्ध्यादिसत्त्वपर्यन्ततत्त्वमन्त्रगणाः स्मृताः।
ततश्चिदासनं दद्यात् पराहंतास्वरूपकम् ॥ 24 ॥
मूलम्
बुद्ध्यादिसत्त्वपर्यन्ततत्त्वमन्त्रगणाः स्मृताः।
ततश्चिदासनं दद्यात् पराहंतास्वरूपकम् ॥ 24 ॥
विश्वास-प्रस्तुतिः
आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे।
समुद्राद्यासनान्तं तु चतुर्भिः [^8]कल्पयेत् पदैः ॥ 25 ॥
मूलम्
आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे।
समुद्राद्यासनान्तं तु चतुर्भिः [^8]कल्पयेत् पदैः ॥ 25 ॥
टिप्पनी 25
नाभिमारभ्य हृदयपर्यन्तं भागं पञ्चधा विभज्य तत्रादौ चतुर्षु भागेषु क्षीरार्णवाद्यासनान्तं भावयेत्।
विश्वास-प्रस्तुतिः
एकेन पञ्चमेनैव पद्माद्यासनकल्पनम्।
भूतान्याधारशक्तौ तु कूर्मे तन्मात्रकं गणम् ॥ 26 ॥
मूलम्
एकेन पञ्चमेनैव पद्माद्यासनकल्पनम्।
भूतान्याधारशक्तौ तु कूर्मे तन्मात्रकं गणम् ॥ 26 ॥
टिप्पनी 26
पञ्चमे तु भागे अव्यक्तपद्मं भावयेत्। उक्तेषु स्थानेषु पदार्थानामवस्थितिमाह—भूतानीति। स्थूलानि पञ्च भूतानीत्यर्थः।
विश्वास-प्रस्तुतिः
वागादिकं तथानन्ते भुवि श्रोत्रादिपञ्चकम्।
मनः क्षीरार्णवे ध्यायेदहंकारं ततोऽम्बुजे ॥ 27 ॥
मूलम्
वागादिकं तथानन्ते भुवि श्रोत्रादिपञ्चकम्।
मनः क्षीरार्णवे ध्यायेदहंकारं ततोऽम्बुजे ॥ 27 ॥
विश्वास-प्रस्तुतिः
द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता।
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् ॥ 28 ॥
मूलम्
द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता।
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् ॥ 28 ॥
टिप्पनी 28
अवदातं सरोरुहम्; अव्यक्तपद्ममित्यर्थः।
विश्वास-प्रस्तुतिः
तमःप्रभृतयश्चोक्ता गुणा ह्यब्जत्रयात्मकाः।
एके कालं वदन्त्येतद् भूतादित्रितयात्मकम् ॥ 29 ॥
मूलम्
तमःप्रभृतयश्चोक्ता गुणा ह्यब्जत्रयात्मकाः।
एके कालं वदन्त्येतद् भूतादित्रितयात्मकम् ॥ 29 ॥
टिप्पनी 29
एतत्; अव्यक्तपद्ममित्यर्थः। पारमेश्वरे (5-14) कालचक्रमित्यस्य व्यवहारः।
विश्वास-प्रस्तुतिः
खर्वव्योमान्वितं पश्चात् 10खगानननमोयुतम्।
मन्त्रमाहुः सुरेशान तन्मन्त्रं नवमं बुधाः ॥ 31 ॥
मूलम्
खर्वव्योमान्वितं पश्चात् 10खगानननमोयुतम्।
मन्त्रमाहुः सुरेशान तन्मन्त्रं नवमं बुधाः ॥ 31 ॥
टिप्पनी 31
खं खगाननाय नमः।
विश्वास-प्रस्तुतिः
इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात्।
विष्णुं विश्वात्मकं देवं नारायणमनामयम् ॥ 32 ॥
मूलम्
इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात्।
विष्णुं विश्वात्मकं देवं नारायणमनामयम् ॥ 32 ॥
विश्वास-प्रस्तुतिः
भावयेत् परमात्मानं शङ्खचक्रगदाधरम्।
चतुर्भुजं पीतवस्त्रं पुण्डरीकनिभेक्षणम् ॥ 33 ॥
मूलम्
भावयेत् परमात्मानं शङ्खचक्रगदाधरम्।
चतुर्भुजं पीतवस्त्रं पुण्डरीकनिभेक्षणम् ॥ 33 ॥
टिप्पनी 33
“तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” इति श्रुत्यर्थोपबृंणमत्र।
विश्वास-प्रस्तुतिः
उदितं संस्मरेद्देव स्वशक्तेः स्पन्दनात्मनः।
सम्यग् ध्येयं यथैतत्ते तथा भूयो निबोध मे ॥ 34 ॥
मूलम्
उदितं संस्मरेद्देव स्वशक्तेः स्पन्दनात्मनः।
सम्यग् ध्येयं यथैतत्ते तथा भूयो निबोध मे ॥ 34 ॥
विश्वास-प्रस्तुतिः
सुसम्यङ् न्यस्तमन्त्राङ्गः11 सुसंक्लृप्तान्तरासनः।
दर्शिताशेषमुद्रश्च संस्मरेन्मन्त्रवैभवम् ॥ 35 ॥
मूलम्
सुसम्यङ् न्यस्तमन्त्राङ्गः11 सुसंक्लृप्तान्तरासनः।
दर्शिताशेषमुद्रश्च संस्मरेन्मन्त्रवैभवम् ॥ 35 ॥
विश्वास-प्रस्तुतिः
परं ब्रह्म परं धाम यत् पारे तमसः स्थितम्।
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः ॥ 36 ॥
मूलम्
परं ब्रह्म परं धाम यत् पारे तमसः स्थितम्।
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः ॥ 36 ॥
सर्वं सर्वातिगं सर्वसंस्थितं सर्वयन्तृ12 च।
13चिदानन्दघनं पूर्णषाड्गुण्यामृतविग्रहम् ॥ 37 ॥
टिप्पनी 37
सर्वान्तरात्मत्वात् सर्वनियन्तृनत्वाच्च सर्वरूपिणमित्यर्थः।
विश्वास-प्रस्तुतिः
भावानां चिदचिद्रूपभावाभावादिभेदिनाम्।
अन्तरात्मतया तत्तदहंकारपदास्पदम् ॥ 38 ॥
मूलम्
भावानां चिदचिद्रूपभावाभावादिभेदिनाम्।
अन्तरात्मतया तत्तदहंकारपदास्पदम् ॥ 38 ॥
टिप्पनी 38
तदेवोच्यते—अन्तरात्मतयेत्यादिना।
विश्वास-प्रस्तुतिः
अचिन्त्याननुयोज्येन हेतुना येन केनचित्।
शक्तिमच्छक्तिभावेन तद् द्विधा व्यवतिष्ठते ॥ 39 ॥
मूलम्
अचिन्त्याननुयोज्येन हेतुना येन केनचित्।
शक्तिमच्छक्तिभावेन तद् द्विधा व्यवतिष्ठते ॥ 39 ॥
विश्वास-प्रस्तुतिः
अहमित्येव यः प्रोक्तः पदप्रत्यययोर्द्वयोः।
नारायणः स भविता तस्याहंता तु या परा ॥ 40 ॥
मूलम्
अहमित्येव यः प्रोक्तः पदप्रत्यययोर्द्वयोः।
नारायणः स भविता तस्याहंता तु या परा ॥ 40 ॥
विश्वास-प्रस्तुतिः
तद्धर्मधर्मिणी लक्ष्मीः शक्तिः सा भावरूपिणी।
सर्वकार्यकरी सैव शक्तिर्वितनुते जगत् ॥ 41 ॥
मूलम्
तद्धर्मधर्मिणी लक्ष्मीः शक्तिः सा भावरूपिणी।
सर्वकार्यकरी सैव शक्तिर्वितनुते जगत् ॥ 41 ॥
विश्वास-प्रस्तुतिः
शक्तिमन्तमधिष्ठाय ज्योत्स्नेव हिमदीधितिम्।
सा वितिस्तीर्षमाणा हि शब्दब्रह्मात्मना पुरा ॥ 42 ॥
मूलम्
शक्तिमन्तमधिष्ठाय ज्योत्स्नेव हिमदीधितिम्।
सा वितिस्तीर्षमाणा हि शब्दब्रह्मात्मना पुरा ॥ 42 ॥
टिप्पनी 42
देव्या जगद्व्यापारकर्तृत्वं भगवन्तमाश्रित्यैव, न स्वातन्त्र्येणेत्यनेन जगज्जन्मादिकारणत्वस्य भगवदसाधारणलक्षणस्य नानुपपत्तिरित्युक्तं भवति। प्रयोजककर्ता सर्वेश्वरः, प्रयोज्यकर्त्री देवीत्युक्तं भवति। अनेनास्य पाञ्चरात्रसिद्धान्तस्य शाक्तमतप्रवेशशङ्काया नावकाशः।
विश्वास-प्रस्तुतिः
वितत्यात्मानमथ सा वितनोत्यर्थवर्त्मना।
शब्दब्रह्ममयः पूर्वो यो नाम प्रथमोदयः ॥ 43 ॥
मूलम्
वितत्यात्मानमथ सा वितनोत्यर्थवर्त्मना।
शब्दब्रह्ममयः पूर्वो यो नाम प्रथमोदयः ॥ 43 ॥
विश्वास-प्रस्तुतिः
अकलङ्गः 14कलाद्वात्मा योगस्थैरनुभूयते।
धारासंतानवर्णात्मा वर्णमार्गः स शब्द्यते ॥ 44 ॥
मूलम्
अकलङ्गः 14कलाद्वात्मा योगस्थैरनुभूयते।
धारासंतानवर्णात्मा वर्णमार्गः स शब्द्यते ॥ 44 ॥
टिप्पनी 44
कलाध्वात्मा; ज्ञानशक्त्यादिगुणात्मा। धारासंतानेति वर्णाध्वनिर्देशः।
विश्वास-प्रस्तुतिः
कलाध्वानमधिष्ठाय स पुनर्मन्त्रवर्त्मना।
उदेति सकलं शक्तिचक्रमादाय वैष्णवम् ॥ 45 ॥
मूलम्
कलाध्वानमधिष्ठाय स पुनर्मन्त्रवर्त्मना।
उदेति सकलं शक्तिचक्रमादाय वैष्णवम् ॥ 45 ॥
टिप्पनी 45
शक्तिचक्रं लक्ष्म्यादिकम्।
विश्वास-प्रस्तुतिः
परात्मना परं ज्योतिर्मयमानन्दलक्षणम्।
त्रिविघेनैव रूपेण यथा ते वर्णितं पुरा ॥ 46 ॥
मूलम्
परात्मना परं ज्योतिर्मयमानन्दलक्षणम्।
त्रिविघेनैव रूपेण यथा ते वर्णितं पुरा ॥ 46 ॥
विश्वास-प्रस्तुतिः
रूपं परं तदेवाथ वर्तते सूक्ष्मवर्त्मना।
मन्त्रप्रसररूपेण तच्च ते दर्शयिष्यते ॥ 47 ॥
मूलम्
रूपं परं तदेवाथ वर्तते सूक्ष्मवर्त्मना।
मन्त्रप्रसररूपेण तच्च ते दर्शयिष्यते ॥ 47 ॥
विश्वास-प्रस्तुतिः
सूक्ष्मं तत् त्रिविधं भूयो वर्तते स्थूलवर्त्मना।
स्थूला चादितनुर्येयमङ्गोपाङ्गविभेदिनी ॥ 48 ॥
मूलम्
सूक्ष्मं तत् त्रिविधं भूयो वर्तते स्थूलवर्त्मना।
स्थूला चादितनुर्येयमङ्गोपाङ्गविभेदिनी ॥ 48 ॥
विश्वास-प्रस्तुतिः
लक्ष्मीनारायणस्यैषा मूर्तिः षाड्गुण्यबृंहिता।
चेतनाचेतनं विश्वमनुसंधेयमत्र तु ॥ 49 ॥
मूलम्
लक्ष्मीनारायणस्यैषा मूर्तिः षाड्गुण्यबृंहिता।
चेतनाचेतनं विश्वमनुसंधेयमत्र तु ॥ 49 ॥
टिप्पनी 49
अत्र तु; मन्त्रात्मकस्थूलमूर्तावित्यर्थः।
15तत्तदैश्वर्यदत्वं तदधिष्ठातृत्वमेव च।
मन्त्रस्य वैष्णवं रूपं तद्विज्ञेयं विपश्चिता ॥ 50 ॥
टिप्पनी 50
मन्त्रमूर्तौ सर्वतत्त्वावस्थितिमाह—तत्तदित्यादिना।
विश्वास-प्रस्तुतिः
तत्तत्कार्यकरी तस्या या शक्तिः साहमम्बुजा।
मन्त्रस्य यद्धि चैतन्यं पुमांसं तं प्रचक्षते ॥ 51 ॥
मूलम्
तत्तत्कार्यकरी तस्या या शक्तिः साहमम्बुजा।
मन्त्रस्य यद्धि चैतन्यं पुमांसं तं प्रचक्षते ॥ 51 ॥
फलप्रसवसामर्थ्यं प्राकृतं रूपमुच्यते।
16यद् दृढव्यवसायित्वं 17महतो यो गुणस्तु सः ॥ 52 ॥
टिप्पनी 52
महतः ; महत्तत्वस्य।
विश्वास-प्रस्तुतिः
मन्त्राणां यदहंयुत्वमहंकारगुणस्तु सः।
मन्त्राणां मानसं रूपमैन्द्रियज्ञानहेतुता ॥ 53 ॥
मूलम्
मन्त्राणां यदहंयुत्वमहंकारगुणस्तु सः।
मन्त्राणां मानसं रूपमैन्द्रियज्ञानहेतुता ॥ 53 ॥
विश्वास-प्रस्तुतिः
यच्छब्दरूपता मन्त्रे सा ज्ञेया नभसि स्थिता।
कम्पो मन्त्रसमावेशे वायव्यं रूपमुच्यते ॥ 54 ॥
मूलम्
यच्छब्दरूपता मन्त्रे सा ज्ञेया नभसि स्थिता।
कम्पो मन्त्रसमावेशे वायव्यं रूपमुच्यते ॥ 54 ॥
18प्रकाशकरता ध्याने मान्त्री या तैजसात्मिका।
या तृप्तिर्मन्त्रसद्भावे19 परिज्ञेयाम्भसी तु सा ॥ 55 ॥
विश्वास-प्रस्तुतिः
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते।
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् ॥ 56 ॥
मूलम्
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते।
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् ॥ 56 ॥
विश्वास-प्रस्तुतिः
अचिरान्मन्त्रसामर्थ्यात्तेन भावेन जायते।
इत्थं संवित्तिसामर्थ्यात्तारिकाशक्तिमातताम् ॥ 57 ॥
मूलम्
अचिरान्मन्त्रसामर्थ्यात्तेन भावेन जायते।
इत्थं संवित्तिसामर्थ्यात्तारिकाशक्तिमातताम् ॥ 57 ॥
टिप्पनी 57
तेन भावेनेति। तत्तद्धर्मेणेत्यर्थः।
विश्वास-प्रस्तुतिः
स्पन्दमानां पुरा पश्येद्व्योम्नि सौदामिनीमिव।
हृदम्बुजगुहामध्ये पूर्वोक्ते चित्प्रभासने ॥ 58 ॥
मूलम्
स्पन्दमानां पुरा पश्येद्व्योम्नि सौदामिनीमिव।
हृदम्बुजगुहामध्ये पूर्वोक्ते चित्प्रभासने ॥ 58 ॥
टिप्पनी 58
पूर्वोक्त इति। आधारशक्त्यादिनिरूपणावसरोक्त इत्यर्थः।
विश्वास-प्रस्तुतिः
स्फुरन्त्यां तारिकामूर्तौ शब्दब्रह्मणि संस्मरेत्।
मिथुनं शाश्वतं दिव्यं 20यथावदवधारय ॥ 59 ॥
मूलम्
स्फुरन्त्यां तारिकामूर्तौ शब्दब्रह्मणि संस्मरेत्।
मिथुनं शाश्वतं दिव्यं 20यथावदवधारय ॥ 59 ॥
टिप्पनी 59
अनेन तारिकायाः शब्दब्रह्मरूपत्वमुक्तं भवति।
विश्वास-प्रस्तुतिः
सूर्यानलांशसंस्थानं नारायणमनामयम्।
स्मरेच्चिदासनासीनं पुण्डरीकायतेक्षणम् ॥ 60 ॥
मूलम्
सूर्यानलांशसंस्थानं नारायणमनामयम्।
स्मरेच्चिदासनासीनं पुण्डरीकायतेक्षणम् ॥ 60 ॥
टिप्पनी 60
नारायणाक्यपुरुषोत्तमस्य मानसीं पूजां वक्तुं तद्रूपमाह—सूर्येत्यादिना।
विश्वास-प्रस्तुतिः
पीताम्बरमुदाराङ्गं काञ्चीनू पुरशोभितम्।
हारकुण्डलकेयूरकिरीटकटकोज्ज्वलम् ॥ 61 ॥
मूलम्
पीताम्बरमुदाराङ्गं काञ्चीनू पुरशोभितम्।
हारकुण्डलकेयूरकिरीटकटकोज्ज्वलम् ॥ 61 ॥
21युगानुसारिकान्तिं वा नीलाम्बरनिभं तु वा।
शङ्खचक्रधरं देवं वरदाभयदायिनम् ॥ 62 ॥
विश्वास-प्रस्तुतिः
प्रभयेव मणिं पूर्णं गाम्भीर्येणेव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम् ॥ 63 ॥
मूलम्
प्रभयेव मणिं पूर्णं गाम्भीर्येणेव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम् ॥ 63 ॥
विश्वास-प्रस्तुतिः
पुरा ध्यात्वा हृषीकेशं प्रसन्नमुखपङ्कजम्।
पुराष्टादशभिर्भोगैरर्चयेत् पुरुषोत्तमम् ॥ 64 ॥
मूलम्
पुरा ध्यात्वा हृषीकेशं प्रसन्नमुखपङ्कजम्।
पुराष्टादशभिर्भोगैरर्चयेत् पुरुषोत्तमम् ॥ 64 ॥
विश्वास-प्रस्तुतिः
सूक्तेन पौरुषेणाथ प्रणवेन च वासव।
द्विष्ट्चतुस्रिकार्णऐस्च तथैव च जितंतया ॥ 65 ॥
मूलम्
सूक्तेन पौरुषेणाथ प्रणवेन च वासव।
द्विष्ट्चतुस्रिकार्णऐस्च तथैव च जितंतया ॥ 65 ॥
टिप्पनी 65
द्विषडित्यादि। षडक्षराष्टाक्षरद्वादशाक्षरमन्त्रैरित्यर्थः। जितंतया; “जितं ते पुण्डरीकाक्ष” इत्यादिश्लोकरूपमन्त्रेणेत्यर्थः।
विश्वास-प्रस्तुतिः
अर्चयित्वाथ देवेशं लक्ष्मीं सर्वाङ्गगां स्मरेत्।
लयात्मनार्चयित्वाथ लक्ष्मीमावाहयेत्ततः ॥ 66 ॥
मूलम्
अर्चयित्वाथ देवेशं लक्ष्मीं सर्वाङ्गगां स्मरेत्।
लयात्मनार्चयित्वाथ लक्ष्मीमावाहयेत्ततः ॥ 66 ॥
विश्वास-प्रस्तुतिः
वामोत्सङ्गे निषण्णां तामथ देवस्य शार्ङ्गिणः।
अर्चयेद्विविधैर्भोगैर्यथावच्छास्त्रचोदितैः ॥ 67 ॥
मूलम्
वामोत्सङ्गे निषण्णां तामथ देवस्य शार्ङ्गिणः।
अर्चयेद्विविधैर्भोगैर्यथावच्छास्त्रचोदितैः ॥ 67 ॥
विश्वास-प्रस्तुतिः
शक्रः—
देवप्रिये देवदेवि नमस्ते पङ्कजेक्षणे।
विधिं पुरुषसूक्तस्य तारादीनां च मे वद ॥ 68 ॥
मूलम्
शक्रः—
देवप्रिये देवदेवि नमस्ते पङ्कजेक्षणे।
विधिं पुरुषसूक्तस्य तारादीनां च मे वद ॥ 68 ॥
विश्वास-प्रस्तुतिः
श्रीः—
एको नारायणो देवः श्रीमान् कमललोचनः।
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः ॥ 69 ॥
मूलम्
श्रीः—
एको नारायणो देवः श्रीमान् कमललोचनः।
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः ॥ 69 ॥
विश्वास-प्रस्तुतिः
तावावां परमे व्योम्नि क्षेमाय सकलात्मनाम्।
आसीनौ सकलेशानौ सूरिभिः सेवितौ सदा ॥ 70 ॥
मूलम्
तावावां परमे व्योम्नि क्षेमाय सकलात्मनाम्।
आसीनौ सकलेशानौ सूरिभिः सेवितौ सदा ॥ 70 ॥
विश्वास-प्रस्तुतिः
तयोर्नौ हृदि संकल्पः कश्चिदाविर्बभूव ह।
उत्तारणाय जीवानामुपायोऽन्विष्यतामिति ॥ 71 ॥
मूलम्
तयोर्नौ हृदि संकल्पः कश्चिदाविर्बभूव ह।
उत्तारणाय जीवानामुपायोऽन्विष्यतामिति ॥ 71 ॥
विश्वास-प्रस्तुतिः
आवाभ्यामुत्थितं22 तेजः शब्दब्रह्ममहोदधिः।
मथ्यमानात्ततस्तस्मादभूत् सूक्तद्वयामृतम् ॥ 72 ॥
मूलम्
आवाभ्यामुत्थितं22 तेजः शब्दब्रह्ममहोदधिः।
मथ्यमानात्ततस्तस्मादभूत् सूक्तद्वयामृतम् ॥ 72 ॥
विश्वास-प्रस्तुतिः
पुरुषस्य हरेः सूक्तं मम सुक्तं तथैव च।
अन्योन्यशक्तिसंपृक्तमन्योन्यार्णपरिष्कृतम् ॥ 73 ॥
मूलम्
पुरुषस्य हरेः सूक्तं मम सुक्तं तथैव च।
अन्योन्यशक्तिसंपृक्तमन्योन्यार्णपरिष्कृतम् ॥ 73 ॥
टिप्पनी 73
मम सूक्तमिति। श्रीसूक्तमित्यर्थः।
विश्वास-प्रस्तुतिः
नारायणार्षमव्यक्तं पौरुषं सूक्तमिष्यते।
अन्यन्मदार्षकं सूक्तं श्रीसूक्तं यत् प्रचक्षते ॥ 74 ॥
मूलम्
नारायणार्षमव्यक्तं पौरुषं सूक्तमिष्यते।
अन्यन्मदार्षकं सूक्तं श्रीसूक्तं यत् प्रचक्षते ॥ 74 ॥
टिप्पनी 74
नारायणः पुरुषसूक्तस्य ऋषिरित्यर्थः। मदार्षकमिति। श्रीरहमृषिरित्यर्थः।
विश्वास-प्रस्तुतिः
प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः।
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् ॥ 75 ॥
मूलम्
प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः।
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् ॥ 75 ॥
टिप्पनी 75
पञ्चेति। तारानुताराषडक्षराष्टाक्षरद्वादशाक्षरा इत्यर्थः।
विश्वास-प्रस्तुतिः
अष्टादश ऋचः प्रोक्ताः पौरुषे सूक्तसत्तमे।
ताभिस्तु प्रणावाद्याभिर्भोगानष्टादशोत्तमान् ॥ 76 ॥
मूलम्
अष्टादश ऋचः प्रोक्ताः पौरुषे सूक्तसत्तमे।
ताभिस्तु प्रणावाद्याभिर्भोगानष्टादशोत्तमान् ॥ 76 ॥
विश्वास-प्रस्तुतिः
कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः।
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा ॥ 77 ॥
मूलम्
कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः।
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा ॥ 77 ॥
विश्वास-प्रस्तुतिः
स्नानं च परिधानं च सोत्तरीयोपवीतकम्।
गन्धः सुमनसो दीपो धूपश्च मधुपर्ककः ॥ 78 ॥
मूलम्
स्नानं च परिधानं च सोत्तरीयोपवीतकम्।
गन्धः सुमनसो दीपो धूपश्च मधुपर्ककः ॥ 78 ॥
विश्वास-प्रस्तुतिः
प्रापणं 23सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः।
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् ॥ 79 ॥
मूलम्
प्रापणं 23सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः।
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् ॥ 79 ॥
टिप्पनी 79
प्रापणम्; अन्नादिकं नैवेद्यम्। इन्दुः; घनसारः।
विश्वास-प्रस्तुतिः
सर्वलक्षणसंपन्ना सर्वाधारमयी परा।
नित्या संपूर्णषाड्गुण्या या विष्णोर्मूर्तिरुज्ज्वला ॥ 80 ॥
मूलम्
सर्वलक्षणसंपन्ना सर्वाधारमयी परा।
नित्या संपूर्णषाड्गुण्या या विष्णोर्मूर्तिरुज्ज्वला ॥ 80 ॥
विश्वास-प्रस्तुतिः
सैवेयं कथ्यते मूर्तिर्मान्त्री मन्त्रैश्चिदात्मकैः।
स्वीकारयति तां मन्त्री24 देवं यत् स्वेन तेजसा ॥ 81 ॥
मूलम्
सैवेयं कथ्यते मूर्तिर्मान्त्री मन्त्रैश्चिदात्मकैः।
स्वीकारयति तां मन्त्री24 देवं यत् स्वेन तेजसा ॥ 81 ॥
विश्वास-प्रस्तुतिः
तदावाहनमित्युक्तं मन्त्रविज्ञानपारगैः।
स्वस्तिकृत्यै स्वभावेन चेतनाचेतनं हरिः ॥ 82 ॥
मूलम्
तदावाहनमित्युक्तं मन्त्रविज्ञानपारगैः।
स्वस्तिकृत्यै स्वभावेन चेतनाचेतनं हरिः ॥ 82 ॥
टिप्पनी 82
आवाहयति स्वीकारयति मन्त्रतनूमिति यौगिकार्थः।
विश्वास-प्रस्तुतिः
अधितिष्ठति यद्विश्वमासनं तदनु क्रिया।
ममानन्दमयी शक्तिर्देवस्त्वाप्यायते यया ॥ 83 ॥
मूलम्
अधितिष्ठति यद्विश्वमासनं तदनु क्रिया।
ममानन्दमयी शक्तिर्देवस्त्वाप्यायते यया ॥ 83 ॥
25सैवार्घ्याचमनीयादिरूपेत्यर्घ्यादिचिन्तनम्।
अम्मयाः सकला लोका जीवाश्चैव 26तदाश्रयाः ॥ 84 ॥
टिप्पनी 84
सैवेति। आनन्दमयी शक्तिरेवेत्यर्थः। अम्मयाः; अपां परिणामभूताः; “अप एव ससर्जादौ” इति सर्वलोकानां तदुपादानकत्वोक्तेः। तदाश्रयाः; अद्भिर्जीवनधारिणः। जीवानामप्परिणामत्वाभावात् तदाश्रयत्वोक्तिः।
विश्वास-प्रस्तुतिः
तच्छेषा 27उभयेऽपीति द्योत्यते पाद्यदानतः।
षोढा विभज्य रूपं स्वं तर्पयामि सनातनम् ॥ 85 ॥
मूलम्
तच्छेषा 27उभयेऽपीति द्योत्यते पाद्यदानतः।
षोढा विभज्य रूपं स्वं तर्पयामि सनातनम् ॥ 85 ॥
टिप्पनी 85
शब्दादिरूपेणाहमेव भगवन्तमाराधयामीत्यर्थः।
विश्वास-प्रस्तुतिः
शब्दाद्यैः पञ्चभिर्भावैरन्तश्चाप्यभिमानतः।
समावेशितसद्भावैर्भोगैः सांदृष्टिकादिकैः ॥ 86 ॥
मूलम्
शब्दाद्यैः पञ्चभिर्भावैरन्तश्चाप्यभिमानतः।
समावेशितसद्भावैर्भोगैः सांदृष्टिकादिकैः ॥ 86 ॥
विश्वास-प्रस्तुतिः
आराधयेज्जगन्नाथं सावधानेन चेतसा।
दृष्ट्यैव जन्यते प्रीतिर्येषां28 सांदृष्टिका मताः ॥ 87 ॥
मूलम्
आराधयेज्जगन्नाथं सावधानेन चेतसा।
दृष्ट्यैव जन्यते प्रीतिर्येषां28 सांदृष्टिका मताः ॥ 87 ॥
टिप्पनी 87
भोगान् सांदृष्टिकाभ्यवहारिकसांस्पर्शिकाभिमानिकभेदेन चतुर्धा विभज्य वर्णयति—दृष्ट्यैवेत्यादिना।
विश्वास-प्रस्तुतिः
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः।
भोगाः शुभकराः शश्वत्तर्पयन्ति रसौर्हि ये ॥ 88 ॥
मूलम्
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः।
भोगाः शुभकराः शश्वत्तर्पयन्ति रसौर्हि ये ॥ 88 ॥
प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः।
29सुखा रम्या मृदुस्पर्शाः स्पर्शैर्ये तर्पयन्त्यजम् ॥ 89 ॥
विश्वास-प्रस्तुतिः
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः।
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ॥ 90 ॥
मूलम्
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः।
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ॥ 90 ॥
विश्वास-प्रस्तुतिः
निविष्टा 30अनिलाद्याः स्युरन्त्याः पाकजगन्धिनः31।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ॥ 91 ॥
मूलम्
निविष्टा 30अनिलाद्याः स्युरन्त्याः पाकजगन्धिनः31।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ॥ 91 ॥
विश्वास-प्रस्तुतिः
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः।
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ॥ 92 ॥
मूलम्
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः।
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ॥ 92 ॥
विश्वास-प्रस्तुतिः
ऋग्भिः सप्रणवाद्याबिस्तोषयेत् पुरुषोत्तमम्।
मन्त्रान्ते भोगनिर्देश- प्रीतिश्च तदनन्तरम् ॥ 93 ॥
मूलम्
ऋग्भिः सप्रणवाद्याबिस्तोषयेत् पुरुषोत्तमम्।
मन्त्रान्ते भोगनिर्देश- प्रीतिश्च तदनन्तरम् ॥ 93 ॥
विश्वास-प्रस्तुतिः
ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च।
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ 94 ॥
मूलम्
ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च।
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ 94 ॥
टिप्पनी 94
प्रणवादीनि पञ्चेति। तारानुतारिकाषडक्षराष्टाक्षरद्वादशाक्षरमन्त्रानित्यर्थः।
विश्वास-प्रस्तुतिः
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया।
श्रिया सार्धं जगन्नाथो दिव्यो नारायणः पुमान् ॥ 95 ॥
मूलम्
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया।
श्रिया सार्धं जगन्नाथो दिव्यो नारायणः पुमान् ॥ 95 ॥
विश्वास-प्रस्तुतिः
इत्यञ्जलिप्रसूनस्थं स्वमूर्ताववतार्य च।
प्रणम्य स्वागतं पृष्ट्वा क्षामयेदनया धिया ॥ 96 ॥
मूलम्
इत्यञ्जलिप्रसूनस्थं स्वमूर्ताववतार्य च।
प्रणम्य स्वागतं पृष्ट्वा क्षामयेदनया धिया ॥ 96 ॥
टिप्पनी 96
स्वमूर्तौ; स्वपरिकल्पितायां मूर्तौ।
विश्वास-प्रस्तुतिः
प्रणम्य32 भगवन् पश्चादासनेनार्चयामि च।
उक्त्वा मन्त्रानथोच्चार्य त्रिर्निर्दिश्येदमित्यतः ॥ 97 ॥
मूलम्
प्रणम्य32 भगवन् पश्चादासनेनार्चयामि च।
उक्त्वा मन्त्रानथोच्चार्य त्रिर्निर्दिश्येदमित्यतः ॥ 97 ॥
विश्वास-प्रस्तुतिः
पश्चात् सनाम निर्दिश्य प्रीतिं पश्चात् समाचरेत्।
प्रीयतां भगवान् पश्चाद्वासुदेवस्ततः परम् ॥ 98 ॥
मूलम्
पश्चात् सनाम निर्दिश्य प्रीतिं पश्चात् समाचरेत्।
प्रीयतां भगवान् पश्चाद्वासुदेवस्ततः परम् ॥ 98 ॥
टिप्पनी 98
सनामेति। इदमिदमिदं पाद्यमित्यादिरीत्या भोगनामनिर्देशपूर्वकमित्यर्थः।
विश्वास-प्रस्तुतिः
अर्घ्यं निःस्रावयेद्वेद्यामयं भोगविधिक्रमः।
आसनार्घ्यादि भोगेषु यथालिङ्गं विनिर्दिशेत् ॥ 99 ॥
मूलम्
अर्घ्यं निःस्रावयेद्वेद्यामयं भोगविधिक्रमः।
आसनार्घ्यादि भोगेषु यथालिङ्गं विनिर्दिशेत् ॥ 99 ॥
विश्वास-प्रस्तुतिः
आद्ययावाहनं कुर्यादासनं च द्वितीयया।
अर्घ्यं तृतीयया देयं मूर्ध्न्यापः कुसुमोद्धृताः ॥ 100 ॥
मूलम्
आद्ययावाहनं कुर्यादासनं च द्वितीयया।
अर्घ्यं तृतीयया देयं मूर्ध्न्यापः कुसुमोद्धृताः ॥ 100 ॥
टिप्पनी 100
पुरुषसूक्तऋचां भोगप्रदाने विनियोगमाह–आद्ययेत्यादिना।
विश्वास-प्रस्तुतिः
पाद्यं देयं चतुर्थ्या तु पञ्चम्याचमनीयकम्।
षष्ठ्या स्नानविधिः कार्यः सप्तम्या परिधानकम् ॥ 101 ॥
मूलम्
पाद्यं देयं चतुर्थ्या तु पञ्चम्याचमनीयकम्।
षष्ठ्या स्नानविधिः कार्यः सप्तम्या परिधानकम् ॥ 101 ॥
विश्वास-प्रस्तुतिः
अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम्।
दशम्या स्रगलंकारा33 एकादश्या तु दीपकः ॥ 102 ॥
मूलम्
अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम्।
दशम्या स्रगलंकारा33 एकादश्या तु दीपकः ॥ 102 ॥
विश्वास-प्रस्तुतिः
द्वादश्या सुरभिर्धूपः परया मधुपर्ककः।
प्रापणं तु चतुर्दश्या पञ्चदश्यानुवासनम् ॥ 103 ॥
मूलम्
द्वादश्या सुरभिर्धूपः परया मधुपर्ककः।
प्रापणं तु चतुर्दश्या पञ्चदश्यानुवासनम् ॥ 103 ॥
टिप्पनी 103
अनुवासनं नाम भोजनानन्तरदेयं सुगन्धि ताम्बूलादि।
विश्वास-प्रस्तुतिः
षोडस्या तु नमस्कारः परया कुसुमाञ्जलिः।
अष्टादश्या प्रदानं च समाराधनकर्मणः ॥ 104 ॥
मूलम्
षोडस्या तु नमस्कारः परया कुसुमाञ्जलिः।
अष्टादश्या प्रदानं च समाराधनकर्मणः ॥ 104 ॥
विश्वास-प्रस्तुतिः
स्नानवासःप्रदीपेषु दद्यादाचमनक्रियाम्।
पुरस्तादर्हणं कार्यं मधुपर्कान्नदानतः ॥ 105 ॥
मूलम्
स्नानवासःप्रदीपेषु दद्यादाचमनक्रियाम्।
पुरस्तादर्हणं कार्यं मधुपर्कान्नदानतः ॥ 105 ॥
टिप्पनी 105
अर्हणम्; आपोशनम्।
34तर्पणाचमने पश्चात् प्रणवद्वितयेन तु।
इत्थं स्नानादिभोगेषु देशकालाद्यपेक्षया ॥ 106 ॥
विश्वास-प्रस्तुतिः
कुर्याद्राजवदाचारं तत्तन्मन्त्रेण साधकः।
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ॥ 107 ॥
मूलम्
कुर्याद्राजवदाचारं तत्तन्मन्त्रेण साधकः।
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ॥ 107 ॥
विश्वास-प्रस्तुतिः
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया।
समाहितोऽञ्जलिं कृत्वा तत ओं भगवन्निति ॥ 108 ॥
मूलम्
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया।
समाहितोऽञ्जलिं कृत्वा तत ओं भगवन्निति ॥ 108 ॥
विश्वास-प्रस्तुतिः
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम्।
मन्त्रमुच्चार्य निर्दिश्येदिदमासनमित्यतः ॥ 109 ॥
मूलम्
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम्।
मन्त्रमुच्चार्य निर्दिश्येदिदमासनमित्यतः ॥ 109 ॥
विश्वास-प्रस्तुतिः
ओमों प्रीयतां भगवान् वासुदेव इति ब्रुवन्।
अर्घ्यादिजलमादाय स्थापयेद्देवसंनिधौ ॥ 110 ॥
मूलम्
ओमों प्रीयतां भगवान् वासुदेव इति ब्रुवन्।
अर्घ्यादिजलमादाय स्थापयेद्देवसंनिधौ ॥ 110 ॥
विश्वास-प्रस्तुतिः
आभिरर्घ्याभिरित्येवमाभिः पाद्याबिरित्यपि।
आभिराचमनीयाभिरर्हणीयाभिरित्यपि ॥ 111 ॥
मूलम्
आभिरर्घ्याभिरित्येवमाभिः पाद्याबिरित्यपि।
आभिराचमनीयाभिरर्हणीयाभिरित्यपि ॥ 111 ॥
टिप्पनी 111
आभिरर्घ्याभिरित्यादीनामद्भिरिति विशेष्यमुत्तरवाक्यादनुषञ्जनीयम्।
विश्वास-प्रस्तुतिः
तर्पणीयाभिरध्भिश्च स्नानीयाभिरितीदृशम्।
प्रीतिसंकल्पयोर्वाच्यमिमा अर्घ्या इतीदृशम् ॥ 112 ॥
मूलम्
तर्पणीयाभिरध्भिश्च स्नानीयाभिरितीदृशम्।
प्रीतिसंकल्पयोर्वाच्यमिमा अर्घ्या इतीदृशम् ॥ 112 ॥
विश्वास-प्रस्तुतिः
वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः।
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते ॥ 113 ॥
मूलम्
वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः।
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते ॥ 113 ॥
विश्वास-प्रस्तुतिः
इति स्रगादिभिः षड्भिर्देवदेवं जनार्दनम्।
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्द्वब्यामथापि वा ॥ 114 ॥
मूलम्
इति स्रगादिभिः षड्भिर्देवदेवं जनार्दनम्।
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्द्वब्यामथापि वा ॥ 114 ॥
टिप्पनी 114
स्रक्, दीपः, धूपः, मधुपर्कः, प्रापणम्; अनुवासनमिति षड्भिरित्यर्थः।
विश्वास-प्रस्तुतिः
एकेन वा समाराध्य देशकालानुकूलतः।
मयैव पूजितं ध्यात्वा देवदेवं जनार्दनम् ॥ 115 ॥
मूलम्
एकेन वा समाराध्य देशकालानुकूलतः।
मयैव पूजितं ध्यात्वा देवदेवं जनार्दनम् ॥ 115 ॥
विश्वास-प्रस्तुतिः
चन्द्रोदय इवाम्भोधिं सर्वाङ्गपरिबृंहितम्।
अनिर्देश्यामनौपम्यामनन्तां भाविनीं सदा ॥ 116 ॥
मूलम्
चन्द्रोदय इवाम्भोधिं सर्वाङ्गपरिबृंहितम्।
अनिर्देश्यामनौपम्यामनन्तां भाविनीं सदा ॥ 116 ॥
टिप्पनी 116
अनौपम्यामिति। अनुपमामित्यर्थः। उपमैवौपम्यम्। स्वार्थे ष्यञ्प्रत्ययः।
आमोदमिव पुष्पस्थं दीपस्थामिव च प्रभाम्।
35विनिष्क्रष्टुमशक्यां मामनन्यां पुरुषोत्तमात् ॥ 117 ॥
टिप्पनी 117
विनिष्क्रष्टुम्; विनिप्क्रमयितुमित्यर्थः।
विश्वास-प्रस्तुतिः
भावयन् विधिवन्मन्त्री लययागेन मां यजेत्।
तारिकाविधिमन्विष्य तया मां तारिकां यजेत् ॥ 118 ॥
मूलम्
भावयन् विधिवन्मन्त्री लययागेन मां यजेत्।
तारिकाविधिमन्विष्य तया मां तारिकां यजेत् ॥ 118 ॥
विश्वास-प्रस्तुतिः
अथ मेघादिवोद्यन्तीं विद्युतं पुरुषोत्तमात्।
समुद्यन्तीं तदिच्छातो विबाव्य मनसा सुधीः ॥ 119 ॥
मूलम्
अथ मेघादिवोद्यन्तीं विद्युतं पुरुषोत्तमात्।
समुद्यन्तीं तदिच्छातो विबाव्य मनसा सुधीः ॥ 119 ॥
विश्वास-प्रस्तुतिः
वामोत्सङ्गे36 निषण्णां मां देवदेवस्य चिन्तयेत्।
ऐकध्यमावयोर्ज्ञात्वा स्वबावं च सुशीतलम् ॥ 120 ॥
मूलम्
वामोत्सङ्गे36 निषण्णां मां देवदेवस्य चिन्तयेत्।
ऐकध्यमावयोर्ज्ञात्वा स्वबावं च सुशीतलम् ॥ 120 ॥
टिप्पनी 120
ऐकद्यम्; एकविधत्वम्।
विश्वास-प्रस्तुतिः
ऋग्भ्यां हिरण्यपूर्वाभ्यां प्रपद्येत जनार्दनम्।
सान्त्वयेच्च पराभ्यां तां मां तावदपृथक्कृताम् ॥ 121 ॥
मूलम्
ऋग्भ्यां हिरण्यपूर्वाभ्यां प्रपद्येत जनार्दनम्।
सान्त्वयेच्च पराभ्यां तां मां तावदपृथक्कृताम् ॥ 121 ॥
टिप्पनी 121
ऋग्भ्यामिति। हिरण्यवर्णाम्, तां म आवहेति द्वाभ्यामित्यर्थः।
विश्वास-प्रस्तुतिः
पञ्चम्या च प्रपद्येत प्रसन्नां भावयन् धिया।
ज्ञात्वा पूर्वोक्तसामर्थ्यं तारिकाया यथार्थतः ॥ 122 ॥
मूलम्
पञ्चम्या च प्रपद्येत प्रसन्नां भावयन् धिया।
ज्ञात्वा पूर्वोक्तसामर्थ्यं तारिकाया यथार्थतः ॥ 122 ॥
विश्वास-प्रस्तुतिः
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः।
पूरकेण सुरेशान मनसा समुदीरयन् ॥ 123 ॥
मूलम्
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः।
पूरकेण सुरेशान मनसा समुदीरयन् ॥ 123 ॥
विश्वास-प्रस्तुतिः
मामथावाहयेद्देवादुत्सङ्गे परमात्मनः।
प्रसन्नवदनां शस्वत् सर्वलक्षणलक्षिताम् ॥ 124 ॥
मूलम्
मामथावाहयेद्देवादुत्सङ्गे परमात्मनः।
प्रसन्नवदनां शस्वत् सर्वलक्षणलक्षिताम् ॥ 124 ॥
विश्वास-प्रस्तुतिः
पद्मगर्भनिभां कान्तामसितायतलोचनाम्।
स्फुरत्कटककेयूरहारकुण्डलमण्डिताम् ॥ 125 ॥
मूलम्
पद्मगर्भनिभां कान्तामसितायतलोचनाम्।
स्फुरत्कटककेयूरहारकुण्डलमण्डिताम् ॥ 125 ॥
विश्वास-प्रस्तुतिः
गम्भीरनाभिं37 त्रिवलीविभूषिततनूदराम्।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ॥ 126 ॥
मूलम्
गम्भीरनाभिं37 त्रिवलीविभूषिततनूदराम्।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ॥ 126 ॥
विश्वास-प्रस्तुतिः
चलद्विरेफपटलसमाक्रान्तालकावलिम्।
आरक्ताधरबिम्बां च वंशमुक्ताफलद्विजाम् ॥ 127 ॥
मूलम्
चलद्विरेफपटलसमाक्रान्तालकावलिम्।
आरक्ताधरबिम्बां च वंशमुक्ताफलद्विजाम् ॥ 127 ॥
टिप्पनी 127
द्विजाः दन्ताः।
विश्वास-प्रस्तुतिः
अर्धचन्द्रललाटस्थराजमानललाटिकाम्।
सर्वलक्षणसंपन्नां कृष्णकुञ्चितमूर्धजाम् ॥ 128 ॥
मूलम्
अर्धचन्द्रललाटस्थराजमानललाटिकाम्।
सर्वलक्षणसंपन्नां कृष्णकुञ्चितमूर्धजाम् ॥ 128 ॥
टिप्पनी 128
ललाटिका तिलकम्। अलंकारे कन्।
विश्वास-प्रस्तुतिः
वरदां पङ्कजकरां पद्ममालाविभूषिताम्।
विष्णुवामभुजास्लिष्टां तदंसस्थकराम्बुजाम् ॥ 129 ॥
मूलम्
वरदां पङ्कजकरां पद्ममालाविभूषिताम्।
विष्णुवामभुजास्लिष्टां तदंसस्थकराम्बुजाम् ॥ 129 ॥
विश्वास-प्रस्तुतिः
वामेन बाहुना दिव्यां वहन्तीं पुष्पमञ्जरीम्।
वरदाभयपाणिं वा पाशाङ्कुशकरां तु वा ॥ 130 ॥
मूलम्
वामेन बाहुना दिव्यां वहन्तीं पुष्पमञ्जरीम्।
वरदाभयपाणिं वा पाशाङ्कुशकरां तु वा ॥ 130 ॥
विश्वास-प्रस्तुतिः
अर्धस्वस्तिकसंलीनां स्फुरन्मौलिविराजिताम्।
ध्यात्वा मां संमुखीं कुर्यान्मन्त्रमूर्तिं सनातनीम् । 131 ॥
मूलम्
अर्धस्वस्तिकसंलीनां स्फुरन्मौलिविराजिताम्।
ध्यात्वा मां संमुखीं कुर्यान्मन्त्रमूर्तिं सनातनीम् । 131 ॥
टिप्पनी 131
स्वस्तिकम् आसनविशेषः।
मूलमन्त्रादिकैर्भूयो मन्त्रैः सर्वैश्च पूर्ववत्।
38करन्यासं विना देहन्यासं मयि समाचरेत् ॥ 132 ॥
विश्वास-प्रस्तुतिः
पुष्पमर्ध्यं तथा दीपं धूपं माल्यं विलेपनम्।
चेतसा सादरेणैव पाद्यमाचमनं ततः39 ॥ 133 ॥
मूलम्
पुष्पमर्ध्यं तथा दीपं धूपं माल्यं विलेपनम्।
चेतसा सादरेणैव पाद्यमाचमनं ततः39 ॥ 133 ॥
विश्वास-प्रस्तुतिः
प्रणाममथवाष्टाङ्गं जयशब्दांश्च मानसान्।
प्रदर्शयेत्ततो मुद्रा यास्ते पूर्वं प्रदर्शिताः ॥ 134 ॥
मूलम्
प्रणाममथवाष्टाङ्गं जयशब्दांश्च मानसान्।
प्रदर्शयेत्ततो मुद्रा यास्ते पूर्वं प्रदर्शिताः ॥ 134 ॥
विश्वास-प्रस्तुतिः
स्वागतं तव पद्माक्षि संनिधिं भज मेऽम्बुजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ 135 ॥
मूलम्
स्वागतं तव पद्माक्षि संनिधिं भज मेऽम्बुजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ 135 ॥
विश्वास-प्रस्तुतिः
लब्ध्वानुज्ञां ततो मत्तो मानसं यागमाचरेत्।
संकल्पजनितैर्भोगैः पवित्रैः पारमार्थिकैः ॥ 136 ॥
मूलम्
लब्ध्वानुज्ञां ततो मत्तो मानसं यागमाचरेत्।
संकल्पजनितैर्भोगैः पवित्रैः पारमार्थिकैः ॥ 136 ॥
विश्वास-प्रस्तुतिः
बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया।
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः ॥ 137 ॥
मूलम्
बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया।
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः ॥ 137 ॥
विश्वास-प्रस्तुतिः
प्रापणान्तं विधायान्ते40 कारिणं संस्मरेद् गुरुम्।
जीवन्तमथवातीतं तस्मै दद्यात्ततोऽखिलम् ॥ 138 ॥
मूलम्
प्रापणान्तं विधायान्ते40 कारिणं संस्मरेद् गुरुम्।
जीवन्तमथवातीतं तस्मै दद्यात्ततोऽखिलम् ॥ 138 ॥
विश्वास-प्रस्तुतिः
वित्तं संविभजेच्चैव प्रापणांशेन मन्त्रवित्।
जीवतोऽप्यथवातीतान्यथार्थेनैव चेतसा ॥ 139 ॥
मूलम्
वित्तं संविभजेच्चैव प्रापणांशेन मन्त्रवित्।
जीवतोऽप्यथवातीतान्यथार्थेनैव चेतसा ॥ 139 ॥
विश्वास-प्रस्तुतिः
परिवारान् स्मरेत् सर्वान् वक्ष्यमाणान् विशेषतः।
कारणे मयि संलीनान् धानास्थानिव भूरुहान् ॥ 140 ॥
मूलम्
परिवारान् स्मरेत् सर्वान् वक्ष्यमाणान् विशेषतः।
कारणे मयि संलीनान् धानास्थानिव भूरुहान् ॥ 140 ॥
विश्वास-प्रस्तुतिः
तत्तन्मन्त्रप्रयोगेण लयप्रक्रियया यजेत्।
कुर्यान्महानसे होमं मोक्षलक्ष्मीप्रदं शुभम् ॥ 141 ॥
मूलम्
तत्तन्मन्त्रप्रयोगेण लयप्रक्रियया यजेत्।
कुर्यान्महानसे होमं मोक्षलक्ष्मीप्रदं शुभम् ॥ 141 ॥
विश्वास-प्रस्तुतिः
त्रिगुणाधारमध्यस्थे त्रिकोणे त्रिगुणेऽनले।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ 142 ॥
मूलम्
त्रिगुणाधारमध्यस्थे त्रिकोणे त्रिगुणेऽनले।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ 142 ॥
विश्वास-प्रस्तुतिः
संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः।
त्रिलक्षणाधारगते वैष्णवे जातवेदसि ॥ 143 ॥
मूलम्
संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः।
त्रिलक्षणाधारगते वैष्णवे जातवेदसि ॥ 143 ॥
टिप्पनी 143
संस्कारैरिति। वैष्णवीकरणप्रक्रिययेत्यर्थः।
विश्वास-प्रस्तुतिः
नादावसानगगनात्तारिकायाः परिस्रतम्41।
ब्रह्म हविर्गृहीत्वाथ ब्रह्मरन्ध्रेण संविशेत् ॥ 144 ॥
मूलम्
नादावसानगगनात्तारिकायाः परिस्रतम्41।
ब्रह्म हविर्गृहीत्वाथ ब्रह्मरन्ध्रेण संविशेत् ॥ 144 ॥
विश्वास-प्रस्तुतिः
ततो वह्निगृहं गत्वा सर्पिः 42संस्कृत्य शास्त्रतः।
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि ॥ 145 ॥
मूलम्
ततो वह्निगृहं गत्वा सर्पिः 42संस्कृत्य शास्त्रतः।
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि ॥ 145 ॥
विश्वास-प्रस्तुतिः
ततो होमावसाने तत्संकल्पः कर्म मानसम्।
संन्यसेन्मयि भावेन वक्ष्यमाणधिया सुधीः ॥ 146 ॥
मूलम्
ततो होमावसाने तत्संकल्पः कर्म मानसम्।
संन्यसेन्मयि भावेन वक्ष्यमाणधिया सुधीः ॥ 146 ॥
विश्वास-प्रस्तुतिः
यः क्रमोऽबिहितो43 बाह्ये स सर्वो मानसेऽत्र तु।
अवधानेन वा कार्यो मन्मयैर्द्रव्यसंचयैः ॥ 147 ॥
मूलम्
यः क्रमोऽबिहितो43 बाह्ये स सर्वो मानसेऽत्र तु।
अवधानेन वा कार्यो मन्मयैर्द्रव्यसंचयैः ॥ 147 ॥
विश्वास-प्रस्तुतिः
सर्वोपसर्गशमनः सोऽयं सर्वफलप्रदः।
कथितो मानसो यागः कार्य आदेहपातनात् ॥ 148 ॥
मूलम्
सर्वोपसर्गशमनः सोऽयं सर्वफलप्रदः।
कथितो मानसो यागः कार्य आदेहपातनात् ॥ 148 ॥
टिप्पनी 148
आदेहपातनादिति। अनेन पाञ्चकालिकधर्मनिरतस्य परमैकान्तिनः प्रतिपुरुषं प्रत्यहं च भगवदाराधनमवश्यकर्तव्यं नित्यकर्मेत्युक्तं भवति।
अथ द्रव्याणि सर्वाणि मन्मयीकृत्य यत्नतः।
44बाह्योत्थवासन शान्त्यै बाह्ययागमथाचरेत् ॥ 149 ॥
विश्वास-प्रस्तुतिः
इत्येवमन्तर्यागस्ते मदीयः शक्र वर्णितः।
बहिर्यागस्वरूपं तु तत्त्वतो मे निशामय ॥ 150 ॥
मूलम्
इत्येवमन्तर्यागस्ते मदीयः शक्र वर्णितः।
बहिर्यागस्वरूपं तु तत्त्वतो मे निशामय ॥ 150 ॥
इति श्रीपाञ्चरात्रसारे45 लक्ष्मीतन्त्रे अन्तर्यागप्रकाशो नाम षट्त्रिंशोऽध्यायः
इति षट्त्रिंशोऽध्यायः
-
B. C. omit five lines from here. ↩︎
-
F. omits three lines from here. ↩︎
-
धर्तृ F. ↩︎
-
B. omits four lines from here. ↩︎
-
तत्तदैश्वर्यदं तत्त्वम् F. ↩︎
-
B. omits six lines from here. ↩︎
-
मन्त्रतो A. C. G. ↩︎
-
C. omits three lines from here. ↩︎
-
तद्ध्याने F. ↩︎
-
युगानुसार A. G. ↩︎
-
The printed edition and all MSS. except F. and I. add wrongly चिदानन्दमयी शक्ति before this line. ↩︎
-
समाश्रयाः A. B. F. ↩︎
-
सुखरम्य F. ↩︎
-
दर्पणा B. ↩︎
-
विनिष्कर्तुं A. B. C. ↩︎
-
G. omits this line. ↩︎
-
बाह्यार्थ B. F. ↩︎
-
श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. ↩︎