०२५

विश्वास-प्रस्तुतिः

पञ्चविंशोऽध्यायः - 25
श्रीः1
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम् ॥ 1 ॥

मूलम्

पञ्चविंशोऽध्यायः - 25
श्रीः1
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम् ॥ 1 ॥

विश्वास-प्रस्तुतिः

वर्णानां 2विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः3 प्रवर्तते ॥ 2 ॥

मूलम्

वर्णानां 2विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः3 प्रवर्तते ॥ 2 ॥

विश्वास-प्रस्तुतिः

अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥

मूलम्

अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥

विश्वास-प्रस्तुतिः

रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥

मूलम्

रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥

विश्वास-प्रस्तुतिः

उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च ॥ 5 ॥

मूलम्

उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च ॥ 5 ॥

विश्वास-प्रस्तुतिः

सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥

मूलम्

सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥

विश्वास-प्रस्तुतिः

लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च4 देवदत्तस्तथा5 विराट् ॥ 7 ॥

मूलम्

लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च4 देवदत्तस्तथा5 विराट् ॥ 7 ॥

विश्वास-प्रस्तुतिः

त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता6 च ऐ स ऐरावणः स्मृतः ॥ 8 ॥

मूलम्

त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता6 च ऐ स ऐरावणः स्मृतः ॥ 8 ॥

विश्वास-प्रस्तुतिः

ओकार ओतदेहश्च7 ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥

मूलम्

ओकार ओतदेहश्च7 ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥

मूलम्

त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥

8कमलश्च करालश्च ककारः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः ॥ 11 ॥

9गदध्वंसी गकारस्तु गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा ॥ 12 ॥

विश्वास-प्रस्तुतिः

ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री10 चन्द्रांशुः स तु कथ्यते ॥ 13 ॥

मूलम्

ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री10 चन्द्रांशुः स तु कथ्यते ॥ 13 ॥

विश्वास-प्रस्तुतिः

छन्दःपतिश्छलध्वंसी11 छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥

मूलम्

छन्दःपतिश्छलध्वंसी11 छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥

विश्वास-प्रस्तुतिः

झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः ॥ 15 ॥

मूलम्

झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः ॥ 15 ॥

विश्वास-प्रस्तुतिः

चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥

मूलम्

चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥

विश्वास-प्रस्तुतिः

दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥

मूलम्

दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥

विश्वास-प्रस्तुतिः

णकारोऽभयदः शास्ता वैकुण्ठ इति12 कीर्तितः।
13तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः ॥ 18 ॥

मूलम्

णकारोऽभयदः शास्ता वैकुण्ठ इति12 कीर्तितः।
13तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः ॥ 18 ॥

14धन्वी भुवनपालश्च थकारः सर्वरोधकः।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः ॥ 19 ॥

विश्वास-प्रस्तुतिः

धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥

मूलम्

धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥

विश्वास-प्रस्तुतिः

पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः15 ॥ 21 ॥

मूलम्

पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः15 ॥ 21 ॥

विश्वास-प्रस्तुतिः

बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
16भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 22 ॥

मूलम्

बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
16भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 22 ॥

विश्वास-प्रस्तुतिः

मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥

मूलम्

मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥

विश्वास-प्रस्तुतिः

अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥

मूलम्

अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥

विश्वास-प्रस्तुतिः

वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥

मूलम्

वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥

17नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः ॥ 26 ॥

18सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्तथा19 ॥ 27 ॥

विश्वास-प्रस्तुतिः

अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः ॥ 28 ॥

मूलम्

अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः ॥ 28 ॥

टिप्पनी 28

संज्ञायामनुलोमेन संख्यायां विलोमेन चेत्यर्थः। “अङ्कानां वामतो गतिः” इति प्रसिद्धम्।

विश्वास-प्रस्तुतिः

संज्ञा संख्या20 च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥

मूलम्

संज्ञा संख्या20 च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥

विश्वास-प्रस्तुतिः

कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता 21वर्णाः संज्ञाभिरादरात् ॥ 30 ॥

मूलम्

कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता 21वर्णाः संज्ञाभिरादरात् ॥ 30 ॥

विश्वास-प्रस्तुतिः

प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी ॥ 31 ॥

मूलम्

प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी ॥ 31 ॥

विश्वास-प्रस्तुतिः

चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः ॥ 32 ॥

मूलम्

चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः ॥ 32 ॥

विश्वास-प्रस्तुतिः

तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना22
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् ॥ 33 ॥

मूलम्

तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना22
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् ॥ 33 ॥

विश्वास-प्रस्तुतिः

आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥

मूलम्

आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥

विश्वास-प्रस्तुतिः

सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा ॥ 35 ॥

मूलम्

सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा ॥ 35 ॥

विश्वास-प्रस्तुतिः

भूमौ पद्मे तथा23 देव्यास्तनौ24 मन्त्रान् समुद्धरेत्।
परमात्मानमादाय योजयेत् कालवह्निना ॥ 36 ॥

मूलम्

भूमौ पद्मे तथा23 देव्यास्तनौ24 मन्त्रान् समुद्धरेत्।
परमात्मानमादाय योजयेत् कालवह्निना ॥ 36 ॥

टिप्पनी 36

तारिकामन्त्रमुद्धरति—परमात्मानमिति। परमात्मा हकारः। कालवह्निः रेफः। माया ईकारः। त्रैलोक्यैश्वर्यदः अनुस्वारः। एषां योगे ह्रीं इति तारिकामन्त्रः।

विश्वास-प्रस्तुतिः

त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥

मूलम्

त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥

विश्वास-प्रस्तुतिः

सत्ता पूर्णा25 चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा26 ॥ 38 ॥

मूलम्

सत्ता पूर्णा25 चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा26 ॥ 38 ॥

विश्वास-प्रस्तुतिः

अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते ॥ 39 ॥

मूलम्

अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते ॥ 39 ॥

विश्वास-प्रस्तुतिः

ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥

मूलम्

ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥

विश्वास-प्रस्तुतिः

अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्‌त्रिंशदन्तिमा ॥ 41 ॥

मूलम्

अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्‌त्रिंशदन्तिमा ॥ 41 ॥

विश्वास-प्रस्तुतिः

महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते27 चिन्त्ये28 सौरे च मण्डले ॥ 42 ॥

मूलम्

महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते27 चिन्त्ये28 सौरे च मण्डले ॥ 42 ॥

विश्वास-प्रस्तुतिः

तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्29
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः ॥ 43 ॥

मूलम्

तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्29
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः ॥ 43 ॥

विश्वास-प्रस्तुतिः

क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता30 ॥ 44 ॥

मूलम्

क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता30 ॥ 44 ॥

विश्वास-प्रस्तुतिः

परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना ॥ 45 ॥

मूलम्

परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना ॥ 45 ॥

विश्वास-प्रस्तुतिः

हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी।
चिच्छक्तिः 31शान्तिरूपा च घोषणी32 घोषसंभवा ॥ 46 ॥

मूलम्

हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी।
चिच्छक्तिः 31शान्तिरूपा च घोषणी32 घोषसंभवा ॥ 46 ॥

विश्वास-प्रस्तुतिः

कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 47 ॥

मूलम्

कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 47 ॥

विश्वास-प्रस्तुतिः

तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका ॥ 48 ॥

मूलम्

तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका ॥ 48 ॥

विश्वास-प्रस्तुतिः

शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं33 ह्येषा तनुर्मेऽन्यानुतारिका ॥ 49 ॥

मूलम्

शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं33 ह्येषा तनुर्मेऽन्यानुतारिका ॥ 49 ॥

टिप्पनी 49

शान्तः शकारः। अन्यत् सममिति। तारिकया समम्। रीं इति योजनीयमित्यर्थः। श्रीं इत्यनुतारिकामन्त्रः।

विश्वास-प्रस्तुतिः

तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥

मूलम्

तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥

विश्वास-प्रस्तुतिः

यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥

मूलम्

यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥

सम्यक्साधयतश्चैव साधकानामभीप्सितम् ॥ 51 ॥

इति 34श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे 35तारानुताराप्रकाशो नाम पञ्चविंशोऽध्यायः

इति पञ्चविंशोऽध्यायः


  1. श्रीरुवाच I. ↩︎ ↩︎

  2. सिद्धि B. E. ↩︎ ↩︎

  3. मन्त्रः A. B. C. I. ↩︎ ↩︎

  4. कोणश्च A. ↩︎ ↩︎

  5. स्थिरो I. ↩︎ ↩︎

  6. दाता A. B. C. ↩︎ ↩︎

  7. देवश्च C. D. G. ↩︎ ↩︎

  8. कपिलश्च B.; अमलश्च D. ↩︎

  9. गत A. B. E. ↩︎

  10. चक्रः A. D. ↩︎ ↩︎

  11. बलध्वंसी B. ↩︎ ↩︎

  12. वैकुण्ठः परि B. C. F. I. ↩︎ ↩︎

  13. D. omits 4 lines from here. ↩︎ ↩︎

  14. B. and C. omit 4 lines from here. ↩︎

  15. संज्ञकः B. C. F. I. ↩︎ ↩︎

  16. भल्लाटकः B. C. E. ↩︎ ↩︎

  17. F. omits 2 lines from here. ↩︎

  18. सूरो A. F. G. ↩︎

  19. स्मृतः A. I. ↩︎

  20. संख्या संज्ञा A. ↩︎ ↩︎

  21. वर्णसंज्ञाभिः A. ↩︎ ↩︎

  22. चिन्तनाः C.; चिन्तनात् I. ↩︎ ↩︎

  23. अथवा D. F. ↩︎ ↩︎

  24. ततो I. ↩︎ ↩︎

  25. पूर्ण F. I. ↩︎ ↩︎

  26. विदस्तु वा F. ↩︎ ↩︎

  27. संख्याते C. F. ↩︎ ↩︎

  28. चिन्त्या A. ↩︎ ↩︎

  29. शोभिनीम् I. ↩︎ ↩︎

  30. उदिता सदा D. I. ↩︎ ↩︎

  31. शान्त B. D. ↩︎ ↩︎

  32. घोषिणी D. ↩︎ ↩︎

  33. एतत्समम् D. ↩︎ ↩︎

  34. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. ↩︎

  35. तारकानुतारप्रकाशः G.; I. omits the title. ↩︎