०३०

त्रिंशोऽध्यायः - 30
श्रीः—

विश्वास-प्रस्तुतिः

एषा ते कथिता शक्र मया शक्तिः क्रियात्मिका।
1तस्या व्याप्तिमवोचं ते सूर्यसोमाग्निभेदिताम् ॥ 1 ॥

मूलम्

एषा ते कथिता शक्र मया शक्तिः क्रियात्मिका।
1तस्या व्याप्तिमवोचं ते सूर्यसोमाग्निभेदिताम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः।
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे ॥ 2 ॥

मूलम्

व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः।
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे ॥ 2 ॥

विश्वास-प्रस्तुतिः

अजितानलसर्गाणां संयोगः पिण्ड आदिमः।
कमलानलसर्गाणां योगः पिण्डो द्वितीयकः ॥ 3 ॥

मूलम्

अजितानलसर्गाणां संयोगः पिण्ड आदिमः।
कमलानलसर्गाणां योगः पिण्डो द्वितीयकः ॥ 3 ॥

टिप्पनी 3

अजितो जकारः। अनलो रेफः। सर्गो विसर्गः। ज्रः। कमलः ककारः। क्रः।

विश्वास-प्रस्तुतिः

श्वेताद्याह्लादिसंयोगस्तृतीयः पिण्ड उच्यते।
सूर्योर्जव्यापिनां पिण्डश्चतुर्थस्तेन मध्यतः ॥ 4 ॥

मूलम्

श्वेताद्याह्लादिसंयोगस्तृतीयः पिण्ड उच्यते।
सूर्योर्जव्यापिनां पिण्डश्चतुर्थस्तेन मध्यतः ॥ 4 ॥

टिप्पनी 4

श्वेतः फकारः। आह्लादी टकारः। फट्‌। सूर्यो हकारः। ऊर्ज उकारः। व्यापी बिन्दुः। हुं।

विश्वास-प्रस्तुतिः

त्रीण्यस्राणि ततः कालचक्राय हुतभुक्प्रिया।
तारकेणान्वितश्चादौ चक्रोऽयं पदमन्त्रराट् ॥ 5 ॥

मूलम्

त्रीण्यस्राणि ततः कालचक्राय हुतभुक्प्रिया।
तारकेणान्वितश्चादौ चक्रोऽयं पदमन्त्रराट् ॥ 5 ॥

टिप्पनी 5

मध्ये त्रयः फट्‌मन्त्राः। ततः स्वाहा। ओं ज्रः क्रः फट् हुं फट्‌ 3 कालचक्राय स्वाहा।

विश्वास-प्रस्तुतिः

नैव किंचिदसाध्यं हि मन्त्रेणानेन वासव।
2अभियुक्तमना अस्मिन्न गच्छति पराभवम् ॥ 6 ॥

मूलम्

नैव किंचिदसाध्यं हि मन्त्रेणानेन वासव।
2अभियुक्तमना अस्मिन्न गच्छति पराभवम् ॥ 6 ॥

विश्वास-प्रस्तुतिः

यस्तु ते कथितः पूर्वं त्रियुगार्णो मनूत्तमः।
प्रभावमखिलं तस्य भूयो व्याख्यामि वासव ॥ 7 ॥

मूलम्

यस्तु ते कथितः पूर्वं त्रियुगार्णो मनूत्तमः।
प्रभावमखिलं तस्य भूयो व्याख्यामि वासव ॥ 7 ॥

टिप्पनी 7

त्रियुगार्णः षडक्षरमन्त्रः। सहस्रार हुं फट् इति।

विश्वास-प्रस्तुतिः

अनामरूपवच्चक्रं षाड्‌गुण्यमहिमोज्ज्वलम्।
ध्यायन् सबीजमावर्त्य मन्त्रं बन्धात् प्रमुच्यते ॥ 8 ॥

मूलम्

अनामरूपवच्चक्रं षाड्‌गुण्यमहिमोज्ज्वलम्।
ध्यायन् सबीजमावर्त्य मन्त्रं बन्धात् प्रमुच्यते ॥ 8 ॥

विश्वास-प्रस्तुतिः

क्रियाशक्तेर्मदीयायास्तनुः साक्षान्महामनुः।
षडर्णोऽथर्ववेदान्तसंस्थितश्चक्रबृंहितः ॥ 9 ॥

मूलम्

क्रियाशक्तेर्मदीयायास्तनुः साक्षान्महामनुः।
षडर्णोऽथर्ववेदान्तसंस्थितश्चक्रबृंहितः ॥ 9 ॥

टिप्पनी 9

अथर्वेति। अत्राहिर्बुध्न्यसंहितायां विंशाध्याये 21-24 वचनान्यनुंसधेयानि।

विश्वास-प्रस्तुतिः

षडध्वमयमोजस्वि चक्रं सौदर्शनं परम्।
भावयेदक्षनाभ्यादिविभक्तावयवोज्जवलम् ॥ 10 ॥

मूलम्

षडध्वमयमोजस्वि चक्रं सौदर्शनं परम्।
भावयेदक्षनाभ्यादिविभक्तावयवोज्जवलम् ॥ 10 ॥

विश्वास-प्रस्तुतिः

अमृतादीन् मनोरर्णानक्षाद्यङ्गेषु चिन्तयेत्।
अक्षे नाभौ तथारेषु नेमौ प्रधितदन्तयोः ॥ 11 ॥

मूलम्

अमृतादीन् मनोरर्णानक्षाद्यङ्गेषु चिन्तयेत्।
अक्षे नाभौ तथारेषु नेमौ प्रधितदन्तयोः ॥ 11 ॥

टिप्पनी 11

अमृतं सकारः। प्रकृत्यादीत्यादिना भुवनाध्वा निर्दिश्यते।

विश्वास-प्रस्तुतिः

प्रकृत्यादिविशेषान्तैस्तत्त्वैः संग्रथितः3 प्रधिः।
माया प्रसूतिस्रैगुण्यमपि नेमिः सुदर्शने ॥ 12 ॥

मूलम्

प्रकृत्यादिविशेषान्तैस्तत्त्वैः संग्रथितः3 प्रधिः।
माया प्रसूतिस्रैगुण्यमपि नेमिः सुदर्शने ॥ 12 ॥

विश्वास-प्रस्तुतिः

पदाध्वरचितारान्ता मन्त्रा अरसहस्रकम्।
अरान्तो व्यूहमार्गस्थो नाभिस्तत्र कलामयी ॥ 13 ॥

मूलम्

पदाध्वरचितारान्ता मन्त्रा अरसहस्रकम्।
अरान्तो व्यूहमार्गस्थो नाभिस्तत्र कलामयी ॥ 13 ॥

टिप्पनी 13

मन्त्राध्वानमाह—मन्त्रा इति।

विश्वास-प्रस्तुतिः

वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा।
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् ॥ 14 ॥

मूलम्

वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा।
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् ॥ 14 ॥

विश्वास-प्रस्तुतिः

मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत्।
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् ॥ 15 ॥

मूलम्

मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत्।
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् ॥ 15 ॥

विश्वास-प्रस्तुतिः

इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम्।
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा ॥ 16 ॥

मूलम्

इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम्।
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा ॥ 16 ॥

विश्वास-प्रस्तुतिः

ह्रस्राकारस्वरूपो यः स सहस्रविधान्वयी।
सूर्यकालानलद्वन्द्वैरप्रमेयादिभेदितैः ॥ 17 ॥

मूलम्

ह्रस्राकारस्वरूपो यः स सहस्रविधान्वयी।
सूर्यकालानलद्वन्द्वैरप्रमेयादिभेदितैः ॥ 17 ॥

टिप्पनी 17

सूर्येत्यादि। ह्रं ह्रां इत्यादिभिरित्यर्थः।

विश्वास-प्रस्तुतिः

अमृतानलयुग्मैश्च तावद्भिस्तादृशैरपि।
संहत्य भेदयेत् कादीनग्नीषोममयैः स्वरैः ॥ 18 ॥

मूलम्

अमृतानलयुग्मैश्च तावद्भिस्तादृशैरपि।
संहत्य भेदयेत् कादीनग्नीषोममयैः स्वरैः ॥ 18 ॥

टिप्पनी 18

अमृतेत्यादि। स्रं स्रां इत्यादिभिरित्यर्थः।

विश्वास-प्रस्तुतिः

सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च।
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा ॥ 19 ॥

मूलम्

सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च।
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा ॥ 19 ॥

टिप्पनी 19

सूर्येत्यादि। हकारं सकारं यकारं च वर्जयित्वेत्यर्थः। अष्टन्यूनेति। 31X16X2=992 अक्षराणि ज्ञेयानि।

विश्वास-प्रस्तुतिः

बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ।
ईशाद्यनुप्रदेशस्थं 4वह्नेर्वायुपदावधि5 ॥ 20 ॥

मूलम्

बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ।
ईशाद्यनुप्रदेशस्थं 4वह्नेर्वायुपदावधि5 ॥ 20 ॥

टिप्पनी 20

पूर्वोक्तैः 992 अक्षरैः सह बीजाष्टकयोगे सहस्रमक्षराणि। अहिर्बुध्न्ये तु प्रकारान्तरेण सहस्राक्षरत्वमुक्तम् (23 अ. 82, 83).

विश्वास-प्रस्तुतिः

दत्त्वा 6सूत्रयुगं चारीं चतुर्धा विभजेद्भुवम्।
पञ्च पञ्चाशतं कुर्यादराणां प्रतिभूमिकम् ॥ 21 ॥

मूलम्

दत्त्वा 6सूत्रयुगं चारीं चतुर्धा विभजेद्भुवम्।
पञ्च पञ्चाशतं कुर्यादराणां प्रतिभूमिकम् ॥ 21 ॥

टिप्पनी 21

चारी तिर्यग्गतिः। पञ्चभिर्गुणिता पञ्चाशत् 250।

विश्वास-प्रस्तुतिः

सहस्रं तान्यराणि स्युस्तेषु वर्णसहस्रकम्।
न्यसेत् प्रागादि सोमान्तं कोणसूत्रेषु वै ततः ॥ 22 ॥

मूलम्

सहस्रं तान्यराणि स्युस्तेषु वर्णसहस्रकम्।
न्यसेत् प्रागादि सोमान्तं कोणसूत्रेषु वै ततः ॥ 22 ॥

विश्वास-प्रस्तुतिः

न्यसेन्मन्त्राध्ववर्तिन्यश्चतस्रोऽग्निगुणाः क्रमात्।
जया च विजया चैव अजिता चापराजिता ॥ 23 ॥

मूलम्

न्यसेन्मन्त्राध्ववर्तिन्यश्चतस्रोऽग्निगुणाः क्रमात्।
जया च विजया चैव अजिता चापराजिता ॥ 23 ॥

टिप्पनी 23

वर्तिन्यः; वर्तिनीरित्यर्थः। मन्त्रदेवता इत्युत्तरेणान्वयः।

विश्वास-प्रस्तुतिः

अग्न्यादीशानपर्यन्तसूत्रस्था मन्त्रदेवताः।
अराणि पूरयन्ती सा नेमिः सौदर्शनी स्थिता ॥ 24 ॥

मूलम्

अग्न्यादीशानपर्यन्तसूत्रस्था मन्त्रदेवताः।
अराणि पूरयन्ती सा नेमिः सौदर्शनी स्थिता ॥ 24 ॥

विश्वास-प्रस्तुतिः

अरनेम्यन्तरस्थानि सर्वास्त्राणि च वासव।
प्रवर्तकानि पुरतः सर्वास्त्राणि पुरंदर ॥ 25 ॥

मूलम्

अरनेम्यन्तरस्थानि सर्वास्त्राणि च वासव।
प्रवर्तकानि पुरतः सर्वास्त्राणि पुरंदर ॥ 25 ॥

विश्वास-प्रस्तुतिः

निवर्तकानि पुरतः शिरोभिः शक्रचिह्नितैः।
कृताञ्जलीनि दृप्तानि ध्यायेदुभयतः समम् ॥ 26 ॥

मूलम्

निवर्तकानि पुरतः शिरोभिः शक्रचिह्नितैः।
कृताञ्जलीनि दृप्तानि ध्यायेदुभयतः समम् ॥ 26 ॥

विश्वास-प्रस्तुतिः

नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता।
दक्षिणस्यां महामाया पश्चिमायां सरस्वती ॥ 27 ॥

मूलम्

नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता।
दक्षिणस्यां महामाया पश्चिमायां सरस्वती ॥ 27 ॥

विश्वास-प्रस्तुतिः

सौम्यायां दिशि विज्ञेया महिषासुरनाशनी।
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः ॥ 28 ॥

मूलम्

सौम्यायां दिशि विज्ञेया महिषासुरनाशनी।
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः ॥ 28 ॥

विश्वास-प्रस्तुतिः

तुर्यादिशक्तिसंयुक्ता अवतारास्ततः परम्।
प्रकृत्यादिविशेषान्तं चतुर्विंशतिसंमितम् ॥ 29 ॥

मूलम्

तुर्यादिशक्तिसंयुक्ता अवतारास्ततः परम्।
प्रकृत्यादिविशेषान्तं चतुर्विंशतिसंमितम् ॥ 29 ॥

टिप्पनी 29

तुर्यादीति। जाग्रत्स्वप्नसुषुप्तितुर्याख्येत्यर्थः। अवताराः व्यूहाः।

विश्वास-प्रस्तुतिः

प्रधिपूर्वे स्थितं भागे तत्त्वजातमनुक्रमात्।
भवोपकारणा देवा मध्यमे परिनिष्ठिताः ॥ 30 ॥

मूलम्

प्रधिपूर्वे स्थितं भागे तत्त्वजातमनुक्रमात्।
भवोपकारणा देवा मध्यमे परिनिष्ठिताः ॥ 30 ॥

विश्वास-प्रस्तुतिः

पृथक् चरमभागस्था भौवना भुवनैः सह।
ब्रह्माण्डोदरसंरूढा7 भूर्भुवःसुवरादिकाः8 ॥ 31 ॥

मूलम्

पृथक् चरमभागस्था भौवना भुवनैः सह।
ब्रह्माण्डोदरसंरूढा7 भूर्भुवःसुवरादिकाः8 ॥ 31 ॥

विश्वास-प्रस्तुतिः

मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा।
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः ॥ 32 ॥

मूलम्

मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा।
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः ॥ 32 ॥

विश्वास-प्रस्तुतिः

वैमानिकगणाः सर्वे ग्रहाः सूर्यादयस्तथा।
नक्षत्रतारकाताराभूतप्रेतादयस्तथा ॥ 33 ॥

मूलम्

वैमानिकगणाः सर्वे ग्रहाः सूर्यादयस्तथा।
नक्षत्रतारकाताराभूतप्रेतादयस्तथा ॥ 33 ॥

विश्वास-प्रस्तुतिः

तिस्रस्रिंशच्च याः कोट्यस्त्रिदशानां पुरंदर।
समाश्रिताः प्रधिं तास्तु सरघा इव सारघम् ॥ 34 ॥

मूलम्

तिस्रस्रिंशच्च याः कोट्यस्त्रिदशानां पुरंदर।
समाश्रिताः प्रधिं तास्तु सरघा इव सारघम् ॥ 34 ॥

टिप्पनी 34

तिस्र इत्यादि। त्रयस्रिंशदित्यर्थः। सरघाः मधुमक्षिकाः। सारघं मधु।

विश्वास-प्रस्तुतिः

अयुते द्वे सुरेशान ह्युभयोः प्रधिपार्श्वयोः।
9अग्नयः परिवर्तन्ते प्रवर्तकनिवर्तकाः ॥ 35 ॥

मूलम्

अयुते द्वे सुरेशान ह्युभयोः प्रधिपार्श्वयोः।
9अग्नयः परिवर्तन्ते प्रवर्तकनिवर्तकाः ॥ 35 ॥

विश्वास-प्रस्तुतिः

कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः।
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः ॥ 36 ॥

मूलम्

कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः।
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः ॥ 36 ॥

विश्वास-प्रस्तुतिः

धीराः प्रशान्तगम्भीराः प्रसन्नास्तिग्मतेजसः।
निवर्तका ममेच्छातः शमयन्ति प्रवर्तकान् ॥ 37 ॥

मूलम्

धीराः प्रशान्तगम्भीराः प्रसन्नास्तिग्मतेजसः।
निवर्तका ममेच्छातः शमयन्ति प्रवर्तकान् ॥ 37 ॥

विश्वास-प्रस्तुतिः

सुदर्शनमनोरन्ते यत्तत् संकर्षणोद्भवम्।
लाङ्गलास्त्रं महाघोरं सर्वसंहारकारकम् ॥ 38 ॥

मूलम्

सुदर्शनमनोरन्ते यत्तत् संकर्षणोद्भवम्।
लाङ्गलास्त्रं महाघोरं सर्वसंहारकारकम् ॥ 38 ॥

टिप्पनी 38

लाङ्गलास्त्रम्; फट् मन्त्रः।

विश्वास-प्रस्तुतिः

तिर्यक् स्थितस्य नेम्यन्ते तस्य पूर्वार्धसंभवाः।
प्रवर्तकास्तदूर्ध्वांशसंभवास्तु निवर्तकाः ॥ 39 ॥

मूलम्

तिर्यक् स्थितस्य नेम्यन्ते तस्य पूर्वार्धसंभवाः।
प्रवर्तकास्तदूर्ध्वांशसंभवास्तु निवर्तकाः ॥ 39 ॥

विश्वास-प्रस्तुतिः

अग्नीषोममया एते प्रवर्तकनिवर्तकाः।
अग्नीषोममयास्त्रोत्था तदुत्था चास्त्रसंततिः ॥ 40 ॥

मूलम्

अग्नीषोममया एते प्रवर्तकनिवर्तकाः।
अग्नीषोममयास्त्रोत्था तदुत्था चास्त्रसंततिः ॥ 40 ॥

विश्वास-प्रस्तुतिः

द्वेऽयुते शृणु मूर्तीस्त्वं वह्नीनां विविधात्मनाम्।
याः स्मृत्वा पुरुषो घोरमापदर्णवमुत्तरेत् ॥ 41 ॥

मूलम्

द्वेऽयुते शृणु मूर्तीस्त्वं वह्नीनां विविधात्मनाम्।
याः स्मृत्वा पुरुषो घोरमापदर्णवमुत्तरेत् ॥ 41 ॥

टिप्पनी 41

द्वे अयुते इति छेदः। सन्धिरार्षः।

विश्वास-प्रस्तुतिः

अशेषभुवनाधारश्चतुर्गत्यूर्जबिन्दुमान्।
पिण्डोऽयं तारकः पूर्वंवह्नीनां वपुरुच्यते10 ॥ 42 ॥

मूलम्

अशेषभुवनाधारश्चतुर्गत्यूर्जबिन्दुमान्।
पिण्डोऽयं तारकः पूर्वंवह्नीनां वपुरुच्यते10 ॥ 42 ॥

टिप्पनी 42

अशेषभुवनाधारः रेफः। चतुर्गतिः यकारः। ऊर्जः ऊकारः।

विश्वास-प्रस्तुतिः

अमृताधारवह्न्यूर्जबिन्दुमांस्तारपूर्वकः।
पिण्डो निवर्तकादीनां दिव्या तनुरुदीर्यते ॥ 43 ॥

मूलम्

अमृताधारवह्न्यूर्जबिन्दुमांस्तारपूर्वकः।
पिण्डो निवर्तकादीनां दिव्या तनुरुदीर्यते ॥ 43 ॥

टिप्पनी 43

अमृताधारः वकारः।

विश्वास-प्रस्तुतिः

प्रधिं कालपुमव्यक्तव्यक्तसप्तकरूपतः।
विभज्य दशधा तत्तद्रूपवर्णपुरोगमैः ॥ 44 ॥

मूलम्

प्रधिं कालपुमव्यक्तव्यक्तसप्तकरूपतः।
विभज्य दशधा तत्तद्रूपवर्णपुरोगमैः ॥ 44 ॥

विश्वास-प्रस्तुतिः

प्राग्भागादिक्रमेणैव स्वरपूर्वैः स्वरान्तिमैः।
सूर्यानलयुगैः काद्यैरष्टाभिर्बीजनायकैः ॥ 45 ॥

मूलम्

प्राग्भागादिक्रमेणैव स्वरपूर्वैः स्वरान्तिमैः।
सूर्यानलयुगैः काद्यैरष्टाभिर्बीजनायकैः ॥ 45 ॥

विश्वास-प्रस्तुतिः

युक्तास्तारनमोऽन्तास्ताः प्रवर्तकतनूर्लिखेत्।
अमृताग्नियुगैरेव निवर्तकतनूस्तथा ॥ 46 ॥

मूलम्

युक्तास्तारनमोऽन्तास्ताः प्रवर्तकतनूर्लिखेत्।
अमृताग्नियुगैरेव निवर्तकतनूस्तथा ॥ 46 ॥

विश्वास-प्रस्तुतिः

एकैकाग्नेः शिखाः सप्त घोराः शान्ताश्च संस्मरेत्।
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् ॥ 47 ॥

मूलम्

एकैकाग्नेः शिखाः सप्त घोराः शान्ताश्च संस्मरेत्।
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् ॥ 47 ॥

विश्वास-प्रस्तुतिः

सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः।
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा ॥ 48 ॥

मूलम्

सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः।
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा ॥ 48 ॥

टिप्पनी 48

सूर्याग्नियुगं ह्र इति। अमृताग्नियुगं स्र इति। वर्गान्तः हकारः। प्रधानः मकारः। सिद्धिदः भकारः। वामनः बकारः।

विश्वास-प्रस्तुतिः

श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च।
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः ॥ 49 ॥

मूलम्

श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च।
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः ॥ 49 ॥

टिप्पनी 49

श्वेतः फकारः। तत्त्वधारः ञकारः। झषः झकारः। शाश्वतः जकारः। छन्दःपतिः छकारः। चक्री चकारः। कालः मकारः।

विश्वास-प्रस्तुतिः

नाभ्यरान्तस्थसूत्रस्थरूपास्चत्वार ऐश्वराः।
अरेषु परितो देवाः केशवाद्या व्यवक्थिताः ॥ 50 ॥

मूलम्

नाभ्यरान्तस्थसूत्रस्थरूपास्चत्वार ऐश्वराः।
अरेषु परितो देवाः केशवाद्या व्यवक्थिताः ॥ 50 ॥

विश्वास-प्रस्तुतिः

स्वैः स्वैश्चिह्नैः सरोजाद्यैर्ध्येया दामोदरान्तिमाः।
अरनेम्यन्तसूत्रस्थाः पद्मनाभादयोऽखिलाः ॥ 51 ॥

मूलम्

स्वैः स्वैश्चिह्नैः सरोजाद्यैर्ध्येया दामोदरान्तिमाः।
अरनेम्यन्तसूत्रस्थाः पद्मनाभादयोऽखिलाः ॥ 51 ॥

विश्वास-प्रस्तुतिः

सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः।
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला ॥ 52 ॥

मूलम्

सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः।
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला ॥ 52 ॥

टिप्पनी 52

शक्तयो लक्ष्मीकीर्त्यादयः अत्रैव विंशाध्याये उक्ताः।

विश्वास-प्रस्तुतिः

जया तु पश्चिमे भागे माया भागे तथोत्तरे।
प्रत्येकं कोटिसंख्याभिः शक्तिभिः परिवारिताः ॥ 53 ॥

मूलम्

जया तु पश्चिमे भागे माया भागे तथोत्तरे।
प्रत्येकं कोटिसंख्याभिः शक्तिभिः परिवारिताः ॥ 53 ॥

विश्वास-प्रस्तुतिः

अधितिष्ठन्ति तेऽभीक्ष्णं सहस्रारं सुदर्शनम्।
कालचक्रमनाद्यन्तमस्य तेजः प्रकीर्तितम् ॥ 54 ॥

मूलम्

अधितिष्ठन्ति तेऽभीक्ष्णं सहस्रारं सुदर्शनम्।
कालचक्रमनाद्यन्तमस्य तेजः प्रकीर्तितम् ॥ 54 ॥

विश्वास-प्रस्तुतिः

संवत्सरर्तुमासार्धमासाहोरात्रसंज्ञितैः।
अक्षनाभ्यरनेम्यन्तैः कलृप्तपञ्चविभक्तिकम् ॥ 55 ॥

मूलम्

संवत्सरर्तुमासार्धमासाहोरात्रसंज्ञितैः।
अक्षनाभ्यरनेम्यन्तैः कलृप्तपञ्चविभक्तिकम् ॥ 55 ॥

टिप्पनी 55

विभक्तिर्विभागः।

11ध्रियन्ते कालचक्रेण पुमाद्याः पञ्च पञ्च च।
सहस्रारेण चक्रेण नेम्यरप्रधिशोभिना ॥ 56 ॥

टिप्पनी 56

पञ्च पञ्च; पञ्चविंशतिः। पुमांसमारभ्य पृथिवीपर्यन्ता मादिकान्तवर्णदेवताः।

12ध्रियन्ते च षडध्वानो वर्णतत्त्वकलादयः।
सर्वतत्त्वमयं देहं वैष्णवं पुरुषोत्तमम् ॥ 57 ॥

विश्वास-प्रस्तुतिः

धार्यते भ्राम्यते चैव यन्त्रारूढमिदं परम्।
नाभिकन्दस्थितेनैव सहस्रारेण नेमिना ॥ 58 ॥

मूलम्

धार्यते भ्राम्यते चैव यन्त्रारूढमिदं परम्।
नाभिकन्दस्थितेनैव सहस्रारेण नेमिना ॥ 58 ॥

विश्वास-प्रस्तुतिः

चक्रेणानेन हन्यन्ते रक्षोदैतेयदानवाः।
नानामन्त्रात्मना ते तदन्तः सुस्थितेन च ॥ 59 ॥

मूलम्

चक्रेणानेन हन्यन्ते रक्षोदैतेयदानवाः।
नानामन्त्रात्मना ते तदन्तः सुस्थितेन च ॥ 59 ॥

विश्वास-प्रस्तुतिः

विध्वंसयति शत्रूंश्च स्मृतमात्रमनन्तरम्।
अभ्यस्यमानमनिशं सहस्रारमिदं नरैः ॥ 60 ॥

मूलम्

विध्वंसयति शत्रूंश्च स्मृतमात्रमनन्तरम्।
अभ्यस्यमानमनिशं सहस्रारमिदं नरैः ॥ 60 ॥

विश्वास-प्रस्तुतिः

क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणआत्।
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् ॥ 61 ॥

मूलम्

क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणआत्।
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् ॥ 61 ॥

पुष्यत्येतत् सहस्रारं चक्रमाद्यन्तवर्जितम्।
[^13]सूर्येन्द


  1. In A. C. D. F. 13 lines from here are omitted but given in ch.29. Vide note on p.101. ↩︎ ↩︎

  2. अभियुक्ता मनावस्मिन् I. ↩︎ ↩︎

  3. संस्कृतः C. ↩︎ ↩︎

  4. वह्निना व्याप्तिरुच्यते A. C. D. ↩︎ ↩︎

  5. In A. C. D., verses 43 and then 34b to 42 follow on here. ↩︎ ↩︎

  6. अस्रयुग्मं चारीं च. A. ↩︎ ↩︎

  7. संरूढं A. ↩︎ ↩︎

  8. आदिकम् A. ↩︎ ↩︎

  9. In A. C. D. verses 35b to 49 are in a different order. Vide note on page 104. ↩︎ ↩︎

  10. वह्नेर्वायुपदावधि A. ↩︎ ↩︎

  11. श्रयन्ते A. ↩︎

  12. विद्यन्ते A. ↩︎