०३२

विश्वास-प्रस्तुतिः

द्वात्रिंशोऽध्यायः - 32
श्रीः —
या ह्येषा परमा विद्या तारिका भवतारिणी।
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु ॥ 1 ॥

मूलम्

द्वात्रिंशोऽध्यायः - 32
श्रीः —
या ह्येषा परमा विद्या तारिका भवतारिणी।
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु ॥ 1 ॥

टिप्पनी 1

विद्या चिद्रूपेत्यर्तः। भवतारिणीत्यनेन तारिकाया अन्वर्थत्वमाह।

विश्वास-प्रस्तुतिः

पञ्चवर्णं चतुर्वर्णमिति स्थूलात्मकं वपुः।
त्रिवर्णा सूक्ष्मसंज्ञा मे परा विष्णुमयी स्थिता ॥ 2 ॥

मूलम्

पञ्चवर्णं चतुर्वर्णमिति स्थूलात्मकं वपुः।
त्रिवर्णा सूक्ष्मसंज्ञा मे परा विष्णुमयी स्थिता ॥ 2 ॥

टिप्पनी 2

ह्री इति बिन्दोरुपरि घण्टानादवत् श्रूयमाणं नादं संयोज्य पञ्चवर्णत्वं, तं विहाय चतुर्वर्णत्वमुपपादनीयम्। त्रिवर्णेति। ईंरूपेत्यर्थः। पररूपमाह—विष्णुमयीति। केवलेकाररूपेत्यर्थः।

विश्वास-प्रस्तुतिः

इमास्तिस्रो ह्रवस्था मे प्रत्येकं तु त्रिधा त्रिधा।
स्थूले तु या परावस्था परमात्माश्रया तु सा ॥ 3 ॥

मूलम्

इमास्तिस्रो ह्रवस्था मे प्रत्येकं तु त्रिधा त्रिधा।
स्थूले तु या परावस्था परमात्माश्रया तु सा ॥ 3 ॥

टिप्पनी 3

प्रत्येकं त्रिधेति। स्थूलरूपे स्थूलसूक्ष्मपररूपेण, सूक्ष्मरूपे स्थूलसूक्ष्मपररूपेण, पररूपेऽपि स्थूलसूक्ष्मपररूपेणेति त्रैविध्यमिति भावः। स्थूले पररुपमाह—स्थूले त्विति। परमात्मा हकारः।

विश्वास-प्रस्तुतिः

अशेषभुवनाधारविष्णुव्यापिसमाश्रया।
भोक्तृभोग्यात्मिका चेयं तस्या रूपं निबोध मे ॥ 4 ॥

मूलम्

अशेषभुवनाधारविष्णुव्यापिसमाश्रया।
भोक्तृभोग्यात्मिका चेयं तस्या रूपं निबोध मे ॥ 4 ॥

टिप्पनी 4

अशेषभुवनाधारो रेफः। विष्णुः ईकारः। व्यापी अनुस्वारः। आहत्य ह्रीं भवति।

विश्वास-प्रस्तुतिः

अशेषभुवनाधारनिलयव्यापिजन्मना।
परमात्मादिकेनैव ललाटतटमेयुषा ॥ 5 ॥

मूलम्

अशेषभुवनाधारनिलयव्यापिजन्मना।
परमात्मादिकेनैव ललाटतटमेयुषा ॥ 5 ॥

टिप्पनी 5

ललाटतटमेयुषेत्यस्य रूपेणेति शेषः।

विश्वास-प्रस्तुतिः

आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति।
तारकारणनादेन शोभमाना हरिप्रिया ॥ 6 ॥

मूलम्

आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति।
तारकारणनादेन शोभमाना हरिप्रिया ॥ 6 ॥

टिप्पनी 6

आक्रम्येति वैष्णवरूपस्यानभिव्यक्तिरुच्यते।

विश्वास-प्रस्तुतिः

भोक्तृभोग्यादिकं सर्वं भुवनं बिभ्रती धिया।
व्यापिनं सर्वतो देवी परमात्मानमाश्रिता ॥ 7 ॥

मूलम्

भोक्तृभोग्यादिकं सर्वं भुवनं बिभ्रती धिया।
व्यापिनं सर्वतो देवी परमात्मानमाश्रिता ॥ 7 ॥

विश्वास-प्रस्तुतिः

तावत्तया स्थिता विष्णुरूपा स्थूला गतिः परा।
पञ्चकृत्यकरी शक्तिस्रिविधैश्वर्यबृंहिता ॥ 8 ॥

मूलम्

तावत्तया स्थिता विष्णुरूपा स्थूला गतिः परा।
पञ्चकृत्यकरी शक्तिस्रिविधैश्वर्यबृंहिता ॥ 8 ॥

टिप्पनी 8

तावत्तयेति। भोक्तृभोग्यरूपेणेत्यर्थः। अथ स्थूले सूक्ष्ममाह—पञ्चकृत्येत्यादि। सर्गादीनि पञ्च कृत्यानि।

1प्राणयन्ती श्रिया देवं जृम्भमाणोदधिप्रभम्।
आश्रित्य ह्यानलं भावमियं सूक्ष्मा गतिर्मता2 ॥ 9 ॥

विश्वास-प्रस्तुतिः

सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता।
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् ॥ 10 ॥

मूलम्

सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता।
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् ॥ 10 ॥

टिप्पनी 10

स्थूले स्थूलरूपमाह—सृष्ट्यादिकमिति। सर्वाश्चर्येत्यादि। पूर्वं सूक्ष्मे जगतः सृष्टिसंकल्प उक्तः। अत्र तु तस्य सृष्टिरुच्यत इति धेययम्।

विश्वास-प्रस्तुतिः

सूर्यं समाश्रिता विष्णुं कलयन्ती3जगत्स्थितिम्।
कालपावकतेजोभिः स्थूला स्थूलमयाद्भुता ॥ 11 ॥

मूलम्

सूर्यं समाश्रिता विष्णुं कलयन्ती3जगत्स्थितिम्।
कालपावकतेजोभिः स्थूला स्थूलमयाद्भुता ॥ 11 ॥

विश्वास-प्रस्तुतिः

कथिता गतयस्तिस्रः स्थूलाया मम वासव।
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन ॥ 12 ॥

मूलम्

कथिता गतयस्तिस्रः स्थूलाया मम वासव।
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन ॥ 12 ॥

विश्वास-प्रस्तुतिः

अकालकलना सेयं सूक्ष्मा तु परमेश्वरी।
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा ॥ 13 ॥

मूलम्

अकालकलना सेयं सूक्ष्मा तु परमेश्वरी।
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा ॥ 13 ॥

टिप्पनी 13

सूक्ष्मरुपस्य साधारणं स्वभावमाह—अकालेति। अनेन पूर्वोक्तस्थूलरूपस्य कालकाल्यत्वमभिमन्यते।

विश्वास-प्रस्तुतिः

शुद्धो वर्गस्तथाशुद्धो द्विविधं सृज्यमुच्यते।
शुद्धेतरे स्थिता स्थूला शुद्धे सूक्ष्मा प्रतिष्ठिता ॥ 14 ॥

मूलम्

शुद्धो वर्गस्तथाशुद्धो द्विविधं सृज्यमुच्यते।
शुद्धेतरे स्थिता स्थूला शुद्धे सूक्ष्मा प्रतिष्ठिता ॥ 14 ॥

टिप्पनी 14

विशेषान्तरमाह—शुद्ध इति।

विश्वास-प्रस्तुतिः

तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत्।
परा या मे तनुः शक्र तस्या रूपं निशामय ॥ 15 ॥

मूलम्

तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत्।
परा या मे तनुः शक्र तस्या रूपं निशामय ॥ 15 ॥

टिप्पनी 15

प्रस्तुते त्रिवेधे सूक्ष्मरूपेपूर्वोक्तस्थूलगतीरतिदिशति–तिस्र इति। परमियान् भेदः—पूर्वोक्तस्थूलगतिरशुद्धविषया; इयं तु शुद्धविषयेति।

विश्वास-प्रस्तुतिः

सर्वव्याप्तिमती दिव्या निष्कला सा निरञ्जना।
सा परा मन्मयी शक्तिः कथिता विष्णुसंज्ञया ॥ 16 ॥

मूलम्

सर्वव्याप्तिमती दिव्या निष्कला सा निरञ्जना।
सा परा मन्मयी शक्तिः कथिता विष्णुसंज्ञया ॥ 16 ॥

टिप्पनी 16

अथ परायाः साधारणं रूपमाह–सर्वव्याप्तिमतीत्यादि।

विश्वास-प्रस्तुतिः

एषा सा वैष्णवी सत्ता सैषाहंता हरेर्मता।
एषा सा योगिनां निष्ठा सैषा सांख्यात्मनां गतिः ॥ 17 ॥

मूलम्

एषा सा वैष्णवी सत्ता सैषाहंता हरेर्मता।
एषा सा योगिनां निष्ठा सैषा सांख्यात्मनां गतिः ॥ 17 ॥

टिप्पनी 17

सांख्यात्मनाम्; प्रकृतिपुरुषविवेकादिज्ञानवतामित्यर्थः।

विश्वास-प्रस्तुतिः

इयं सा परमा मूर्तिरियं सा परमा गतिः।
शक्तिः कुण्डलिनी चाद्या भ्रमरी योगदायिका ॥ 18 ॥

मूलम्

इयं सा परमा मूर्तिरियं सा परमा गतिः।
शक्तिः कुण्डलिनी चाद्या भ्रमरी योगदायिका ॥ 18 ॥

टिप्पनी 18

तस्या नामभेदानाह—शक्तिरित्यादिना।

विश्वास-प्रस्तुतिः

अनाहता ह्यघोषा च निर्मर्यादा नदोद्गता।
शब्दब्रह्म तथा शक्तिर्मातृकायोनिरुत्तमा ॥ 19 ॥

मूलम्

अनाहता ह्यघोषा च निर्मर्यादा नदोद्गता।
शब्दब्रह्म तथा शक्तिर्मातृकायोनिरुत्तमा ॥ 19 ॥

टिप्पनी 19

नदः; नादः।

विश्वास-प्रस्तुतिः

गायत्री च कला गौरी शची देवी सरस्वती।
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी ॥ 20 ॥

मूलम्

गायत्री च कला गौरी शची देवी सरस्वती।
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी ॥ 20 ॥

विश्वास-प्रस्तुतिः

इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी।
रुद्राणां जननी देवी वसूनां तु हिता तथा ॥ 21 ॥

मूलम्

इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी।
रुद्राणां जननी देवी वसूनां तु हिता तथा ॥ 21 ॥

विश्वास-प्रस्तुतिः

आधित्यानां स्वसा नाभिरमृतस्य धृतिः परा।
इडा रतिः प्रियाकारा गुरुधात्री महीयसी ॥ 22 ॥

मूलम्

आधित्यानां स्वसा नाभिरमृतस्य धृतिः परा।
इडा रतिः प्रियाकारा गुरुधात्री महीयसी ॥ 22 ॥

विश्वास-प्रस्तुतिः

मही च विश्रुतिस्चैव त्रयी गौः प्राणवत्सला।
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी ॥ 23 ॥

मूलम्

मही च विश्रुतिस्चैव त्रयी गौः प्राणवत्सला।
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी ॥ 23 ॥

विश्वास-प्रस्तुतिः

तारा 4सीता तथा श्रीश्च कामवत्सा प्रियव्रता।
तरुणी च वरारोहा नीरूपा रूपशालिनी ॥ 24 ॥

मूलम्

तारा 4सीता तथा श्रीश्च कामवत्सा प्रियव्रता।
तरुणी च वरारोहा नीरूपा रूपशालिनी ॥ 24 ॥

विश्वास-प्रस्तुतिः

अम्बिका सुन्दरी ज्येष्ठा वामा घोरा मनोमयी।
सिद्धा सिद्धान्तिका योगा योगिनी योगभाविनी ॥ 25 ॥

मूलम्

अम्बिका सुन्दरी ज्येष्ठा वामा घोरा मनोमयी।
सिद्धा सिद्धान्तिका योगा योगिनी योगभाविनी ॥ 25 ॥

विश्वास-प्रस्तुतिः

एवमादीनि नामानि शास्त्रे शास्त्रे मनीषिभिः।
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः ॥ 26 ॥

मूलम्

एवमादीनि नामानि शास्त्रे शास्त्रे मनीषिभिः।
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः ॥ 26 ॥

विश्वास-प्रस्तुतिः

सैषा शक्तिः परा दिव्या त्रिधा रूपैरवस्थिता।
स्थूलसूक्ष्मपरत्वेन त्रैधमेतत् प्रदर्श्यते5 ॥ 27 ॥

मूलम्

सैषा शक्तिः परा दिव्या त्रिधा रूपैरवस्थिता।
स्थूलसूक्ष्मपरत्वेन त्रैधमेतत् प्रदर्श्यते5 ॥ 27 ॥

6अस्याः स्वरूपमी प्रोक्ता सा च त्रेधावतिष्ठते।
अप्रमेयादिरूपेण तस्या व्याख्यामिमां शृणु ॥ 28 ॥

टिप्पनी 28

ई; ईकार इत्यर्थः।

विश्वास-प्रस्तुतिः

षाड्‌गुण्यं यत् परं ब्रह्म वासुदेवाख्यमव्ययम्।
संहृताखिलभेदं तदेकमेव यदा तदा ॥ 29 ॥

मूलम्

षाड्‌गुण्यं यत् परं ब्रह्म वासुदेवाख्यमव्ययम्।
संहृताखिलभेदं तदेकमेव यदा तदा ॥ 29 ॥

टिप्पनी 29

परायाः पररूपमाह—षाड्‌गुण्यमिति। संहृतेति। भेदः; भिन्नः प्रपञ्चः। प्रतिसंचरे सकलस्यापि प्रपञ्चस्य ब्रह्माणि लयात् तथोक्तिः। एकमेवेति। सूक्ष्मावस्थचिदचिद्विशिष्टं ब्रह्मैकमेव तत्त्वमभवदित्यर्थः।

विश्वास-प्रस्तुतिः

अप्रमेयाख्यया देवस्तदा योगिभिरीर्यते।
व्याप्यव्यापकभेदो वा सृज्यसृष्टिविधापि वा ॥ 30 ॥

मूलम्

अप्रमेयाख्यया देवस्तदा योगिभिरीर्यते।
व्याप्यव्यापकभेदो वा सृज्यसृष्टिविधापि वा ॥ 30 ॥

7न तदान्यप्रमेयत्वं न किंचित्तस्य विद्यते।
तदा शून्यमिवाकारैः प्रसुप्तमिव सर्वतः ॥ 31 ॥

टिप्पनी 31

प्रमेयत्वं प्रमाविषयत्वम्। शून्यमिवेति। सर्वव्यापारोपरमात् असत्कल्पमित्यर्थः। बाह्याभिमतशून्याख्यतत्त्वनिरासायेवशब्दः।

विश्वास-प्रस्तुतिः

षाड्‌गुण्यं ब्रह्म? तत्रेयं संस्थिता विष्णुसंज्ञया।
अतरङ्गार्णवाकारा शक्तिशक्तिमतोर्गतिः ॥ 32 ॥

मूलम्

षाड्‌गुण्यं ब्रह्म? तत्रेयं संस्थिता विष्णुसंज्ञया।
अतरङ्गार्णवाकारा शक्तिशक्तिमतोर्गतिः ॥ 32 ॥

टिप्पनी 32

अथ परायाः सूक्ष्मरूपमाह—शक्तीति। यदेत्युत्तरवाक्यस्थमत्रादौ ज्ञेयम्। यदा शक्तेः शक्तिमतश्च व्यक्ता गतिरवगतिः, तदेत्युत्तरत्रान्वयः।

विश्वास-प्रस्तुतिः

तदा यदा पुनर्ब्रह्म वासुदेवाख्यमव्रणम्।
उन्मिषत्यात्मसंकल्पात्तदा प्रथम उच्यते ॥ 33 ॥

मूलम्

तदा यदा पुनर्ब्रह्म वासुदेवाख्यमव्रणम्।
उन्मिषत्यात्मसंकल्पात्तदा प्रथम उच्यते ॥ 33 ॥

टिप्पनी 33

प्रथम इति। संकल्प इति शेषः।

विश्वास-प्रस्तुतिः

प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना।
माया नाम तदा त्वेषा व्रह्नसंकल्परूपिणी ॥ 34 ॥

मूलम्

प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना।
माया नाम तदा त्वेषा व्रह्नसंकल्परूपिणी ॥ 34 ॥

टिप्पनी 34

एषा; परा शक्तिरित्यर्थः।

विश्वास-प्रस्तुतिः

संकर्षणादिक्षित्यन्तस्तस्या 8गर्भमवस्थितः।
यदा पुनः परं ब्रह्म स्वेच्छासंपादितं पृथक् ॥ 35 ॥

मूलम्

संकर्षणादिक्षित्यन्तस्तस्या 8गर्भमवस्थितः।
यदा पुनः परं ब्रह्म स्वेच्छासंपादितं पृथक् ॥ 35 ॥

टिप्पनी 35

परायाः स्थूलरूपमाह—संकर्षणेति।

विश्वास-प्रस्तुतिः

व्याप्यव्यापकभेदेन सद्वितीयमवस्थितम्।
पञ्चबिन्दुस्तदा देवी पञ्चकृत्यविधायिनी ॥ 36 ॥

मूलम्

व्याप्यव्यापकभेदेन सद्वितीयमवस्थितम्।
पञ्चबिन्दुस्तदा देवी पञ्चकृत्यविधायिनी ॥ 36 ॥

टिप्पनी 36

पञ्चबिन्दुः; ईकारः।

विश्वास-प्रस्तुतिः

पराया इति ते प्रोक्ता मम तन्वा गतिस्रयी।
रूपं रूपं विभज्यैषा तत्तत्तत्त्वार्णभेदिनी ॥ 37 ॥

मूलम्

पराया इति ते प्रोक्ता मम तन्वा गतिस्रयी।
रूपं रूपं विभज्यैषा तत्तत्तत्त्वार्णभेदिनी ॥ 37 ॥

टिप्पनी 37

त्रयी; स्थूलसूक्ष्मपररूपेण त्रिविधेत्यर्थः।

विश्वास-प्रस्तुतिः

तत्तद्वाचकतां 9नीता स्वकामाज्जगतीतनुः।
तेषु तेषु हि तत्त्वेषु स्वात्मभूतावतिष्ठते ॥ 38 ॥

मूलम्

तत्तद्वाचकतां 9नीता स्वकामाज्जगतीतनुः।
तेषु तेषु हि तत्त्वेषु स्वात्मभूतावतिष्ठते ॥ 38 ॥

विश्वास-प्रस्तुतिः

मदंशः सूक्ष्मरूपो यो गूढोऽग्निरिव दारुषु।
तत्तद्रूपमनुप्राप्ता10 सेवनी नाम शाश्वती ॥ 39 ॥

मूलम्

मदंशः सूक्ष्मरूपो यो गूढोऽग्निरिव दारुषु।
तत्तद्रूपमनुप्राप्ता10 सेवनी नाम शाश्वती ॥ 39 ॥

टिप्पनी 39

सेवनीति जिह्वादिस्थानेषु वर्णोच्चारणाद्युपयोग्यवयवसंघटनाविशेष उच्यते।

विश्वास-प्रस्तुतिः

तत्तद्वर्णोपरागेण तत्तद्व्यक्तिवपुः स्वयम्।
अधिदैवतभावेन तत्र योंऽशः परात्मकः ॥ 40 ॥

मूलम्

तत्तद्वर्णोपरागेण तत्तद्व्यक्तिवपुः स्वयम्।
अधिदैवतभावेन तत्र योंऽशः परात्मकः ॥ 40 ॥

टिप्पनी 40

योंऽश इति। अस्य सेयमित्यनन्तरश्लोकस्थेनान्वयः।

विश्वास-प्रस्तुतिः

वैष्णवः शक्तिरूपो मे नियच्छन्नवतिष्ठते।
तत्तद्वाचकतां याति देवी सेयमनश्वरी ॥ 41 ॥

मूलम्

वैष्णवः शक्तिरूपो मे नियच्छन्नवतिष्ठते।
तत्तद्वाचकतां याति देवी सेयमनश्वरी ॥ 41 ॥

विश्वास-प्रस्तुतिः

अशेषभुवनाधारा योगिनी परमेश्वरी।
केवलस्तत्त्ववर्णस्तु त्रैलोक्यैश्वर्यदां गतः ॥ 42 ॥

मूलम्

अशेषभुवनाधारा योगिनी परमेश्वरी।
केवलस्तत्त्ववर्णस्तु त्रैलोक्यैश्वर्यदां गतः ॥ 42 ॥

विश्वास-प्रस्तुतिः

तत्तत् स्थूलमयं तत्त्वं मदीयं 11वक्ति शाश्वतम्।
तत्तद्भावाभिधानेन तन्नियन्तृत्वदर्शने ॥ 43 ॥

मूलम्

तत्तत् स्थूलमयं तत्त्वं मदीयं 11वक्ति शाश्वतम्।
तत्तद्भावाभिधानेन तन्नियन्तृत्वदर्शने ॥ 43 ॥

टिप्पनी 43

सर्वमपि स्थूलतत्त्वं मदीयशक्त्या शाश्वतं भवति। अनेन क्षणभङ्गवादनिरासोऽभिप्रेतः।

विश्वास-प्रस्तुतिः

इयमेवेश्वरा देवी द्विधा सक्तावतिष्ठते।
क्षादि शान्तं पुरा यत्ते दर्शितं ब्रह्मपञ्चकम् ॥ 44 ॥

मूलम्

इयमेवेश्वरा देवी द्विधा सक्तावतिष्ठते।
क्षादि शान्तं पुरा यत्ते दर्शितं ब्रह्मपञ्चकम् ॥ 44 ॥

टिप्पनी 44

सक्तेति। आसङ्गयुक्तेत्यर्थः। तदेवाह—क्षादीति।

[^12]क्ष इत्यादिस्वरूपेण त्रैलोक्यैश्वर्यदां गता।
स्वरूपे नियमे चैव द्वेधा सेयमवस्थिता ॥ 45 ॥

टिप्पनी 45

द्वेधेति। सर्वेषां स्वरूपं नियमनं च प्रदर्शयन्ती द्वेधावतिष्ठत इत्यर्थः।

विश्वास-प्रस्तुतिः

धारणानां चतुष्कं यद्वादि यान्तमुदीरितम्।
तत्र सूक्ष्मपरे भावे स्थितेयं पूर्ववद् द्विधा ॥ 46 ॥

मूलम्

धारणानां चतुष्कं यद्वादि यान्तमुदीरितम्।
तत्र सूक्ष्मपरे भावे स्थितेयं पूर्ववद् द्विधा ॥ 46 ॥

टिप्पनी 46

वादियान्तचतुष्कं धारणाचतुष्कमित्युक्तमित्यर्थः।

12त्रैयवस्थो मकारोऽयं13 प्रोक्तश्चैतन्यवाचकः।
तत्रापि सूक्ष्मपरयोर्द्वेधेयं दशयोर्द्वयोः ॥ 47 ॥

टिप्पनी 47

त्र्यवस्थ एव त्रैयवस्थः।

विश्वास-प्रस्तुतिः

मायाप्रसूतित्रैगुण्यरूपो यो भार्ण उच्यते।
ई नाम पूर्ववद्देवी तत्रापि दशयोर्द्वयोः ॥ 48 ॥

मूलम्

मायाप्रसूतित्रैगुण्यरूपो यो भार्ण उच्यते।
ई नाम पूर्ववद्देवी तत्रापि दशयोर्द्वयोः ॥ 48 ॥

विश्वास-प्रस्तुतिः

बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम्।
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः ॥ 49 ॥

मूलम्

बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम्।
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः ॥ 49 ॥

विश्वास-प्रस्तुतिः

नादिके णादिके चैव तथेन्द्रियगणद्वये।
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते ॥ 50 ॥

मूलम्

नादिके णादिके चैव तथेन्द्रियगणद्वये।
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते ॥ 50 ॥

टिप्पनी 50

नादिकं तवर्गः। णादिकं टवर्गः।

विश्वास-प्रस्तुतिः

ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके।
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता ॥ 51 ॥

मूलम्

ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके।
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता ॥ 51 ॥

टिप्पनी 51

चवर्गपञ्चकं कवर्गपञ्चकं च तन्मात्रस्थूलभूतरूपतयोक्तमित्यर्थः।

विश्वास-प्रस्तुतिः

सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि।
नटीव स्वयमी शक्तिबिभर्ति बहुधा वपुः ॥ 52 ॥

मूलम्

सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि।
नटीव स्वयमी शक्तिबिभर्ति बहुधा वपुः ॥ 52 ॥

टिप्पनी 52

सप्तत्येति। शुद्धाशुद्धाध्वनोः प्रत्येकं पञ्चत्रिंशदिति आहत्य सप्ततिर्भेदाः। ई शक्तिः; ईकाररूपा शक्तिरित्यर्थः।

14इयद्विस्तृतिमापन्नामीमिमां परमेश्वरीम्।
विचिन्त्य परमं याति पदं विष्णोः सनातनम् ॥ 53 ॥

विश्वास-प्रस्तुतिः

यत्र यत्र गता सेयं शुद्धाशुद्धे तथाध्वनि।
तत्र तत्र त्वजहती विष्णोः संबन्धमी स्थिता ॥ 54 ॥

मूलम्

यत्र यत्र गता सेयं शुद्धाशुद्धे तथाध्वनि।
तत्र तत्र त्वजहती विष्णोः संबन्धमी स्थिता ॥ 54 ॥

विश्वास-प्रस्तुतिः

एकद्वित्र्यादियोगेन स्वरव्यञ्जनरूषिता।
शुद्धाशुद्धाध्ववर्गस्था नानाभेदोपपादिता ॥ 55 ॥

मूलम्

एकद्वित्र्यादियोगेन स्वरव्यञ्जनरूषिता।
शुद्धाशुद्धाध्ववर्गस्था नानाभेदोपपादिता ॥ 55 ॥

विश्वास-प्रस्तुतिः

जटोपरागहीनाया अस्या एव पुनस्रिधा।
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः ॥ 56 ॥

मूलम्

जटोपरागहीनाया अस्या एव पुनस्रिधा।
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः ॥ 56 ॥

टिप्पनी 56

जटेति। जकारटकारादीत्यर्थः। उपलक्षणमेतत् वर्णान्तरोपरागस्यापि।

विश्वास-प्रस्तुतिः

सृष्टिकृत्संयुता स्थूला सूक्ष्मा व्योमेशसंयुता।
निरञ्जना परा सेयमी इत्येवानुरागिणी ॥ 57 ॥

मूलम्

सृष्टिकृत्संयुता स्थूला सूक्ष्मा व्योमेशसंयुता।
निरञ्जना परा सेयमी इत्येवानुरागिणी ॥ 57 ॥

टिप्पनी 57

ईरूपस्य स्थूलादिभेदमाह–सृ


  1. प्राणयन्तं A. B. ↩︎

  2. मम C. ↩︎

  3. कलयन्तं A. B. G. ↩︎ ↩︎

  4. हिता F. ↩︎ ↩︎

  5. प्रदृश्यते B. C. ↩︎ ↩︎

  6. अव्याप्तित्वे अमी B. F. ↩︎

  7. B. omits four lines from here. ↩︎

  8. गर्भ इव C. G. ↩︎ ↩︎

  9. नीत्वा A. ↩︎ ↩︎

  10. प्राप्य C. ↩︎ ↩︎

  11. शक्ति B. ↩︎ ↩︎

  12. त्रेधावस्थो A. B. ↩︎

  13. यः B. C. ↩︎

  14. इयं B. C. F. ↩︎