०३४

विश्वास-प्रस्तुतिः

चतुस्रिंशोऽध्यायः - 34
श्रीः—
मुद्राकोशं प्रवक्ष्यामि मन्त्रकोशस्य वासव।
येन विज्ञातमात्रेण मन्त्रसिद्धिर्महीयसी ॥ 1 ॥

मूलम्

मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे।
आत्मनो न्यासकाले च पूजान्ते मण्डलाविधौ1 ॥ 2 ॥

अर्चायां मन्त्रविन्यासे ह्यर्घ्यपात्रेषु भोजने।
पूर्णाहुत्यवसाने च मन्त्रे 2ह्यभ्यन्तरस्थिते ॥ 3 ॥

हिंसकानां विघाताय सर्वविघ्नोपशान्तये।
संमुखौ तु करौ कृत्वा सुश्लिष्ठौ सुप्रसारितौ ॥ 4 ॥

संमुखं मध्यमायुग्मनिक्षिप्ताङ्‌गुलयः पराः।
अन्योन्याभिमुखाश्चैव भुजबृन्देन कल्पिताः ॥ 5 ॥

महाश्रीरिति विख्याता सर्वसौभाग्यदायिका।
मोचनी सर्वदोषाणां शीघ्रसिद्धिप्रदायिनी ॥ 6 ॥

जडभूतस्य वै 3जन्तोर्बोधनाभ्युदयात्मिका।
प्रसार्य 4वाममुत्तानमङ्‌गुल्यो 5विरलाः स्थिता ॥ 7 ॥

कार्यास्त्वाकुञ्चितप्रान्ता अङ्‌गुष्ठं सेतुवद्भवेत्।
संमुखं तासु संलग्नं करशाखासु मध्यमाम् ॥ 8 ॥

[^6]हृत्संमुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम्। इमे मुद्रे महाभागे योगिबृन्दोपवन्दिते ॥ 9 ॥
विश्वास-प्रस्तुतिः

परसूक्ष्मपदस्थे तु मम प्रीतिप्रदायिके।
मम स्थूलपदस्थाया योनिमुद्रां निशामया ॥ 10 ॥

संमुखौ तु करौ कृत्वा 6सुश्लिष्टौ सुप्रसारितौ।
मध्यतो मूलतः पृष्ठे विपर्यस्ते ह्यनामिके ॥ 11 ॥

तर्जनीमूलयोर्न्यस्य ताभ्यामग्रे निगूहयेत्।
मध्ययोः शेषयोरग्रे कनिष्ठायुगलं पुरः ॥ 12 ॥

अन्योन्यं पृष्ठतो लग्नं तलमध्योन्नतं भवेत्।
अङ्‌गुष्ठाग्रद्वयं कुर्यान्मध्ययोरग्रपर्वगम् ॥ 13 ॥

महायोनिरिति ख्याता मुद्रा सर्ववशंकरी।
त्रिविधा त्रिविधाया मे मुद्रैषा संप्रदर्शिता ॥ 14 ॥

सूक्ष्माख्या7 शक्तिमुद्रा या विकारस्तत्र8 वर्ण्यते।
प्रदेशिन्यादितोऽङ्‌गुष्ठमैकैकश्येन सेतुवत् ॥ 15 ॥

9विन्यस्याङ्‌गुलिषु ज्ञेयाश्चतस्रो मुद्रिका इमाः।
शक्तीनां तु मदीयानां लक्ष्म्यादीनां पुरंदर ॥ 16 ॥

विश्वास-प्रस्तुतिः

लक्ष्मीः कीर्तिर्जया माया देव्यो मच्छक्तयो हि ताः।
दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ 17 ॥

अन्तःस्थमुन्नतं कृत्वा वामाङ्‌गुष्ठं सुरोत्तम।
संमुखं हृदि हार्दैषा मुद्रा बुद्धिविवर्धनी ॥ 18 ॥

[^11]प्रसृता अङ्‌गुलीः सर्वा अङ्गुष्ठेन तु संस्पृशेत्। शैरस्येषा भवेन्मुद्रा मन्त्रसंनिधिकारिणी ॥ 19 ॥
विश्वास-प्रस्तुतिः

मुष्टिं वितर्जनीं कृत्वा तर्जनी ह्यूर्ध्वसंस्थिता।
शिखामुद्रेति विख्याता सर्वुदष्टभयंकरी ॥ 20 ॥

दोषविग्नविनाशाय सदा ह्येतां प्रदर्शयेत्।
आदौ तस्मात् प्रयत्नेन यागवेश्मनि दर्शयेत् ॥ 21 ॥

उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता10
उभयोरग्रतः शाखाः 11संस्थास्तु करयोर्द्वयोः ॥ 22 ॥

ताभ्यां मध्यमसंलग्नं करबन्धादितो भवेत्।
वार्णण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ॥ 23 ॥

अभेद्या दुष्टसंघेन भूतवेतालयोगिभिः।
कर्मकाले निबध्यैषा मन्त्रिणा च प्रयत्नतः ॥ 24 ॥

करयोर्ग्रथिताङ्‌गुल्यः संवृताः पाणिपृष्ठगाः।
तर्जन्यौ प्रान्तसंलग्ने सुषिरे चोच्छ्रिते तयोः ॥ 25 ॥

अङ्‌गुष्ठौ मूलसंलग्नौ विपर्यस्तौ परस्परम्।
चाक्षुष्येषा भवेन्मुद्रा निबध्या चक्षुरन्तिके ॥ 26 ॥

तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु।
द्रुतं करद्वयेनैव चक्षुर्भ्यां संनिरीक्षयेत् ॥ 27 ॥

अस्रमुद्रेति विख्याता त्रासनी देवविद्विषाम्।
अङ्गानामियमुद्दिष्टा षण्मुद्री सर्वसाधनी ॥ 28 ॥

उपाङ्गत्रियुगस्याथ मुद्रा एता निशामय।
अङ्‌गुलीः श्लेषयेत् सर्वाश्चतस्रो दक्षिणस्थिताः ॥ 29 ॥

तासां मूले तथाङ्गुष्ठं तिर्यञ्चं विनिवेशयेत्।
उपाङ्गानामियं मुद्रा तया तत्तत् स्पृशेत् पदम् ॥ 30 ॥

अलंकारास्त्रमन्त्राणां 12मुद्रा अथ निशामय।
कनिष्ठानामिकामध्या मुष्टिवत् पाणिमध्यगाः ॥ 31 ॥

उभयोर्हस्तयोः पश्चात्तौ मुष्टी श्लेषयेन्मिथः13
प्रसार्य तर्जनीद्वन्द्वं श्लेषयेदग्रतस्ततः14 ॥ 32 ॥

अङ्‌गुष्ठाग्रे विपर्यस्य तर्जन्योर्मध्यतो न्यसेत्।
मुद्रैषा कौस्तुभी नाम मालामुद्रामिमां शृणु ॥ 33 ॥

कण्ठादापादतः स्वांसौ[^17] तर्जनीभ्यां परिभ्रमन्। [^18]कुर्याद्युगपदेवैषा वनमालामयी शुभा ॥ 34 ॥
विश्वास-प्रस्तुतिः

व्यङ्गुष्ठा अङ्गुलीरष्टौ ग्रथयेदग्रतो मिथः।
लम्बं बाहुद्वयं कुर्यादेषा वा वनमालिका ॥ 35 ॥

अङ्गुष्ठौ पार्श्वतो लग्नावङ्गुल्यो विरलाः स्थिताः15
एषा पाङ्केरुही मुद्रा पुष्टिसौभाग्यवर्धिनी16 ॥ 36 ॥

उत्ताने दक्षिणे पाणावग्रेऽङ्गुष्ठकनिष्ठयोः।
मेलयेत् सेतुवच्छिषष्टं सुसंश्लिष्टं लतात्रयम् ॥ 37 ॥

आकुञ्चितफणाकारा मुद्रा पाशा भवेदियम्।
मुष्टिं पृष्ठस्थिताङ्गुष्ठं पाण्योर्मुष्टिद्वयं पुरा ॥ 38 ॥

कुर्यादधोमुखं वामं तत्पृष्ठे दक्षिणं तथा।
अथाधारादिशक्तेः स्यान्मुद्रोक्ता कूर्मवह्निजा ॥ 39 ॥

अधोमुखस्य वामस्य ह्यनामातर्जनीद्वयम्। [^21]आकुञ्च्य मध्यमापृष्ठे विन्यसेत्तु सुसंस्थितम् ॥ 40 ॥
विश्वास-प्रस्तुतिः

ऋजूमधोमुखीं कुर्यान्मध्यमामङ्गुलीं तथा।
ततः कनिष्ठिकाङ्गुष्ठौ वलवत्तु प्रसारयेत् ॥ 41 ॥

अनन्तासनमुद्रेयमनन्तोऽयं यथोत्थितः।
इयमासनमुद्राणां प्रधाना परिकीर्तिता ॥ 42 ॥

अविबागा परा शक्तिराधाराधारसंज्ञिता।
कूर्ममुद्रा तदुन्मेषा 17नादात्मानन्तमुद्रिका ॥ 43 ॥

भावनीयमिदं शश्वदित्थमासनकर्मणि।
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरः ॥ 44 ॥

अङ्गुलीत्रितयेनैव अङ्गुष्ठौ तर्जनीद्वयम्।
प्रान्तलग्नं तु तत् कुर्यात्तद्युगं मेलयेत् पुनः ॥ 45 ॥

एषा सा पार्थिवी मुद्रा सर्वभूतविधारिणी।
मणिबन्धौ तु संलग्नौ नखाग्राणि करद्वये ॥ 46 ॥

कार्याणि साङ्गुलीकानि परस्परमुखानि तु।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद् द्रुतम् ॥ 47 ॥

मद्ये कुर्याच्च करयोरगाधं18 सुषिरोपमम्।
क्षीरार्णवस्य मुद्रैषा पाद्मी पूर्वं प्रदर्शिता ॥ 48 ॥

करद्वयमसंलग्नं कृत्वा तदनु योजयेत्।
मुखे मुखं तु तर्जन्योरेवं मध्यमयोः क्रमात् ॥ 49 ॥

अनामयोस्ततः पश्चाद्वक्त्रे वक्त्रं कनिष्ठयोः।
अङ्गुष्ठयुगलं तत्तदङ्गुलीमुखयोर्न्यसेत् ॥ 50 ॥

एतन्मुद्राचतुष्कं तु धर्माद्ये तु चतुष्टये।
अधर्मादिचतुष्काणां तद्वन्मुद्राचतुष्टयम् ॥ 51 ॥

तदूर्ध्वस्थस्य पद्मस्य मुद्रा 19पाद्मी पुरोदिता।
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् ॥ 52 ॥

कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः।
समुत्तानं पुनः कुर्याच्छाखासंघं पृथक् पृथक् ॥ 53 ॥

धामत्रयस्य मुद्रैषा चिद्भासनगतां शृणु।
स्फुटौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ 54 ॥

चिद्भासनस्य मुद्रैषा शुद्धसत्त्वमयी परा।
द्वात्रिंशदिति मुद्राणां सर्वदोषविनाशिनी ॥ 55 ॥

भूषणआस्रासनादीनां तव शक्र प्रदर्शिता।
क्षेत्रेश्वरादिमुद्राणामिदानीं दशकं शृणु ॥ 56 ॥

ग्रस्तमङ्गुलिसंघातं कृत्वा पाणिद्वयेन तु।
बलात्संपीडयेत् कुर्वन्नङ्गुष्ठद्वयमुच्छ्रितम् ॥ 57 ॥

मुद्रेयं क्षेत्रपालस्य सर्वदुष्टनिबर्हणी।
उत्तानौ तु करौ कृत्वा निकटस्थौ पुरंदर ॥ 58 ॥

अङ्गुलीनां गणं सर्वं कुञ्चितं मध्यसंस्थितम्।
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः 20स्फुटतां नयेत् ॥ 59 ॥

श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव।
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजाम् ॥ 60 ॥

तामेव दक्षिणाद्धस्तात् प्रचण्डस्य निदर्शयेत्।
मध्यमां वामहस्ताद्वै समुत्थाप्य जयस्य सा ॥ 61 ॥

दक्षिणाद् विजयाख्यस्य बीजस्य परिकीर्तिता।
वामाच्चानामिकां प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् ॥ 62 ॥

दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य वासव।
मुद्रा शङ्खनिधेः प्रोक्ता वामहस्तात् कनिष्ठिका ॥ 63 ॥

तथा पद्मनिधेर्हस्ताद् दक्षिणात् सा कनिष्ठिका।
दक्षिणेन तु हस्तेन साङ्गुष्ठेन तु मुष्टिना ॥ 64 ॥

प्रदेशिनीमनामां च वामहस्तस्य पीडयेत्।
प्रयत्नीकृतशाखानां पृष्ठे योज्याथ मध्यमा ॥ 65 ॥

लम्बमानकराकारा यथा संदृश्यते च सा।
मुष्टेर्नातिसमीपस्थां वामहस्तात् कनिष्ठिकाम् ॥ 66 ॥

दक्षिणाङ्गुष्ठपार्श्वेन21 दंष्ट्रावत् परिभावयेत्।
ईषत्तिर्यग्गतिस्पष्टौ वामोऽङ्गुष्ठस्तथा परः ॥ 67 ॥

यथा तौ परिदृश्येते गजकर्णोपमौ शुभौ।
गणेश्वरस्य मुद्रैषा सर्वविघ्नक्षयंकरी ॥ 68 ॥

संश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा।
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुगम् ॥ 69 ॥

प्रदेशिनीयुगं तद्वत्तथैवानामिकाद्वयम्।
अङ्गुष्ठं द्विगुणीकृत्य नमयेत्तदधोमुखम् ॥ 70 ॥

शनैः शनैः स्पृशेद्यावत् स्वं स्वं 22पाणिद्वयीतलम्।
स्फुटं 23सुविरलं कुर्यादङ्गुष्ठद्वितयं तथा ॥ 71 ॥

कनिष्ठिकाद्वयं चैव समेन धरणेन तु।
इयं वागीश्वरी मुद्रा वाणीविभवदायिनी ॥ 72 ॥

संमुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ।
विनियोज्यौ ललाटाग्रे शिरसावनतेन तु ॥ 73 ॥

गुर्वादित्रितयस्यैषा मुद्रा चेतःप्रसादिनी।
प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्‌गुलिगणं ततः ॥ 74 ॥

संलग्नं कुञ्चयेत् किंचिदङ्‌गुष्ठं संप्रसार्य च।
तियक् शनैः शनैः किंचित् कुर्याच्चाधोमुखं ततः ॥ 75 ॥

मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता।
इयं श्राद्धसहस्रेभ्यः पितृप्रीतिकरी सदा ॥ 76 ॥

दर्शनीया प्रयत्नेन पितॄणां पूजने सदा।
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ॥ 77 ॥

वामस्य दक्षिणं पृष्ठे मुद्रैषा सिद्धसंसदः।
सुस्पृष्टं दक्षिणं हस्तमात्मनस्तु पराङ्मुखम् ॥ 78 ॥

पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत्।
वराभयदमुद्रे द्वे लोकेशानामिमे स्मृते ॥ 79 ॥

एकैकेन तु मन्त्रेण वज्राद्येव क्रमाद्युतम्।
अस्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् ॥ 80 ॥

लोकपालायुधानां तु पूजितानां क्रमादिह।
वामहस्तकनिष्ठाद्यास्तिस्रः स्वतलमध्यगाः ॥ 81 ॥

तासामङ्गुष्ठतः पृष्ठे तर्जती प्रोन्नता भवेत्।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ॥ 82 ॥

अङ्गुलीत्रितयेनैव मुष्टिं बद्धा तु पूर्ववत्।
तर्जनीं द्विगुणीकृत्य त्वङ्गुष्ठाग्रे नियोजयेत् ॥ 83 ॥

प्रोद्यतो दक्षिणो बाहुश्चक्रक्षेपे यथोद्यतः।
विष्वक्सेनस्य मुद्रेयं विश्वबन्धनकृन्तती24 ॥ 84 ॥

किंचिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम्।
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्रा ह्यावाहने स्मृता ॥ 85 ॥

खड्गधारासमाकारौ विरलाङ्गुलिकावुभौ।
अङ्गुष्ठौ दण्डवत् कृत्वा मुष्टिबन्धं शनैः शनैः ॥ 86 ॥

कुर्यात् कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
प्रसृतौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ 87 ॥

कनीयस्यौ तथाङ्गुष्ठौ सुश्लिष्टौ च नियोज्य च।
मध्यमाङ्गुलियुग्मं चाप्यन्योन्यकरपृष्ठगम् ॥ 88 ॥

प्रक्षिप्यानामिकायुग्मं तर्जनीयुगलं तथा।
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी ॥ 89 ॥

द्विप्रकारं तु मुद्राणां प्रयोगं विद्धि वासव।
अध्यात्मं संविदाकारं बाह्यं वाक्कर्मचित्तजम् ॥ 90 ॥

अनेन विधिना मुद्रां यो बध्नाति विधानवित्।
तेनेदं मुद्रितं सर्वमपुनर्भवसिद्धये ॥ 91 ॥

इति मुद्रागणः सर्वस्तवोद्दिष्टः पुरंदर।
आराधनाधिकारार्थं शृणु स्नानविधिं परम् ॥ 92 ॥

अन्तर्बहिर्मलोपेतमलक्ष्मीः प्रतिपद्यते।
तस्या निवारणार्थाय स्नानं सर्वत्र शिष्यते25 ॥ 93 ॥

तत् पुनस्रिविधं स्नानं जलमन्त्रस्मृतिक्रमात्।
त्रिविधं पुरुहूतैतत् स्मृतं शतगुणोत्तरम् ॥ 94 ॥

पुष्करादिषु तीर्थेषु यत् स्नानं जलजं 26स्मृतम्।
ततः शतगुणं स्नानं भगवच्छास्त्रचोदितम् ॥ 95 ॥

तस्माच्छतगुणं मान्त्रं मन्त्राङ्गन्याससंभवम्।
तस्माच्छतगुणं ध्यानं शुद्धसंविन्मयं परम् ॥ 96 ॥

आदौ सामान्यविधिना जलस्नानं समाचरेत्।
विशेषविधिना पस्चाद्विशेषस्य विधिस्त्वयम् ॥ 97 ॥

पूर्वं स्नात्वा मृदाम्भोभिः पश्चाद्गन्धादिलेपनप्त्।
स्नानं स्यात्तन्मलध्वंसि प्राणायामैः समाचरेत् ॥ 98 ॥

द्वादशावृत्तया कुर्यात् पूरणं तारया पुरा।
धारयेत् षोडशावृत्त्या द्विषट्‌केन पुनस्त्यजेत् ॥ 99 ॥

सव्यदक्षिणपर्यायै रेचनान्तमरुत्क्रमैः।
मलान् क्षपयति प्राणनाडीस्थान् पूर्वसंचितान् ॥ 100 ॥

ततस्तत्त्वमयो भूत्वा मलिनं भूतपिण्डकम्।
षाट्‌कोशिकमसारं च शोधयेद्धारणावशात्27 ॥ 101 ॥

पृथिव्यादीनि 28सर्वाणि तत्त्वानि स्वस्वकारणे।
धारणाभिर्नयेदस्तमव्यक्तान्तानि वै क्रमात् ॥ 102 ॥

क्षीरे क्षीरमिवात्मानं मयि संमिश्रयेत्ततः।
भूत्वा लक्ष्मीमयः पश्चाद्भवेन्नारायणात्मकः ॥ 103 ॥

धारणाबन्धमासाद्य शुद्धसत्त्वेन चेतसा।
परमात्मात्मकत्त्वं यत् सा शक्तिः परमा मता ॥ 104 ॥

तत्स्थ एव स्वकं पिण्‍डं संदहेद्धारणाग्निना।
चिदाशुशुक्षणेस्तेजः पुञ्जमर्चिःकणालयम् ॥ 105 ॥

पतन्तं संस्मरेन्मूर्ध्नि पिण्डं प्रज्वलितं ततः।
शान्तमन्तःस्थसत्सत्त्वं भस्मीभूतरजस्तमम् ॥ 106 ॥

रजस्तमोमयं भस्म त्वपोह्योद्बोधवायुना।
चिदानन्दमहाम्भोधेरतरङ्गगुणाकरात् ॥ 107 ॥

प्रसृतं सृष्टिमार्गेण संस्मरेदमृतोदकम्।
तेनाप्यायितमन्तःस्थं तत्सत्त्वं देहतां नयेत् ॥ 108 ॥

शुद्धं तत्सृष्टिमार्गेण संश्रयेद्भौतिकं वपुः।
अन्तःशुद्धिरियं प्रोक्ता बाह्यशुद्धिमथो श्रृणु ॥ 109 ॥

वक्ष्यमाणक्रमैरङ्गैर्मन्त्रन्यासं समाचरेत्। [^34]बहिः शुद्धिर्भवेदेवं तदा स्नानं समाचरेत् ॥ 110 ॥
विश्वास-प्रस्तुतिः

पवित्रपाणिरादाय मृत्कलां मन्त्रमन्त्रिताम्।
तां त्रिधा वामहस्ताग्रे मूलमध्याग्रतो न्यसेत् ॥ 111 ॥

बोधशक्त्यात्मना पूर्वं तीर्थशुद्धिं समाचरेत्।
तीर्थं तत् त्रिविधं प्रोक्तं स्थूलसूक्ष्मपरात्मना ॥ 112 ॥

तर्पयत्यखिलं स्थूलं स्थूलरूपेण तज्जगत्।
सत्त्वात्मना तु सूक्ष्मेण ससुरांस्तर्पयेत्पितॄन् ॥ 113 ॥

परेणानन्दरूपेण नयेन्मत्कर्मयोग्यताम्।
तस्माच्छुद्धिः पुरा कार्या तीर्थे शास्त्रदृशा स्वयम् ॥ 114 ॥

ज्ञानधारणयाकृष्य तीर्थसत्तां तु वैष्णवीम्[^35]। [^36]मयि शक्तौ लयं नीत्वा चिदानन्दमहास्पदे ॥ 115 ॥
विश्वास-प्रस्तुतिः

स्थूलं ज्ञानाग्निना दग्ध्वा ब्रह्मानन्देन पूरयेत्।
ज्ञानशक्त्यावरोप्याथ तीर्थे सत्त्वं तु वैष्णवम् ॥ 116 ॥

प्रथमे मध्यमेऽथान्ते मृद्भागे क्रमशः सुधीः।
अस्रं च मूलमन्त्रं चाप्यङ्गमन्त्रं च संस्मरेत् ॥ 117 ॥

दश दिक्षु क्षिपेदस्रं सर्वविघ्नोपशान्तये।
मूलमन्त्रान्वितं भागं तीर्थमध्ये विनिक्षिपेत् ॥ 118 ॥

[^37]संनिधानं भवेत्तेन मन्त्रमूर्तेर्म क्षणात्। मृद्भागमाङ्गमन्त्रं यत्तेनाङ्गानि विलेपयेत् ॥ 119 ॥
विश्वास-प्रस्तुतिः

जलमध्यं समाविश्य निमज्ज्योन्मज्ज्य वै पुनः।
कराभ्यामस्रजप्ताम्भः पूर्वं मूर्ध्नि विनिक्षिपेत् ॥ 120 ॥

द्वितीयं मूलमन्त्रेण तृतीयं चाङ्गमन्त्रकैः।
ततस्तीरं समासाद्य सम्यगाचम्य वै ततः ॥ 121 ॥

स्नानं समाचरेन्मन्त्रैर्यथावन्न्यासकर्मणआ।
ध्यानस्नानं ततः कुर्यात् सावधानेन चेतसा ॥ 122 ॥

स्वस्थितं पुण्डरीकाक्षं स्मृत्वा लक्ष्मीधरं परम्।
तत्पादोदकजां धारां संस्मरेच्छिरसि च्युताम् ॥ 123 ॥

तया संप्लावयेदन्तर्बहिश्च सकलं वपुः।
एकैकशो द्विशो वापि त्रिशो वापि समाहितः ॥ 124 ॥

यथाशक्ति यथाकालं त्रिविधं स्नानमाचरेत्।
प्रणवाद्यैर्नमोऽन्तैश्च नामभिर्मन्मयान् सुरान् ॥ 125 ॥

ऋषींश्च तर्पयित्वाथ स्वधान्ते तर्पयेत् पितॄन्।
एवं स्नानं विधायाथ तीर्थस्थं मन्त्रनायकम् ॥ 126 ॥

आकृष्य पूरकेणाथ संस्मरेद्धृदयान्तरे।
आकृष्य मनसाश्रं च दिग्विदिक्स्थापितं पुरा ॥ 127 ॥

यागाङ्गानि समादाय प्रयायाद्यागमन्दिरम्।
स्वयं सिद्धमथार्षं वा सिद्धैर्वा परिकल्पितम् ॥ 128 ॥

मनुष्यैः कल्पितं वाथ मन्मयैर्भावितान्तरैः।
सर्वलक्षणसंपूर्णं विमानं पाञ्चरात्रिकम् ॥ 129 ॥

शुभं कमलिनीतीरं विजनं वा मनोहरम्।
यद्वा विविक्तमुद्यानं पुण्यवृक्षोपशोबितम् ॥ 130 ॥

पुलिनं रमणीयं वा सिकतोपरि विस्तृतम्।
अवातमजनस्पर्शमसमीपस्थदोषवत् ॥ 131 ॥

मूलम्

पुलिनं रमणीयं वा सिकतोपरि विस्तृतम्।
अवातमजनस्पर्शमसमीपस्थदोषवत् ॥ 131 ॥

विश्वास-प्रस्तुतिः

यत्र वा रोचते चित्तं तत्र यायान्मनोवशात्।
हृन्मध्यस्थे परे मन्त्रे प्रबुद्धानन्दविग्रहे ॥ 132 ॥

दिगन्तरमपश्यन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं शुभं तत्र नासाग्रेण विरेचयेत् ॥ 133 ॥

मन्मन्त्रं परमात्मानं प्रदीप्तानलविग्रहम्।
बहिरस्रं च विन्यस्य चरणेनाहनेत् क्षितिम् ॥ 134 ॥

स्मरन् मन्त्रमयीं लक्ष्मीं मामेकां परमेश्वरीम्।
एकान्तदेशमासाद्य बध्नीयाद्रुचिरासनम् ॥ 135 ॥

दर्भे चर्मणि वस्रे वा फलके यज्ञकाष्ठजे।
अभिवन्द्य हरिं मां च भक्त्यैव29 गुरुसंततिम् ॥ 136 ॥

गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः।
मानसीं निर्वपेत् 30सर्वां क्रियां ज्ञानसमाधिना ॥ 137 ॥

ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना।
शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् ॥ 138 ॥

बाह्यद्रव्याश्रिता यस्माद् दोषा राजसतामसाः।
ततस्तच्छोधनमपि कर्मणा मनसा गिरा ॥ 139 ॥

तस्मादेकान्तनिर्दोषं भावनावासितं31 तथा।
तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् ॥ 140 ॥

ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
इति स्नानविधिः सम्यक् कीर्तितस्ते सुरेश्वर।
अङ्गन्यासादिकं स्थानं तव वक्ष्याम्यतः परम् ॥ 141 ॥

इति [^41]श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे स्नानविधिप्रकाशो नाम चतुस्रिंशोऽध्यायः

इति चतुस्रिंशोऽध्यायः

  1. मण्डलावधौ A. B. ↩︎ ↩︎

  2. वा B. ↩︎ ↩︎

  3. जन्तोर्वेदना B. ↩︎ ↩︎

  4. वाममुत्तानाः B. ↩︎ ↩︎

  5. विरलायिताः B. G. ↩︎ ↩︎

  6. संश्लिष्टौ C. ↩︎ ↩︎

  7. सूक्ष्माद्या B. C. ↩︎ ↩︎

  8. तस्य B. ↩︎ ↩︎

  9. विना सा B. ↩︎

  10. संयुतम् F. ↩︎ ↩︎

  11. संस्था तु B. ↩︎ ↩︎

  12. मुद्राम् B. C. ↩︎ ↩︎

  13. बुधः A. G. ↩︎ ↩︎

  14. तथा B. ↩︎ ↩︎

  15. कृताः B. ↩︎ ↩︎

  16. वर्धनी B. ↩︎ ↩︎

  17. नामिकानन्त C. ↩︎ ↩︎

  18. अभाम्यं A. B. G. ↩︎ ↩︎

  19. पाद्मा F. ↩︎ ↩︎

  20. स्पष्टतां A. B. C. ↩︎ ↩︎

  21. भावेन A. ↩︎ ↩︎

  22. पाण्योर्द्वयोस्तथा B. C.; पाणिद्वयोस्तलम् F. ↩︎ ↩︎

  23. स्वाभिमुखं C. ↩︎ ↩︎

  24. कर्तनी B. C. ↩︎ ↩︎

  25. चेष्यते A. C. ↩︎ ↩︎

  26. मतम् B. ↩︎ ↩︎

  27. बलात् C. ↩︎ ↩︎

  28. तत्त्वानि कारणानि स्वकारणे B. F. ↩︎ ↩︎

  29. एवं B. ↩︎ ↩︎

  30. सर्वाः क्रियाः B. F. ↩︎ ↩︎

  31. भावितं B. G. ↩︎ ↩︎