विश्वास-प्रस्तुतिः
सप्तविंशोऽध्यायः - 27
शक्रः—
नमस्तुभ्यं जगन्नाथे पुण्डरीकाक्षवल्लभे।
अशेषजगदीशाने सर्वज्ञे सर्वभाविनि ॥ 1 ॥
मूलम्
सप्तविंशोऽध्यायः - 27
शक्रः—
नमस्तुभ्यं जगन्नाथे पुण्डरीकाक्षवल्लभे।
अशेषजगदीशाने सर्वज्ञे सर्वभाविनि ॥ 1 ॥
विश्वास-प्रस्तुतिः
श्रुतमेतन्मया सम्यग्विद्यानां1 तत्त्वमुत्तमम्।
भूयश्च तारिकाया मे विधिं व्याख्यातुमर्हसि ॥ 2 ॥

श्रीः2—
विश्वास-प्रस्तुतिः
आद्यमेकं परं ब्रह्म सर्वज्ञं सच्चिदात्मकम्।
3स्वशक्तिचरितं दिव्यं लक्ष्मीनारायणं महः ॥ 3 ॥

4अहं सा परमा शक्तिरहंताख्या सनातनी।
तद्धर्मधर्मिणी नित्या प्रभा भानोरिवामला ॥ 4 ॥

तदीयानि विधीयन्ते पञ्च कृत्यानि सर्वदा।
तदुन्मेषस्वरूपिण्या मयैवादितिनन्दन ॥ 5 ॥

मम दिव्या परा शक्तिर्नित्यं5 मद्धर्मधर्मिणी।
हृल्लोखा परमा विद्या 6मत्स्वरूपा पुरंदर ॥ 6 ॥
टिप्पनी 6
हृल्लेखा पञ्चविंशाध्याये निर्दिष्टतारिकापरनामा ह्रींमन्त्रः। अत्राप्यनुपदमेव मन्त्रस्वरूपं निर्देक्ष्यते।
विश्वास-प्रस्तुतिः
अस्या व्याख्यामिमां शश्वत् सावधानेन चेतसा।
श्रद्दधानः प्रपन्नस्त्वमुपसन्नो गृहाण मे ॥ 7 ॥

आमनन्ति यमात्मानं जगतस्तस्थुषः परम्।
7प्रसवस्थितिसंहारकारणं सूर्यसंज्ञितम्8 ॥ 8 ॥
विश्वास-प्रस्तुतिः
नित्यं9 प्रेरयितारं च प्राणसंज्ञं सनातनम्।
तं विद्धि प्रथमं वर्णँ हकारं पुरुषोत्तमम् ॥ 9 ॥

यस्तस्य प्रथमोन्मेषः क्रोडीकृतजगत्त्रयः10।
अशेषभुवनाधारो ज्वलद्रूपोऽमितोऽन्यतः ॥ 10 ॥

रेफं तत्परमं विद्धि तेजोरूपं सनातनम्।
उन्मेष एव सम्यक् स11 व्याप्नुवन् सकलां गतिम् ॥ 11 ॥

व्यापारान् पञ्च बिभ्रच्च बिन्दून् सृष्ट्यादिलक्षणान्।
आस्चर्यज्ञानरूपश्च निमेषोन्मेषसंततेः ॥ 12 ॥

इच्छाज्ञानक्रियारूपं बिभ्रच्च 12विततिक्रमम्।
इईरूपस्य युग्मस्य स्थितिरेषा सनातनी ॥ 13 ॥

तदेवं13 परमोन्मेषरूपाहं विततोदया।
इच्छाज्ञानक्रियारूपा पञ्चकृत्यकरी विभोः ॥ 14 ॥

नानाविधाश्चर्यमयी चिद्धना सुखरूपिणी।
विज्ञेया परमात्मस्था व्यापिनी विष्णुवल्लभा ॥ 15 ॥

विधाय कृत्यमखिलं त्रैलोक्यैश्वर्यदायिनी।
तस्मिन्नेव पुनर्देवे व्योमेशे परमात्मनि ॥ 16 ॥

आदाय सर्वसंभारं प्रतितिष्ठामि निष्कला।
अस्या रूपाणि पञ्चेह तत्त्वज्ञाः संप्रचक्षते ॥ 17 ॥

तानि रूपाणि देवेश गदन्त्या मे निशामय।
व्योमेशान्तमिदं रूपमेकं यत्तत्प्रकीर्तितम् ॥ 18 ॥

टिप्पनी 18
व्योमेशान्तमिति। बिन्द्वन्तमित्यर्थः।
विश्वास-प्रस्तुतिः
व्योमेशात् परतः केचिद्वाञ्छन्ति परमेश्वरम्।
व्योमेशमपहायान्ये प्रधानं विनियोज्य तु ॥ 19 ॥

टिप्पनी 19
परमेश्वरः विसर्गः। प्रधानो मकारः।
विश्वास-प्रस्तुतिः
बिन्दुनादौ च वाञ्छन्ति तदन्ते प्रणवोपमम्।
अन्ते प्रधानमेवैकं केचिद्धीराः प्रचक्षते ॥ 20 ॥

सृष्टिकर्तारमन्तेऽन्ये वैदिकाः समधीयते।
एवं पञ्च स्वरूपाणि तारिकाया विदुर्बुधाः ॥ 21 ॥

टिप्पनी 21
सृष्टिकर्ता विसर्गः।
विश्वास-प्रस्तुतिः
शान्तस्थायाः सुरेशान रूपाण्येवंविधान्यपि।
प्रधानान्ते विसृष्ट्यन्ते व्योमेशान्ते तथैव च ॥ 22 ॥

टिप्पनी 22
मन्त्राणामेषां फलतारतम्यमाह—प्रधानान्ते इत्यादिना।
विश्वास-प्रस्तुतिः
व्योमेशोर्ध्वविसृष्ट्यन्त इति रूपचतुष्टये।
ऐहिकी परमा सिद्धिस्तत्तच्चामुत्रिकी14 परा ॥ 23 ॥

प्रधानबिन्दुनादान्ते मोक्षश्रीरेव केवला।
इत्येवमनुसंधाय तारिकायाः परां स्थितिम् ॥ 24 ॥

शिष्याय साधुशीलाय गुरुब्रह्महितैषिणे।
आचार्य आदिशेद्विद्यां परब्रह्मस्वरूपिणीम् ॥ 25 ॥

हस्तदेहाङ्गविन्यासं विधायात्मनि वै पुरा।
विनय्स्य शिष्यदेहे च ततश्चोपदिशेन्मनुम् ॥ 26 ॥

स्थापयेद्धृदि शिष्यस्य भावपूर्वं मनुं परम्।
पुनश्च स्थापयेत् स्वस्य15 हृदये मन्त्रमुत्तमम् ॥ 27 ॥

दीक्षाभिषेकपूर्वं च सर्वमेतत् समाचरेत्।
आचार्यादथ संप्राप्य विद्यां शिष्यो विचक्षणः ॥ 28 ॥

आत्मानमात्मनश्चैव वित्तं दत्त्वा तु दक्षिणाम्।
सकलं त्वर्धमंशं वा येन वा तोष्यते गुरुः ॥ 29 ॥

वैदिके च समाचारे16 लौकिके च व्यवस्थिते।
अप्रमाद्यन् सदाचार्ये17 गुरुषु ब्राह्नणेषु च ॥ 30 ॥
विश्वास-प्रस्तुतिः
अद्रोहं शीलयन् शश्वद्भूतग्रामे चतुर्विधे।
नित्यमात्मगुणोपेतो धर्मलक्षणसेवकः ॥ 31 ॥

संस्कारैः संस्कृतः शुभ्रैर्देवपित्रतिथिक्रियः।
दिव्यशास्त्राण्यधीयानो निगमांश्चैव वैदिकान् ॥ 32 ॥

अलोलुपेन चित्तेन सिद्धान्ताननुसंचरन्।
यावदर्थं तु विज्ञानमाददानस्ततस्ततः ॥ 33 ॥

अदूषयंश्च शास्त्राणि प्रमाणैरनुसंचरन्।
आह्निकं विधिवत् कुर्वन् शास्त्रार्थं कर्मणां क्रमैः ॥ 34 ॥

अहरादि त्वहोरात्रं पुना रात्र्यवसानकम्।
अवन्ध्यं18 सततं कुर्वंश्चोदितैः कर्मणां क्रमैः ॥ 35 ॥

पञ्चकालरतो19 नित्यं पञ्चयज्ञपरायणः।
भूषितो दमदानाभ्यां सत्येनाहिंसनेन च ॥ 36 ॥

चोदितेन क्रमेणेमां विद्यां संसाध्य यत्नतः।
20प्रसन्नया धिया युक्तो नित्यं स्वार्थपरार्थयोः ॥ 37 ॥
विश्वास-प्रस्तुतिः
भूतिमेव परामिच्छन् 21विभूतिं परिवर्जयेत्।
पावनः सर्वभूतानां मनसा चक्षुषा गिरा ॥ 38 ॥

चित्तप्रसादनीर्देवीश्चतस्रः परिशीलयन्।
मैत्र्याद्याः शान्तिमन्विच्छन् जपयज्ञपरायणः ॥ 39 ॥

अप्रमाद्यन् स्वकर्मस्थः प्रमादे सति दैवतः।
प्रायश्चित्तं चरन् सम्यग्यस्मिन्यस्मिंस्तु22 यादृशम् ॥ 40 ॥

कर्मणा मनसा वाचा देवदेवं जनार्दनम्।
प्रपन्नः शरणं शश्वन्मां च तद्धर्मधर्मिणीम् ॥ 41 ॥

उत्तमं पुरुषं स्रीं च संदृष्ट्वा मामनुस्मरन्।
दंपती 23पूजयन्नित्यं दांपत्यं चाप्यलोपयन् ॥ 42 ॥

शब्दस्थमर्थगं वापि पुंभावं विविधात्मकम्।
स्रीभावं विद्धि तद्रूपं लक्ष्मीनारायणं स्मरन्24 ॥ 43 ॥

उत्तमां गुणसंपन्नां रूपयौवनशालिनीम्।
अलोलुपेन चित्तेन दृष्ट्वा मामेव चिन्तयन् ॥ 44 ॥

टिप्पनी 44
अलोलुपेनेति। अत्यासक्तिरहितेनेत्यर्थः।
स्रीषु क्षान्तमना नित्यमवदन्नप्रियं सदा।
25अतिक्रमं परिहरन् संजातं चाप्यतर्कयन्26 ॥ 45 ॥
विश्वास-प्रस्तुतिः
क्षालयन् पावनैः स्रीणां जायमानं व्यतिक्रमम्।
कुब्जां वा विकलां वापि सर्वावस्थां गतां स्रियम् ॥ 46 ॥

टिप्पनी 46
पावनैरिति। शुद्धिकर्मभिरित्यर्थः। व्यतिक्रमः प्रमादः।
विश्वास-प्रस्तुतिः
अविनिन्दंश्चरंस्रीणां प्रियं शास्त्रानुकूलतः।
एवंवृत्तः सदाचारो नरो विगतकल्मषः ॥ 47 ॥

27मद्भक्तो मत्प्रियकरो मद्याजी मत्परायणः।
प्राप्नोति परमं धाम तद्विष्णोः परमं पदम् ॥ 48 ॥
विश्वास-प्रस्तुतिः
इति ते कथिता शक्र तारिकायाः परा स्थितिः।
विद्यानामपि चान्यासां किं भूयः श्रोतुमिच्छसि ॥ 49 ॥

टिप्पनी 49
तारिकाया इति। हृल्लेखापरनाम्न्या इत्यर्थः।
इति 28श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सदाचारप्रकाशो नाम सप्तविंशोध्यायः
इति सप्तविंशोऽध्यायः