विश्वास-प्रस्तुतिः
एकत्रिंशोऽध्यायः - 31
श्रीः—
या सा षाड्गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता।
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः ॥ 1 ॥
मूलम्
एकत्रिंशोऽध्यायः - 31
श्रीः—
या सा षाड्गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता।
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः ॥ 1 ॥
टिप्पनी 1
षाड्गुण्ये तत्रापि तेजसि प्रधानतयावस्थितेत्यर्थः।
विश्वास-प्रस्तुतिः
सर्वास्त्रशस्त्रसंस्यूतं1 सूर्यसोमाग्निमूलकम्।
महत् सुदर्शनं नाम 2नानारूपोपशोभितम् ॥ 2 ॥
टिप्पनी 2
सुदर्शनस्य सर्वशस्त्रास्त्रनिबिडत्वमहिर्बुध्न्यसंहितायां विशाद्याये उक्तम्। सहस्रारेत्यक्षरस्वरूपमभिप्रेत्य सूर्यसोमाग्निमूलकत्वोक्तिः।
विश्वास-प्रस्तुतिः
तस्य मध्ये 3स्थिता शक्तिः पौरुषीं तनुमास्थिता4।
5सौम्याग्नेयस्वरूपेण तत्तत्कालव्यवस्थया ॥ 3 ॥
टिप्पनी 3
भक्तपरिपालनदुष्टशिक्षणरूपकार्यमनुरुध्य सौम्याग्नेयस्वरूपत्वोक्तिः।
विश्वास-प्रस्तुतिः
पुरस्ताद्दर्शितस्तस्या6 वाचकस्ते चतुर्विधः।
तत्र संज्ञामयो मन्त्रो भूयसा बलवत्तरः ॥ 4 ॥
मूलम्
पुरस्ताद्दर्शितस्तस्या6 वाचकस्ते चतुर्विधः।
तत्र संज्ञामयो मन्त्रो भूयसा बलवत्तरः ॥ 4 ॥
टिप्पनी 4
बीजपिण्डसंज्ञापदरूपेण चातुर्विध्यम्।
विश्वास-प्रस्तुतिः
तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय।
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरे ॥ 5 ॥
मूलम्
तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय।
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरे ॥ 5 ॥
विश्वास-प्रस्तुतिः
मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता।
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी ॥ 6 ॥
मूलम्
मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता।
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी ॥ 6 ॥
टिप्पनी 6
प्रथमाक्षरः सकारः। तस्यामृतादिरूपत्वमाह—अमृतेत्यादिना। तृप्तिसोमावपि सकारपरौ।
विश्वास-प्रस्तुतिः
अमृतीकरणं कुर्यात् सर्गस्येन्दुकलास्थिता7।
शिरःपद्मादयो मन्त्राः परमेश्वरयुक्तया ॥ 7 ॥
मूलम्
अमृतीकरणं कुर्यात् सर्गस्येन्दुकलास्थिता7।
शिरःपद्मादयो मन्त्राः परमेश्वरयुक्तया ॥ 7 ॥
विश्वास-प्रस्तुतिः
अनया 8सृतया कुर्यात्तृप्तिं संसिद्धिमेव च।
सृष्टिकृत्संयुता सेयं जीवशक्तिः सनातनी ॥ 8 ॥
मूलम्
अनया 8सृतया कुर्यात्तृप्तिं संसिद्धिमेव च।
सृष्टिकृत्संयुता सेयं जीवशक्तिः सनातनी ॥ 8 ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता।
ताराकारा रिपोर्मूर्ध्नि 9चिन्त्योच्छेदनसिद्धये ॥ 9 ॥
मूलम्
त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता।
ताराकारा रिपोर्मूर्ध्नि 9चिन्त्योच्छेदनसिद्धये ॥ 9 ॥
विश्वास-प्रस्तुतिः
अप्रमेयोपगूढाया अग्नीषोममयीजुषः।
अस्याः शक्तेः समुद्भूतं सूक्तं पौरुषमुज्ज्वलम् ॥ 10 ॥
मूलम्
अप्रमेयोपगूढाया अग्नीषोममयीजुषः।
अस्याः शक्तेः समुद्भूतं सूक्तं पौरुषमुज्ज्वलम् ॥ 10 ॥
टिप्पनी 10
अस्या इति। प्रथमाक्षररूपाया इत्यर्थः। सकारात् पौरुषं सूक्तमुद्भूतमित्यर्थः। तथा चाहिर्बुध्न्यसंहिता—“अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्। द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने॥” (18. 33) इति।
विश्वास-प्रस्तुतिः
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया ॥ 11 ॥
मूलम्
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया ॥ 11 ॥
विश्वास-प्रस्तुतिः
तत्तत्कार्यजुषा तत्तद्वर्णशक्तित्रयीजुषा।
अनया यन्न साध्येत न तदन्सित जगत्त्रये ॥ 12 ॥
मूलम्
तत्तत्कार्यजुषा तत्तद्वर्णशक्तित्रयीजुषा।
अनया यन्न साध्येत न तदन्सित जगत्त्रये ॥ 12 ॥
टिप्पनी 12
शक्तित्रयी सूर्यसोमाग्निशक्तयः।
विश्वास-प्रस्तुतिः
सूते सा सकलाः शक्तीरनुजानाति ताः पुनः।
संहरन्ती पुनश्चैता10 इति च स्मर्यते ततः ॥ 13 ॥
मूलम्
सूते सा सकलाः शक्तीरनुजानाति ताः पुनः।
संहरन्ती पुनश्चैता10 इति च स्मर्यते ततः ॥ 13 ॥
विश्वास-प्रस्तुतिः
स्वमुन्मेषमधिष्ठाय परमात्मा स शक्तिराट्।
उदितो जगतोऽर्थाय हेतिदेवः सनातनः ॥ 14 ॥
मूलम्
स्वमुन्मेषमधिष्ठाय परमात्मा स शक्तिराट्।
उदितो जगतोऽर्थाय हेतिदेवः सनातनः ॥ 14 ॥
टिप्पनी 14
हेतिदेवः सुदर्शनः।
सूर्यश्च भोक्तृतां प्राप्य प्राणयन् प्राण इष्यते।
11आत्मानं दर्शयत्येष त्रैलोक्यैश्वर्यदान्वितः ॥ 15 ॥
टिप्पनी 15
सूर्यो हकारः। प्राणोऽपि स एव।
विश्वास-प्रस्तुतिः
हृत्पुण्डरीकमध्यस्थं यं विचिन्वन्ति योगिनः।
यथावद् ध्यायतो वेध्यं मुक्तेषोर्वेगवत्तया ॥ 16 ॥
मूलम्
हृत्पुण्डरीकमध्यस्थं यं विचिन्वन्ति योगिनः।
यथावद् ध्यायतो वेध्यं मुक्तेषोर्वेगवत्तया ॥ 16 ॥
टिप्पनी 16
मुक्तस्येत्यादि। अतिवेगेनेत्यर्थः।
विश्वास-प्रस्तुतिः
प्रकर्षेणोन्नयन् प्राणान् प्राण इत्येष12 शब्द्यते।
इन्दुमण्डलसंवीतो व्यापिमानप्रमेयवान् ॥ 17 ॥
मूलम्
प्रकर्षेणोन्नयन् प्राणान् प्राण इत्येष12 शब्द्यते।
इन्दुमण्डलसंवीतो व्यापिमानप्रमेयवान् ॥ 17 ॥
टिप्पनी 17
व्यापी अनुस्वारः।
विश्वास-प्रस्तुतिः
जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति।
अंमण्डले स्थितो ध्यातः स एव हि सुधां13 स्रवन् ॥ 18 ॥
मूलम्
जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति।
अंमण्डले स्थितो ध्यातः स एव हि सुधां13 स्रवन् ॥ 18 ॥
टिप्पनी 18
जिह्वामूलेति कण्ठस्थानम्। अंमण्डलमनुस्वारः।
14निर्विषीकरणं ध्यातः करोति जगतामपि।
रामोपगूढादस्माद्धि15 श्रियः सूक्तं समुद्गतम् ॥ 19 ॥
टिप्पनी 19
रामोपगूढादिति। इकारसहितादित्यर्थः।
विश्वास-प्रस्तुतिः
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
तत्तत्कालजुषा तत्तद्वर्णशक्तित्रयीजुषा ॥ 20 ॥
मूलम्
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
तत्तत्कालजुषा तत्तद्वर्णशक्तित्रयीजुषा ॥ 20 ॥
विश्वास-प्रस्तुतिः
अनेन यन्न साध्येत न तदस्ति जगत्त्रये।
हन्यते सकलं लोकं गमयत्यमलं पदम् ॥ 21 ॥
मूलम्
अनेन यन्न साध्येत न तदस्ति जगत्त्रये।
हन्यते सकलं लोकं गमयत्यमलं पदम् ॥ 21 ॥
टिप्पनी 21
हन्यत इत्यादिना हकारनिर्वचनं क्रियते। “हन हिंसागत्योः” इति धात्वर्थमभिप्रेत्याह—गमयतीति।
विश्वास-प्रस्तुतिः
त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः।
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः ॥ 22 ॥
मूलम्
त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः।
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः ॥ 22 ॥
विश्वास-प्रस्तुतिः
अशेषभुवनाधारा संकल्पप्रबलीकृता।
प्रत्यभिज्ञायते सैव शक्तिर्या परमात्मनः ॥ 23 ॥
मूलम्
अशेषभुवनाधारा संकल्पप्रबलीकृता।
प्रत्यभिज्ञायते सैव शक्तिर्या परमात्मनः ॥ 23 ॥
टिप्पनी 23
अशेषभुवनाधारो रेफः।
विश्वास-प्रस्तुतिः
सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा।
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते ॥ 24 ॥
मूलम्
सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा।
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते ॥ 24 ॥
टिप्पनी 24
स्रा इत्यस्य निर्वचनमाह—सरतीति। सरति; गच्छतीत्यर्थः। स्रियते; गम्यते प्राप्यत इत्यर्थः। सृत्याः गमनात् स्तम्भे स्तम्भने निश्चलत्व इति यावत्। गमनात् निवर्त्य स्तब्धतया नियम्यत इत्यर्थः।
विश्वास-प्रस्तुतिः
सहो नाम बलं तत्र रमते तत् सहस्रधा।
सहस्रति सहस्रा स्यादग्नीषोमात्मनो मम ॥ 25 ॥
मूलम्
सहो नाम बलं तत्र रमते तत् सहस्रधा।
सहस्रति सहस्रा स्यादग्नीषोमात्मनो मम ॥ 25 ॥
टिप्पनी 25
सहस्रा इति समुदायस्य प्रकारान्तरेण निर्वचनमर्थं चाह–सह इत्यादि। सहस्शब्दात् बलार्थकादुपरि रमधातोर्निष्पन्नस्य र इत्यस्य संयोजने सहस्रेति रूपम्।
विश्वास-प्रस्तुतिः
अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी।
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता ॥ 26 ॥
मूलम्
अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी।
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता ॥ 26 ॥
टिप्पनी 26
र इत्यस्य निर्वचनमाह—अग्नीत्यादिना। कालपावकतां रेफरूपताम्। केवलीति शक्तिविशेषणम्।
विश्वास-प्रस्तुतिः
संप्राप्यैवानलं भावं कालपावकतां गता।
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया ॥ 27 ॥
मूलम्
संप्राप्यैवानलं भावं कालपावकतां गता।
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया ॥ 27 ॥
विश्वास-प्रस्तुतिः
परमेश्वरभूता सा परमाश्चर्यकारिणी।
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया ॥ 28 ॥
मूलम्
परमेश्वरभूता सा परमाश्चर्यकारिणी।
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया ॥ 28 ॥
विश्वास-प्रस्तुतिः
संख्यानन्त्यं सहस्रं स्यादरानन्त्यं तदुच्यते।
वर्मास्त्रयोः स्वरूपं च दर्शितं ते पुरंदर ॥ 29 ॥
मूलम्
संख्यानन्त्यं सहस्रं स्यादरानन्त्यं तदुच्यते।
वर्मास्त्रयोः स्वरूपं च दर्शितं ते पुरंदर ॥ 29 ॥
टिप्पनी 29
निर्वचनान्तरमाह–संख्येत्यादिना। सहस्राण्यनन्तानि अराणि यस्येति समासः।
विश्वास-प्रस्तुतिः
ध्रुवश्च प्रणवोऽस्यादिः पूर्वमेव निरूपितः।
एवमेव महामन्त्रः शब्दब्रह्मोद्गतो रसः ॥ 30 ॥
मूलम्
ध्रुवश्च प्रणवोऽस्यादिः पूर्वमेव निरूपितः।
एवमेव महामन्त्रः शब्दब्रह्मोद्गतो रसः ॥ 30 ॥
टिप्पनी 30
ध्रुवः प्रणवः।
विश्वास-प्रस्तुतिः
आथर्वणी महाशक्तिः क्रियाशक्तेः 16प्रिया तनुः।
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः ॥ 31 ॥
मूलम्
आथर्वणी महाशक्तिः क्रियाशक्तेः 16प्रिया तनुः।
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः ॥ 31 ॥
टिप्पनी 31
पञ्चपर्वेति। नक्षत्रविधानविधिविधानसंहिताशान्तिरूपपञ्चकल्पेत्यर्थः।
विश्वास-प्रस्तुतिः
मन्त्रेण सूयतेऽनेन सारेणेव वनस्पतिः।
अस्य त्वङ्गविधानज्ञाः षडङ्गानि प्रचक्षते ॥ 32 ॥
मूलम्
मन्त्रेण सूयतेऽनेन सारेणेव वनस्पतिः।
अस्य त्वङ्गविधानज्ञाः षडङ्गानि प्रचक्षते ॥ 32 ॥
टिप्पनी 32
भूसारेण वृक्ष इवाभिवृद्धेत्यर्थः। षडङ्गानि हृदयादिषडङ्गानि।
विश्वास-प्रस्तुतिः
गायत्रीमपि चक्राख्यां प्राकारं चाग्निसंज्ञितम्17।
गोपनाद्वरुणोत्सेधात् सोदयादमृतात्तथा ॥ 33 ॥
मूलम्
गायत्रीमपि चक्राख्यां प्राकारं चाग्निसंज्ञितम्17।
गोपनाद्वरुणोत्सेधात् सोदयादमृतात्तथा ॥ 33 ॥
टिप्पनी 33
गोपन आकारः। वरुणो वकारः। उदय उकारः। अमृतः सकारः। वां सुं इति मन्त्रः।
विश्वास-प्रस्तुतिः
ऊर्ध्वं चक्राय च स्वाहा हृदादिस्तु शिखावधि।
सूर्यज्वालापदाच्चोर्ध्वं महायुक्तात् सुदर्शनात् ॥ 34 ॥
मूलम्
ऊर्ध्वं चक्राय च स्वाहा हृदादिस्तु शिखावधि।
सूर्यज्वालापदाच्चोर्ध्वं महायुक्तात् सुदर्शनात् ॥ 34 ॥
टिप्पनी 34
हृदादिः हृदयशिरःशिखारूपः। महायुक्तेति। महासुदर्शनायेति विवक्षितम्।
विश्वास-प्रस्तुतिः
ऊर्ध्वं चक्राय च स्वाहा वर्माद्योऽस्रान्तको विधिः।
नमश्चक्राय तस्यान्ते विद्महेऽसौ चतुर्युगः ॥ 35 ॥
मूलम्
ऊर्ध्वं चक्राय च स्वाहा वर्माद्योऽस्रान्तको विधिः।
नमश्चक्राय तस्यान्ते विद्महेऽसौ चतुर्युगः ॥ 35 ॥
टिप्पनी 35
वर्माद्य इति। कवचनेत्रास्त्राणि। चतुर्युगः; अष्टाक्षरः। `नमश्चक्राय विद्महे’ इति।
ज्वालाय च सहस्रान्ते धीमहीति नवार्णकः।
18तन्नः प्रचोदयान्मध्ये चक्र इत्यष्टवर्णकः ॥ 36 ॥
टिप्पनी 36
`सहस्रज्वालाय धीमहि। तन्नश्चक्रः प्रचोदयात्’ इति मन्त्रः।
विश्वास-प्रस्तुतिः
मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम्।
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थिम् ॥ 37 ॥
मूलम्
मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम्।
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थिम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
अन्योन्यसंमुखे पाणितले वै दक्षिणोत्तरे।
कनिष्ठाङ्गुष्ठयोरग्रे श्लिष्टे दीर्घास्तथापराः ॥ 38 ॥
मूलम्
अन्योन्यसंमुखे पाणितले वै दक्षिणोत्तरे।
कनिष्ठाङ्गुष्ठयोरग्रे श्लिष्टे दीर्घास्तथापराः ॥ 38 ॥
विश्वास-प्रस्तुतिः
परितो भ्रामयेदेवं चक्रमुद्रेयमीरिता।
अह्गमुद्रास्तु वक्ष्यन्ते शक्तिग्रासमनुं शृणु ॥ 39 ॥
मूलम्
परितो भ्रामयेदेवं चक्रमुद्रेयमीरिता।
अह्गमुद्रास्तु वक्ष्यन्ते शक्तिग्रासमनुं शृणु ॥ 39 ॥
विश्वास-प्रस्तुतिः
पवित्रमनलारूढं सव्यापि प्रणवात् परम्।
महासुदर्शनेत्येवं चक्रराजं महाध्वगम् ॥ 40 ॥
मूलम्
पवित्रमनलारूढं सव्यापि प्रणवात् परम्।
महासुदर्शनेत्येवं चक्रराजं महाध्वगम् ॥ 40 ॥
विश्वास-प्रस्तुतिः
ततोऽस्तगततेत्यस्मात् सर्वदुष्टभयंकर।
छिन्धि छिन्धीत्यतः पश्चाद्भिन्धि भिन्धि प्रकीर्तयेत् ॥ 41 ॥
मूलम्
ततोऽस्तगततेत्यस्मात् सर्वदुष्टभयंकर।
छिन्धि छिन्धीत्यतः पश्चाद्भिन्धि भिन्धि प्रकीर्तयेत् ॥ 41 ॥
विश्वास-प्रस्तुतिः
विदारयद्वयं पश्चात् परमन्त्रान् ग्रस ग्रस।
द्विर्भक्षयेति भूतानि त्रासयेति द्विरुच्चरेत् ॥ 42 ॥
मूलम्
विदारयद्वयं पश्चात् परमन्त्रान् ग्रस ग्रस।
द्विर्भक्षयेति भूतानि त्रासयेति द्विरुच्चरेत् ॥ 42 ॥
विश्वास-प्रस्तुतिः
वर्मास्त्रवह्निजायाः स्युः शक्तिग्रसनकृन्मनुः।
स्वयं सुदर्शनो भूत्वा मन्त्रमुच्चारयन्निमम् ॥ 43 ॥
मूलम्
वर्मास्त्रवह्निजायाः स्युः शक्तिग्रसनकृन्मनुः।
स्वयं सुदर्शनो भूत्वा मन्त्रमुच्चारयन्निमम् ॥ 43 ॥
विश्वास-प्रस्तुतिः
40-43. पवित्रमित्यादि। `ओं प्रं महासुदर्शन चक्रराज महाध्वग अस्तगत सर्वदुष्टभयंकर छिन्धि छिन्धि भिन्धि भिन्धि विदारय विदारय, परमन्त्रान् ग्रस ग्रस भक्षय भक्षयय भूतानि त्रासय त्रासय’ इत्यस्यानन्तरं कवचमन्त्रमस्रमन्त्रं च संयोज्यान्ते स्वाहापदं संयोजयेत्। एष शक्तिग्रासमन्त्रः।
शक्तिं मुखहृदादिभ्यः परस्याचूषयेद्धिया।
षडक्षरस्य मन्त्रस्य शृणु ध्यानं पुरंदर ॥ 44 ॥

19न्यस्ताङ्गश्चक्रमुद्राभिर्वह्निप्राकारमध्यगः।
विश्वास-प्रस्तुतिः
सहस्रारमहाचक्रमयुताग्निचयोत्कटम् ॥ 45 ॥
षडद्वमयमुद्भ्रान्तं ध्यायेन्मच्छक्तिजृम्भितम्।
अक्षस्थं परमात्मानं नारायणमनामयम् ॥ 46 ॥
मूलम्
सहस्रारमहाचक्रमयुताग्निचयोत्कटम् ॥ 45 ॥
षडद्वमयमुद्भ्रान्तं ध्यायेन्मच्छक्तिजृम्भितम्।
अक्षस्थं परमात्मानं नारायणमनामयम् ॥ 46 ॥
विश्वास-प्रस्तुतिः
चक्ररूपिणमीशानं ध्यायेत् कुङ्कुमसंनिभम्।
पीताम्बरधरं दिव्यं मुक्तालंकारमण्डितम् ॥ 47 ॥
मूलम्
चक्ररूपिणमीशानं ध्यायेत् कुङ्कुमसंनिभम्।
पीताम्बरधरं दिव्यं मुक्तालंकारमण्डितम् ॥ 47 ॥
विश्वास-प्रस्तुतिः
एनमष्टभुजं ध्यायेन्महाव्यसनसंप्लवे।
उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् ॥ 48 ॥
मूलम्
एनमष्टभुजं ध्यायेन्महाव्यसनसंप्लवे।
उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् ॥ 48 ॥
विश्वास-प्रस्तुतिः
चक्रं मुसलमुद्दाममङ्कुशं सरसीरुहम्।
याम्ये करचतुष्केऽथ वामे भुजचतुष्टये ॥ 49 ॥
मूलम्
चक्रं मुसलमुद्दाममङ्कुशं सरसीरुहम्।
याम्ये करचतुष्केऽथ वामे भुजचतुष्टये ॥ 49 ॥
विश्वास-प्रस्तुतिः
शङ्खं बाणयुतं चापं पाशं गुर्वीं गदामपि।
दधानं दक्षिणं दिव्यं दंष्ट्राभास्वरिताननम् ॥ 50 ॥
मूलम्
शङ्खं बाणयुतं चापं पाशं गुर्वीं गदामपि।
दधानं दक्षिणं दिव्यं दंष्ट्राभास्वरिताननम् ॥ 50 ॥
विश्वास-प्रस्तुतिः
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वालामालापरिष्कृतम्।
अथ षोडशहस्तं च ध्यायेद्देवं सुदर्शनम् ॥ 51 ॥
मूलम्
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वालामालापरिष्कृतम्।
अथ षोडशहस्तं च ध्यायेद्देवं सुदर्शनम् ॥ 51 ॥
विश्वास-प्रस्तुतिः
परैः परिभवे प्राप्ते प्रतीकारविवर्जिते।
स्थितावनवक्लृप्तायामपि निर्जित्य वैरिणः ॥ 52 ॥
मूलम्
परैः परिभवे प्राप्ते प्रतीकारविवर्जिते।
स्थितावनवक्लृप्तायामपि निर्जित्य वैरिणः ॥ 52 ॥
विश्वास-प्रस्तुतिः
भये महति संजाते चोरव्याघ्रद्विपादिभिः।
प्रत्यालीढस्थितं देवं वैरिवर्गदिगुन्मुखम् ॥ 53 ॥
मूलम्
भये महति संजाते चोरव्याघ्रद्विपादिभिः।
प्रत्यालीढस्थितं देवं वैरिवर्गदिगुन्मुखम् ॥ 53 ॥
विश्वास-प्रस्तुतिः
प्रहारोद्योगिभिः पीनैर्भुजैरूर्ध्वैरलंकृतम्।
शक्त्या दीप्तेन खड्गेन वह्निना च शतार्चिपा20 ॥ 54 ॥
मूलम्
प्रहारोद्योगिभिः पीनैर्भुजैरूर्ध्वैरलंकृतम्।
शक्त्या दीप्तेन खड्गेन वह्निना च शतार्चिपा20 ॥ 54 ॥
विश्वास-प्रस्तुतिः
अङ्कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा।
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् ॥ 55 ॥
मूलम्
अङ्कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा।
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् ॥ 55 ॥
विश्वास-प्रस्तुतिः
शङ्खेन 21चापमुक्येन पाशेनाथ हलेन च।
कुलिशेन गदास्त्रोण मुसलेनाथ शूलतः ॥ 56 ॥
मूलम्
शङ्खेन 21चापमुक्येन पाशेनाथ हलेन च।
कुलिशेन गदास्त्रोण मुसलेनाथ शूलतः ॥ 56 ॥
विश्वास-प्रस्तुतिः
ऊर्ध्वादधः स्थितैर्वामैः प्रदीप्तैरायुधैर्युतम्।
दंष्टानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ॥ 57 ॥
मूलम्
ऊर्ध्वादधः स्थितैर्वामैः प्रदीप्तैरायुधैर्युतम्।
दंष्टानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ॥ 57 ॥
विश्वास-प्रस्तुतिः
संस्यूततत्त्वयाकीर्णं दिव्यया वनमालया।
घोराट्टहाससंत्रासद्रव्ददैत्येन्द्रदानवम् ॥ 58 ॥
मूलम्
संस्यूततत्त्वयाकीर्णं दिव्यया वनमालया।
घोराट्टहाससंत्रासद्रव्ददैत्येन्द्रदानवम् ॥ 58 ॥
विश्वास-प्रस्तुतिः
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ॥ 59 ॥
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम।
ध्यायेदेवंविधं देवं भये महति मानवः ॥ 60 ॥
मूलम्
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ॥ 59 ॥
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम।
ध्यायेदेवंविधं देवं भये महति मानवः ॥ 60 ॥
विश्वास-प्रस्तुतिः
एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम्।
अन्यथा नैव शान्तिः स्यादस्ति तेजस्तथा हरेः ॥ 61 ॥
मूलम्
एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम्।
अन्यथा नैव शान्तिः स्यादस्ति तेजस्तथा हरेः ॥ 61 ॥
टिप्पनी 61
एतस्य ध्यानेन सर्वारिष्टशान्तिरहिर्बुध्न्यसंहितायां सप्तचत्वारिंशाध्याये वर्णिता द्रष्टव्या।
22घोरशान्तविभेदेन पौरुषं ध्यानमीरितम्।
इति ते सुरशार्दूल ध्यानमन्यच्च मे शृणु ॥ 62 ॥
प्रकाराः पौरुषा ये ये ध्यानेऽस्मिन् परिवर्णिताः।
23तान् सर्वान मन्मयानेव संस्मरेच्छीघ्रसिद्धये ॥ 63 ॥
विश्वास-प्रस्तुतिः
अत्यद्भुतमिदं शक्र रहस्यं ते प्रकीर्तितम्।
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव ॥ 64 ॥
मूलम्
अत्यद्भुतमिदं शक्र रहस्यं ते प्रकीर्तितम्।
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव ॥ 64 ॥
विश्वास-प्रस्तुतिः
आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता।
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा ॥ 65 ॥
मूलम्
आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता।
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा ॥ 65 ॥
विश्वास-प्रस्तुतिः
इन्दुकोट्यर्बुदाभासा मम स्पन्दमयी तनुः।
अमृतं परमात्मानमशेषभुवनाधृतिम् ॥ 66 ॥
मूलम्
इन्दुकोट्यर्बुदाभासा मम स्पन्दमयी तनुः।
अमृतं परमात्मानमशेषभुवनाधृतिम् ॥ 66 ॥
टिप्पनी 66
स्पन्दमयी क्रियामयी। अमृतं सकारः। परमात्मा हकारः। अषेषभुवनाधृतिः रेफः।
विश्वास-प्रस्तुतिः
आस्थाय पञ्चबिन्द्वात्मा स्पृशन्ती व्यापिनं परम्।
हिताय सर्वभूतानामुदेति परमेश्वरात् ॥ 67 ॥
मूलम्
आस्थाय पञ्चबिन्द्वात्मा स्पृशन्ती व्यापिनं परम्।
हिताय सर्वभूतानामुदेति परमेश्वरात् ॥ 67 ॥
टिप्पनी 67
पञ्चबिन्दुः ईकारः। व्यापी अनुस्वारः।
तामक्षं कल्पयेच्छक्तिं तत्प्रभां नाभिमण्डलम्।
24अराणि षण्मनोरर्णान् सूर्योद्दामौ सबिन्दुकौ ॥ 68 ॥
टिप्पनी 68
अराणि षडिति षडरचक्रं विवक्षितम्। सूर्योद्दामौ हु इति।
विश्वास-प्रस्तुतिः
सुस्थितौ नेमिगौ ध्यायेच्छेषं तु प्रधिमण्डलम्।
आत्मानं मध्यतो ध्यायेत् स्वं मायापरमात्मनोः ॥ 69 ॥
मूलम्
सुस्थितौ नेमिगौ ध्यायेच्छेषं तु प्रधिमण्डलम्।
आत्मानं मध्यतो ध्यायेत् स्वं मायापरमात्मनोः ॥ 69 ॥
टिप्पनी 69
शेषमिति। फडित्येतदित्यर्थः।
विश्वास-प्रस्तुतिः
सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम्।
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः ॥ 70 ॥
मूलम्
सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम्।
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः ॥ 70 ॥
विश्वास-प्रस्तुतिः
विधूय निखिलं दोषं सांसारिकमशेषतः।
मयि भक्तिं परां प्राप्य मामेवान्ते समश्नुते ॥ 71 ॥
मूलम्
विधूय निखिलं दोषं सांसारिकमशेषतः।
मयि भक्तिं परां प्राप्य मामेवान्ते समश्नुते ॥ 71 ॥
विश्वास-प्रस्तुतिः
अन्तरा परमात्मानममृतं च स्थितो जपन्।
मनीषी मनसा नित्यं पीयूषाप्यायनं स्मरेत् ॥ 72 ॥
मूलम्
अन्तरा परमात्मानममृतं च स्थितो जपन्।
मनीषी मनसा नित्यं पीयूषाप्यायनं स्मरेत् ॥ 72 ॥
विश्वास-प्रस्तुतिः
सुधयाप्लाव्यमानो हि 25स्रुतया शक्तिकोटरात्।
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा ॥ 73 ॥
मूलम्
सुधयाप्लाव्यमानो हि 25स्रुतया शक्तिकोटरात्।
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा ॥ 73 ॥
टिप्पनी 73
प्राणेन हकारेण। अनलो रेफः।
विश्वास-प्रस्तुतिः
पञ्चबिन्दुक्रियालाभादैश्वर्यं परमास्थितः।
संतताब्यासयोगेन वशी युक्तो जितेन्द्रियः ॥ 74 ॥
मूलम्
पञ्चबिन्दुक्रियालाभादैश्वर्यं परमास्थितः।
संतताब्यासयोगेन वशी युक्तो जितेन्द्रियः ॥ 74 ॥
विश्वास-प्रस्तुतिः
विहाय सकलं क्लेशं वेषमास्थाय मामकम्।
दृप्तो जातबलो योगी क्रियया सर्वतो वशी ॥ 75 ॥
मूलम्
विहाय सकलं क्लेशं वेषमास्थाय मामकम्।
दृप्तो जातबलो योगी क्रियया सर्वतो वशी ॥ 75 ॥
विश्वास-प्रस्तुतिः
ईश्वरः परमो भूत्वा सर्वव्याप्तिमयः स्थितः।
मामेव मामकं धाम मत्प्रसादादुपाश्नुते ॥ 76 ॥
मूलम्
ईश्वरः परमो भूत्वा सर्वव्याप्तिमयः स्थितः।
मामेव मामकं धाम मत्प्रसादादुपाश्नुते ॥ 76 ॥
विश्वास-प्रस्तुतिः
या क्रिया सा चिदाख्याता या चित्तिः सा परा क्रिया।
एते सपरमानन्दास्त्रयस्ते परिकीर्तिताः ॥ 77 ॥
मूलम्
या क्रिया सा चिदाख्याता या चित्तिः सा परा क्रिया।
एते सपरमानन्दास्त्रयस्ते परिकीर्तिताः ॥ 77 ॥
टिप्पनी 77
स्वस्वरूपस्य क्रियाचिदानन्दरूपतामाह—येति।
विश्वास-प्रस्तुतिः
अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी।
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी ॥ 78 ॥
मूलम्
अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी।
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी ॥ 78 ॥
विश्वास-प्रस्तुतिः
स्वाच्छन्द्यान्मम 26संकल्पो द्विधैवं प्रविजृम्भते।
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा ॥ 79 ॥
मूलम्
स्वाच्छन्द्यान्मम 26संकल्पो द्विधैवं प्रविजृम्भते।
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा ॥ 79 ॥
टिप्पनी 79
द्विधेति। क्रियाविभूतिभेदेनेत्यर्थः।
विश्वास-प्रस्तुतिः
सामानय्तोऽन्योः शक्र स्थिताहं परमेश्वरी।
एषा ते सकला शक्तिः क्रियारूपा प्रदर्शिता ॥ 80 ॥
मूलम्
सामानय्तोऽन्योः शक्र स्थिताहं परमेश्वरी।
एषा ते सकला शक्तिः क्रियारूपा प्रदर्शिता ॥ 80 ॥
विश्वास-प्रस्तुतिः
स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय।
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी ॥ 81 ॥
मूलम्
स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय।
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी ॥ 81 ॥
टिप्पनी 81
अनन्तराध्यायविषयभूतभूतिशक्तिवर्णनमवतारयति—निमीलितेति। भूतिशक्तिरूपे क्रियाशक्तिः निमीलितास्त इत्यर्थः। स्पष्टेति। ऐश्वर्यं विस्पष्टं भवतीत्यर्थः।
विश्वास-प्रस्तुतिः
तनुः षाड्गुण्यरूपा मे भूतिः सा तारिकाह्वया।
तस्याः स्थूलादिरूपाणि यथावन्मे निशामय ॥
मूलम्
तनुः षाड्गुण्यरूपा मे भूतिः सा तारिकाह्वया।
तस्याः स्थूलादिरूपाणि यथावन्मे निशामय ॥
इति 27श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सुदर्शनप्रकाशो नामैकत्रिंशोऽध्यायः
इत्येकत्रिंशोऽध्यायः