विश्वास-प्रस्तुतिः
अष्टाविंशोऽध्यायः - 28
शक्रः—
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ॥ 1 ॥
मूलम्
अष्टाविंशोऽध्यायः - 28
शक्रः—
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ॥ 1 ॥
विश्वास-प्रस्तुतिः
प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ॥ 2 ॥
मूलम्
प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ॥ 2 ॥
विश्वास-प्रस्तुतिः
श्रीः—
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ॥ 3 ॥
मूलम्
श्रीः—
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ॥ 3 ॥
विश्वास-प्रस्तुतिः
आत्मा स सर्वभूतानां हंसो नारायणो 1वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥
मूलम्
आत्मा स सर्वभूतानां हंसो नारायणो 1वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥
विश्वास-प्रस्तुतिः
साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ॥ 5 ॥
मूलम्
साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ॥ 5 ॥
विश्वास-प्रस्तुतिः
ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना2 मम सत्त्वादिका तनुः ॥ 6 ॥
मूलम्
ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना2 मम सत्त्वादिका तनुः ॥ 6 ॥
टिप्पनी 6
विविधानिति। अपवर्गप्रदाप्यानुषङ्गिकानैहिकानामुत्रिकांश्च भोगान् ददामीत्यर्थः। सद्धर्मपरेषु संस्थानं यस्या इति बहुव्रीहिः।
विश्वास-प्रस्तुतिः
आचाररूपो धर्मोऽसावाचारस्तस्य 3लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ॥ 7 ॥
मूलम्
आचाररूपो धर्मोऽसावाचारस्तस्य 3लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ॥ 7 ॥
विश्वास-प्रस्तुतिः
हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ॥ 8 ॥
मूलम्
हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ॥ 8 ॥
टिप्पनी 8
योगमयीमिति। अभिगमनादिषु धर्मेषु योगाख्यः पञ्चमो धर्मः पूर्वदिनरात्रिमारभ्य परदिनब्राह्नमुहूर्तावधिककालानुष्ठेयः।
विश्वास-प्रस्तुतिः
प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा 4त्वयि ॥ 9 ॥
मूलम्
प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा 4त्वयि ॥ 9 ॥
विश्वास-प्रस्तुतिः
आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा ॥ 10 ॥
मूलम्
आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा ॥ 10 ॥
विश्वास-प्रस्तुतिः
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ॥ 11 ॥
मूलम्
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ॥ 11 ॥
विश्वास-प्रस्तुतिः
मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥
मूलम्
मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥
विश्वास-प्रस्तुतिः
उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ॥ 13 ॥
मूलम्
उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ॥ 13 ॥
विश्वास-प्रस्तुतिः
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः 5सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥
मूलम्
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः 5सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥
टिप्पनी 14
महाविश्वासोऽत्र विवक्षितः। सर्वसिद्धान्ते; सर्वेषु दिव्यशास्त्रेषु। वेदान्ते; उपनिषत्सु।
विश्वास-प्रस्तुतिः
यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
6समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ॥ 15 ॥
मूलम्
यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
6समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ॥ 15 ॥
टिप्पनी 15
आत्मात्मीयनिक्षेपमाह–यन्मेऽस्तीत्यादिना। आत्मना; आत्मना सहेत्यर्थः।
विश्वास-प्रस्तुतिः
शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ॥ 16 ॥
मूलम्
शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ॥ 16 ॥
टिप्पनी 16
गोप्तृत्ववरणमाह—शरणमित्यादिना।
विश्वास-प्रस्तुतिः
उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ 17 ॥
मूलम्
उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ 17 ॥
टिप्पनी 17
मध्यतो वर्तमानस्य नैवान्यत् कृत्यमिति पूर्वेणान्वयः। बुद्धिदौर्बल्यादिति। स्वाधिकारमनालोच्य दुष्करे कर्मणि प्रवृत्तिर्हि बुद्धिदौर्बल्यप्रयुक्तेति भावः। उपायान्तरमत्र भक्तियोगः। अनेन भक्तियोगस्य निन्दा क्रियत इति वा मुमुक्षोर्भक्तियोगः स्वरूपविरुद्ध इति वा न मन्तव्यम्। “नरस्य बुद्धिदौर्बल्यादिन्दुबिम्बग्रहे स्पृहा” इत्युक्ते वचनमिदमिन्दुबिम्बं निन्दतीति न कश्चिदपि प्रेक्षावान् ब्रूयात्। किंच “भक्त्या परमया वापि प्रपत्त्या वा महामते” इति भक्तेर्वैकल्पिकसाधनत्वोक्तिर्विरुध्येत। अशक्तस्य मुमुक्षोः स्वरूपविरुद्ध इति चेत्, नात्र कस्यापि विप्रतिपत्तिः।
विश्वास-प्रस्तुतिः
अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ॥ 18 ॥
मूलम्
अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ॥ 18 ॥
विश्वास-प्रस्तुतिः
भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ॥ 19 ॥
मूलम्
भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ॥ 19 ॥
विश्वास-प्रस्तुतिः
इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः7 ॥ 20 ॥
मूलम्
इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः7 ॥ 20 ॥
विश्वास-प्रस्तुतिः
शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्त्रचोदितैः8 ॥ 21 ॥
मूलम्
शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्त्रचोदितैः8 ॥ 21 ॥
विश्वास-प्रस्तुतिः
प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ॥ 22 ॥
मूलम्
प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ॥ 22 ॥
विश्वास-प्रस्तुतिः
शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्9 ॥ 23 ॥
मूलम्
शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्9 ॥ 23 ॥
टिप्पनी 23
विवस्वन्तं विशिष्टदीप्तिमन्तमिति पुरुषोत्तमविशेषणम्। अन्तःस्थम्; सूर्यमण्डलान्तर्वर्तिनम्। “अर्कमण्डलमध्यस्थं सूर्यकोटिसमप्रभम्” इत्यादिध्यानमत्राभिप्रेतम्।
विश्वास-प्रस्तुतिः
कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्10।
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥
मूलम्
कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्10।
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥
टिप्पनी 24
उपादानं नाम भगवदाराधनोपयुक्तद्रव्यार्जनम्। तच्च निःस्वस्य पञ्चयज्ञपञ्चकालपरायणभागवतोत्तमादयाचितोपनततण्डुलादिस्वीकाररूपम्। आढ्यस्य तु तदुपयुक्तफलपुष्पतुलस्यादिसंग्रहरूपम्।
विश्वास-प्रस्तुतिः
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥
मूलम्
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥
विश्वास-प्रस्तुतिः
स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ॥ 26 ॥
मूलम्
स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ॥ 26 ॥
विश्वास-प्रस्तुतिः
स्वयमुत्पादितैः 11स्फीतैर्लब्धैः 12शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् ॥ 27 ॥
मूलम्
स्वयमुत्पादितैः 11स्फीतैर्लब्धैः 12शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् ॥ 27 ॥
विश्वास-प्रस्तुतिः
अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥
मूलम्
अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥
टिप्पनी 28
अष्टाङ्गयजनं यथा जयाख्ये—अन्तर्यागः, भोगयागः, मध्वादियागः, अन्नयागः, संप्रदानम्, वह्निसंतर्पणम्, पितृयागः, अनुयागश्चेति (22 अ. 75-80)।
विश्वास-प्रस्तुतिः
दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ॥ 29 ॥
मूलम्
दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ॥ 29 ॥
टिप्पनी 29
सिद्धान्तानिति। मन्त्रागमादिसिद्धान्तभेदानित्यर्थः।
विश्वास-प्रस्तुतिः
अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि ॥ 30 ॥
मूलम्
अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि ॥ 30 ॥
विश्वास-प्रस्तुतिः
तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते ॥ 31 ॥
मूलम्
तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते ॥ 31 ॥
विश्वास-प्रस्तुतिः
तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा ॥ 32 ॥
मूलम्
तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा ॥ 32 ॥
13श्रीमान्नारायणः प्रोक्तो विधयैव तया तया।
अहं नारायणस्थापि सर्वज्ञा सर्वदर्शिनी ॥ 33 ॥
टिप्पनी 33
सर्वशास्त्राणां भूतहितत्वं परतत्वप्रकाशनेन तदाराधनप्रतिपादनेन चेत्यभिसंधायाह—श्रीमानिति।
विश्वास-प्रस्तुतिः
निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा ॥ 34 ॥
मूलम्
निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा ॥ 34 ॥
विश्वास-प्रस्तुतिः
अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥
मूलम्
अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥
विश्वास-प्रस्तुतिः
सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ॥ 36 ॥
मूलम्
सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ॥ 36 ॥
विश्वास-प्रस्तुतिः
समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ॥ 37 ॥
मूलम्
समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ॥ 37 ॥
विश्वास-प्रस्तुतिः
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥
मूलम्
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥
विश्वास-प्रस्तुतिः
मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥
मूलम्
मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥
विश्वास-प्रस्तुतिः
आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्14 ॥ 40 ॥
मूलम्
आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्14 ॥ 40 ॥
विश्वास-प्रस्तुतिः
विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ॥ 41 ॥
मूलम्
विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ॥ 41 ॥
विश्वास-प्रस्तुतिः
अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां15 गताम् ॥ 42 ॥
मूलम्
अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां15 गताम् ॥ 42 ॥
विश्वास-प्रस्तुतिः
साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ॥ 43 ॥
मूलम्
साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ॥ 43 ॥
विश्वास-प्रस्तुतिः
यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ॥ 44 ॥
मूलम्
यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ॥ 44 ॥
विश्वास-प्रस्तुतिः
बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥
मूलम्
बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥
विश्वास-प्रस्तुतिः
सम्यङ् निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ॥ 46 ॥
मूलम्
सम्यङ् निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ॥ 46 ॥
टिप्पनी 46
योगस्य परा काष्ठोच्यते—ध्यातेत्यादिना। यत्रेति। यस्यां समाधिदशायामित्यर्थः।
विश्वास-प्रस्तुतिः
एकैवाहं तदा भासे पूर्णाहंता सनातनी।
16ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥
मूलम्
एकैवाहं तदा भासे पूर्णाहंता सनातनी।
16ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥
टिप्पनी 47
ऐकध्यमेकभावं योगिनि संप्राप्ते सति नान्यत् किंचित् प्रकाशते। किंतु अहमेव भास इत्युत्तरेणान्वयः।
विश्वास-प्रस्तुतिः
नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ॥ 48 ॥
मूलम्
नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ॥ 48 ॥
विश्वास-प्रस्तुतिः
तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ॥ 49 ॥
मूलम्
तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ॥ 49 ॥
टिप्पनी 49
योगनिद्रां निर्वक्ति—नित्वैवमिति।
विश्वास-प्रस्तुतिः
योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ॥ 50 ॥
मूलम्
योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ॥ 50 ॥
टिप्पनी 50
योगो नाम परमात्मन्यात्मनिक्षेपपुरःसरं परमात्मगुणगणानुसंधानम्। तत्कुर्वाण एव स्वापमनुभवेदित्यर्थः।
विश्वास-प्रस्तुतिः
इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ॥ 51 ॥
मूलम्
इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ॥ 51 ॥
टिप्पनी 51
व्यामिश्रेति। बहुविधकर्मकलापसहितं भगवदाराधनमित्यर्थः। अच्छिद्रानिति। “यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया॥” (ग. पु. पू. 222-22) इत्युक्तच्छिद्ररहितानित्यर्थः।
विश्वास-प्रस्तुतिः
दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥
मूलम्
दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥
विश्वास-प्रस्तुतिः
उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ॥ 53 ॥
मूलम्
उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ॥ 53 ॥
विश्वास-प्रस्तुतिः
स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥
मूलम्
स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥
विश्वास-प्रस्तुतिः
सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥
मूलम्
सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥
स्थूलसूक्ष्मपरत्वानां वेदि
-
श्रीमन्नारायणः A. B. C. G. ↩︎