विश्वास-प्रस्तुतिः
एकोनत्रिंशोऽध्यायः - 29
शक्रः—
शुद्धाशुद्धषडध्वाक्यचित्रनिर्माणभित्तये।
नमः श्रीवत्सभामिन्यै भवसंतापशान्तये ॥ 1 ॥
मूलम्
एकोनत्रिंशोऽध्यायः - 29
शक्रः—
शुद्धाशुद्धषडध्वाक्यचित्रनिर्माणभित्तये।
नमः श्रीवत्सभामिन्यै भवसंतापशान्तये ॥ 1 ॥
विश्वास-प्रस्तुतिः
अग्नीषोमविभागं मे क्रियाभूतिविधामपि।
ब्रूहि मे तत्त्वतः पद्मे विद्यायास्तारिकाकृतेः ॥ 2 ॥
मूलम्
अग्नीषोमविभागं मे क्रियाभूतिविधामपि।
ब्रूहि मे तत्त्वतः पद्मे विद्यायास्तारिकाकृतेः ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीः—
व्यापकं यत् परं ब्रह्म शक्तिर्नारायणी हि या।
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः ॥ 3 ॥
मूलम्
श्रीः—
व्यापकं यत् परं ब्रह्म शक्तिर्नारायणी हि या।
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः ॥ 3 ॥
विश्वास-प्रस्तुतिः
अग्नीषोमविभागं मे तारिकाया निशामय।
क्रियाभूतिविधानं च यथावत् सुरनन्दन ॥ 4 ॥
मूलम्
अग्नीषोमविभागं मे तारिकाया निशामय।
क्रियाभूतिविधानं च यथावत् सुरनन्दन ॥ 4 ॥
विश्वास-प्रस्तुतिः
उन्मेषः परमो विष्णोराद्यः षाड्गुण्यचिन्मयः।
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा ॥ 5 ॥
मूलम्
उन्मेषः परमो विष्णोराद्यः षाड्गुण्यचिन्मयः।
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा ॥ 5 ॥
विश्वास-प्रस्तुतिः
सृष्टवत्या जगत् कृत्स्नं तस्या मे रक्षणोद्यमे।
द्विधा प्रवर्तते रूपं 1मुखेनैश्वर्यतेजसोः ॥ 6 ॥
मूलम्
सृष्टवत्या जगत् कृत्स्नं तस्या मे रक्षणोद्यमे।
द्विधा प्रवर्तते रूपं 1मुखेनैश्वर्यतेजसोः ॥ 6 ॥
टिप्पनी 6
मुखेनेति। प्राधान्येनेत्यर्थः।
2षाड्गुण्यमेव मे रुपं किंचित्तेजोमुखं मतम्।
षाड्गुण्यमेव मे रुपं परमैश्वर्यसंमुखम् ॥ 7 ॥
विश्वास-प्रस्तुतिः
तेजोमुखं तु यद्रूपं सा क्रियाशक्तिरुच्यते।
सैवाग्निरुच्यते शक्तिः सर्वोपप्लवदाहनात्3 ॥ 8 ॥
मूलम्
तेजोमुखं तु यद्रूपं सा क्रियाशक्तिरुच्यते।
सैवाग्निरुच्यते शक्तिः सर्वोपप्लवदाहनात्3 ॥ 8 ॥
विश्वास-प्रस्तुतिः
ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता।
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तुः ॥ 9 ॥
मूलम्
ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता।
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तुः ॥ 9 ॥
4शोषणात् सर्वदोषाणामग्निशक्तिः क्रियामयी।
जगदाप्याययन्त्यन्या भूतिः सोम इहोच्यते ॥ 10 ॥
विश्वास-प्रस्तुतिः
इच्छाज्ञानक्रियामय्यास्ते इमे व्यूहजे मम।
षाड्गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी ॥ 11 ॥
मूलम्
इच्छाज्ञानक्रियामय्यास्ते इमे व्यूहजे मम।
षाड्गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी ॥ 11 ॥
विश्वास-प्रस्तुतिः
या सा शक्तिः 5क्रियाख्या मे षाड्गुण्यं तेजसोज्ज्वलम्।
तस्या आसंस्रयो व्यूहाः सूर्यसोमाग्निशक्तयः ॥ 12 ॥
मूलम्
या सा शक्तिः 5क्रियाख्या मे षाड्गुण्यं तेजसोज्ज्वलम्।
तस्या आसंस्रयो व्यूहाः सूर्यसोमाग्निशक्तयः ॥ 12 ॥
6तासामाद्या परा दिव्या सूर्याख्या शक्तिरुज्ज्वला।
निर्वहन्ती जगत्कृत्यमनिशं7 परिवर्तते ॥ 13 ॥
विश्वास-प्रस्तुतिः
अध्यात्ममधिदैवं च तथा चैवाधिभौतिकम्।
तस्या रूपत्रयं विद्धि सूर्याख्यायाः सुरेश्वर ॥ 14 ॥
मूलम्
अध्यात्ममधिदैवं च तथा चैवाधिभौतिकम्।
तस्या रूपत्रयं विद्धि सूर्याख्यायाः सुरेश्वर ॥ 14 ॥
विश्वास-प्रस्तुतिः
अध्यात्मस्था तु सूर्याख्या पिङ्गलामार्गगामिनी।
आलोकेनाधिभूतस्था सूर्यशक्तिः प्रवर्तते ॥ 15 ॥
मूलम्
अध्यात्मस्था तु सूर्याख्या पिङ्गलामार्गगामिनी।
आलोकेनाधिभूतस्था सूर्यशक्तिः प्रवर्तते ॥ 15 ॥
विश्वास-प्रस्तुतिः
सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी।
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः ॥ 16 ॥
मूलम्
सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी।
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः ॥ 16 ॥
टिप्पनी 16
सूर्यमण्डलान्तर्वर्तिनो देवस्य त्रयीरूपत्वं वक्तुं प्रथमतस्तस्य ऋग्रूपत्वमुच्यते उत्तरार्धे—सूर्येत्यादिना।
विश्वास-प्रस्तुतिः
ऋचस्ता विद्धि देवेश तपन्तीस्तपनात्मिकाः।
दीप्तयो यास्तदन्तःस्थास्तानि सामानि विद्धि मे ॥ 17 ॥
मूलम्
ऋचस्ता विद्धि देवेश तपन्तीस्तपनात्मिकाः।
दीप्तयो यास्तदन्तःस्थास्तानि सामानि विद्धि मे ॥ 17 ॥
टिप्पनी 17
तस्य यजुःस्वरूपत्वमाह—अन्तःस्थेति। अनेन “आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचस्तदृचां मण्डलम्” इति तैत्तिरीयश्रुतिरुपबृंहिता भवति। विष्णुपुराणे चोक्तम् (2-11-11)।
विश्वास-प्रस्तुतिः
अन्तःस्था या परा शक्तिः पौरुषीं तनुमास्थिता।
8तां विद्धि पुरुषं दिव्यं रमणीयं यजुर्मयम् ॥ 18 ॥
मूलम्
अन्तःस्था या परा शक्तिः पौरुषीं तनुमास्थिता।
8तां विद्धि पुरुषं दिव्यं रमणीयं यजुर्मयम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम्।
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् ॥ 19 ॥
मूलम्
शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम्।
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
मूर्धान्तःपुरुषस्यास्य दशहोता निगद्यते।
पादपाणि चतुर्होता देवस्यास्य सुरेश्वर ॥ 20 ॥
मूलम्
मूर्धान्तःपुरुषस्यास्य दशहोता निगद्यते।
पादपाणि चतुर्होता देवस्यास्य सुरेश्वर ॥ 20 ॥
टिप्पनी 20
अन्तःस्थस्यास्य पुरुषस्य दशहोता मूर्धा भवति। दशहोत्रादिपदैस्तत्तन्नामानो मन्त्रा विवक्षिताः। “चित्तिः स्रुक्” इत्यारभ्य तैत्तिरीयारण्यके तृतीयप्रपाठके प्रथमानुवाकमन्त्रो दशहोता। तत्रैव “पृथिवी होता” इत्यारभ्य द्वितीयानुवाकपठितश्चतुर्होता। पादपाणीत्येकवद्भावः।
विश्वास-प्रस्तुतिः
लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर।
स्तनावण्डौ च पुंस्त्वं च षड्ढोतापान एव च ॥ 21 ॥
मूलम्
लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर।
स्तनावण्डौ च पुंस्त्वं च षड्ढोतापान एव च ॥ 21 ॥
टिप्पनी 21
“अग्निर्होता” इत्यारभ्य तृतीयानुवाकपठितः पञ्चहोता। “सूर्यं ते चक्षुः” इत्यारभ्य तुरीयानुवाकपठितः षड्ढोता।
विश्वास-प्रस्तुतिः
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ॥ 22 ॥
मूलम्
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ॥ 22 ॥
टिप्पनी 22
“महाहविर्होता” इत्यारभ्य पञ्चमानुवाकपठितः सप्तहोता। “देवस्य त्वा” इत्यारभ्य दशमानुवाकपठिता दक्षिणाः। “अग्निर्यजुर्भिः” इत्यारभ्याष्टमानुवाकपठिताः संभाराः।
9नाडयो देवपत्न्योऽस्य होतॄणां हृदयं मनः।
चेतनः पौरुषं सूक्तं शक्तिः श्रीसूक्तमुच्यते ॥ 23 ॥
टिप्पनी 23
“सेनेन्द्रस्य” इत्यारभ्य नवमानुवाकपठिता देवपत्न्यः। “सुवर्णं घर्मम्” इत्यारभ्यैकादशानुवाकपठितो होतृहृदयम्। पुरुषसूक्तश्रीसूक्तमन्त्राः प्रसिद्धाः।
विश्वास-प्रस्तुतिः
ओंकारः प्रणवस्तारो गुह्यं नाम सनातनम्।
यजूंषि रुद्रशुक्राणि 10स्थूलनामानि तस्य तु ॥ 24 ॥
मूलम्
ओंकारः प्रणवस्तारो गुह्यं नाम सनातनम्।
यजूंषि रुद्रशुक्राणि 10स्थूलनामानि तस्य तु ॥ 24 ॥
टिप्पनी 24
“नमस्ते रुद्र मन्यवे” इत्यारभ्य पठिता रुद्रियाः। एवं शुक्रिया अपि मन्त्रविशेषाः। अत्र अहिर्बुध्न्यसंहितायाः 58, 59 अध्यायावनुसंधेयौ।
विश्वास-प्रस्तुतिः
यजुर्मयमनुं दिव्यमभ्यस्यन् पुरुषं नरः।
अनुव्याहृत्यभीचारपापेभ्योऽपि प्रमुच्यते ॥ 25 ॥
मूलम्
यजुर्मयमनुं दिव्यमभ्यस्यन् पुरुषं नरः।
अनुव्याहृत्यभीचारपापेभ्योऽपि प्रमुच्यते ॥ 25 ॥
टिप्पनी 25
यजुर्मयेति सावित्री। अनुव्याहृति; व्याहृतिभ्यः पश्चात्। अस्य `अभ्यस्यन्’ इति पूर्वेणान्वयः।
विश्वास-प्रस्तुतिः
तपत्येवं परा शक्तिस्रयी सूर्याख्ययाम्बरे।
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया ॥ 26 ॥
मूलम्
तपत्येवं परा शक्तिस्रयी सूर्याख्ययाम्बरे।
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया ॥ 26 ॥
टिप्पनी 26
त्रयीति। “वेदैरशून्यस्रिभिरेति सूर्यः” इति श्रुतिरनुसंधेया।
सावित्री नाम वेदानां जननी परिवर्तते।
11त्रिवर्णप्रणवाधारा भूर्भुवःस्वस्रिनाडिका ॥ 27 ॥
विश्वास-प्रस्तुतिः
तदादिवर्णपवना शिरःकल्पितशेखरा।
क्षित्यादिपुरुषान्तार्णा प्रकाशानन्दविग्रहा ॥ 28 ॥
मूलम्
तदादिवर्णपवना शिरःकल्पितशेखरा।
क्षित्यादिपुरुषान्तार्णा प्रकाशानन्दविग्रहा ॥ 28 ॥
टिप्पनी 28
तदादीति। तत् इत्यादयो वर्णा इत्यर्थः। शिरः गायत्रीशिरोमन्त्रः। क्षित्यादीति। कादिमान्तवर्णा।
विश्वास-प्रस्तुतिः
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ॥ 29 ॥
मूलम्
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ॥ 29 ॥
विश्वास-प्रस्तुतिः
अनुलोमविलोमाभ्यां सौम्याग्नेयी निगद्यते।
सैषा सूर्यवपुर्दिव्या सावित्री मन्मयी कला ॥ 30 ॥
मूलम्
अनुलोमविलोमाभ्यां सौम्याग्नेयी निगद्यते।
सैषा सूर्यवपुर्दिव्या सावित्री मन्मयी कला ॥ 30 ॥
विश्वास-प्रस्तुतिः
गायत्री नाम गायन्तं त्रायते महतो भयात्।
आदाय जीवनं गोभिर्भूसरित्प्राणिसंभवम् ॥ 31 ॥
मूलम्
गायत्री नाम गायन्तं त्रायते महतो भयात्।
आदाय जीवनं गोभिर्भूसरित्प्राणिसंभवम् ॥ 31 ॥
टिप्पनी 31
आदायेति। अत्र “याभिरादित्यस्तपति ताभिः पर्जन्यो वर्षति” इति श्रुतिरनुसंधेया।
विश्वास-प्रस्तुतिः
पुनर्मुञ्चति मेघेषु 12नवमासधृतं करैः।
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् ॥ 32 ॥
मूलम्
पुनर्मुञ्चति मेघेषु 12नवमासधृतं करैः।
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् ॥ 32 ॥
विश्वास-प्रस्तुतिः
एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम।
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना ॥ 33 ॥
मूलम्
एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम।
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना ॥ 33 ॥
टिप्पनी 33
अबिन्धना विद्युत् दिव्या। काष्ठादीन्धना भौमी। जठरस्था कौष्ठीति ज्ञेयम्।
विश्वास-प्रस्तुतिः
तथा भुक्तेन्धना कोष्ठे शक्तिर्वह्निमयी त्रिधा।
सर्वदेवमयी सैषा देवानां मुखमुच्यते ॥ 34 ॥
मूलम्
तथा भुक्तेन्धना कोष्ठे शक्तिर्वह्निमयी त्रिधा।
सर्वदेवमयी सैषा देवानां मुखमुच्यते ॥ 34 ॥
विश्वास-प्रस्तुतिः
त्रिवर्गस्थैः स्तुता सैषा त्रिष्टुबित्युच्यते बुधैः।
दुर्गाणि तारयन्त्यात्मपारायणपरं नरम् ॥ 35 ॥
मूलम्
त्रिवर्गस्थैः स्तुता सैषा त्रिष्टुबित्युच्यते बुधैः।
दुर्गाणि तारयन्त्यात्मपारायणपरं नरम् ॥ 35 ॥
विश्वास-प्रस्तुतिः
शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते।
दिवि बिम्बात्मना त्वेका तथान्यौषधिरूपिणी ॥ 36 ॥
मूलम्
शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते।
दिवि बिम्बात्मना त्वेका तथान्यौषधिरूपिणी ॥ 36 ॥
टिप्पनी 36
सोममय्यपि त्रिधा—आकाशे बिम्बात्मना, भूमावोषध्यात्मना, प्राणिशरीरे इडात्मनेति।
विश्वास-प्रस्तुतिः
चरति प्राणिनामन्तरिडयैकामृतात्मिका।
अनुष्टुब्भिः स्तूयमाना सैषानुष्टुबुदीरिता ॥ 37 ॥
मूलम्
चरति प्राणिनामन्तरिडयैकामृतात्मिका।
अनुष्टुब्भिः स्तूयमाना सैषानुष्टुबुदीरिता ॥ 37 ॥
विश्वास-प्रस्तुतिः
मृत्युंजय इति प्रोक्ता सा विद्या मृत्युनाशिनी।
सूर्यसोमाग्निरूपाणां तासामासां पुरंदर ॥ 38 ॥
मूलम्
मृत्युंजय इति प्रोक्ता सा विद्या मृत्युनाशिनी।
सूर्यसोमाग्निरूपाणां तासामासां पुरंदर ॥ 38 ॥
विश्वास-प्रस्तुतिः
हविष्कृदुदिता सूर्यात् सोमरूपा हविर्मयी।
हविरत्ति तथाग्न्याख्या वह्निविप्रमुखात्मना ॥ 39 ॥
मूलम्
हविष्कृदुदिता सूर्यात् सोमरूपा हविर्मयी।
हविरत्ति तथाग्न्याख्या वह्निविप्रमुखात्मना ॥ 39 ॥
विश्वास-प्रस्तुतिः
तिसृभिर्वर्तते कृत्स्नं लोकतन्त्रमहर्निशम्।
इति व्यूहत्रयोपेता व्यूहिनी सा क्रियात्मिका ॥ 40 ॥
मूलम्
तिसृभिर्वर्तते कृत्स्नं लोकतन्त्रमहर्निशम्।
इति व्यूहत्रयोपेता व्यूहिनी सा क्रियात्मिका ॥ 40 ॥
विश्वास-प्रस्तुतिः
शक्तिः परमगम्भीरा मम तेजोमुखोद्गता।
सूर्येन्दुवह्निकोट्योघनियुतार्बुदभास्वरा13 ॥ 41 ॥
मूलम्
शक्तिः परमगम्भीरा मम तेजोमुखोद्गता।
सूर्येन्दुवह्निकोट्योघनियुतार्बुदभास्वरा13 ॥ 41 ॥
विश्वास-प्रस्तुतिः
चक्रं सुदर्शनं नाम 14सा भवत्यरिदारणम्।
अस्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् ॥ 42 ॥
मूलम्
चक्रं सुदर्शनं नाम 14सा भवत्यरिदारणम्।
अस्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् ॥ 42 ॥
विश्वास-प्रस्तुतिः
परोद्यमस्वरूपं तत्15 प्राणादिप्राणनं परम्।
उद्यन्ति सर्वाण्यस्राणि तस्मात् सर्वाश्च शक्तयः ॥ 43 ॥
मूलम्
परोद्यमस्वरूपं तत्15 प्राणादिप्राणनं परम्।
उद्यन्ति सर्वाण्यस्राणि तस्मात् सर्वाश्च शक्तयः ॥ 43 ॥
विश्वास-प्रस्तुतिः
करणं साधकतमं पञ्चकृत्यविधौ हरेः।
न तत् कृत्यं विना तेन यत् स्याद् विष्णोर्महात्मनः ॥ 44 ॥
मूलम्
करणं साधकतमं पञ्चकृत्यविधौ हरेः।
न तत् कृत्यं विना तेन यत् स्याद् विष्णोर्महात्मनः ॥ 44 ॥
विश्वास-प्रस्तुतिः
संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते।
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् ॥ 45 ॥
मूलम्
संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते।
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् ॥ 45 ॥
विश्वास-प्रस्तुतिः
ममांशजा पराग्नेयी16 क्रियाशक्तिर्हि वैष्णवी।
आब्रह्मस्तम्बपर्यन्तं षोढा विष्टभ्य तिष्ठति ॥ 46 ॥
मूलम्
ममांशजा पराग्नेयी16 क्रियाशक्तिर्हि वैष्णवी।
आब्रह्मस्तम्बपर्यन्तं षोढा विष्टभ्य तिष्ठति ॥ 46 ॥
टिप्पनी 46
षोढेति। कलातत्त्ववर्णपदमन्त्रभुवनाख्यचक्रैरित्यर्थः।
विश्वास-प्रस्तुतिः
तत्र वर्णमयं चक्रं प्रथमं शृणु वासव।
तारिकातारकद्वन्द्वमक्षगं17 पारमेश्वरम् ॥ 47 ॥
मूलम्
तत्र वर्णमयं चक्रं प्रथमं शृणु वासव।
तारिकातारकद्वन्द्वमक्षगं17 पारमेश्वरम् ॥ 47 ॥
टिप्पनी 47
तारिका ह्रींमन्त्रः। तारकः प्रणवः।
विश्वास-प्रस्तुतिः
नाभौ सूर्येन्दुभारूपं 18श्रितं स्वारं द्विरष्टकम्।
कादिभान्तं त्रिरष्टारं19 मादिहान्तं तु नेमिगम् ॥ 48 ॥
मूलम्
नाभौ सूर्येन्दुभारूपं 18श्रितं स्वारं द्विरष्टकम्।
कादिभान्तं त्रिरष्टारं19 मादिहान्तं तु नेमिगम् ॥ 48 ॥
टिप्पनी 48
स्वारम्; स्वरसमूहः। द्विरष्टकम्; षोडशकम्। त्रिरष्टारम्; चतुर्विंशत्यररूपम्।
विश्वास-प्रस्तुतिः
प्रधिः पर्यन्तवह्न्यात्मा 20वर्गान्तः पिण्डसंनिभः।
वर्णचक्रमिदं दिव्यं वर्तते वर्णवर्त्मना ॥ 49 ॥
मूलम्
प्रधिः पर्यन्तवह्न्यात्मा 20वर्गान्तः पिण्डसंनिभः।
वर्णचक्रमिदं दिव्यं वर्तते वर्णवर्त्मना ॥ 49 ॥
विश्वास-प्रस्तुतिः
कलाचक्रमिदं शक्र ज्ञानाक्षं शक्तिनाभिकम्।
ऐश्वर्यारं बलाद्येन नेम्याद्यं त्रिगुणेन तु ॥ 50 ॥
मूलम्
कलाचक्रमिदं शक्र ज्ञानाक्षं शक्तिनाभिकम्।
ऐश्वर्यारं बलाद्येन नेम्याद्यं त्रिगुणेन तु ॥ 50 ॥
विश्वास-प्रस्तुतिः
तत्त्वं तु वासुदेवाक्षं नाभिः संकर्षणोज्ज्वलः।
प्रद्युम्नारं तथा शक्र प्रधिरूपानिरुद्धकम् ॥ 51 ॥
मूलम्
तत्त्वं तु वासुदेवाक्षं नाभिः संकर्षणोज्ज्वलः।
प्रद्युम्नारं तथा शक्र प्रधिरूपानिरुद्धकम् ॥ 51 ॥
विश्वास-प्रस्तुतिः
अक्षनाभ्यरनेमिस्थैस्तुर्याद्यैः पदचक्रकम्।
मन्त्रमक्षादिकैर्बीजपिण्डसंज्ञापदात्मभिः ॥ 52 ॥
मूलम्
अक्षनाभ्यरनेमिस्थैस्तुर्याद्यैः पदचक्रकम्।
मन्त्रमक्षादिकैर्बीजपिण्डसंज्ञापदात्मभिः ॥ 52 ॥
विश्वास-प्रस्तुतिः
कालाक्षं नाभिगाव्यक्तं महदाद्यरपञ्जरम्।
मनःश्रोत्रतदर्थादिविकारपरिमण्डलम् ॥ 53 ॥
मूलम्
कालाक्षं नाभिगाव्यक्तं महदाद्यरपञ्जरम्।
मनःश्रोत्रतदर्थादिविकारपरिमण्डलम् ॥ 53 ॥
विश्वास-प्रस्तुतिः
लोकलौकिकपर्यन्तं भुवनं चक्रमन्तिमम्।
षट्चक्रं दधती हस्तैः पौरुषीं तनुमास्थिता ॥ 54 ॥
मूलम्
लोकलौकिकपर्यन्तं भुवनं चक्रमन्तिमम्।
षट्चक्रं दधती हस्तैः पौरुषीं तनुमास्थिता ॥ 54 ॥
विश्वास-प्रस्तुतिः
सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा।
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् ॥ 55 ॥
मूलम्
सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा।
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् ॥ 55 ॥
विश्वास-प्रस्तुतिः
सोमं प्रथममादाय प्राणमन्ते नियोजयेत्।
ततोऽमृतमुपादाय योजयेत् कालपावकम् ॥ 56 ॥
मूलम्
सोमं प्रथममादाय प्राणमन्ते नियोजयेत्।
ततोऽमृतमुपादाय योजयेत् कालपावकम् ॥ 56 ॥
विश्वास-प्रस्तुतिः
तत्संस्थमनलं कुर्यान्मायां व्यापिनमन्ततः।
एतत् सौदर्शनं बीजं मत्क्रियाशक्तिजृम्भितम् ॥ 57 ॥
मूलम्
तत्संस्थमनलं कुर्यान्मायां व्यापिनमन्ततः।
एतत् सौदर्शनं बीजं मत्क्रियाशक्तिजृम्भितम् ॥ 57 ॥
विश्वास-प्रस्तुतिः
56,57. सोमः सकारः। प्राणो हकारः। अमृतं सकारः। कालपावकः राकारः। अनलः रकारः। माया व्यापी च ईंकारः। सहस्रार ईं इति बीजमन्त्रः।
सप्तवर्णात्मकं दिव्यमिदं बीजं 21महर्द्धिदम्।
एतदेव महत् पिण्डं मायाव्यापिसमुज्झितम्22 ॥ 58 ॥

टिप्पनी 58
सप्तवर्णात्मकमिति। सोमप्राणामृतकालपावकानलमायाव्यापिरूपसप्तवर्णघटितमित्यर्थः। मायाव्यापिसमुज्झितम्; ईकाररहितम्। सहस्रार इति पिण्डमन्त्रः।
विश्वास-प्रस्तुतिः
कालाग्न्यर्कायुताकारमेतद्वज्राम्बुदध्वनि।
पञ्चवर्णं महापिण्डं दुर्धरं देवदानवैः ॥ 59 ॥
मूलम्
कालाग्न्यर्कायुताकारमेतद्वज्राम्बुदध्वनि।
पञ्चवर्णं महापिण्डं दुर्धरं देवदानवैः ॥ 59 ॥
विश्वास-प्रस्तुतिः
शुचिना तु सकृत् स्मर्यमजितेन्द्रियदुःस्मरम्।
स्मृत्वा तु शान्तये स्मर्ये बीजे मे तारिकादिके ॥ 60 ॥
मूलम्
शुचिना तु सकृत् स्मर्यमजितेन्द्रियदुःस्मरम्।
स्मृत्वा तु शान्तये स्मर्ये बीजे मे तारिकादिके ॥ 60 ॥
टिप्पनी 60
स्मर्ये; स्मरणीये इत्यर्थः।
विश्वास-प्रस्तुतिः
योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः।
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये ॥ 61 ॥
मूलम्
योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः।
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये ॥ 61 ॥
विश्वास-प्रस्तुतिः
द्वितीयशक्तिसंस्थेन त्वग्निनाग्निः समिध्यते।
शक्तिं प्राणयति प्राणः पूरितोऽमृततेजसा ॥ 62 ॥
मूलम्
द्वितीयशक्तिसंस्थेन त्वग्निनाग्निः समिध्यते।
शक्तिं प्राणयति प्राणः पूरितोऽमृततेजसा ॥ 62 ॥
विश्वास-प्रस्तुतिः
इति पिण्डस्वरूपं ते कथितं सुरपुंगव।
व्यापकैः पञ्चभिः पिण्डं 23कल्पितं त्वन्तरान्तरा ॥ 63 ॥
मूलम्
इति पिण्डस्वरूपं ते कथितं सुरपुंगव।
व्यापकैः पञ्चभिः पिण्डं 23कल्पितं त्वन्तरान्तरा ॥ 63 ॥
विश्वास-प्रस्तुतिः
वर्मास्त्रान्तं ध्रुवाद्यं च संज्ञामन्त्रत्वमृच्छति।
व्यापकौ योजयेदन्ते पिण्डाद्योः सोमसूर्ययोः ॥ 64 ॥
मूलम्
वर्मास्त्रान्तं ध्रुवाद्यं च संज्ञामन्त्रत्वमृच्छति।
व्यापकौ योजयेदन्ते पिण्डाद्योः सोमसूर्ययोः ॥ 64 ॥
टिप्पनी 64
पूर्वोक्तमेव विशदयति—व्यापकाविति।
विश्वास-प्रस्तुतिः
अ्ते सोमाग्निकूटस्य ह्येकं व्यापकमानयेत्।
आद्यन्तयोस्तथान्त्यस्य वर्णस्य व्यापकौ स्मृतौ ॥ 65 ॥
मूलम्
अ्ते सोमाग्निकूटस्य ह्येकं व्यापकमानयेत्।
आद्यन्तयोस्तथान्त्यस्य वर्णस्य व्यापकौ स्मृतौ ॥ 65 ॥
विश्वास-प्रस्तुतिः
वर्म प्राणोर्जयोर्व्योम दुष्टोपद्रवमर्दनम्।
यः संकर्षणस्तु संहारः कल्पान्तेऽखिलगोचरः ॥ 66 ॥
मूलम्
वर्म प्राणोर्जयोर्व्योम दुष्टोपद्रवमर्दनम्।
यः संकर्षणस्तु संहारः कल्पान्तेऽखिलगोचरः ॥ 66 ॥
टिप्पनी 66
वर्म कवचम्। प्राणोर्जयोर्व्योम; हुंमन्त्रः।
स फट्कारस्तदन्ते चाप्याह्लादः शान्तिकारकः।
24इति पिण्डविकर्षात्मा सौम्याग्नेयो मनुः स्मृतः ॥ 67 ॥
टिप्पनी 67
विकर्षः अनुस्यूतिः।
विश्वास-प्रस्तुतिः
स्ववर्णैरङ्गवानेष बली सौदर्शनो मनुः।
दिव्यान्तरिक्षभौमानां भोगानामाप्तिसाधनम् ॥ 68 ॥
मूलम्
स्ववर्णैरङ्गवानेष बली सौदर्शनो मनुः।
दिव्यान्तरिक्षभौमानां भोगानामाप्तिसाधनम् ॥ 68 ॥
टिप्पनी 68
स्ववर्णैरिति। पूर्वोक्तस्य षडक्षरमन्त्रस्य ये षट् वर्णाः, तैः हृदयादिषडङ्गकल्पनं कार्यमित्यर्थः। मन्त्रमहिमानमाह—दिव्येत्यादिना।
विश्वास-प्रस्तुतिः
कल्पद्रुमो मनुः सोऽयमाश्रितानां पुरंदर।
नारायणात् समुद्यत्या मम नित्यं जगद्धिते ॥ 69 ॥
मूलम्
कल्पद्रुमो मनुः सोऽयमाश्रितानां पुरंदर।
नारायणात् समुद्यत्या मम नित्यं जगद्धिते ॥ 69 ॥
टिप्पनी 69
जगद्धिते इति निमित्ते सप्तमी। जगद्धितनिमित्तमित्यर्थः।
विश्वास-प्रस्तुतिः
अग्नीषोमविभागस्ते कथितो वृत्रसूदन।
क्रियाभूतिविभेदश्च क्रियाशक्तिभिदापि च ॥ 70 ॥
मूलम्
अग्नीषोमविभागस्ते कथितो वृत्रसूदन।
क्रियाभूतिविभेदश्च क्रियाशक्तिभिदापि च ॥ 70 ॥
विश्वास-प्रस्तुतिः
क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः।
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु ॥ 71 ॥
मूलम्
क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः।
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु ॥ 71 ॥
इति 25श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे अग्नीषोमविभागप्रकाशो26 नामैकोनत्रिंशोऽध्यायः
इत्येकोनत्रिंशोऽध्यायः
-
किंचित्तेजोमुखं मतम् A. G.; B. omits four quarters from here. ↩︎ ↩︎
-
A. omits this line. ↩︎
-
प्लोषणात् C. I. ↩︎
-
तासां मे परमा B. C. F. ↩︎
-
ईदृशं A. B. F. ↩︎
-
C. omits three lines from here. ↩︎
-
त्रिवर्ग A. ↩︎
-
A. C. D. F. add here lines 2 to 14 (तस्या व्याप्तिं to वासव) from ch. 30 and omit them there. ↩︎
-
श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎
-
I. omits प्रकाशः ↩︎