०२६

विश्वास-प्रस्तुतिः

षड्‌विंशोऽध्यायः - 26
शक्रः—
परं ब्रह्म परं धाम पद्मस्थे पद्ममालिनि।
नमस्ते पद्मजे पद्मे गोविन्दगृहमेधिनि ॥ 1 ॥

मूलम्

षड्‌विंशोऽध्यायः - 26
शक्रः—
परं ब्रह्म परं धाम पद्मस्थे पद्ममालिनि।
नमस्ते पद्मजे पद्मे गोविन्दगृहमेधिनि ॥ 1 ॥

विश्वास-प्रस्तुतिः

द्वे एते कथिते देवि तव तन्वौ सनातने1
2विशेषस्त्वस्ति वा कश्चिदनयोः सूक्ष्मरूपतः ॥ 2 ॥

मूलम्

द्वे एते कथिते देवि तव तन्वौ सनातने1
2विशेषस्त्वस्ति वा कश्चिदनयोः सूक्ष्मरूपतः ॥ 2 ॥

विश्वास-प्रस्तुतिः

श्रीः—
एकमादौ परं तत्त्वं लक्ष्मीनारायणात्मकम्।
पूर्णस्तिमितषाड्‌गुण्यं स्वच्छस्वच्छन्दचिद्धनम् ॥ 3 ॥

मूलम्

श्रीः—
एकमादौ परं तत्त्वं लक्ष्मीनारायणात्मकम्।
पूर्णस्तिमितषाड्‌गुण्यं स्वच्छस्वच्छन्दचिद्धनम् ॥ 3 ॥

विश्वास-प्रस्तुतिः

तस्याहं परमा शक्तिः सर्वावस्थानुसारिणी।
3देवी सा परमा दिव्या स्थूलसूक्ष्मपराह्वया ॥ 4 ॥

मूलम्

तस्याहं परमा शक्तिः सर्वावस्थानुसारिणी।
3देवी सा परमा दिव्या स्थूलसूक्ष्मपराह्वया ॥ 4 ॥

विश्वास-प्रस्तुतिः

मम तन्वाविमे शक्ती तारिका चानुतारिका।
दुहाते सकलान् कामानुभे एते4 पुरंदर ॥ 5 ॥

मूलम्

मम तन्वाविमे शक्ती तारिका चानुतारिका।
दुहाते सकलान् कामानुभे एते4 पुरंदर ॥ 5 ॥

विश्वास-प्रस्तुतिः

उभे एते मते दिव्ये उभे निष्ठे परे स्मृते।
उभे संस्था मते5 सर्वा उभे ते विष्णुवल्लभे ॥ 6 ॥

मूलम्

उभे एते मते दिव्ये उभे निष्ठे परे स्मृते।
उभे संस्था मते5 सर्वा उभे ते विष्णुवल्लभे ॥ 6 ॥

विश्वास-प्रस्तुतिः

उभे एते विचिन्त्याथ गच्छन्ति परमां गतिम्।
तत्त्वं तु परमं सूक्ष्मं गदन्त्या मे निशामय ॥ 7 ॥

मूलम्

उभे एते विचिन्त्याथ गच्छन्ति परमां गतिम्।
तत्त्वं तु परमं सूक्ष्मं गदन्त्या मे निशामय ॥ 7 ॥

विश्वास-प्रस्तुतिः

परं ब्रह्म ततः शान्तं ततो नाद इति क्रमः।
सर्वत्रावस्थिता 6साहं निमेषोन्मेषरूपिणी ॥ 8 ॥

मूलम्

परं ब्रह्म ततः शान्तं ततो नाद इति क्रमः।
सर्वत्रावस्थिता 6साहं निमेषोन्मेषरूपिणी ॥ 8 ॥

विश्वास-प्रस्तुतिः

आद्यं यत् परमं ब्रह्म सूक्ष्मं स्तिमितशक्तिकम्।
तारस्तत्र प्रतिष्ठाय तनोति विततां गतिम् ॥ 9 ॥

मूलम्

आद्यं यत् परमं ब्रह्म सूक्ष्मं स्तिमितशक्तिकम्।
तारस्तत्र प्रतिष्ठाय तनोति विततां गतिम् ॥ 9 ॥

विश्वास-प्रस्तुतिः

भवतो ब्रह्मणो योऽयमुन्मेषः परमात्मनः।
भवद्भावात्मके तस्मिंस्तारिका प्रतितिष्ठति ॥ 10 ॥

मूलम्

भवतो ब्रह्मणो योऽयमुन्मेषः परमात्मनः।
भवद्भावात्मके तस्मिंस्तारिका प्रतितिष्ठति ॥ 10 ॥

विश्वास-प्रस्तुतिः

ब्रह्मणस्त्ववरोहो यः शान्तरूपः सिसृक्षया।
शान्ताख्ये भावभूयिष्ठे तस्मिन्नास्तेऽनुतारिका ॥ 11 ॥

मूलम्

ब्रह्मणस्त्ववरोहो यः शान्तरूपः सिसृक्षया।
शान्ताख्ये भावभूयिष्ठे तस्मिन्नास्तेऽनुतारिका ॥ 11 ॥

विश्वास-प्रस्तुतिः

द्वितीयस्त्ववरोहो यः शक्त्याख्यो भाव ऊर्जितः।
वाग्भवादीनि बीजानि तत्र तिष्ठन्ति वासव ॥ 12 ॥

मूलम्

द्वितीयस्त्ववरोहो यः शक्त्याख्यो भाव ऊर्जितः।
वाग्भवादीनि बीजानि तत्र तिष्ठन्ति वासव ॥ 12 ॥

विश्वास-प्रस्तुतिः

एतावाननयोर्भेदः प्रोक्तस्ते सूक्ष्मधीमयः।
वाग्भवादीनि बीजानि गदन्त्या मे निशामय ॥ 13 ॥

मूलम्

एतावाननयोर्भेदः प्रोक्तस्ते सूक्ष्मधीमयः।
वाग्भवादीनि बीजानि गदन्त्या मे निशामय ॥ 13 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदोपेतमैश्वर्यं वर्णमुद्धरेत्।
जगद्योनिरिदं बीजं वाग्भवाख्यमुदाहृतम् ॥ 14 ॥

मूलम्

त्रैलोक्यैश्वर्यदोपेतमैश्वर्यं वर्णमुद्धरेत्।
जगद्योनिरिदं बीजं वाग्भवाख्यमुदाहृतम् ॥ 14 ॥

टिप्पनी 14

वाग्भवबीजमाह—त्रैलोक्येत्यादिना। ऐश्वर्यम् ऐकारः। तेन सहानुस्वारयोगे ऐं इति बीजमन्त्रः। अस्य जगद्योनित्वमनन्तरं वक्ष्यते।

विश्वास-प्रस्तुतिः

सैषा कुण्डलिनी शक्तिर्यस्यां कुण्डलितं जगत्।
शब्दशक्तिस्वरूपेण यथा7 तदवधारय ॥ 15 ॥

मूलम्

सैषा कुण्डलिनी शक्तिर्यस्यां कुण्डलितं जगत्।
शब्दशक्तिस्वरूपेण यथा7 तदवधारय ॥ 15 ॥

टिप्पनी 15

यस्यां कुण्डलितं जगदिति कुण्डलिनीशब्दस्य योगव्युत्पत्तिरभिप्रेता।

ई माया परमा शक्तिर्जगद्योनिर्निरञ्जना।

अप्रमेयस्य सा हि श्रीर्गृहिणी गृहमेधिनः ॥ 16 ॥

विश्वास-प्रस्तुतिः

अस्याः पूर्वमिकारं तु योजयेत् सूक्ष्मचक्षुषा।
8इत्थं यदिष्टं यद् द्रव्यं यत्तत्तत्र प्रतिष्ठितम्9 ॥ 17 ॥

मूलम्

अस्याः पूर्वमिकारं तु योजयेत् सूक्ष्मचक्षुषा।
8इत्थं यदिष्टं यद् द्रव्यं यत्तत्तत्र प्रतिष्ठितम्9 ॥ 17 ॥

विश्वास-प्रस्तुतिः

आनन्दमस्य पूर्वं तु चिन्तयेत् सूक्ष्मचक्षुषा।
अप्रमेयं ततः पूर्वं योजयेत् सूक्ष्मच्क्षुषा10 ॥ 18 ॥

मूलम्

आनन्दमस्य पूर्वं तु चिन्तयेत् सूक्ष्मचक्षुषा।
अप्रमेयं ततः पूर्वं योजयेत् सूक्ष्मच्क्षुषा10 ॥ 18 ॥

16-18. ऐकारस्य वर्णचतुष्टयसमाहाररूपत्वमाह---ई मायेति। अस्मात् पूर्वमिष्टाख्यमिकारं, ततः पूर्वमानन्दाख्यमाकारं, ततः पूर्वमप्रमेयाख्यमकारं च योजयित्वा संधौ कृते ऐ इति रूपमिति भावः।

11शक्तिरेषा जगद्योनिस्रैलोक्यैश्वर्यदोज्ज्वला।
अप्रमेयादनाद्यन्ताद्व्यापकात् परमात्मनः ॥ 19 ॥

विश्वास-प्रस्तुतिः

गोपनी सर्वभूतानां शक्तिरानन्दनिर्भरा।
इच्छाज्ञानक्रियारूपैरिकारोत्थैः समन्विता ॥ 20 ॥

मूलम्

गोपनी सर्वभूतानां शक्तिरानन्दनिर्भरा।
इच्छाज्ञानक्रियारूपैरिकारोत्थैः समन्विता ॥ 20 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदा देवी विष्णुपत्नी जगत्प्रसूः।
इति वाच्यां जगद्योनिबिजस्याब्जां विचिन्तयेत् ॥ 21 ॥

मूलम्

त्रैलोक्यैश्वर्यदा देवी विष्णुपत्नी जगत्प्रसूः।
इति वाच्यां जगद्योनिबिजस्याब्जां विचिन्तयेत् ॥ 21 ॥

12रतिः क्रीडाभिधा लोके क्रीडा च स्यात् क्रिया मम।

विश्वास-प्रस्तुतिः

इन्धनं दीपनं ज्ञानमिच्छा चेकारदर्शिताः13 ॥ 22 ॥
त्रैलोक्यं तु त्रयो लोकास्ते च जीवास्त्रिधा स्थिताः14
तेषामैश्वर्यदानेन त्रैलोक्यैश्वर्यदाह्विका15 ॥ 23 ॥

मूलम्

इन्धनं दीपनं ज्ञानमिच्छा चेकारदर्शिताः13 ॥ 22 ॥
त्रैलोक्यं तु त्रयो लोकास्ते च जीवास्त्रिधा स्थिताः14
तेषामैश्वर्यदानेन त्रैलोक्यैश्वर्यदाह्विका15 ॥ 23 ॥

विश्वास-प्रस्तुतिः

अप्रमेयादिना लोकान् वितत्य भुवनाध्वना।
तस्मिन्नेव परे भूयो व्योमेशे परमात्मनि ॥ 24 ॥

मूलम्

अप्रमेयादिना लोकान् वितत्य भुवनाध्वना।
तस्मिन्नेव परे भूयो व्योमेशे परमात्मनि ॥ 24 ॥

22-24. बीजाक्षरघटकस्य दीर्गेकारस्यार्थमाह---रतिरिति। रतिरीकारः। इन्धनादयस्तदर्थाः। त्रैलोक्यैश्वर्यदानाम निर्वक्ति---त्रैलोक्यमिति। जीवास्त्रिधेति। बद्धमुक्तनित्या इत्यर्थः। व्योमेशे; बिन्दौ।
विश्वास-प्रस्तुतिः

संतिष्ठते परेत्येवमुदयास्तमयौ मम।
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः ॥ 25 ॥

मूलम्

संतिष्ठते परेत्येवमुदयास्तमयौ मम।
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः ॥ 25 ॥

पञ्चमी कामसूर्विद्या कामबीजापराह्वया।
16प्राद्युम्नी परमा शक्तिस्तस्या रूपं निबोध मे ॥ 26 ॥

विश्वास-प्रस्तुतिः

मध्यमं गुणतत्त्वानां यत् प्रोक्तं पश्चिमाननम्।
रञ्जनं 17सत्त्वतमसोर्भोगेनाल्पेन रञ्जितम् ॥ 27 ॥

मूलम्

मध्यमं गुणतत्त्वानां यत् प्रोक्तं पश्चिमाननम्।
रञ्जनं 17सत्त्वतमसोर्भोगेनाल्पेन रञ्जितम् ॥ 27 ॥

विश्वास-प्रस्तुतिः

सा परा प्रकृतिः काक्या कल्पयन्ती जगद्विधिम्18
पुरुषेश्वरयोगेन सा सृष्ट्यै संप्रकल्पते ॥ 28 ॥

मूलम्

सा परा प्रकृतिः काक्या कल्पयन्ती जगद्विधिम्18
पुरुषेश्वरयोगेन सा सृष्ट्यै संप्रकल्पते ॥ 28 ॥

विश्वास-प्रस्तुतिः

अव्यक्तपुरुषेशाक्यरूपत्रयविभाविनी।
माया श्रीः सा पुनर्देवी व्योमेशे प्रतितिष्ठति ॥ 29 ॥

मूलम्

अव्यक्तपुरुषेशाक्यरूपत्रयविभाविनी।
माया श्रीः सा पुनर्देवी व्योमेशे प्रतितिष्ठति ॥ 29 ॥

28,29. प्रकृतिं ककारमादाय तेन पुरुषेश्वरं लकारं, मायामीकारं, व्योमेशं बिन्दुं च योजयेत्। ततस्च क्लीं इति कामबीजम्।

19इति रूपप्रभावौ तौ कामबीजस्य दर्शितौ।

विश्वास-प्रस्तुतिः

षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय ॥ 30 ॥
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः।
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता ॥ 31 ॥

मूलम्

षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय ॥ 30 ॥
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः।
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता ॥ 31 ॥

विश्वास-प्रस्तुतिः

आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा।
अप्रमेयमतः पूर्वं भावयेत् भूक्ष्मया दृशा ॥ 32 ॥

मूलम्

आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा।
अप्रमेयमतः पूर्वं भावयेत् भूक्ष्मया दृशा ॥ 32 ॥

विश्वास-प्रस्तुतिः

अप्रमेयोदिता साहं महानन्दमयी शुभा।
आधारभूता प्रज्ञाया व्योमेशे संस्थिता पुनः ॥ 33 ॥

मूलम्

अप्रमेयोदिता साहं महानन्दमयी शुभा।
आधारभूता प्रज्ञाया व्योमेशे संस्थिता पुनः ॥ 33 ॥

विश्वास-प्रस्तुतिः

पुनर्विसृष्टियोगाय परमेश्वरमागता।
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते ॥ 34 ॥

मूलम्

पुनर्विसृष्टियोगाय परमेश्वरमागता।
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते ॥ 34 ॥

30-34. सारस्वतबीजमाह---षष्ठीमित्यादिना। प्रज्ञाधार ऊकारः। ततः पूर्वमुदय उकारः। ततः पूर्वमानन्द आकारः। ततः पूर्वमप्रमेयः अकारः। अन्ते व्योमेशो बिन्दुः। पुनर्विसर्गः। एषां योगे औः इति भवति। अवयवार्थमाह--अप्रमेयोदितेत्यादिना।
विश्वास-प्रस्तुतिः

इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया।
व्युत्क्रमानुक्रमाभ्यां सा 20ह्यात्मसाम्यप्रदापि च ॥ 35 ॥

मूलम्

इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया।
व्युत्क्रमानुक्रमाभ्यां सा 20ह्यात्मसाम्यप्रदापि च ॥ 35 ॥

विद्येयं कामधुक् प्रोक्ता जपहोमादिसाधिता।
21व्यञ्जनस्वरसंयोगात् तस्या भेदान्22 बहून्विदुः ॥ 36 ॥

विश्वास-प्रस्तुतिः

चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च।
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी ॥ 37 ॥

मूलम्

चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च।
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी ॥ 37 ॥

विश्वास-प्रस्तुतिः

परां प्रकृतिमादाय भास्करं तत्र योजयेत्।
मर्दनेन समायोज्य योजयेत् कालवह्निना ॥ 38 ॥

मूलम्

परां प्रकृतिमादाय भास्करं तत्र योजयेत्।
मर्दनेन समायोज्य योजयेत् कालवह्निना ॥ 38 ॥

विश्वास-प्रस्तुतिः

भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत्।
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर ॥ 39 ॥

मूलम्

भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत्।
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर ॥ 39 ॥

विश्वास-प्रस्तुतिः

38,39. महालक्ष्मीबीजोद्धारमाह—परामित्यादिना। प्रकृतिं ककारमादाय तेन भास्करं षकारं, मर्दनं मकारं, कालवह्निं रेफं, मायामीकारं, व्यापिनं बिन्दुं च योजयेत्। क्ष्म्रीं इति मन्त्रः। तथा च तन्त्रराजे—“ग्रासो नभो दाहवह्निस्वैर्युक्तः कौलिनीमनुः” इति। तत्र ग्रासः क्षकारः, नभो मकारः, दाहवह्निः रेफः, स्वमीकारो भिन्दुश्च।
कर्षन्ती व्याकृतावस्थामहं हि स्वेन तेजसा।
प्रधानभूमिकां गत्वा मूर्तित्रयविभाविनी ॥ 40 ॥

निर्माय सकलं भावं व्योमेशे संप्रतिष्ठिता।
इति भाव्यमिदं बीजं जपता साधकेन तु ॥ 41 ॥

मूलम्

निर्माय सकलं भावं व्योमेशे संप्रतिष्ठिता।
इति भाव्यमिदं बीजं जपता साधकेन तु ॥ 41 ॥

विश्वास-प्रस्तुतिः

इत्येते रश्मयो ज्ञेयो विद्यायास्तारिकाकृतेः।
अनुतारादयो विद्या इतीदं तारिकामयम् ॥ 42 ॥

मूलम्

इत्येते रश्मयो ज्ञेयो विद्यायास्तारिकाकृतेः।
अनुतारादयो विद्या इतीदं तारिकामयम् ॥ 42 ॥

विश्वास-प्रस्तुतिः

तामिमां तारिकां विद्यां भजमानो यथाविधि।
ऐहिकामुष्मिकान् 23भोगगानक्षयान् प्रतिपद्यते ॥ 43 ॥

मूलम्

तामिमां तारिकां विद्यां भजमानो यथाविधि।
ऐहिकामुष्मिकान् 23भोगगानक्षयान् प्रतिपद्यते ॥ 43 ॥

टिप्पनी 43

सप्त विद्याः—तारः, तारिका, अनुतारिका, वाग्भवः, कामबीजं, महालक्षमीबीजं चेति।

इति 24श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सप्तविद्याप्रकाशो नाम षड्वलिंशोऽध्यायः

इति षड्विंशोऽध्यायः

  1. सनातनि B. C. ↩︎ ↩︎

  2. बिशेषोऽन्वस्ति D. I. ↩︎ ↩︎

  3. अहंता I. ↩︎ ↩︎

  4. कामानुगावेते I. ↩︎ ↩︎

  5. उभे A. B. C. ↩︎ ↩︎

  6. भान्ती A. ↩︎ ↩︎

  7. ज्ञानं A. ↩︎ ↩︎

  8. F. omits 2 lines from here. ↩︎ ↩︎

  9. तत्तत्र प्रतितिष्ठति I. ↩︎ ↩︎

  10. सूक्ष्मया दृशा I. ↩︎ ↩︎

  11. वृद्धिरेषा I.; A. C. omit this line. ↩︎

  12. रमिः A. B. I. ↩︎

  13. दर्शिता B. D. I. ↩︎ ↩︎

  14. मताः B. D. I. ↩︎ ↩︎

  15. ऐश्वर्यदाम्बिका A. C. I. ↩︎ ↩︎

  16. प्रद्युम्नी I. ↩︎

  17. सत्त्वमुभयोः A. ↩︎ ↩︎

  18. जगद्धितम् G.; जगत्पुरा I. ↩︎ ↩︎

  19. A. B. C. omit this line. ↩︎

  20. आत्मसाद्यसतोऽपि च A.; आत्मसाम्यसमेऽपि च B. C.; समासव्यासतोऽपि च D. F.; ह्यन्या सा व्यासतोऽपि च I. ↩︎ ↩︎

  21. हलः स्वरादि A. D. ↩︎

  22. अस्या भागान् C. ↩︎

  23. लोकान् F. ↩︎ ↩︎

  24. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. F. ↩︎