०३५

विश्वास-प्रस्तुतिः

पञ्चत्रिंशोऽध्यायः - 35
श्रीः—
अन्तर्यागादिसिद्ध्यर्थं भूतशुद्धिं निशामय।
कथ्यमानं मया शक्र सावधानेन चेतसा ॥ 1 ॥

मूलम्

पञ्चत्रिंशोऽध्यायः - 35
श्रीः—
अन्तर्यागादिसिद्ध्यर्थं भूतशुद्धिं निशामय।
कथ्यमानं मया शक्र सावधानेन चेतसा ॥ 1 ॥

टिप्पनी 1

भूतशुद्धिर्नाम साधकस्य प्राकृतदेहस्थानां मांसमेदोऽस्थिभूयिष्ठानां भूतानां शुद्धीकरणम्। तच्च भगवदाराधनयोग्यतासंपत्त्यै। तत्प्रकारश्च प्राकृतानां तेषां स्वस्वकारणेषु लयचिन्तनपूर्वकं भगवति समर्पणं कृत्वा पुनस्तत्सकाशात् भगवन्मयाप्राकृतभूताविर्भावपूर्वकं तदारब्धदेहावस्थितिभावनम्। एषा च भूतशुद्धिः सर्वैरपि तान्त्रिकैः स्वस्वसमयानुसारेण स्वस्वतन्त्रेषु प्रतिपादिता दृस्यते।

1प्रकृत्यन्तस्य पृथ्व्यादेः 2कादिभान्ततयैव च।
मन्मयीकरणं बुद्ध्या भूतशुद्धिरिहोच्यते ॥ 2 ॥

टिप्पनी 2

कादि भान्तमिति। ककारेण पृथिवी भकारेण प्रकृतिश्च गृह्यते।

विश्वास-प्रस्तुतिः

पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं स्थितम्।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं विदुः ॥ 3 ॥

मूलम्

पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं स्थितम्।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं विदुः ॥ 3 ॥

विश्वास-प्रस्तुतिः

चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता यत्र तत्तु तन्मात्रमुच्यते ॥ 4 ॥

मूलम्

चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता यत्र तत्तु तन्मात्रमुच्यते ॥ 4 ॥

विश्वास-प्रस्तुतिः

स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीश्च तत्र तत्र निवेशयेत् ॥ 5 ॥

मूलम्

स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीश्च तत्र तत्र निवेशयेत् ॥ 5 ॥

विश्वास-प्रस्तुतिः

घ्राणादि पायूपस्थादि गन्धादीति त्रयं त्रयम्।
तन्मात्रवर्गे पृथ्व्यादौ प्रातिलोम्याच्छमं नयेत् ॥ 6 ॥

मूलम्

घ्राणादि पायूपस्थादि गन्धादीति त्रयं त्रयम्।
तन्मात्रवर्गे पृथ्व्यादौ प्रातिलोम्याच्छमं नयेत् ॥ 6 ॥

विश्वास-प्रस्तुतिः

तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात्।
विषयेन्द्रियकल्लोला महाभूतमहोदधौ ॥ 7 ॥

मूलम्

तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात्।
विषयेन्द्रियकल्लोला महाभूतमहोदधौ ॥ 7 ॥

टिप्पनी 7

पूर्वोक्तं लयं निदर्शनमुखेनाह—तरङ्गा इति।

विश्वास-प्रस्तुतिः

सुसमीचीनया बुद्ध्या तद्वदस्तं नयेद् बुधः।
3मनोऽभिमान इत्येतावहंकारे शमं नयेत् ॥ 8 ॥

मूलम्

सुसमीचीनया बुद्ध्या तद्वदस्तं नयेद् बुधः।
3मनोऽभिमान इत्येतावहंकारे शमं नयेत् ॥ 8 ॥

विश्वास-प्रस्तुतिः

प्राणमध्यवसायं च बुद्धितत्त्वे 4निबर्हयेत्।
सत्त्वं रजस्तमश्चैव त्रैगुण्यं प्रकृतौ नयेत् ॥ 9 ॥

मूलम्

प्राणमध्यवसायं च बुद्धितत्त्वे 4निबर्हयेत्।
सत्त्वं रजस्तमश्चैव त्रैगुण्यं प्रकृतौ नयेत् ॥ 9 ॥

विश्वास-प्रस्तुतिः

यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके।
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् ॥ 10 ॥

मूलम्

यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके।
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् ॥ 10 ॥

टिप्पनी 10

त्रैगुण्यमिति। एषां क्रमेण प्रधानमव्यक्तं तम इत्यौपनिषदौ व्यवहारः।

विश्वास-प्रस्तुतिः

एवं 5तत्त्वविदां ज्ञेया एताः प्रकृतयो दश।
स्थूलसूक्ष्मविबेदेन ताः पुनर्विंशतिः स्मृताः ॥ 11 ॥

मूलम्

एवं 5तत्त्वविदां ज्ञेया एताः प्रकृतयो दश।
स्थूलसूक्ष्मविबेदेन ताः पुनर्विंशतिः स्मृताः ॥ 11 ॥

विश्वास-प्रस्तुतिः

स्थूलानां प्रकृतीनां तु दश मन्त्रा इमे स्मृताः।
तत्तत्संज्ञा हुंफडन्तास्तारिकाद्या ध्रुवादिकाः ॥ 12 ॥

मूलम्

स्थूलानां प्रकृतीनां तु दश मन्त्रा इमे स्मृताः।
तत्तत्संज्ञा हुंफडन्तास्तारिकाद्या ध्रुवादिकाः ॥ 12 ॥

टिप्पनी 12

तत्तत्संज्ञा इति। आदौ प्रणवः, ततस्तारिका, ततो भूतसंज्ञाः, ततो हुं फट्। आहत्य ओं ह्नीं पृथिव्यै हुं फट् इति मन्त्रः। जयाख्ये तु (10-15) तारिकास्थाने मन्त्रान्तराण्युक्तानि।

विश्वास-प्रस्तुतिः

मांसं मेदस्तथा स्मृत्वा रसो व्योमाक्षरत्रयम्6
परात् परद्वयं चैव बिन्दुनादविभूषितम् ॥ 13 ॥

मूलम्

मांसं मेदस्तथा स्मृत्वा रसो व्योमाक्षरत्रयम्6
परात् परद्वयं चैव बिन्दुनादविभूषितम् ॥ 13 ॥

विश्वास-प्रस्तुतिः

दशानां सूक्ष्मरूपाणां शक्त्याद्यास्ता नव स्मृताः।
देहेषु जीवभूता याः शक्तयः परसंज्ञिताः ॥ 14 ॥

मूलम्

दशानां सूक्ष्मरूपाणां शक्त्याद्यास्ता नव स्मृताः।
देहेषु जीवभूता याः शक्तयः परसंज्ञिताः ॥ 14 ॥

विश्वास-प्रस्तुतिः

मायाव्योमयुतानेतान् शक्त्यादींस्तदनु स्मरेत्।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 15 ॥

मूलम्

मायाव्योमयुतानेतान् शक्त्यादींस्तदनु स्मरेत्।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 15 ॥

टिप्पनी 15

जीवशक्तीनां नामान्याह—निवृत्तिरित्यादि।

विश्वास-प्रस्तुतिः

शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः ॥ 16 ॥

मूलम्

शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः ॥ 16 ॥

विश्वास-प्रस्तुतिः

बीजानां 7दशके तस्मिन् वह्निविष्ण्वर्धचन्द्रकान्8
संयोज्य मन्त्रान् जानीयादधिष्ठात्रीगतानिमान् ॥ 17 ॥

मूलम्

बीजानां 7दशके तस्मिन् वह्निविष्ण्वर्धचन्द्रकान्8
संयोज्य मन्त्रान् जानीयादधिष्ठात्रीगतानिमान् ॥ 17 ॥

टिप्पनी 17

वह्नीत्यादि। रीं इत्येतत् संयोज्येत्यर्थः।

विश्वास-प्रस्तुतिः

गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका।
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूविका ॥ 18 ॥

मूलम्

गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका।
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूविका ॥ 18 ॥

टिप्पनी 18

गन्धश्रीरित्यादीनि शक्तिनामानि।

विश्वास-प्रस्तुतिः

तथैव गुणसूक्ष्मश्रीर्मायाश्रीरिति संज्ञया।
अधिष्ठात्र्योऽपि9 वर्तन्ते शक्तयो दशके मम ॥ 19 ॥

मूलम्

तथैव गुणसूक्ष्मश्रीर्मायाश्रीरिति संज्ञया।
अधिष्ठात्र्योऽपि9 वर्तन्ते शक्तयो दशके मम ॥ 19 ॥

विश्वास-प्रस्तुतिः

एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत्।
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय ॥ 20 ॥

मूलम्

एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत्।
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय ॥ 20 ॥

टिप्पनी 20

पुरेति। भूतशुद्धेः पूर्वमित्यर्थः।

विश्वास-प्रस्तुतिः

कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम्।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद्भुवम् ॥ 21 ॥

मूलम्

कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम्।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद्भुवम् ॥ 21 ॥

विश्वास-प्रस्तुतिः

सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु ॥ 22 ॥

मूलम्

सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु ॥ 22 ॥

टिप्पनी 22

एवं निर्दग्धस्य स्थानस्य पुनरुज्जीवनमाह—सोमेत्यादि।

विश्वास-प्रस्तुतिः

चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थानस्थां लयं नयेत् ॥ 23 ॥

मूलम्

चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थानस्थां लयं नयेत् ॥ 23 ॥

टिप्पनी 23

मन्त्रेणेति। अत्र मन्त्रः श्लां इति जयाख्ये उक्तः (10-17).

विश्वास-प्रस्तुतिः

गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
मय्यधिष्ठानभूतायां मां च बाह्याम्भसि क्षिपेत् ॥ 24 ॥

मूलम्

गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
मय्यधिष्ठानभूतायां मां च बाह्याम्भसि क्षिपेत् ॥ 24 ॥

विश्वास-प्रस्तुतिः

मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च दैवत्म्।
स्वस्थाने विलयं नीत्वा रसमात्रे स्वमन्त्रतः ॥ 25 ॥

मूलम्

मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च दैवत्म्।
स्वस्थाने विलयं नीत्वा रसमात्रे स्वमन्त्रतः ॥ 25 ॥

विश्वास-प्रस्तुतिः

मन्त्रेण तं प्रतिष्ठाप्य तच्च मय्यानयेल्लयम्।
मां च बाह्ये क्षिपेद्वह्नावामायं तत्क्रमस्त्वयम् ॥ 26 ॥

मूलम्

मन्त्रेण तं प्रतिष्ठाप्य तच्च मय्यानयेल्लयम्।
मां च बाह्ये क्षिपेद्वह्नावामायं तत्क्रमस्त्वयम् ॥ 26 ॥

टिप्पनी 26

मन्त्रेणेति। ष्वां इति जयाख्ये मन्त्र उक्तः। आमायमिति। मायापर्यन्तमित्यर्थः।

विश्वास-प्रस्तुतिः

सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् ॥ 27 ॥

मूलम्

सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् ॥ 27 ॥

टिप्पनी 27

नैकमिति। लयं सर्वत्रैकविधं न बुध्येतेत्यन्वयः। तदेव निदर्शनमुखेनाह–यथा हीति। तन्मथनोद्भवमिति सर्पिर्विशेषणम्।

विश्वास-प्रस्तुतिः

सर्पिरन्यत्र च क्षीरे तत्सर्पिष्यपि10 चान्यकम्।
एवमा प्रकृतेः शक्तीरधिष्ठात्रीः स्मरेद् बुधः ॥ 28 ॥

मूलम्

सर्पिरन्यत्र च क्षीरे तत्सर्पिष्यपि10 चान्यकम्।
एवमा प्रकृतेः शक्तीरधिष्ठात्रीः स्मरेद् बुधः ॥ 28 ॥

एवं 11मां परमां शक्तिं नवशक्तिसमन्विताम्।
12निर्गुणान्तविधां ध्यातां मायाधिष्ठानकारिणीम् ॥ 29 ॥

विश्वास-प्रस्तुतिः

दशमीं तत्परं नीत्वा शक्तिमेकादशीं स्थिताम्।
महाक्षोभमयीं लक्ष्मीं व्यूहाभ्युदयरूपिणीम् ॥ 30 ॥

मूलम्

दशमीं तत्परं नीत्वा शक्तिमेकादशीं स्थिताम्।
महाक्षोभमयीं लक्ष्मीं व्यूहाभ्युदयरूपिणीम् ॥ 30 ॥

विश्वास-प्रस्तुतिः

एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम्।
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् ॥ 31 ॥

मूलम्

एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम्।
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् ॥ 31 ॥

विश्वास-प्रस्तुतिः

एवं तां परमां शक्तिं द्वादशीमशिलात्मिकाम्।
द्वादशान्तान्तमुन्नीय वर्णमय्यां मयि स्मरेत्13 ॥ 32 ॥

मूलम्

एवं तां परमां शक्तिं द्वादशीमशिलात्मिकाम्।
द्वादशान्तान्तमुन्नीय वर्णमय्यां मयि स्मरेत्13 ॥ 32 ॥

टिप्पनी 32

द्वादशान्तेति। मूर्ध्न उपरि मायातो द्वादशाङ्गुलादूर्ध्वं स्थानं द्वादशान्तमिति सांप्रदायिको व्यवहारः।

विश्वास-प्रस्तुतिः

अग्नीषोमार्ककोट्याभा14 सर्वतोऽक्षिशिरोमुखी।
धारासंतानरूपा मे सूक्ष्मा वर्णमयी तनुः ॥ 33 ॥

मूलम्

अग्नीषोमार्ककोट्याभा14 सर्वतोऽक्षिशिरोमुखी।
धारासंतानरूपा मे सूक्ष्मा वर्णमयी तनुः ॥ 33 ॥

टिप्पनी 33

वर्णमयीं तनुं विशिनिष्टि—अग्नीत्यादि। धारासंतानेति। अमृतधारासंतानरूपेत्यर्थः।

विश्वास-प्रस्तुतिः

सर्वजीवोपकाराय सर्वसंभारसंभृता।
उदिता सा 15पुरा विष्णोर्मेघाद्विद्युदिवोज्ज्वला ॥ 34 ॥

मूलम्

सर्वजीवोपकाराय सर्वसंभारसंभृता।
उदिता सा 15पुरा विष्णोर्मेघाद्विद्युदिवोज्ज्वला ॥ 34 ॥

विश्वास-प्रस्तुतिः

शक्रः—
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात्।
कीदृशानि च बिम्बानि भूम्यादीनां वदाम्बुजे ॥ 35 ॥

मूलम्

शक्रः—
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात्।
कीदृशानि च बिम्बानि भूम्यादीनां वदाम्बुजे ॥ 35 ॥

विश्वास-प्रस्तुतिः

श्रीः—
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम्।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः ॥ 36 ॥

मूलम्

श्रीः—
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम्।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः ॥ 36 ॥

विश्वास-प्रस्तुतिः

आ कर्णान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः।
आ भ्रुवोर्महतः स्थानमाकाशे तु16 परं स्मृतम् ॥ 37 ॥

मूलम्

आ कर्णान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः।
आ भ्रुवोर्महतः स्थानमाकाशे तु16 परं स्मृतम् ॥ 37 ॥

विश्वास-प्रस्तुतिः

ततः प्रादेशमात्राग्रे मूर्धतश्चतुरङ्गुले।
स्थाने प्रकृत्याः शेषं तदङ्गुलीनां द्विरष्टकम् ॥ 38 ॥

मूलम्

ततः प्रादेशमात्राग्रे मूर्धतश्चतुरङ्गुले।
स्थाने प्रकृत्याः शेषं तदङ्गुलीनां द्विरष्टकम् ॥ 38 ॥

टिप्पनी 38

प्रकृत्याः स्थानमाकाशे आह—तत इति। मूर्ध्नश्चतुरङ्गुलोर्ध्वभागे प्रकृत्या अवस्थानम्। ततः षोडशाङ्गुलोपरि भागे अव्यक्तस्यावस्थानम्।

विश्वास-प्रस्तुतिः

एकादश्यां द्विषट्‌कायां स्थानं तत्त्वक्षरश्रियः।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ॥ 39 ॥

मूलम्

एकादश्यां द्विषट्‌कायां स्थानं तत्त्वक्षरश्रियः।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ॥ 39 ॥

टिप्पनी 39

तत एकादशाङ्गुलोपरि भागे मायास्थानम्। ततो द्वादशाङ्गुलोपरि भागे शब्दब्रह्मस्थानमिति विवेकः। इदमेव द्वादशान्तमित्युच्यते।

विश्वास-प्रस्तुतिः

अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते ॥ 40 ॥

मूलम्

अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते ॥ 40 ॥

17धूम्रं षड्‌बिन्दुसंयुक्तं18 वृत्तं वायव्यमुच्यते।
अञ्जनाभं तथाकाशं बिम्बमात्रं स्मृतं परम् ॥ 41 ॥

टिप्पनी 41

बिम्बमात्रमिति। प्रधानादीनां बिम्बमात्रमेव। न वर्णादिकमित्यर्थः।

विश्वास-प्रस्तुतिः

एवं तत्त्वोपसंहारे कृते हृत्कुहरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमानुगप्त् ॥ 42 ॥

मूलम्

एवं तत्त्वोपसंहारे कृते हृत्कुहरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमानुगप्त् ॥ 42 ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वमाजानुमुन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तान्तराजीवं मध्यस्थायां मयि क्षिपेत् ॥ 43 ॥

मूलम्

ऊर्ध्वमाजानुमुन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तान्तराजीवं मध्यस्थायां मयि क्षिपेत् ॥ 43 ॥

टिप्पनी 43

मयि क्षिपेदिति। देहस्य दहनचिन्तने तदन्तःस्थजीवस्यापि दहन्चिन्तनप्रसक्तौ तन्निवारणाय जीवस्य देव्यां निक्षेप उच्यते।

विश्वास-प्रस्तुतिः

तदन्ते च19 महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ॥ 44 ॥

मूलम्

तदन्ते च19 महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ॥ 44 ॥

टिप्पनी 44

तदन्ते द्वादशान्ते। महापद्ममिति। अस्तीति शेषः।

विश्वास-प्रस्तुतिः

अग्नीषोममयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्मयी सा मामिका परा ॥ 45 ॥

मूलम्

अग्नीषोममयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्मयी सा मामिका परा ॥ 45 ॥

विश्वास-प्रस्तुतिः

अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ॥ 46 ॥

मूलम्

अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ॥ 46 ॥

टिप्पनी 46

अस्याः; मम तन्वाः।

विश्वास-प्रस्तुतिः

ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् ॥ 47 ॥

मूलम्

ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् ॥ 47 ॥

टिप्पनी 47

जीवे देहान्निर्गमथ्य द्वादशान्तं प्रापिते सति, देहस्य दहनचिन्तनमुच्यते—तत इत्यादिना। लवणकूटाभमिति निर्गमितजीवस्य देहस्य निर्देशः।

विश्वास-प्रस्तुतिः

युक्तः सरसकः षष्ठो बिन्दुमान् दाहपावकः।
तारिकानतिमध्यस्थो विज्ञेयः शास्त्रचक्षुषा ॥ 48 ॥

मूलम्

युक्तः सरसकः षष्ठो बिन्दुमान् दाहपावकः।
तारिकानतिमध्यस्थो विज्ञेयः शास्त्रचक्षुषा ॥ 48 ॥

टिप्पनी 48

दाहकाग्निमन्त्र उच्यते। ह्रीं र्थूं नम इति।

विश्वास-प्रस्तुतिः

सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः।
चन्द्री सूक्ष्मस्तु सव्योमा पिण्डस्याप्यायने स्मृतः ॥ 49 ॥

मूलम्

सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः।
चन्द्री सूक्ष्मस्तु सव्योमा पिण्डस्याप्यायने स्मृतः ॥ 49 ॥

टिप्पनी 49

पुनः अप्राकृतदेहसंपत्तिचिन्तनमाह–सोममय्या इति। तत्र मन्त्रः—ठ्यं इति। जयाख्ये तु व्सं इत्युक्तः (10-78)।

विश्वास-प्रस्तुतिः

सिसृक्षया मयोद्यत्या संवित्प्राणोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्वर्णमय्यां मयि स्थिताः ॥ 50 ॥

मूलम्

सिसृक्षया मयोद्यत्या संवित्प्राणोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्वर्णमय्यां मयि स्थिताः ॥ 50 ॥

विश्वास-प्रस्तुतिः

ततस्ताभिः स्वशक्तीभिश्चोदनाद्वारपूर्वकम्20
मायादि क्षितिपर्यन्तं निर्मितं संस्मरेत् क्रमात् ॥ 51 ॥

मूलम्

ततस्ताभिः स्वशक्तीभिश्चोदनाद्वारपूर्वकम्20
मायादि क्षितिपर्यन्तं निर्मितं संस्मरेत् क्रमात् ॥ 51 ॥

टिप्पनी 51

माया प्रधानस्य सुसूक्ष्मावस्था; यां तम इत्यौपनिषदा वदन्ति।

विश्वास-प्रस्तुतिः

ततः पिण्डसमुत्पत्तिं करणव्यञ्जनोज्ज्वलाम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ॥ 52 ॥

मूलम्

ततः पिण्डसमुत्पत्तिं करणव्यञ्जनोज्ज्वलाम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ॥ 52 ॥

21पूर्वोक्तमार्गेण ततो हृदयं जीवमानयेत्।
पिण्डभूतास्त्रयो वर्णा अनलः सोमचन्द्रिणौ ॥ 53 ॥

टिप्पनी 53

जीवमन्त्रमाह—पिण्डभूता इति। र्ट्स इति जातः। जयाख्येऽप्येवमेवोक्तः।

विश्वास-प्रस्तुतिः

तारिकानतिमद्यस्था जीवमन्त्र उदाहृतः।
विशुद्धविग्रहस्त्वेवं मन्त्रन्यासं समाचरेत् ॥ 54 ॥

मूलम्

तारिकानतिमद्यस्था जीवमन्त्र उदाहृतः।
विशुद्धविग्रहस्त्वेवं मन्त्रन्यासं समाचरेत् ॥ 54 ॥

अधिकाराय पूजायां पूजकानां मुदेऽपि च।
22निबर्हणाय दैत्यादेविग्नानां विजयाय च ॥ 55 ॥

विश्वास-प्रस्तुतिः

क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम्।
स्वेन स्वेन तु मन्त्रेण तं मन्त्री23 पञ्चधा स्मरेत् ॥ 56 ॥

मूलम्

क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम्।
स्वेन स्वेन तु मन्त्रेण तं मन्त्री23 पञ्चधा स्मरेत् ॥ 56 ॥

विश्वास-प्रस्तुतिः

आधारशक्तिकूर्मोर्वीदुग्धाब्ध्यम्बुजरूपतः।
तार्क्ष्यं तत्र स्थितं ध्यायेत् खर्वबीजात्मना स्थितम् ॥ 57 ॥

मूलम्

आधारशक्तिकूर्मोर्वीदुग्धाब्ध्यम्बुजरूपतः।
तार्क्ष्यं तत्र स्थितं ध्यायेत् खर्वबीजात्मना स्थितम् ॥ 57 ॥

टिप्पनी 57

खर्वबीजमिति। खमित्याकारकमित्यर्थः।

विश्वास-प्रस्तुतिः

तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च।
दिशो निबध्य चास्त्रेण पुनरेवं मुहुर्मुहुः ॥ 58 ॥

मूलम्

तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च।
दिशो निबध्य चास्त्रेण पुनरेवं मुहुर्मुहुः ॥ 58 ॥

टिप्पनी 58

स्वं रूपमिति। “आत्मेति तूपगच्छन्ति” इत्युक्तरीत्या स्वात्मकमित्यर्थः।

शरजालोपमं कृत्वा प्राकारं चासनाद्बहिः।
24सप्राकारं तु तत् स्थानं कवचेनावकुण्ठयेत् ॥ 59 ॥

टिप्पनी 59

अस्रेण; अस्रमन्त्रेण वीर्यायास्त्राय फडित्यनेन। एवं कवचेन; कवचमन्त्रेण बलाय कवचाय हुमित्यनेन।

विश्वास-प्रस्तुतिः

गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत्।
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ 60 ॥

मूलम्

गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत्।
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ 60 ॥

विश्वास-प्रस्तुतिः

अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु।
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ ॥ 61 ॥

मूलम्

अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु।
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ ॥ 61 ॥

विश्वास-प्रस्तुतिः

अनामायां जयां मायां कनिष्ठायां ततो न्यसेत्।
सतारतारिकासंज्ञानत्यन्तस्तन्मनुक्रमः ॥ 62 ॥

मूलम्

अनामायां जयां मायां कनिष्ठायां ततो न्यसेत्।
सतारतारिकासंज्ञानत्यन्तस्तन्मनुक्रमः ॥ 62 ॥

टिप्पनी 62

सतारेत्यादि। ओं ह्रीं लक्ष्म्यै तर्जनीभ्यां नमः इत्यादि प्रकारेणेत्यर्थः।

विश्वास-प्रस्तुतिः

कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात्।
अङ्गानि पञ्च विन्यस्य नेत्रमङ्गेषु संस्मरेत् ॥ 63 ॥

मूलम्

कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात्।
अङ्गानि पञ्च विन्यस्य नेत्रमङ्गेषु संस्मरेत् ॥ 63 ॥

विश्वास-प्रस्तुतिः

कौस्तुभं दक्षिणतले वनमालां तथापरे।
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च ॥ 64 ॥

मूलम्

कौस्तुभं दक्षिणतले वनमालां तथापरे।
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च ॥ 64 ॥

टिप्पनी 64

अथ करन्यासः—कौस्तुभमित्यादिना। मध्यतः; तल इत्यर्थः।

विश्वास-प्रस्तुतिः

अड्कुशं दक्षिणे न्यस्येत् पाशं वामतले तथा।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ॥ 65 ॥

मूलम्

अड्कुशं दक्षिणे न्यस्येत् पाशं वामतले तथा।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ॥ 65 ॥

विश्वास-प्रस्तुतिः

ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु।
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि ॥ 66 ॥

मूलम्

ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु।
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि ॥ 66 ॥

टिप्पनी 66

मूर्धानमारभ्य चरणपर्यन्तं चरणमारभ्य मूर्धपर्यन्तं च देहन्यासमाह—आ मूर्ध्न इति।

25तारकं तारिकां चैव तौ च चन्द्रातपोपमौ।
वामस्कन्धे ततो लक्ष्मीं न्यसेत्कीर्तिं च दक्षिणे ॥ 67 ॥

विश्वास-प्रस्तुतिः

जयां दक्षिणपाणिस्थां माया वामकरस्थिताम्।
नासान्तरे च हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि ॥ 68 ॥

मूलम्

जयां दक्षिणपाणिस्थां माया वामकरस्थिताम्।
नासान्तरे च हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि ॥ 68 ॥

विश्वास-प्रस्तुतिः

शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः।
विन्यस्य नेत्रयोनेत्रमश्रं पाणितलद्वये ॥ 69 ॥

मूलम्

शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः।
विन्यस्य नेत्रयोनेत्रमश्रं पाणितलद्वये ॥ 69 ॥

विश्वास-प्रस्तुतिः

नाभौ पृष्टे करद्वन्द्व ऊरुजानुपदेषु च।
न्यसेत् सम्यगुपाङ्गानि त्रियुगं मन्त्रवित्तमः ॥ 70 ॥

मूलम्

नाभौ पृष्टे करद्वन्द्व ऊरुजानुपदेषु च।
न्यसेत् सम्यगुपाङ्गानि त्रियुगं मन्त्रवित्तमः ॥ 70 ॥

विश्वास-प्रस्तुतिः

वक्षःस्थं कौस्तुभं मध्ये कण्ठे च वनमालिकाम्।
पङ्कजे करयोर्न्यस्य मन्त्रमावर्तयन् द्विधा ॥ 71 ॥

मूलम्

वक्षःस्थं कौस्तुभं मध्ये कण्ठे च वनमालिकाम्।
पङ्कजे करयोर्न्यस्य मन्त्रमावर्तयन् द्विधा ॥ 71 ॥

विश्वास-प्रस्तुतिः

वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे।
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके ॥ 72 ॥

मूलम्

वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे।
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके ॥ 72 ॥

विश्वास-प्रस्तुतिः

चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा।
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् ॥ 73 ॥

मूलम्

चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा।
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् ॥ 73 ॥

विश्वास-प्रस्तुतिः

मनसा भावयेन्मुद्रास्तत्र तत्र च साधकः।
तारिका या परा देवी तया व्याप्ताननुस्मरेत् ॥ 74 ॥

मूलम्

मनसा भावयेन्मुद्रास्तत्र तत्र च साधकः।
तारिका या परा देवी तया व्याप्ताननुस्मरेत् ॥ 74 ॥

विश्वास-प्रस्तुतिः

विन्यस्तान् सकलान् मन्त्रान् सर्वतः संप्लुतोदवत्।
एवं कृतेऽनुसंधाने मन्त्राणां भिन्नवर्त्मनाम् ॥ 75 ॥

मूलम्

विन्यस्तान् सकलान् मन्त्रान् सर्वतः संप्लुतोदवत्।
एवं कृतेऽनुसंधाने मन्त्राणां भिन्नवर्त्मनाम् ॥ 75 ॥

विश्वास-प्रस्तुतिः

अपामिवोदधिस्थानामेकीकारः26 प्रजायते।
एवं न्यासे कृते मन्त्री साक्षाल्लक्ष्मीमयो भवेत् ॥ 76 ॥

मूलम्

अपामिवोदधिस्थानामेकीकारः26 प्रजायते।
एवं न्यासे कृते मन्त्री साक्षाल्लक्ष्मीमयो भवेत् ॥ 76 ॥

विश्वास-प्रस्तुतिः

सर्वाधिकारभागी स्यादाश्रित्य ध्यानजं बलम्।
ध्यायिनः सर्वसिद्धीनामाविर्भावश्च जायते ॥ 77 ॥

मूलम्

सर्वाधिकारभागी स्यादाश्रित्य ध्यानजं बलम्।
ध्यायिनः सर्वसिद्धीनामाविर्भावश्च जायते ॥ 77 ॥

विश्वास-प्रस्तुतिः

न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् ॥ 78 ॥

मूलम्

न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् ॥ 78 ॥

विश्वास-प्रस्तुतिः

न्यस्ताङ्गो विधिवन्मन्त्री यथाशास्त्रेण चेतसा।
तनुं मन्त्रमयीं तां तु मां ध्यायेत् परमेश्वरीम् ॥ 79 ॥

मूलम्

न्यस्ताङ्गो विधिवन्मन्त्री यथाशास्त्रेण चेतसा।
तनुं मन्त्रमयीं तां तु मां ध्यायेत् परमेश्वरीम् ॥ 79 ॥

विश्वास-प्रस्तुतिः

अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी।
इत्येवंभाववान् योगी भूयो नैव प्रजायते ॥ 80 ॥

मूलम्

अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी।
इत्येवंभाववान् योगी भूयो नैव प्रजायते ॥ 80 ॥

विश्वास-प्रस्तुतिः

इतीयं भूतशुद्धिस्ते यथावच्छक्र वर्णिता।
अन्तर्यागमथो वक्ष्ये तत्त्वतस्तन्निशामय ॥ 81 ॥

मूलम्

इतीयं भूतशुद्धिस्ते यथावच्छक्र वर्णिता।
अन्तर्यागमथो वक्ष्ये तत्त्वतस्तन्निशामय ॥ 81 ॥

इति 27श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे भूतशुद्धिप्रकाशो नाम पञ्चत्रिंशोऽध्यायः

इति पञ्चत्रिंशोऽध्यायः


  1. F. omits verses 2 to 23. ↩︎

  2. कादिहान्त A. ↩︎

  3. G. omits this line. ↩︎ ↩︎

  4. निगूहयेत् A. ↩︎ ↩︎

  5. तत्र विधा B. ↩︎ ↩︎

  6. व्योमाक्षरं पुनः C. ↩︎ ↩︎

  7. दश शक्तेऽस्मिन् A. B. ↩︎ ↩︎

  8. चन्द्रमाः A. B. C. ↩︎ ↩︎

  9. हि B. C. ↩︎ ↩︎

  10. सर्पिरपि B. G. ↩︎ ↩︎

  11. तां B. C. ↩︎

  12. निर्गुणां तु विधामेतां A. B. ↩︎

  13. अनुस्मरेत् C. ↩︎ ↩︎

  14. कोट्यास्च B. ↩︎ ↩︎

  15. परा B. ↩︎ ↩︎

  16. आकाशेभ्यः A. ↩︎ ↩︎

  17. C. omits this line. ↩︎

  18. पिण्डसंयुक्तं F. ↩︎

  19. तु A. C. ↩︎ ↩︎

  20. पूर्वतः A. B. ↩︎ ↩︎

  21. पूर्वोक्तेन च मार्गेण B. ↩︎

  22. B. omits this line. ↩︎

  23. तन्मन्त्रं B. ↩︎ ↩︎

  24. सत्प्रकारं B. C. ↩︎

  25. B. omits five lines from here. C. omits four lines from here. ↩︎

  26. एकाकारः B. ↩︎ ↩︎

  27. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎