०३३

विश्वास-प्रस्तुतिः

त्रयस्रिंशोऽध्यायः - 33
श्रीः1
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ॥ 1 ॥

मूलम्

त्रयस्रिंशोऽध्यायः - 33
श्रीः1
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ॥ 1 ॥

विश्वास-प्रस्तुतिः

गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥

मूलम्

गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥

टिप्पनी 2

गोपनः आकारः। पञ्चबिन्दुः ईकारः। ऊर्जः ऊकारः। ऐरावण ऐकारः। और्वः औकारः। व्यापी अनुस्वारः।

विश्वास-प्रस्तुतिः

प्राणानलोपरिस्थं तु कृत्वैतत्‌ पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ॥ 3 ॥

मूलम्

प्राणानलोपरिस्थं तु कृत्वैतत्‌ पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ॥ 3 ॥

टिप्पनी 3

प्राणः हकारः। अनलः रेफः। पिण्डपञ्चकम्; ह्रां, ह्रीं, ह्रूं, ह्रैं, र्ह्रौ इति मन्त्रपञ्चकम्। हृदादीति। हृदयशिरः शिखाकवचनेत्राणीत्यर्थः।

2हृद्बीजात् परतो योज्यं ज्ञानायेति पदं ततः।
हृदयाय नमश्चैव मन्त्रोऽयं धारणप्रदः ॥ 4 ॥

टिप्पनी 4

मन्त्रं निर्दिशति—हृदित्यादि। ओं ह्रां ज्ञानाय हृदयाय नमः।

विश्वास-प्रस्तुतिः

परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः॥

मूलम्

परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः॥

विश्वास-प्रस्तुतिः

प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ॥ 5 ॥

मूलम्

प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ॥ 5 ॥

विश्वास-प्रस्तुतिः

शिरसे च 3तथा स्वाहा ह्येष4 एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ॥ 6 ॥

मूलम्

शिरसे च 3तथा स्वाहा ह्येष4 एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ॥ 6 ॥

विश्वास-प्रस्तुतिः

शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥

मूलम्

शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥

विश्वास-प्रस्तुतिः

कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥

मूलम्

कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥

विश्वास-प्रस्तुतिः

नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ॥ 9 ॥

मूलम्

नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ॥ 9 ॥

विश्वास-प्रस्तुतिः

तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ॥ 10 ॥

मूलम्

तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ॥ 10 ॥

5-10. ओं ह्रीं ऐस्वर्याय शिरसे स्वाहा। ओं ह्रूं शक्तये शिखायै वौषट्। ओं ह्रैं बलाय कवचाय हुं। ओं ह्रौं तेजसे नेत्राभ्यां वौषत्। ओं ह्रः वीर्याय अस्राय च फट्।
विश्वास-प्रस्तुतिः

अङ्गषट्‌कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्‌गुणं पदम् ॥ 11 ॥

मूलम्

अङ्गषट्‌कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्‌गुणं पदम् ॥ 11 ॥

विश्वास-प्रस्तुतिः

ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ॥ 12 ॥

मूलम्

ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ॥ 12 ॥

विश्वास-प्रस्तुतिः

11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ5 जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥

मूलम्

11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ5 जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥

टिप्पनी 13

ओं ह्रीं ऐश्वर्याय ऊरुभ्यां नमः। ओं ह्रीं वीर्याय जानुभ्यां नमः। ओं ह्रीं तेजसे चरणाभ्यां नमः।

विश्वास-प्रस्तुतिः

इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय ॥ 14 ॥

मूलम्

इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय ॥ 14 ॥

विश्वास-प्रस्तुतिः

कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ॥ 15 ॥

मूलम्

कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ॥ 15 ॥

विश्वास-प्रस्तुतिः

सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ॥ 16 ॥

मूलम्

सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ॥ 16 ॥

विश्वास-प्रस्तुतिः

कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ॥ 17 ॥

मूलम्

कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ॥ 17 ॥

विश्वास-प्रस्तुतिः

15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं 6धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं7 च वराहं तदधो न्यसेत् ॥ 18 ॥

मूलम्

15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं 6धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं7 च वराहं तदधो न्यसेत् ॥ 18 ॥

विश्वास-प्रस्तुतिः

मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ॥ 19 ॥

मूलम्

मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ॥ 19 ॥

विश्वास-प्रस्तुतिः

ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥

मूलम्

ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥

18-20. ओं ल्स्वीं नमः स्थलजलोद्भूतभूषिते वनमाले स्वाहा।
विश्वास-प्रस्तुतिः

एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥

मूलम्

एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥

विश्वास-प्रस्तुतिः

तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ॥ 22 ॥

मूलम्

तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ॥ 22 ॥

विश्वास-प्रस्तुतिः

नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं 8त्रिदशाक्षरः ॥ 23 ॥

मूलम्

नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं 8त्रिदशाक्षरः ॥ 23 ॥

21-23. ओं ब्सुं नमः श्रीनिवासपद्माय स्वाहा। त्र्यधिकाः दशाक्षराः यस्येति बहुव्रीहिः।
विश्वास-प्रस्तुतिः

आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ॥ 24 ॥

मूलम्

आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ॥ 24 ॥

[^9]कस्थकस्थपदं दद्यान्नेमिद्वन्द्वमतः[^10] परम्। वरपाशाय वै स्वाहा प्रणवाद्यस्तु पाशराट् ॥ 25 ॥ 24,25. ओं र्णां कस्थ कस्थ ठठ वरपाशाय स्वाहा।
विश्वास-प्रस्तुतिः

मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्‌संज्ञं व्यापिना मूर्ध्नि संयुतम् ॥ 26 ॥

मूलम्

मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्‌संज्ञं व्यापिना मूर्ध्नि संयुतम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

द्वयं पिण्डतया योज्यं रेफं कमलमङ्‌कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥

मूलम्

द्वयं पिण्डतया योज्यं रेफं कमलमङ्‌कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥

विश्वास-प्रस्तुतिः

पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥

मूलम्

पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥

विश्वास-प्रस्तुतिः

26-28. ओं लॄंर्कृं निशितघोणाय अङ्‌कुशाय स्वाहा।
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ॥ 29 ॥

मूलम्

26-28. ओं लॄंर्कृं निशितघोणाय अङ्‌कुशाय स्वाहा।
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ॥ 29 ॥

विश्वास-प्रस्तुतिः

यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ॥ 30 ॥

मूलम्

यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ॥ 30 ॥

विश्वास-प्रस्तुतिः

तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ॥ 31 ॥

मूलम्

तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ॥ 31 ॥

विश्वास-प्रस्तुतिः

29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ॥ 32 ॥

मूलम्

29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ॥ 32 ॥

टिप्पनी 32

अनलद्वयमध्यस्थ इति। प्राण इत्यनुषज्यते। ओं र्ह्रूं कालाग्निकूर्माय नमः।

विश्वास-प्रस्तुतिः

मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥

मूलम्

मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥

विश्वास-प्रस्तुतिः

प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ॥ 34 ॥

मूलम्

प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ॥ 34 ॥

विश्वास-प्रस्तुतिः

33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥

मूलम्

33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥

विश्वास-प्रस्तुतिः

वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥

मूलम्

वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥

विश्वास-प्रस्तुतिः

35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥

मूलम्

35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥

टिप्पनी 37

ओं स्वां क्षीरार्णवाय नमः।

विश्वास-प्रस्तुतिः

क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥

मूलम्

क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥

टिप्पनी 38

ओं पुं आधारपद्माय नमः।

विश्वास-प्रस्तुतिः

आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्‌कस्य मन्त्रषट्‌कं प्रकीर्तितम् ॥ 39 ॥

मूलम्

आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्‌कस्य मन्त्रषट्‌कं प्रकीर्तितम् ॥ 39 ॥

विश्वास-प्रस्तुतिः

आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ॥ 40 ॥

मूलम्

आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ॥ 40 ॥

विश्वास-प्रस्तुतिः

एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ॥ 41 ॥

मूलम्

एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ॥ 41 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ॥ 42 ॥

मूलम्

त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ॥ 42 ॥

विश्वास-प्रस्तुतिः

धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि 9सिद्धानि लोकतः ॥ 43 ॥

मूलम्

धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि 9सिद्धानि लोकतः ॥ 43 ॥

40-43. धर्ता धकारः। अजितो जकारः। अमृताधारो वकारः। विबुधो लकारः। सत्यः ऋकारः। ओं धृं, ओं धॄं, ओं ध्लृं, ओं ध्लॄं इति क्रमेण धर्मज्ञानवैराग्यैश्वर्याख्याधारेशबीजमन्त्राः। ओं जृं, ओं जॄं, ओं ज्लृं, ओं ज्लॄं इति क्रमेण अधर्माज्ञानावैराग्यानैश्वर्याख्याधारेशबीजमन्त्राः। ओं वृं, ओं वॄं, ओं व्‌लृं, ओं व्‌लॄं इति ऋग्यजुःसामाथर्वाख्याधारेशबीजमन्त्राः। ओं ल्‌ऋं, ओं ल्‌ॠं, ओं ल्‌लृं, ओं ल्‌लॄं इति कृतत्रेताद्वापरकल्याख्याधारेशबीजमन्त्राः।
विश्वास-प्रस्तुतिः

चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ॥ 44 ॥

मूलम्

चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ॥ 44 ॥

टिप्पनी 44

अथ धर्मादीनां षोडशानां शंज्ञामन्त्रा उच्यन्ते—चतुरित्यादिना। ओं धृं धर्माय नमः। ओं धॄं ज्ञानाय नमः। इत्यादिक्रमेण ज्ञेयाः।

विश्वास-प्रस्तुतिः

सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ॥ 45 ॥

मूलम्

सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ॥ 45 ॥

टिप्पनी 45

ह्रस्वः बकारः। ओं ब्सुं अव्यक्तपद्ममाय नमः।

विश्वास-प्रस्तुतिः

सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ॥ 46 ॥

मूलम्

सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ॥ 46 ॥

टिप्पनी 46

ओं सूर्यमण्डलाय नमः। ओं इन्दुमण्डलाय नमः। ओं अग्निमण्डलाय नमः। इति मण्डलत्रयमन्त्राः।

प्रत्यगात्मपरामर्शिशब्दः सोमोऽथ सर्गवान्।
10चिद्भासनाख्यमन्त्रोऽयं त्र्यक्षरः परिकीर्तितः ॥ 47 ॥

टिप्पनी 47

अहं सः। इति चिद्भासनमन्त्रः।

विश्वास-प्रस्तुतिः

इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ॥ 48 ॥

मूलम्

इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ॥ 48 ॥

टिप्पनी 48

एकविंशतिरिति। षोडशाधारेशमन्त्राः। एकः अव्यक्तपद्ममन्त्रः। त्रयो मण्डलमन्त्राः। एकः चिद्भासनमन्त्र इति ज्ञेयम्।

विश्वास-प्रस्तुतिः

रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥

मूलम्

रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥

विश्वास-प्रस्तुतिः

गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ॥ 50 ॥

मूलम्

गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ॥ 50 ॥

टिप्पनी 50

ओं क्ष्म्रां क्षेत्रपालाय नमः।

विश्वास-प्रस्तुतिः

प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ॥ 51 ॥

मूलम्

प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ॥ 51 ॥

टिप्पनी 51

ओं श्रीं श्रियै नमः।

विश्वास-प्रस्तुतिः

षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ॥ 52 ॥

मूलम्

षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ॥ 52 ॥

टिप्पनी 52

ओं च्रो चण्डाय नमः।

विश्वास-प्रस्तुतिः

चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ॥ 53 ॥

मूलम्

चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ॥ 53 ॥

टिप्पनी 53

ओं प्रों प्रचण्जाय नमः।

विश्वास-प्रस्तुतिः

प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ॥ 54 ॥

मूलम्

प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ॥ 54 ॥

टिप्पनी 54

ओं ज्रों जयाय नमः।

विश्वास-प्रस्तुतिः

जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ॥ 55 ॥

मूलम्

जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ॥ 55 ॥

टिप्पनी 55

ओं व्रों विजयाय नमः।

विश्वास-प्रस्तुतिः

विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ॥ 56 ॥

मूलम्

विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ॥ 56 ॥

टिप्पनी 56

ओं ग्रीं गङ्गायै नमः।

विश्वास-प्रस्तुतिः

गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥

मूलम्

गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥

टिप्पनी 57

ओं य्रीं यमुनायै नमः।

11यमुनायै नमश्चायं 12यामुनेयश्चतुर्युगः।
शंकरः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 58 ॥

टिप्पनी 58

ओं श्रूं शङ्खनिधये नमः।

विश्वास-प्रस्तुतिः

ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥

मूलम्

ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥

टिप्पनी 59

ओं प्रूं पद्मनिधये नमः।

विश्वास-प्रस्तुतिः

ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ॥ 60 ॥

मूलम्

ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ॥ 60 ॥

विश्वास-प्रस्तुतिः

गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥

मूलम्

गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥

विश्वास-प्रस्तुतिः

ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥

मूलम्

ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥

विश्वास-प्रस्तुतिः

61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ॥ 63 ॥

मूलम्

61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ॥ 63 ॥

टिप्पनी 63

ओं गां हृदयाय नमः। इत्यादि ज्ञेयम्।

विश्वास-प्रस्तुतिः

अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता13
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ॥ 64 ॥

मूलम्

अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता13
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ॥ 64 ॥

विश्वास-प्रस्तुतिः

गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं 14सोमं व्यापिसमन्वितम् ॥ 65 ॥

मूलम्

गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं 14सोमं व्यापिसमन्वितम् ॥ 65 ॥

विश्वास-प्रस्तुतिः

चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥

मूलम्

चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥

विश्वास-प्रस्तुतिः

सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥

मूलम्

सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥

यथापाठं समुच्चार्य वागीश्वर्यै ततो नमः। [^17]एकषष्ट्यर्णको मन्त्रो वागीश्वर्या अयं स्मृतः ॥ 68 ॥ 64-68. ओं र्क्ष्रीं ह्रीं स्य्रां स्त्र्यां अ-क्ष (अकारादिक्षकारान्ता वर्णाः) वागीश्वर्यै नमः।
विश्वास-प्रस्तुतिः

कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥

मूलम्

कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥

टिप्पनी 69

ओं स्य्रां हृदयाय नमः इत्यादयोऽङ्गमन्त्राः। जातिरित्यङ्गमुच्यते।

विश्वास-प्रस्तुतिः

गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ॥ 70 ॥

मूलम्

गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ॥ 70 ॥

विश्वास-प्रस्तुतिः

प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ॥ 71 ॥

मूलम्

प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ॥ 71 ॥

विश्वास-प्रस्तुतिः

प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ॥ 72 ॥

मूलम्

प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ॥ 72 ॥

विश्वास-प्रस्तुतिः

प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ॥ 73 ॥

मूलम्

प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ॥ 73 ॥

विश्वास-प्रस्तुतिः

71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ॥ 74 ॥

मूलम्

71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ॥ 74 ॥

विश्वास-प्रस्तुतिः

यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट्‌ ॥ 75 ॥

मूलम्

यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट्‌ ॥ 75 ॥

विश्वास-प्रस्तुतिः

74,75. ओं ओं ओं ओं ओं ट्‌ह्‌म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥

मूलम्

74,75. ओं ओं ओं ओं ओं ट्‌ह्‌म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥

विश्वास-प्रस्तुतिः

मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ॥ 77 ॥

मूलम्

मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ॥ 77 ॥

76,77. ओं ओं ओं ओं ओं ओं आं आदिसिद्धेब्यो नमः। [^18]प्रागेव पूजयेन्मन्त्री[^19] समाराधनकालतः। अथ लोकेशमन्त्राणां लक्षणं शृणु वासव ॥ 78 ॥
विश्वास-प्रस्तुतिः

प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ॥ 79 ॥

मूलम्

प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ॥ 79 ॥

टिप्पनी 79

ओं ह्लां इन्द्राय नमः।

विश्वास-प्रस्तुतिः

ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्‍कम् ॥ 80 ॥

मूलम्

ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्‍कम् ॥ 80 ॥

विश्वास-प्रस्तुतिः

प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥

मूलम्

प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥

विश्वास-प्रस्तुतिः

80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥

मूलम्

80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥

टिप्पनी 82

ओं न्लृं निर्ऋतये नमः।

विश्वास-प्रस्तुतिः

प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ॥ 83 ॥

मूलम्

प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ॥ 83 ॥

टिप्पनी 83

ओं ह्वां वरुणाय नमः।

विश्वास-प्रस्तुतिः

प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ॥ 84 ॥

मूलम्

प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ॥ 84 ॥

टिप्पनी 84

आं ह्यां वायवे नमः।

विश्वास-प्रस्तुतिः

घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥

मूलम्

घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥

टिप्पनी 85

ओं घ्वां सोमाय नमः।

विश्वास-प्रस्तुतिः

सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ॥ 86 ॥

मूलम्

सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ॥ 86 ॥

टिप्पनी 86

ओं ह्‌चूं ईशानाय नमः।

विश्वास-प्रस्तुतिः

प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ॥ 87 ॥

मूलम्

प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ॥ 87 ॥

टिप्पनी 87

ओं ह्णां अनन्ताय नमः।

विश्वास-प्रस्तुतिः

प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥

मूलम्

प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥

टिप्पनी 88

ओं ह्‌रवां ब्रह्मणे नमः।

विश्वास-प्रस्तुतिः

सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ॥ 89 ॥

मूलम्

सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ॥ 89 ॥

टिप्पनी 89

ओं र्ज्म्रूः कुलिशाय नमः।

विश्वास-प्रस्तुतिः

सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥

मूलम्

सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥

टिप्पनी 90

ओं ज्म्रीः शक्तये नमः।

विश्वास-प्रस्तुतिः

तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥

मूलम्

तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥

टिप्पनी 91

ओं ड्‌मूः दण्डाय नमः।

विश्वास-प्रस्तुतिः

पिण्डीकृत्य 15ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥

मूलम्

पिण्डीकृत्य 15ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥

टिप्पनी 92

ओं ट्‌म्रूः खड्‌गाय नमः।

विश्वास-प्रस्तुतिः

पिण्डीकृत्य 16ततः संज्ञा नमः खड्‌गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ॥ 93 ॥

मूलम्

पिण्डीकृत्य 16ततः संज्ञा नमः खड्‌गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ॥ 93 ॥

टिप्पनी 93

ओं ट्‌शाः पाशाय नमः।

विश्वास-प्रस्तुतिः

पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत्‌ पिण्डिता इमे ॥ 94 ॥

मूलम्

पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत्‌ पिण्डिता इमे ॥ 94 ॥

टिप्पनी 94

ओं ज्वाः ध्वजाय नमः।

विश्वास-प्रस्तुतिः

ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान्‌ पिण्डयेत् सृष्टिकृद्युतान् ॥ 95 ॥

मूलम्

ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान्‌ पिण्डयेत् सृष्टिकृद्युतान् ॥ 95 ॥

टिप्पनी 95

ओं ह्रूः मुसलाय नमः।

विश्वास-प्रस्तुतिः

मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ॥ 96 ॥

मूलम्

मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ॥ 96 ॥

टिप्पनी 96

ओं र्जुः शूलाय नमः।

विश्वास-प्रस्तुतिः

पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ॥ 97 ॥

मूलम्

पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ॥ 97 ॥

टिप्पनी 97

ओं क्रोः सीराय नमः।

पिण्डीकृत्य ततः संज्ञा नमः सीरमनुस्त्वयम्।
[^22]वरुणं च नरं चैव गोपनं सृष्टिकृद्युतम् ॥ 98 ॥

टिप्पनी 98

ओं व्नाः पद्माय नमः।

17पिण्डीकृत्य ततः संज्ञा नमः पद्ममनुस्त्वयम्।
सर्वेषां प्रणवः पूर्वो विष्वक्सेनमनुं शृणु ॥ 99 ॥

विश्वास-प्रस्तुतिः

अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ॥ 100 ॥

मूलम्

अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ॥ 100 ॥

टिप्पनी 100

ओं र्हूं र्वौ ज्ञानदाय नमः।

विश्वास-प्रस्तुतिः

पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ॥ 101 ॥

मूलम्

पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ॥ 101 ॥

विश्वास-प्रस्तुतिः

ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ॥ 102 ॥

मूलम्

ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ॥ 102 ॥

टिप्पनी 102

ओं र्ह्रां हृदयाय नमः इत्यादि।

विश्वास-प्रस्तुतिः

सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥

मूलम्

सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥

टिप्पनी 103

ओं स्वीं सुरभ्यै नमः।

विश्वास-प्रस्तुतिः

सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ॥ 104 ॥

मूलम्

सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ॥ 104 ॥

विश्वास-प्रस्तुतिः

ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ॥ 105 ॥

मूलम्

ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ॥ 105 ॥

विश्वास-प्रस्तुतिः

इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥

मूलम्

इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥

विश्वास-प्रस्तुतिः

104-106. ओं ओं ह्रीं ह्रीं परमधामावस्थिते मदनुग्रहाभियोगोद्यते इहावतरेहाभिमतसिद्धिदे मन्त्रशरीरे ओं ह्रीं नमो नमः। इत्यावाहनमन्त्रः।
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः।
प्रणवस्तारिका प्राणास्त्रयः सव्यापिनस्ततः ॥ 107 ॥

तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ॥ 108 ॥

मूलम्

तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ॥ 108 ॥

विश्वास-प्रस्तुतिः

107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ॥ 109 ॥

ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥

मूलम्

ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥

विश्वास-प्रस्तुतिः

109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥

मूलम्

109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥

विश्वास-प्रस्तुतिः

मन्त्रमूर्तेऽथ स्वपदं समासादय तद्‌द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ॥ 112 ॥

मूलम्

मन्त्रमूर्तेऽथ स्वपदं समासादय तद्‌द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ॥ 112 ॥

विश्वास-प्रस्तुतिः

111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ॥ 113 ॥

अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ॥ 114 ॥

मूलम्

अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ॥ 114 ॥

भक्तानामास्तिकानां च श्रद्धासंयमसेविनाम्।
18मदीयक्रमसक्तानां संस्कृतानां विशेषतः ॥ 115 ॥

विश्वास-प्रस्तुतिः

तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु19 ॥ 116 ॥

मूलम्

तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु19 ॥ 116 ॥

विश्वास-प्रस्तुतिः

अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा20 स याति नरकान् बहून्21 ॥ 117 ॥

मूलम्

अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा20 स याति नरकान् बहून्21 ॥ 117 ॥

विश्वास-प्रस्तुतिः

तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ॥ 118 ॥

मूलम्

तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ॥ 118 ॥

विश्वास-प्रस्तुतिः

प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥

मूलम्

प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥

टिप्पनी 119

अत्र “अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति॥” (2.111) इति मनुवचनमवधेयम्।

विश्वास-प्रस्तुतिः

पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ॥ 120 ॥

मूलम्

पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ॥ 120 ॥

विश्वास-प्रस्तुतिः

इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ॥ 121 ॥

मूलम्

इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ॥ 121 ॥

विश्वास-प्रस्तुतिः

अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ॥ 122 ॥

मूलम्

अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ॥ 122 ॥

इति 22श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अङ्गोपाङ्गादिमन्त्रप्रकाशो नाम त्रयस्रिंशोऽध्यायः

इति त्रयस्रिंशोऽध्यायः

  1. श्रीरुवाच C. ↩︎ ↩︎

  2. In the place of this and the next two lines, B. reads the following: ↩︎

  3. ततः A. B. ↩︎ ↩︎

  4. सैष B. ↩︎ ↩︎

  5. इति B. ↩︎ ↩︎

  6. धारेशं F. ↩︎ ↩︎

  7. संज्ञः B. ↩︎ ↩︎

  8. द्वादशा A. B. C. ↩︎ ↩︎

  9. रूढानि B. ↩︎ ↩︎

  10. चिद्भावना F. ↩︎

  11. C. omits four lines from here. ↩︎

  12. यमुनायाः B. ↩︎

  13. संयुतम् F. ↩︎ ↩︎

  14. सोम B. C. ↩︎ ↩︎

  15. मनुं B. C. F. ↩︎ ↩︎

  16. मनुः F. ↩︎ ↩︎

  17. C. omits five lines from here. ↩︎

  18. मदीयकर्म F. ↩︎

  19. तत् C. ↩︎ ↩︎

  20. भावाच्च C. ↩︎ ↩︎

  21. क्रमात् A. ↩︎ ↩︎

  22. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎